Digital Sanskrit Buddhist Canon

३ कुलपरिशुद्धिपरिवर्तस्तृतीयः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

3 kulapariśuddhiparivartastṛtīyaḥ

३ कुलपरिशुद्धिपरिवर्तस्तृतीयः।



इति हि भिक्षवो बोधिसत्त्व एवं धर्मकालसंचोदितः संस्ततो महाविमानान्निष्क्रम्य धर्मोच्चयो नाम महाप्रासादो यत्र निषद्य बोधिसत्त्वस्तुषितेभ्यो देवेभ्यो धर्मं देशयति स्म, तं बोधिसत्त्वोऽभिरोहति स्म, अभिरुह्य च सुधर्मे सिंहासने निषीदति स्म। अथ ये देवपुत्रा बोधिसत्त्वस्य सभागाः समयानसंप्रस्थितास्तेऽपि तमेव प्रासादमभिरोहन्ति स्म। ये च दशदिक्संनिपतिता बोधिसत्त्वाः सभागचरिता बोधिसत्त्वस्य देवपुत्राश्च, तेऽपि तं प्रासादमभिरुह्य यथाप्रत्यर्हेषु सिंहासनेषु स्वकस्वकेषु निषीदन्ति, स्म अपगताप्सरोगणा अपगतप्राकृतदेवपुत्राः समानाध्याशयपरिवारा अष्टषष्टिकोटिसहस्रपरिवाराः॥



इति हि भिक्षवो द्वादशभिर्वर्षैर्बोधिसत्त्वो मातुः कुक्षिमवक्रमिष्यतीति॥



अथ शुद्धावासकायिका देवपुत्रा जम्बुद्वीपमागत्य दिव्यं वर्णमन्तर्धाप्य ब्राह्मणवेषेण ब्राह्मणान् वेदानध्यापयन्ति स्म। यस्यैवरूपा गर्भावक्रान्तिर्भवति, स द्वात्रिंशता महापुरुषलक्षणैः समन्वागतो भवति। यैः समन्वागतस्य द्वे गती भवतो न तृतीया। सचेदगारमध्यावसति, राजा भवती चक्रवर्ती चतुरङ्गो विजितवान् धार्मिको धर्मराजः सप्तरत्नसमन्वागतः। तस्येमानि सप्त रत्नानि भवन्ति। तद्यथा-चक्ररत्नं हस्तिरत्नं अश्वरत्नं स्त्रीरत्नं मणिरत्नं गृहपतिरत्नं परिणायकरत्नमेव सप्तमम्॥



