Digital Sanskrit Buddhist Canon

५ प्रचलपरिवर्तः पञ्चमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

5 pracalaparivartaḥ pañcamaḥ

५ प्रचलपरिवर्तः पञ्चमः।



इति हि भिक्षवो बोधिसत्त्वस्तां महतीं देवपर्षदमनया धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य क्षमापयित्वा मङ्गल्यां देवपर्षदमामन्त्रयते स्म-गमिष्याम्यहं मार्षा जम्बुद्वीपम्। मया पूर्वबोधिसत्त्वचर्यां चरता सत्त्वाश्चतुर्भिः संग्रहवस्तुभिर्निमन्त्रिता दानेन प्रियवद्येनार्थक्रियया समानार्थतया च। तदयुक्तमेतन्मार्षा मम भवेदकृतज्ञता च, यदहमनुत्तरायां सम्यक्संबोधौ नाभिसंबुद्धेयम्॥



अथ ते तुषितकायिका देवपुत्रा रुदन्तो बोधिसत्त्वस्य चरणौ परिगृह्यैवमाहुः-इदं खलु सत्पुरुष तुषितभवनं त्वया विहीनं न भ्राजिष्यते। अथ बोधिसत्त्वस्तां महती देवपर्षदमेवमाह-अयं मैत्रेयो बोधिसत्त्वो युष्माकं धर्मं देशयिष्यति। अथ बोधिसत्त्वः स्वकाच्छिरसः पट्टमौलं चावतार्य मैत्रेयस्य बोधिसत्त्वस्य शिरसि प्रतिष्ठापयामास। एवं चावोचत्-ममान्तरेण त्वं सत्पुरुष अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे॥



अथ बोधिसत्त्वो मैत्रेयं बोधिसत्त्वं तुषितभवनेऽभिनिषद्य पुनरपि तां महतीं देवपर्षदमामन्त्रयते स्म-कीदृशेनाहं मार्षा रूपेण मातुः कुक्षाववक्रामेयम्? तत्र केचिदाहुः-मार्षा मानवकरूपेण। केचिदाहुः-शक्र‍रूपेण। केचिदाहुः-ब्रह्मरूपेण। केचिदाहुः-महाराजिकरूपेण। केचिदाहुः-वैश्रवणरूपेण। केचिदाहुः-गन्धर्वरूपेण। केचिदाहुः-किन्नररूपेण। केचिदाहुः-महोरगरूपेण। केचिदाहुः-महेश्वररूपेण। केचिदाहुः-चन्द्ररूपेण। केचिदाहुः-सूर्यरूपेण। केचिदाहुः-गरुडरूपेण। तत्रोग्रतेजो नाम ब्रह्मकायिको देवपुत्रः पूर्वर्षिजन्मच्युतोऽवैवर्तिकोऽनुत्तरायाः सम्यक्संबोधेः, स एवमाह-यथा ब्राह्मणानां मन्त्रवेदशास्त्रपाठेष्वागच्छति, तादृशेनैव रूपेण बोधिसत्त्वो मातुः कुक्षाववक्रामितव्यः। तत्पुनः कीदृशम्? गजवरमहाप्रमाणः षड्दन्तो हेमजालसंकाशः सुरुचिरः सुरक्तशीर्षः स्फुटितगलितरूपवान्। एतच्छ्रुत्वा रूपं ब्राह्मणवेदशास्त्रतत्त्वज्ञो व्याकर्षितश्च। इतो वै भावी द्वात्रिंशल्लक्षणोपेतः॥



इति हि भिक्षवो बोधिसत्त्वो जन्मकालमवलोक्य तुषितवरभवनस्थः एवं राज्ञः शुद्धोदनस्य गृहवरे अष्टौ पूर्वनिमित्तान्युपदर्शयति स्म। कतमान्यष्टौ? तद्यथा-व्यपगततृणखाणुकण्टकशर्करकढल्यनिर्मलं सुषिक्तं सुशोधितमनाकुलवाततमोरजोविगतदंशकमक्षिकापतङ्गसरीसृपापगतमवकीर्णकुसुमं समं पाणितलजातं तद्गृहं संस्थितमभूत्। इदं प्रथमं पूर्वनिमित्तं प्रादुरभूत्॥



ये च हिमवत्पर्वतराजनिवासिनः पत्रगुप्तशुकसारिकाकोकिलहंसक्रोञ्चमयूरचक्रवाककुणालकलविङ्कजीवंजीवकादयो विचित्ररुचिरपक्षा मनोज्ञप्रियभाषिणः शकुनिगणाः, ते आगत्य राज्ञः शुद्धोदनस्य गृहवरे वितर्दिनिर्यूहतोरणगवाक्षहर्म्यकूटागारप्रासादतलेषु स्थित्वा प्रमुदिताः प्रीतिसौमनस्यजाताः स्वकस्वकानि रुतान्युदाहरन्ति स्म। इति द्वितीयं पूर्वनिमित्तं प्रादुरभूत्॥