कथंरूपेण राजा चक्रवर्ती चक्ररत्नेन समन्वागतो भवति? इह राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्य तदेव पोषधेयं च पञ्चदश्यां शिरःस्नातस्योपवासोषितस्योपरिप्रासादतलगतस्य स्त्र्यागारपरिवृतस्य पूर्वस्यां दिशि दिव्यं चक्ररत्नं प्रादुर्भवति। सहस्रारं सनेमिकं सनाभिकं सुवर्णवर्णकर्मालंकृतं सप्ततालमुच्चैः समन्ताद् दृष्ट्वान्तःपुरं राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्य तद्दिव्यं चक्ररत्नमेव भवति। श्रुतं खलु मया यस्य किल राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्य तदेव पोषधेयं पञ्चदश्यां शिरःस्नातस्योपवासोषितस्योपरिप्रासादतलगतस्य स्त्र्यागारपरिवृतस्य पूर्वस्यां दिशि दिव्यं चक्ररत्नं प्रादुर्भवति, स भवति राजा चक्रवर्ती। नूनमहं राजा चक्रवर्ती यन्न्वहं दिव्यं चक्ररत्नं मीमांसयेयम्। अथ राजा क्षत्रियो मूर्धाभिषिक्त एकांसमुत्तरासङ्गं कृत्वा दक्षिणजानुमण्डलं पृथिव्यां प्रतिष्ठाप्य दक्षिणेन पाणिना तद्दिव्यं चक्ररत्नं प्रार्थयेदेवं चावेदयेत्-प्रवर्तयस्व भट्ट दिव्यं चक्ररत्नं धर्मेण माधर्मेण। अथ तद्दिव्यं चक्ररत्नं राज्ञा क्षत्रियेण मूर्धाभिषिक्तेन प्रवर्तितं सम्यगेवऋद्धौ विहायसा पूर्वेण व्रजति। अन्वेति राजा चक्रवर्ती सार्धं चतुरङ्गेण बलकायेन। यत्र च पृथिवीप्रदेशे तद्दिव्यं चक्ररत्नं संतिष्ठते, तत्र राजा क्षत्रियो मूर्धाभिषिक्तो वासं कल्पयति सार्धं चतुरङ्गेण बलकायेन। अथ ये ते भवन्ति पूर्वस्यां दिशि राजानो मण्डलिनः, ते रूप्यपात्रीं वा सुवर्णचूर्णपरिपूर्णामादाय स्वर्णपात्रीं वा रूप्यचूर्णपरिपूर्णामादाय राजानं चक्रवर्तिनं प्रत्युत्तिष्ठन्ति-एहि देव स्वागतं देवाय, इदं देवस्य राज्यमृद्धं च स्फीतं च क्षेमं च सुभिक्षं च रमणीयं चाकीर्णबहुजनमनुष्यं च। अध्यावसतु देव स्वकं विजितमनुप्राप्तम्। एवमुक्ते राजा क्षत्रियो मूर्धाभिषिक्तस्त्राता तान् राज्ञो मण्डलिन एतदवोचत्-कारयन्तु भवन्तः स्वकानि राज्यानि धर्मेण। हन्त भवन्तो मा प्राणिनं घातयिष्यथ, मादत्तादास्यथ, मा कामेषु मिथ्या चरिष्यथ, मा मृषा वक्ष्यथ, यावन्मा भे विजिते अधर्ममुत्पद्यते, माधर्मचारिणो रोचेथ। एवं खलु राजा क्षत्रियो मूर्धाभिषिक्तः पूर्वां दिशं विजयति। पूर्वां दिशं विजितः पूर्वं समुद्रमवगाह्य पूर्वं समुद्रमवतरति। पूर्वं समुद्रमवतीर्य सम्यगेव ऋद्ध्या विहायसा दक्षिणेन व्रजति। अन्वेति राजा चक्रवर्ती सार्धं चतुरङ्गेण बलकायेन। पूर्ववदेवं दक्षिणां दिशं विजयति। यथा दक्षिणामेवं पश्चिमामुत्तरां दिशं विजयति। उत्तरां दिशं विजित्य उत्तरसमुद्रमवगाहते। अवगाह्योत्तरात्समुद्रात्प्रत्युत्तरति। प्रत्युत्तीर्य सम्यगेव ऋद्ध्या विहायसा राजधानीमागत्योपरि अन्तःपुरद्वारेऽक्षतमेवास्थात्। एवंरूपेण राजा क्षत्रियो मूर्धाभिषिक्तश्चक्ररत्नेन समन्वागतो भवति॥



कथंरूपेण राजा चक्रवर्ती हस्तिरत्नेन समन्वागतो भवति ? इह राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्य पूर्ववद्धस्तिरत्नमुत्पद्यते। सर्वश्वेतं सप्ताङ्गसुप्रतिष्ठितं स्वर्णचूडकं स्वर्णध्वजं स्वर्णालंकारं हेमजालप्रतिच्छन्नं ऋद्धिमन्तं विहायसा गामिनं विकुर्वणाधर्मिणं यदुत बोधिर्नाम नागराजा। यदा च राजा क्षत्रियो मूर्धाभिषिक्तस्तद्धस्तिरत्नं मीमांसितुकामो भवति, अथ सूर्यस्याभ्युद्गमनवेलायां तद्धस्तिरत्नमभिरुह्य इमामेव महापृथिवीं समुद्रपरिखां समुद्रपर्यन्तां समन्ततोऽन्वाहिण्ड्य राजधानीमागत्य प्रशासनरतिः प्रत्यनुभवति। एवंरूपेण राजा चक्रवर्ती हस्तिरत्नेन समन्वागतो भवति॥