ये च राज्ञः शुद्धोदनस्यारामरमणीयेषु वनरमणीयेषु चोद्यानरमणीयेषु नानापुष्पफलवृक्षानानर्तुकारिकाः, ते सर्वे संपुष्पिताः संकुसुमिता अभूवन्। इदं तृतीयं पूर्वनिमित्तं प्रादुरभूत्॥



याश्च राज्ञः शुद्धोदनस्य पुष्करिण्यो जलपरिभोग्यस्थाः, ताः सर्वाः शकटचक्रप्रमाणैरनेककोटीनियुतशतसहस्रपत्रैः पद्मैः संछादिता अभूवन्। इदं चतुर्थं पूर्वनिमित्तं प्रादुरभूत्॥



ये च राज्ञः शुद्धोदनस्य गृहवरे भाजनविषये सर्पिस्तैलमधुफाणितशर्कराद्यानां ते परिभुज्यमानाः क्षयं न गच्छन्ति स्म। परिपूर्णा एव संदृश्यन्ते स्म। इदं पञ्चमं पूर्वनिमित्तं प्रादूरभूत्॥



ये च राज्ञः शुद्धोदनस्य गृहवरप्रधाने महत्यन्तःपुरे भेरीमृदङ्गपणवतूणववीणावेणुवल्लकीसंपताडप्रभृतयस्तूर्यभाण्डाः, ते सर्वे स्वयमघट्टिता एव मनोज्ञशब्दं मुञ्चन्ति स्म। इदं षष्ठं पूर्वनिमित्तं प्रादुरभूत्॥



यानि च राज्ञः शुद्धोदनस्य गृहवरप्रधाने सुवर्णरूप्यमणिमुक्तावैदूर्यशङ्खशिलाप्रवालादीनां रत्नानां भाजनानि, तानि सर्वाणि निरवशेषं विवृतविमलविशुद्धपरिपूर्णान्येवं विरोचन्ते स्म। इदं सप्तमं पूर्वनिमित्तं प्रादुरभूत्॥



विमलविशुद्धया चन्द्रसूर्यजिह्मीकरणया प्रभया कायचित्तोद्बिल्यसंजनन्या तद्गृहं समन्तादवभासितमभूत्। इदमष्टमं पूर्वनिमित्तं प्रादुरभूत्।



माया च देवी स्नातानुलिप्तगात्रा विविधाभरणविष्कम्भितभुजा सुश्लक्ष्णसुलीलवस्त्रवरधारिणी प्रीतिप्रामोद्यप्रसादप्रतिलब्धा सार्धं दशभिः स्त्रीसहस्रैः परिवृता पुरस्कृता राज्ञः शुद्धोदनस्य संगीतिप्रासादे सुखोपविष्टस्यान्तिकमुपसंक्रम्य दक्षिणे पार्श्वे रत्नजालप्रत्युप्ते भद्रासने निषद्य स्मितमुखी व्यपगतभृकुटिका प्रहसितवदना राजानं शुद्धोदनमाभिर्गाथाभिरभाषत्—