कथंरूपेण राजा चक्रवर्ती अश्वरत्नेन समन्वागतो भवति? अथ राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्य पूर्ववदश्वरत्नमुत्पद्यते। सर्वनीलं कृष्णशिरसं मुञ्जकेशमादृतवदनं स्वर्णध्वजं स्वर्णालंकारं हेमजालप्रतिच्छन्नं ऋद्धिमन्तं विहायसा गामिनं विकुर्वणाधर्मिणं यदुत बालाहको नामाश्वराजम्। यदा च राजा क्षत्रियो मूर्धाभिषिक्तोऽश्वरत्नं मीमांसितुकामो भवति, अथ सूर्यस्याभ्युद्गमनवेलायामश्वरत्नमभिरुह्य इमामेव महापृथ्वीं समुद्रपरिखां समुद्रपर्यन्तां समन्तन्तोऽन्वाहिण्ड्य राजधानीमागत्य प्रशासनरतिः प्रत्यनुभवति। एवंरूपेण राजा चक्रवर्तीं अश्वरत्नेन समन्वागतो भवति॥



कथंरूपेण राजा चक्रवर्तीं मणिरत्नेन समन्वागतो भवति? इह राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्य पूर्ववन्मणिरत्नमुत्पद्यते शुद्धनीलवैडूर्यमष्टांशं सुपरिकर्मकृतम्। तस्य खलु पुनर्मणिरत्नस्याभया सर्वमन्तःपुरमवभास्येन स्फुटं भवति। यदा च राजा क्षत्रियो मूर्धाभिषिक्तस्तं मणिरत्नं मीमांसितुकामो भवति, अथ रात्र्यामर्धरात्रसमयेऽन्धकारतमिस्रायां तं मणिरत्नं ध्वजाग्रे उच्छ्रापयित्वा उद्यानभूमिं निर्याति सुभूमिदर्शनाय। तस्य खलु पुनर्मणिरत्नस्याभयासर्वावन्तं चतुरङ्गबलकायमवभासेन स्फुटीभवति सामन्तेन योजनम्। ये खलु पुनस्तस्य मणिरत्नस्य सामन्तके मनुष्याः प्रतिवसन्ति, ते तेनावभासेनास्फुट समाना अन्योन्यं संजानन्ति, अन्योन्यं पश्यन्ति, अन्योन्यमाहुः-उत्तिष्ठ भद्रमुखाः कर्मान्तानि कारयतः आपणानि प्रसारयत, दिवा मन्यामहे सूर्यमभ्युद्गतम्। एवंरूपेण राजा क्षत्रियो मूर्धाभिषिक्तो मणिरत्नेन समन्वागतो भवति॥



कथंरूपेण राजा चक्रवर्ती स्त्रीरत्नेन समन्वागतो भवति? इह राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्य पूर्ववत्स्त्रीरत्नमुत्पद्यते। सदृशी क्षत्रिया नातिदीर्घा नातिह्रस्वा नातिस्थूला नातिकृशा नातिगौरी नातिकृष्णा अभिरूपा प्रासादिका दर्शनीया। तस्याः सर्वरोमकूपेभ्यश्चन्दनगन्धं प्रवाति, मुखाच्चोत्पलगन्धं प्रवाति। काचिलिन्दिकसुखसंस्पर्शा। शीतलकाले चास्या उष्णसंस्पर्शानि गात्राणि भवन्ति, उष्णकाले च शीतसंस्पर्शानि। सा राजानं चक्रवर्तिनं मुक्त्वा नान्यस्मिन् मनसापि रागं करोति किं पुनः कायेन। एवंरूपेण राजा चक्रवर्ती स्त्रीरत्नेन समन्वागतो भवति॥



कथंरूपेण राजा चक्रवर्ती गृहपतिरत्नेन समन्वागतो भवति? इह राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्य पूर्ववद् गृहपतिरत्नमुत्पद्यते पण्डितो व्यक्तो मेधावी दिव्यचक्षुः। स तेन दिव्यचक्षुषा सामन्तेन योजनं सस्वामिकानि निधानानि पश्यति, अस्वामिकानि निधानानि पश्यति। स यानि तानि भवन्ति अस्वामिकानि, तै राज्ञश्चक्रवर्तिनो धनेन करणीयं करोति। एवंरूपेण राजा चक्रवर्ती गृहपतिरत्नेन समन्वागतो भवति॥