साधो शृणुष्व मम पार्थिव भूमिपाला

याचामि ते नृपतिरद्य वरं प्रयच्छ।

अभिप्रायु मह्य यथ चित्तमनःप्रहर्षं

तन्मे शृणुष्व भव प्रीतमना उदग्रः॥१॥



गृह्णामि देव व्रतशीलवरोपवासं

अष्टाङ्गपोषधमहं जगि मैत्रचित्ता।

प्राणेषु हिंसविरता सद शुद्धभावा

प्रेमं यथात्मनि परेषु तथा करोमि॥२॥



स्तैन्याद्विवर्जितमना मदलोभहीना

कामेषु मिथ्य नृपते न समाचरिष्ये।

सत्ये स्थिता अपिशुना परुषप्रहीणा

संधिप्रलापमशुभं न समाचरिष्ये॥३॥



व्यापाददोषखिलमोहमदप्रहीणा

सर्वा अभिध्य विगता स्वधनेन तुष्टा।

सम्यक्प्रयुक्त अकुहानिलया अनिर्ष्यु

कर्मा यथा दश इमे कुशला चरिष्ये॥४॥



मा त्वं नरेन्द्र मयि कामतृषां कुरुष्व

शीलव्रतेष्वभिरताय सुसंवृताय।

मा ते अपुण्य नृपते भवि दीर्घरात्र-

मनुमोदया हि मम शीलव्रतोपवासम्॥५॥



छन्दो ममेष नृपते प्रविशाद्य शीघ्रं

प्रासादहर्म्यशिखरे स्थित धार्तराष्ट्रे।

सखिभिः सदा परिवृता सुख मोदयेयं

पुष्पाभिकीर्णशयने मृदुके सुगन्धे॥६॥



न च काञ्चुकीय पुरुषा न पि दारकाश्च

न च इस्त्रि प्राकृत ममा पुरतः स्थिहेया।

नो चामनाप मम रूप न शब्दगन्धान्

नान्यत्र इष्टमधुरा शृणुया सुशब्दान्॥७॥



ये रोधबन्धनगताः परिमुञ्च सर्वान्

द्रव्याम्बराश्च पुरुषान्धनिनः कुरुष्व।

वस्त्रान्नपान रथयुग्य तथाश्वयानं

दद सप्तरात्रिकमिदं जगतः सुखार्थम्॥८॥



नो चो विवादकलहा न च रोषवाक्या

चान्योन्यमैत्रमनसो हितसौम्यचित्ता।

अस्मिन् पुरे पुरुष इष्टिक दारकाश्च

देवाश्च नन्दनगता सहिता रमन्ताम्॥९॥



न च राजदण्डनभटा न तथा कुदण्डा

नोत्पीडना न पि च तर्जनताडना वा।

सर्वान् प्रसन्नमनसो हितमैत्रचित्त

वीक्षस्व देव जनतां यथ एकपुत्रम्॥१०॥



श्रुत्वैव राज वचनं परमं उदग्रं

प्राहास्तु सर्वमिदमेव यथा तवेच्छा।

अभिप्रायु तुभ्य मनसा स्वनुचिन्तितानि

यद्याचसे तव वरं तदहं ददामि॥११॥



आज्ञाप्यः पार्थिववरः स्वकपारिषद्यां

प्रासादश्रेष्ठशिखरे प्रकरोथ ऋद्धिम्।

पुष्पाभिकीर्णरुचिरं वरधूपगन्धं

छत्रापताकसमलंकृततालपंक्तिम्॥१२॥



विंशत्सहस्र रणशोण्ड विचित्रवर्मां

नाराचशूलशरशक्तिगृहीतखङ्गाः।

परिवारयाथ धृतराज्यमनोज्ञघोषं

देव्याऽभयार्थ करुणास्थित रक्षमाणा॥१३॥



स्त्रीभिस्तु सा परिवृता यथ देवकन्या

स्नातानुलिप्तप्रवराम्बरभूषिताङ्गी।

तूर्यैः सहस्रमनुगीतमनोज्ञघोषैः

आरुह्य देव्युपविवेश मरुत्स्नुषेव॥१४॥



दिव्यैर्महार्थसुविचित्रसुरत्नपादैः

स्वास्तीर्णपुष्पविविधैः शयने मनोज्ञे।

शयने स्थिता विगलिता मणिरत्नचूडा

यथ मिश्रकावनगता खलु देवकन्या॥१५॥



अथ खलु भिक्षवश्चत्वारो महाराजानः शक्रश्च देवानामिन्द्रः सुयामश्च देवपुत्रः संतुषितश्च सुनिर्मितश्च परनिर्मितवशवर्ती च सार्थवाहश्च मारपुत्रब्रह्मा च सहांपतिर्ब्रह्मोत्तरश्च पुरोहितः सुब्रह्मा च पुरोहितः प्रभाव्यूहाभास्वरश्च महेश्वरश्च शुद्धावासकायिका निष्ठागतश्चाकनिष्ठश्च एतानि चान्यानि चानेकानि देवशतसहस्राणि संनिपत्य अन्योन्यमेवाहुः-अयुक्तमेतन्मार्षा अस्माकं स्यादकृतज्ञता च, यद्वयमेकाकिनमद्वितीयं बोधिसत्त्वमुत्सृजेम। कोऽस्माकं मार्षा उत्सहते बोधिसत्त्वं सततसमितमनुबद्धुमवक्रमणगर्भस्थानजन्मयौवनभूमिदारकक्रीडान्तःपुरनाटकसंदर्शनाभिनिष्क्रमणदुष्करचर्याबोधिमण्डोपसंक्रमण-मारधर्षणबोध्यभिसंबोधनधर्मचक्रप्रवर्तनं यावन्महापरिनिर्वाणाद्धितचित्ततया स्निग्धचित्ततया प्रियचित्ततया मैत्रचित्ततया सौम्यचित्ततया? तस्यां वेलायामिमां गाथामभाषत—