कथंरूपेण राजा चक्रवर्ती परिणायकरत्नेन समन्वागतो भवति? इह राज्ञः क्षत्रियस्य मूर्धाषिभिक्तस्य पूर्ववत्परिणायकरत्नमुत्पद्यते पण्डितो व्यक्तो मेधावी। राज्ञचक्रवर्तिनश्चिन्तितमात्रेण उद्योजयितव्यं सेनामुद्योजयति स्म। एवंरूपेण राजा चक्रवर्ती परिणायकरत्नेन समन्वागतो भवति। एभिः सप्तरत्नैः समन्वागतो भविष्यति। भवति चास्य पुत्रसहस्रं शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानाम्। स इमां महापृथिवीं ससागरपर्यन्तामखिलामकण्टकामदण्डेनाशस्त्रेणाभिनिर्जित्याध्यासयति। सचेदगारादनगारिकां प्रव्रजिष्यति, वान्तछन्दरागो नेता अनन्यदेवः शास्ता देवानां च मनुष्याणां चेति॥



तथा अन्येऽपि देवपुत्रा जम्बुद्वीपमागत्य प्रत्येकबुद्धेभ्य आरोचयन्ति स्म-रिञ्चत मार्षा बुद्धक्षेत्रम्। इतो द्वादशवत्सरे बोधिसत्त्वो मातुः कुक्षिमवक्रमिष्यति॥



तेन खलु पुनर्भिक्षवः समयेन राजगृहे महानगरे गोलाङ्गुलपरिवर्तने पर्वते मातङ्गो नाम प्रत्येकबुद्धो विहरति स्म। स तं शब्दं श्रुत्वा कर्दम इव शिलायां प्रस्थाय विहायसा सप्ततालमात्रमत्युद्गम्य च तेजोधातुं समापद्योल्केव परिनिर्वाणोऽयम्। यत्तस्य पित्तश्लेष्मस्नाय्वस्थिमांसरुधिरं चासीत्, तत्सर्वं तेजसा पर्यवदानमगच्छत्। शुद्धशरीराण्येव भूमौ प्रापतन्। अद्यापि च तानि ऋषिपदान्येव संज्ञायन्ते॥



तेन खलु पुनर्भिक्षवः समयेन वाराणस्यां ऋषिपतने मृगदावे पञ्च प्रत्येकबुद्धशतानि विहरन्ति स्म। तेऽपि तं शब्दं श्रुत्वा विहायसा सप्ततालमात्रमत्युद्गम्य तेजोधातुं समापद्योल्केव परिनिर्वान्ति स्म। यत्तेषां पित्तश्लेष्ममांसास्थिस्नायुरुधिरं चाभूत्, तत्सर्वं तेजसा पर्यवदानमगच्छत्। शुद्धशरीराण्येव भूमौ प्रापतन्। अस्मिन्नृषयः पतिता इति तस्मात्प्रभृति ऋषिपतनसंज्ञोदपादि। अभयदत्ताश्च तस्मिन् मृगाः प्रतिवसन्ति इति तदग्रेण मृगदावस्य मृगदाव इति संज्ञोदपादि॥



इति हि भिक्षवो बोधिसत्त्वस्तुषितवरभवनस्थितश्चत्वारि महाविलोकितानि विलोकयति स्म। कतमानि चत्वारि ? तद्यथा-कालविलोकितं द्वीपविलोकितं देशविलोकितं कुलविलोकितम्॥



किं कारणं भिक्षवो बोधिसत्त्वः कालविलोकितं विलोकयति स्म? न बोधिसत्त्व आदिप्रवृत्ते लोके सत्त्वसंवर्तनीकालसमये मातुः कुक्षिमवक्रामति, अथ तर्हि यदा व्यक्तो लोकः सुस्थितो भवति, जाति प्रज्ञायते, जरा प्रज्ञायते, व्याधि प्रज्ञायते, मरणं प्रज्ञायते, तदा बोधिसत्त्वो मातुः कुक्षिमवक्रामति॥



किं कारणं बोधिसत्त्वो द्वीपविलोकितं विलोकयति स्म? न बोधिसत्त्वा प्रत्यन्तद्वीपा उपपद्यन्ते, न पुर्वविदेहे, नापरगोदानीये, न चोत्तरकुरौ। अथ तर्हि जम्बुद्वीप एवोपपद्यन्ते॥



किं कारणं भिक्षवो बोधिसत्त्वो देशविलोकितं विलोकयति स्म? न बोधिसत्त्वाः प्रत्यन्तजनपदेषूपपद्यन्ते, येषु मनुष्या अन्धजात्या जडा एडमूकजातीया अभव्याः सुभाषितदुर्भाषितानामर्थं ज्ञातुम्। अथ तर्हि बोधिसत्त्वा मध्यमेष्वेव जनपदेषूपपद्यन्ते॥



किं कारणं भिक्षवो बोधिसत्त्वः कुलविलोकितं विलोकयति स्म? न बोधिसत्त्वा हीनकुलेषूपपद्यन्ते चण्डालकुलेषु वा वेणुकारकुले वा रथकारकुले वा पुष्कसकुले वा। अथ तर्हि कुलद्वये एवोपपद्यन्ते ब्राह्मणकुले क्षत्रियकुले च। तत्र यदा ब्राह्मणगुरुको लोको भवति, तदा ब्राह्मणकुले उपपद्यन्ते। यदा क्षत्रियगुरुको लोको भवति, तदा क्षत्रियकुले उपपद्यन्ते। एतर्हि भिक्षवः क्षत्रियगुरुको लोकः। तस्माद्बोधिसत्त्वाः क्षत्रियकुले उपपद्यन्ते। तमर्थं च संप्रतीत्य बोधिसत्त्वस्तुषितवरभवनस्थश्चत्वारि महाविलोकितानि विलोकयति स्म॥



एवं चावलोक्य तूष्णीमभूत्। इति हि भिक्षवस्ते देवपुत्राः बोधिसत्त्वस्यान्योन्यं परिपृच्छन्ति स्म-कतमस्मिन् कुलरत्ने कियद्रूपायां जनन्यां बोधिसत्त्वः प्रतिष्ठतेति। तत्र केचिदाहुः-इदं वैदेहीकुलं मगधेषु जनपदेषु ऋद्धं च स्फीतं च क्षेमं सुभिक्षं च। इदं प्रतिरूपमस्य बोधिसत्त्वस्य गर्भस्थानम्। अपरे त्वाहुः-न तत्प्रतिरूपम्। तत्कस्मात्? तथा हि-तन्न मातृशुद्धं पितृशुद्धं अप्लुतं चञ्चलमनवस्थितं परित्तपुण्याभिष्यन्दितं न विपुलपुण्याभिषिक्तं सत्कुलप्रदेशोपचारं नोद्यानसरस्तडागाकीर्णं कर्वटमिव प्रत्यन्तवासम्। तेन न तत्प्रतिरूपम्॥



अपरे त्वाहुः-इदं पुनः कौशलकुलं महावाहनं च महापरिवारं च महाधनं च। तत्प्रतिरूपमस्य बोधिसत्त्वस्य गर्भप्रतिसंस्थानायेति। अपरेऽप्याहुः-तदप्यप्रतिरूपम्। तत्कस्माद्धेतोः? तथा हि-कौशलकुलं मातङ्गच्युत्युपपन्नं न मातृपितृशुद्धम्। हीनाधिमुक्तिकं न च कुलोदितं न चापरिमितधनरत्ननिधिसमुत्थितम्। तेन न तत्प्रतिरूपम्॥



अपरे त्वाहुः-इदं वंशराजकुलं ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च। इदं प्रतिरूपमस्य बोधिसत्त्वस्य गर्भस्थानमिति। अपर एवमाहुः-इदमप्यप्रतिरूपम्। किं कारणम्? तथाहि-वंशराजकुलं प्राकृतं च चण्डं च न चोज्ज्वलिततेजसं परपुरुषजन्मावृतं च न मातृपितृस्वतेजः कर्माभिनिर्वृत्तं च। उच्छेदवादी च तत्र राजा। तेन तदप्यप्रतिरूपम्॥