को वोत्सहेत वररूपधरम्

अनुबन्धयितुं सततं प्रीतमनाः।

कः पुण्यतेज यशसा वचसा

स्वयमात्मनेच्छति विबद्धयितुम्॥१६॥



यस्येप्सितं त्रिदशदेवपुरे

दिव्यैः सुखैर्हि रमितुं सततम्।

परमाप्सरोभिरिह कामगुणैः

अनुबद्धितां विमलचन्द्रमुखम्॥१७॥



तथ मिश्रके वनवरे रुचिरे

दिव्याकरे रमितु देवपुरे।

पुष्पोत्करे कनकचूर्णनिमे

अनुबन्धतां विमलतेजधरम्॥१८॥



यस्येप्सितं रमितुः चित्ररथे

तथ नन्दने सुरवधूसहितः।

मान्दारवैः कुसुमपत्रचिते

अनुबन्धतामिमु महापुरुषम्॥१९॥



यामाधिपत्यमथ वा तुषितै-

रथ वापि प्रार्थयति चेश्वरताम्।

पूजारहो भवितु सर्वजगे

अनुबन्धतामिमु अनन्तयशम्॥२०॥



यो इच्छति निर्मितपुरे रुचिरे

वशवर्तिदेवभवने रमितुम्।

मनसैव सर्वमनुभोक्तिक्रिया

अनुबन्धतामिमु गुणाग्रधरम्॥२१॥



मारेश्वरो न च प्रदुष्टमना

सर्वविधैश्वर्यपारगतः।

कामेश्वरो वशितपारगतो

गच्छत्वसौ हितकरेण सह॥२२॥



तथ कामधातु समतिक्रमितुं

मति यस्य ब्रह्मपुरमावसितुम्।

चतुरप्रमाणप्रभतेजधरः

सोऽद्यानुबद्धतु महापुरुषम्॥२३॥



अथ वापि यस्य मनुजेषु मति

वरचक्रवर्तिविषये विपुले।

रत्नाकरमभयसौख्यददम्

अनुबन्धतां विपुलपुण्यधरम्॥२४॥



पृथिवीश्वरस्तथ पि श्रेष्ठिसुतो

आढ्यो महाधनु महानिचयः।

परिवारवान्निहतशत्रुगणो

गच्छत्वसौ हितकरेण सह॥२५॥



रूपं च भोगमपि चेश्वरता

कीर्तिर्यशश्च बलता गुणवती।

आदेयवाक्य भवि ग्राह्यरुतो

ब्रह्मेश्वरं समुपयातु विदुम्॥२६॥



ये दिव्य काम तथ मानुषकां

यो इच्छती त्रिभवि सर्वसुखम्।

ध्याने सुखं च प्रविवेकसुखं

धर्मेश्वरं समनुबन्धयताम्॥२७॥



रागप्रहाणु तथ दोषमपी

यो इच्छते तथ किलेशजहम्।

शान्त प्रशान्त उपशान्तमना

सो दान्तचित्तमनुयातु लघुम्॥२८॥



शैक्षा अशैक्ष तथ प्रत्येकजिना

सर्वज्ञज्ञानमनुप्रापुरितुम्।

दशभिर्बलैर्नदितु सिंह इव

गुणसागरं समनुयातु विदुम्॥२९॥



पिथितुं अपायपथ येष मतिर्

विवृतुं च षङ्गतिपथं ह्यमृतम्।

अष्टाङ्गमार्गगमनेन गतिम्

अनुबन्धतां गतिपथान्तकरम्॥३०॥



यो इच्छते सुगत पूजयितुं

धर्मं च तेषु श्रुतिकारुणिके।

प्राप्तो गुणानपि च संघगतान्

गुणसागरं समनुयातु इमम्॥३१॥



जातिजरामरणदुःखक्षये

संसारबन्धन विमोक्षयितुम्।

चरितुं विशुद्धगमनान्तसमं

सो शुद्धसत्त्वमनुबन्धयताम्॥३२॥



इष्टो मनाप प्रियु सर्वजगे

वरलक्षणो वरगुणोपचितः।

आत्मा परं च तथ मोचयितुं

प्रियदर्शनं समुपयातु विदुम्॥३३॥



शीलं समाधि तथ प्रज्ञमयी

गम्भीरदुर्दशदुरोपगमम्।

यो इच्छते विदु विमुक्ति लभे

सो वैद्यराजमनुयातु लघुम्॥३४॥



एते च अन्य गुण नैकविधा

उपपत्ति सौख्य तथ निर्वृतिये।

सर्वैर्गुणेभि प्रतिपूर्ण सिद्धये

सिद्धव्रतं समनुयातु विदुम्॥३५॥ इति॥



इदं खलु वचनं श्रुत्वा चतुरशीतिसहस्राणि चातुर्महाराजिकानां देवानां शतसहस्रं त्रयत्रिंशानां शतसहस्रं यामानां शतसहस्रं तुषितानां शतसहस्रं निर्माणरतीनां शतसहस्रं परनिर्मितवशवर्तीनां देवानां षष्टिसहस्राणि मारकायिकानां पूर्वशुभकर्मनिर्यातानां अष्टषष्टिसहस्राणि ब्रह्मकायिकानां बहूनि शतसहस्राणि यावदकनिष्ठानां देवानां संनिपतितान्यभूवन्। अन्ये च भूयः पूर्वदक्षिणपश्चिमोत्तरेभ्यो दिग्भ्यो बहूनि देवशतसहस्राणि संनिपतितान्यभूवन्। तेभ्यो ये उदारतमा देवपुत्रास्ते तां महतीं देवपर्षदं गाथाभिरभ्यभाषन्तः—