अपरेऽप्याहुः-इयं वैशाली महानगरी ऋद्धा च स्फीता च क्षेमा च सुभिक्षा च रमणीया चाकीर्णबहुजनमनुष्या च वितर्दिनिर्यूहतोरणगवाक्षहर्म्यकूटागारप्रासादतलसमलंकृता च पुष्पवाटिकावनराजिसंकुसुमिता च अमरभवनपुरप्राकाश्या। सा प्रतिरूपास्य बोधिसत्त्वस्य गर्भप्रतिसंस्थानायेति। अपर आहुः-साप्यप्रतिरूपा। किं कारणम्? तथा हि-तेषां नास्ति परस्परन्यायवादिता, नास्ति धर्माचरणम्, नोच्चमध्यवृद्धज्येष्ठानुपालिता। एकैक एव मन्यते-अहं राजा, अहं राजेति। न च कस्यचिच्छिष्यत्वमभ्युपगच्छति न धर्मत्वम्। तेन साप्यप्रतिरूपा॥



अपरे त्वेवमाहुः- इदं प्रद्योतकुलं महाबलं च महावाहनं च परचमूशिरसि विजयलब्धं च। तत्प्रतिरूपमस्य बोधिसत्त्वस्य गर्भप्रतिसंस्थानायेति। अपरे त्वेवमाहुः-तदप्यप्रतिरूपम्। किं कारणम् ? तथा हि-ते चण्डाश्च चपलाश्च रौद्राश्च परुषाश्च साहसिकाश्च, न च कर्मदर्शिनः। तेन तदप्यप्रतिरूपमस्य बोधिसत्त्वस्य गर्भप्रतिसंस्थानायेति॥



अपर एवमाहुः-इयं मथुरा नगरी ऋद्धा च स्फीता च क्षेमा च सुभिक्षा चाकीर्णबहुजनमनुष्या च। राज्ञः सुबाहोः कंसकुलस्य शूरसेनेश्वरस्य राजधानिः। सा प्रतिरूपास्य बोधिसत्त्वस्य गर्भप्रतिसंस्थानायेति। अपरे त्वाहुः-साप्यप्रतिरूपा। किं कारणम्? तथाहि-स राजा मिथ्यादृष्टिकुलवंशप्रसूतो दस्युराजा। न युज्यते चरमभविकस्य बोधिसत्त्वस्य मिथ्यादृष्टिकुले उपपत्तुम्। तेन साप्यप्रतिरूपा॥



अपरेऽप्याहुः-अयं हस्तिनापुरे महानगरे राजा पाण्डवकुलवंशप्रसूतः शूरो वीर्यवान् वराङ्गरूपसंपन्नः परसैन्यप्रमर्दकानां तत्कुलं प्रतिरूपमस्य बोधिसत्त्वस्य गर्भप्रतिसंस्थानायेति। अपरेऽप्याहुः-तदप्यप्रतिरूपम्। किं कारणम्? तथा हि-पाण्डवकुलप्रसूतैः कुलवंशोऽतिव्याकुलीकृतो युधिष्ठिरो धर्मस्य पुत्र इति कथयति, भीमसेनो वायोः, अर्जुन इन्द्रस्य, नकुलसहदेवावश्विनोरिति। तेन तदपि कुलमप्रतिरूपमस्य बोधिसत्त्वस्य गर्भसंस्थानायेति॥