हन्त शृणोथ वचनं अमरेश्वराहो

अस्मिन् विधानमति यादृशतत्वभूता।

त्यक्तार्थिकामरति ध्यानसुखं प्रणीतम्

अनुबन्धयाम इममुत्तमशुद्धसत्त्वम्॥३६॥



ओक्रान्तपाद तथ गर्भस्थितं महात्मं

पूजारहं अतिशयमभिपूजयामः।

पुण्यैः सुरक्षितमृषिं परिरक्षिसन्तो

यस्यावतार लभते न मनः प्रदुष्टम्॥३७॥



संगीतितूर्यरचितैश्च सुवाद्यकैश्च

वर्णागुणां कथयतो गुणसागरस्य।

कुर्वाम देवमनुजान प्रहर्षणीयं

यं श्रुत्व बोधिवरचित्त जने जनेर्या॥३८॥



पुष्पाभिकीर्ण नृपतेश्च करोम गेहं

कालागुरूत्तमसुधूपितसौम्यगन्धम्।

यं घ्रात्व देवमनुजाश्च भवन्त्युदग्रा

विगतज्वराश्च सुखिनश्च भवन्त्यरोगाः॥३९॥



मान्दारवैश्च कुसुमैस्तथ पारिजातै-

श्चन्द्रैः सुचन्द्र तथ स्थालविरोचमानैः।

पुष्पाभिकीर्ण कपिलाह्वय तं करोम

पूजार्थ पूर्वशुभकर्मसमुद्गतस्य॥४०॥



यावच्च गर्भि वसते त्रिमलैरलिप्तो

यावज्जरामरण चान्तकरः प्रसूतः।

तावत्प्रसन्नमनसो अनुबन्धयाम

एषा मतिर्मतिधरस्य करोम पूजाम्॥४१॥



लाभा सुलब्ध विपुलाः सुरमानुषाणां

द्रक्ष्यन्ति जानु इमु सप्तपदां क्रमन्तम्।

शक्रैश्च ब्रह्मणकरैः परिगृह्यमानं

गन्धोदकैः स्नपियमानि सुशुद्धसत्त्वम्॥४२॥



यावच्च लोकि अनुवर्तनतां करोति

अन्तःपुरे वसति कामकिलेशघाती।

यावच्च निष्क्रमति राज्यमपास्य सर्वं

तावत्प्रसन्नमनसो अनुबन्धयामः॥४३॥



यावदुपैति महिमण्डि तृणां गृहीत्वा

यावच्च बोधि स्पृशते विनिहत्य मारम्।

अध्येष्टु ब्राह्मणयुतेभि प्रवर्ति चक्रं

तावत्करोम विपुलां सुगतस्य पूजाम्॥४४॥



यद बुद्धकार्यु कृतु भेष्यति त्रिसहस्रे

सत्त्वान कोटिनयुता अमृते विनीता।

निर्वाणमार्गमुपयास्यति शीतिभावं

तावन्महाशयमृषिं न जहाम सर्वे॥४५॥इति॥



अथ खलु भिक्षवः कामधात्वीश्वराणां देवकन्यानां बोधिसत्त्वस्य रूपकायपरिनिष्पत्तिं दृष्ट्वा एतदभवत्-कीदृशी त्वसौ कन्या भविष्यति या इमं वरप्रवरशुद्धसत्त्वं धारयिष्यति। ताः कौतूहलजाता वरप्रवरपुष्पधूपदीपगन्धमाल्यविलेपनचूर्णचीवरपरिगृहीता दिव्यमनोमयात्मभावप्रतिलब्धाः पुण्यविपाकाधिस्थानाधिस्थिताः तस्मिन् क्षणेऽमरपुरभवनादन्तर्हिताः कपिलाह्वये महापुरवरे उद्यानशतसहस्रपरिमण्डिते राज्ञः शुद्धोदनस्य गृहे धृतराष्ट्रे महाप्रासादे अमरभवनप्रकाशे विगलिताम्बरधारिण्यः शुभविमलतेजप्रतिमण्डिता दिव्याभरणस्तम्भितभुजाः शयनवरगतां मायादेवीमेकाङ्गुलिकयोपदर्शयन्त्यो गगनतलगताः परस्परं गाथाभिरभ्यभाषन्त—