अपर आहुः- इयं मिथिला नगरी अतीव रमणीया मैथिलस्य राज्ञः सुमित्रस्य निवासभूमिः। स राजा प्रभूतहस्त्यश्वरथपदातिबलकायसमन्वितः प्रभूतहिरण्यसुवर्णमणिमुक्तावैडूर्यशङ्खशिलाप्रवालजातरूपरजतवित्तोपकरणः सर्वसामन्तराजाभीतबलपराक्रमो मित्रवान् धर्मवत्सलः। तत्कुलं प्रतिरूपमस्य बोधिसत्त्वस्य गर्भप्रतिसंस्थानायेति। अन्य ऊचुः-तदप्यप्रतिरूपम्। अस्त्यसौ राजा सुमित्र एवंगुणयुक्तः, किं त्वतिवृद्धो न समर्थः प्रजामुत्पादयितुमतिबहुपुत्रश्च। तस्मात्तदपि कुलमप्रतिरूपमस्य बोधिसत्त्वस्य गर्भप्रतिसंस्थानायेति॥



एवं भिक्षवस्ते बोधिसत्त्वा देवपुत्राश्च सर्वस्मिन् जम्बुद्वीपे षोडशजानपदेषु यानि कानिचिदुच्चोच्चानि राजकुलानि, तानि सर्वाणि व्यवलोकयन्तः(तानि) सर्वाणि सदोषाण्यद्राक्षुः। तेषां चिन्तामनस्कारप्रयुक्तानां ज्ञानकेतुध्वजो नाम देवपुत्रोऽवैवर्तिको बोधाय कृतनिश्चयोऽस्मिन्महायाने। स तां महतीं बोधिसत्त्वदेवपर्षदमेतदवोचत्-एतन्मार्षा एतमेव बोधिसत्त्वमुपसंक्रम्य परिप्रक्ष्यामः- कीदृग्गुणसंपन्ने कुले चरमभविको बोधिसत्त्वः प्रत्याजायत इति। साध्विति ते सर्वे कृताञ्जलिपुटा बोधिसत्त्वमुपसंक्रम्य पर्यप्राक्षुः-कीदृग्गुणसंपन्ने सत्पुरुषकुलरत्ने चरमभविको बोधिसत्त्वः प्रत्याजायत इति॥