अमरपुरगतान अप्सराणां

रूप मनोरम दृष्ट्व बोधिसत्त्वे।

मतिरियमभवत्तदा हि तासां

प्रमद नु कीदृश बोधिसत्त्वमाता॥४६॥



ताश्च सहितपुष्पमाल्यहस्ता

उपगमि वेश्म नृपस्य जातकाङ्क्षा।

पुष्प तथ विलेपनां गृहीत्वा

दशनख‍अञ्जलिभिर्नमस्यमानाः॥४७॥



विगलितवसनाः सलीलरूपाः

करतल दक्षिणि अङ्गुलीं प्रणम्य।

शयनगत विदर्शि मायदेवीं

साधु निरीक्षथ रूप मानुषीणाम्॥४८॥



वयमिह अभिमन्ययाम अन्ये

परममनोरम सुरूप अप्सराणाम्।

इम नृपतिवधूं निरीक्षमाणा

जिह्म विपश्यथ दिव्य आत्मभावाम्॥४९॥



रतिरिव सदृशी गुणान्विता च

जननिरियं प्रवराग्रपुद्गलस्य।

मणिरतन यथा सुभाजनस्थ

तथ इव भाजन देवि देवदेवे॥५०॥



करचरणतलेभि यावदूर्ध्वं

अङ्ग महोरम दिव्य आतिरेकाः।

प्रेक्षतु नयनान्न चास्ति तृप्तिं

भूय प्रहर्षति चित्त मानसं च॥५१॥



शशिरिव गगने विराजतेऽस्या

वदनु वरं च विराज गात्रभासा।

रविरिव विमला शशीव दीप्ता

तथ प्रभ निश्चरतेऽस्य आत्मभावात्॥५२॥



कनकमिव सुजातजातरूपा

वर्ण विरोचति देविये तथैव।

भ्रमरवरनिकाश कुन्तलानी

मृदुकसुगन्धश्रवास्य मूर्धजानि॥५३॥



कमलदलनिभे तथास्य नेत्रे

दशनविशुद्ध नभेव ज्योतिषाणि।

चाप इव तनूदरी विशाला

पार्श्व समुद्गत मांसि नास्ति संधिः॥५४॥



गजभुजसदृशेऽस्य ऊरुजङ्घे

जानु सुजात्वनुपूर्वमुद्गतास्य।

करतलचरणा समा सुरक्ता

व्यक्तमियं खलु देवकन्य नान्या॥५५॥



एव बहुविधं निरीक्ष्य देवीं

कुसुम क्षिपित्व प्रदक्षिणं च कृत्वा।

सुपिय यशवती जिनस्य माता

पुनरपि देवपुरं गता क्षणेन॥५६॥



अथ चतुरि चतुर्दिशासु पालाः

शक्र सुयाम तथैव निर्मिताश्च।

देवगण कुम्भाण्ड राक्षसाश्च

असुर महोरग किन्नराश्च वोचन्॥५७॥



गच्छत पुरतो नरोत्तमस्य

पुरुषवरस्य करोथ रक्षगुप्तिम्।

मा कुरुत जगे मनःप्रदोषं

मा च करोत विहेठ मानुषाणाम्॥५८॥



यत्र गृहवरस्मि मायदेवी

तत्र समग्र सपारिषद्य सर्वे।

असिधनुशरशक्तिखङ्गहस्ता

गगनतलस्मि स्थिता निरीक्षयाथ॥५९॥



ज्ञात्व च्यवनकाल देवपुत्रा

उपगमि मायसकाश हृष्टचित्ता।

पुष्प तथ विलेपनां गृहीत्वा

दशनख‍अञ्जलिभिर्नमस्यमानाः॥६०॥



च्यव च्यव हि नरेन्द्र शुद्धसत्त्वा

अयु समयो भवतोऽद्य वादिसिंह।

कृपकरुण जनित्व सर्वलोके

अस्मि अध्येषम धर्मदानहेतोः॥६१॥ इति॥



अथ खलु भिक्षवो बोधिसत्त्वस्य च्यवनकालसमये पूर्वस्या दिशो बहूनि बोधिसत्त्वशतसहस्राणि सर्व एकजातिप्रतिबद्धास्तुषितवरभवनवासिनो येन बोधिसत्त्वस्तेनोपसंक्रामन् बोधिसत्त्वस्य पूजाकर्मणे। एवं दशभ्यो दिग्भ्यो एकैकस्या दिशो बहूनि बोधिसत्त्वशतसहस्राणि सर्व एकजातिप्रतिबद्धास्तुषितवरभवनवासिनो येन बोधिसत्त्वस्तेनोपसंक्रामन् बोधिसत्त्वस्य पूजाकर्मणे। चातुर्महाराजकायिकेभ्यो देवेभ्यश्चतुरशीत्यप्सरःशतसहस्राण्येवं त्रयत्रिंशतो यामेभ्यस्तुषितेभ्यो निर्माणरतिभ्यः परनिर्मितवशवर्तिभ्यो देवेभ्यश्चतुरशीत्यप्सरः-शतसहस्राणि नानातूर्यसंगीतिवादितेन येन बोधिसत्त्वस्तेनोपसंक्रामन् बोधिसत्त्वस्य पूजाकर्मणे॥



अथ खलु बोधिसत्त्वः श्रीगर्भसिंहासने सर्वपुण्यसमुद्गते सर्वदेवनागसंदर्शने महाकूटागारे निषद्य सार्धं बोधिसत्त्वैर्देवनागयक्षकोटिनियुतशतसहस्रैः परिवृतः पुरस्कृतस्तुषितवरभवनात् प्रचलति स्म। प्रचलता च भिक्षवो बोधिसत्त्वेन तथारूपा कायात् प्रभा मुक्ताभूद् यया प्रभया अयं त्रिसाहस्रमहासाहस्रो लोकधातुरेवं विपुलविस्तीर्णो महतोदारेण सुप्रचलितपूर्वेण दिव्यप्रभासमतिक्रान्तेनावभासेन परिस्फुटोऽभूत्। या अपि ता लोकान्तरिका अघा अघस्फुटा अन्धकारास्तमिस्रा यत्रेमौ चन्द्रसूर्यावेवं महर्द्धिकावेवं महानुभावावेवं महेशाख्यौ आभया आभां वर्णेन वर्णं तेजसा तेजो नाभितपतो नाभिविरोचतः, तत्र ये सत्त्वा उपपन्नास्ते स्वकानपि बाहुप्रसारितान्न पश्यन्ति। तथापि तस्मिन् समये महत उदारस्यावभासस्य प्रादुर्भावोऽभूत्। ये च तत्र सत्त्वा उपपन्नास्ते तेनैवावभासेन स्फुटाः समाना अन्योन्यं सम्यक् पश्यन्ति स्म। अन्योन्यं संजानन्ते स्म। एवं चाहुः- अन्येऽपि किल भोः सत्त्वा इहोपपन्नाः किल भो इति॥



अयं च त्रिसाहस्रमहासाहस्रो लोकधातुः षड्विकारमष्टादशमहानिमित्तमभूत्। अकम्पत् प्राकम्पत् संप्राकम्पत्। अवेधत् प्रावेधत् संप्रावेधत्। अचलत् प्राचलत् संप्राचलत्। अक्षुभ्यत् प्राक्षुभ्यत् संप्राक्षुभ्यत्। अरणत् प्रारणत् संप्रारणत्। अगर्जत् प्रागर्जत् संप्रागर्जत्। अन्तेऽवनमति स्म, मध्ये उन्नमति स्म। मध्येऽवनमति स्म, अन्ते उन्नमति स्म। पूर्वस्यां दिश्यवनमति स्म, पश्चिमायां दिश्युन्नमति स्म। पश्चिमायां दिश्यवनमति स्म, पूर्वस्यां दिश्युन्नमति स्म। दक्षिणस्यां दिश्यवनमति स्म, उत्तरस्यां दिश्युन्नमति स्म। उत्तरस्यां दिश्यवनमति स्म, दक्षिणस्यां दिश्युन्नमति स्म। तस्मिन् समये हर्षणीयास्तोषणीयाः प्रेमणीयाः प्रसादनीया अवलोकनीयाः प्रह्लादनीया निर्वर्णनीया असेचनीया अप्रतिकूला अनुत्त्रासकराः शब्दाः श्रूयन्ते स्म। न च कस्यचित् सत्त्वस्य तस्मिन् क्षणे विहेठा वा त्रासो वा भयं वा स्तम्भितत्वं वाभूत्। न च भूयः सूर्याचन्द्रमसोर्न ब्रह्मशक्रलोकपालानां तस्मिन् क्षणे प्रभा प्रज्ञायते स्म। सर्वनरकतिर्यग्योनियमलोकोपपन्नाश्च सत्त्वास्तस्मिन् क्षणे विगतदुःखा अभूवन् सर्वसुखसमर्पिताः। न च कस्यचित् सत्त्वस्य रागो बाधते स्म, द्वेषो वा मोहो वा, ईर्ष्या वा मात्सर्यं वा, मानो वा म्रक्षो वा, मदो वा क्रोधो वा, व्यापादो वा परिदाहो वा। सर्वसत्त्वास्तस्मिन् क्षणे मैत्रचित्ता हितचित्ताः परस्परं मातापितृसङ्गिनोऽभूवन्। अघट्टितानि च दिव्यमानुष्यकाणि तूर्यकोटिनियुतशतसहस्राणि मनोज्ञघोषमुत्सृजन्ति स्म। देवकोटीनयुतशतसहस्राणि पाणिभिरंसैः शिरोभिस्तं महाविमानं वहन्ति स्म। तानि चाप्सरःशतसहस्राणि स्वां स्वां संगीतिं संप्रयुज्य पुरतः पृष्ठतो वामदक्षिणेन च स्थित्वा बोधिसत्त्वं संगीतिरुतस्वरेणाभिस्तुवन्ति स्म—



पूर्वकर्मशुभसंचितस्य ते

दीर्घरात्रकुशलोदितस्य ते।

सत्यधर्मनयशोधितस्य ते

पूज अद्य विपुला प्रवर्तते॥६२॥



पूर्वि तुभ्य बहुकल्पकोटियो

दानु दत्तु प्रियपुत्रधीतरा।

तस्य दानचरितस्य तत्फलं

येन दिव्य कुसुमाः प्रवर्षिताः॥६३॥



आत्ममांस तुलयित्व ते विभो

सोऽभिदत्तु प्रियपक्षिकारणात्।

तस्य दानचरितस्य तत्फलं

प्रेतलोकि लभि पानभोजनम्॥६४॥



पूर्वि तुभ्य बहुकल्पकोटियो

शील रक्षितमखण्डनव्रतम्।

तस्य शीलचरितस्य तत्फलं

येन अक्षण अपाय शोधिताः॥६५॥



पूर्वि तुभ्य बहुकल्पकोटियो

क्षान्ति भावित निदानबोधये।

तस्य क्षान्तिचरितस्य तत्फलं

मैत्रचित्त भुत देवमानुषाः॥६६॥



पूर्वि तुभ्य बहुकल्पकोटियो

वीर्यु भावितमलीनमुत्तमम्।

तस्य वीर्यचरितस्य तत्फलं

येन कायु यथ मेरु शोभते॥६७॥



पूर्वि तुभ्य बहुकल्पकोटियो

ध्यान ध्यायित किलेशध्येषणात्।

तस्य ध्यानचरितस्य तत्फलं

येन क्लेश जगतो न बाधते॥६८॥



पूर्वि तुभ्य बहुकल्पकोटियो

प्रज्ञ भावित किलेशछेदनी।

तस्य प्रज्ञचरितस्य तत्फलं

येन आभ परमा विरोचते॥ ६९॥



मैत्रवर्मित किलेशसूदना

सर्वसत्त्वकरुणाय उद्गता।

मोदिप्राप्त परमा उपेक्षका

ब्रह्मभूत सुगता नमोऽस्तु ते॥७०॥



प्रज्ञ उल्कप्रभ तेजसोद्गता

सर्वदोषतममोहशोधका।

चक्षुभूत त्रिसहस्रिनायका

मार्गदेशिक मुने नमोऽस्तु ते॥७१॥



ऋद्धिपादवरभिज्ञकोविदा

सत्यदर्शि परमार्थि शिक्षिता।

तीर्ण तारयसि अन्यप्राणिनो

दाशभूत सुगता नमोऽस्तु ते॥७२॥



सर्वोपायवरभिज्ञकोविदा

दर्शयसि च्युतिमच्युतिच्युतिम्।

लोकधर्मभवनाभिवर्तसे

नो च लोकि क्वचि ओपलिप्यसे॥७३॥



लाभ तेष परमा अचिन्तिया

येषु दर्शन श्रवं च एष्यसे।

किं पुनः शृणुय यो तिधर्मतां

श्रद्ध प्रीति विपुला जनेष्यसे॥७४॥



जिह्म सर्व तुषितालयो भुतो

जम्बुद्वीपि पुरि यो उदागतः।

प्राणिकोटिनयुता अचिन्तियां

बोधयिष्यसि प्रसुप्त क्लेशतो॥७५॥



ऋद्ध स्फीत पुरमद्य भेष्यती

देवकोटिनयुतैः समाकुलम्।

अप्सरोभि तुरियैर्निनादितं

राजगेहि मधुरं श्रुणिष्यति॥७६॥



पुण्यतेजभरिता शुभकर्मणा

नारि सा परमरूपउपेता।

यस्य पुत्र अयमेव समृद्धः

तिस्रलोकि अभिभाति शीरिये॥७७॥



नो भुयो पुरवरस्मि देहिनां

लोभदोषकलहा विवादका।

सर्व मैत्रमनसः सगौरवा

भाविनो नरवरस्य तेजसा॥७८॥



राजवंश नृपतेः प्रवर्धते

चक्रवर्तिकुलराजसंभवः।

भेष्यते कपिलसाह्वयं पुरं

रत्नकोषभरितं सुसमृद्धम्॥७९॥



यक्षराक्षसकुम्भाण्डगुह्यका

देवदानवगणाः स‍इन्द्रकाः।

ये स्थिता नरवरस्य रक्षकाः

तेषु मोक्ष नचिरेण भेष्यते॥८०॥



पुण्युपार्जितु स्तवित्व नायकं

प्रेमगौरवमुपस्थपिस्व ना।

सर्व बोधि परिणामयामहे

क्षिप्र भोम यथ त्वं नरोत्तम॥८१॥ इति॥



इति श्रीललितविस्तरे प्रचलपरिवर्तो नाम पञ्चमोऽध्यायः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project