ततो बोधिसत्त्वस्तं महान्तं बोधिसत्त्वगणं देवगणं च व्यवलोक्य एतदवोचत्-चतुष्षष्ट्याकारैर्मार्षाः संपन्नकुलं भवति यत्र चरमभविको बोधिसत्त्वः प्रत्याजायते। कतमैश्चतुष्षष्ट्याकारैः ? तद्यथा। अभिज्ञातं च तत्कुलं भवति। अक्षुद्रानुपघाति च तत्कुलं भवति। जातिसंपन्नं च तत्कुलं भवति। गोत्रसंपन्नं च तत्कुलं भवति। पूर्वपुरुषयुगसंपन्नं च तत्कुलं भवति। अभिजातपुरुषयुगसंपन्नं च तत्कुलं भवति। अभिलक्षितपुरुषयुगसंपन्नं च तत्कुलं भवति। महेशाख्यपुरुषयुगसंपन्नं च तत्कुलं भवति। बहुस्त्रीकं च तत्कुलं भवति। बहुपुरुषं च तत्कुलं भवति। अभीतं च तत्कुलं भवति। अदीनालीनं च तत्कुलं भवति। अलुब्धं च तत्कुलं भवति। शीलवच्च तत्कुलं भवति। प्रज्ञावच्च तत्कुलं भवति। अमात्यावेक्षितं च तत्कुलं भवति भोगान् परिभुनक्ति। अवन्ध्यशिल्पनिवेशनं च तत्कुलं भवति भोगान् परिभुनक्ति। दृढमित्रं च तत्कुलं भवति। तिर्यग्योनिगतप्राणानुपरोधकरं च तत्कुलं भवति। कृतज्ञं च कृतवेदितं च तत्कुलं भवति। अच्छन्दगामिनं च तत्कुलं भवति। अदोषगामिनं च तत्कुलं भवति। अमोहगामिनं च तत्कुलं भवति। अभयगामिनं च तत्कुलं भवति। अनवद्यभीरु च तत्कुलं भवति। अमोहविहारि च तत्कुलं भवति। स्थूलभिक्षं च तत्कुलं भवति। क्रियाधिमुक्तं च तत्कुलं भवति। त्यागाधिमुक्तं च तत्कुलं भवति। दानाधिमुक्तं च तत्कुलं भवति। परुषकारमति च तत्कुलं भवति। दृढविक्रमं च तत्कुलं भवति। बलविक्रमं च तत्कुलं भवति। श्रेष्ठविक्रमं च तत्कुलं भवति। ऋषिपूजकं च तत्कुलं भवति। देवतापूजकं च तत्कुलं भवति। चैत्यपूजकं च तत्कुलं भवति। पूर्वप्रेतपूजकं च तत्कुलं भवति। अप्रतिबद्धवैरं च तत्कुलं भवति। दशदिग्विघुष्टशब्दं च तत्कुलं भवति। महापरिवारं च तत्कुलं भवति। अभेद्यपरिवारं च तत्कुलं भवति। अनुत्तरपरिवारं च तत्कुलं भवति। कुलज्येष्ठं च तत्कुलं भवति। कुलश्रेष्ठं च तत्कुलं भवति। कुलवशिताप्राप्तं च तत्कुलं भवति। महेशाख्यं च तत्कुलं भवति। मातृज्ञं च तत्कुलं भवति। पितृज्ञं च तत्कुलं भवति। श्रामण्यं च तत्कुलं भवति। ब्राह्मण्यं च तत्कुलं भवति। प्रभूतधनधान्यकोषकोष्ठागारं च तत्कुलं भवति। प्रभूतहिरण्यसुवर्णमणिमुक्ताजातरूपरजतवित्तोपकरणं च तत्कुलं भवति। प्रभूतहस्त्यश्वोष्ट्रगवेडकं च तत्कुलं भवति। प्रभूतदासीदासकर्मकरपौरुषेयं च तत्कुलं भवति। दुष्प्रधर्षं च तत्कुलं भवति। सर्वार्थसिद्धं च तत्कुलं भवति। चक्रवर्तिकुलं च तत्कुलं भवति। पूर्वकुशलमूलसहायोपचितं च तत्कुलं भवति। बोधिसत्त्वकुलकुलोदितं च तत्कुलं भवति। अनवद्यं च तत्कुलं भवति सर्वजातिवाददोषैः सदेवके लोके समारके सब्रह्मके सश्रमणब्राह्मणिकायां प्रजायाम्। एभिर्मार्षाश्चतुष्षष्ट्याकारैः समन्वागतं च तत्कुलं भवति यस्मिंश्चरमः भविको बोधिसत्त्व उत्पद्यते॥



द्वात्रिंशता मार्षा गुणाकारैः समन्वागता सा स्त्री भवति यस्याः स्त्रियाश्चरमभविको बोधिसत्त्वः कुक्षाववक्रामति। कतमैर्द्वात्रिंशता? यदुत अभिज्ञातायां स्त्रियां कुक्षौ चरमभविको बोधिसत्त्वोऽवक्रामति। अभिलक्षिताया अच्छिद्रोपचाराया जातिसंपन्नायाः कुलसंपन्नाया रूपसंपन्नाया नामसंपन्नाया आरोहपरिणाहसंपन्नाया अप्रसूतायाः शीलसंपन्नायाः त्यागसंपन्नायाः स्मितमुखायाः प्रदक्षिणग्राहिण्या व्यक्ताया विनीताया विशारदाया बहुश्रुतायाः पण्डिताया अशठाया अमायाविन्या अक्रोधनाया अपगतेर्ष्याया अमत्सराया अचञ्चलाया अचपलाया अमुखरायाः क्षान्तिसौरभ्यसंपन्नाया ह्र्यपत्राप्यसंपन्नाया मन्दरागद्वेषमोहाया अपगतमातृग्रामदोषायाः पतिव्रतायाः सर्वाकारगुणसंपन्नायाः स्त्रियाः कुक्षौ चरमभविको बोधिसत्त्वोऽवक्रामति। एभिर्मार्षा द्वात्रिंशताकारैः समन्वागता सा स्त्री यस्याः स्त्रियाः कुक्षौ चरमभविको बोधिसत्त्वोऽवक्रामति॥



न खलु पुनर्मार्षाः कृष्णपक्षे बोधिसत्त्वो मातुः कुक्षाववक्रामति, अपि तु शुक्लपक्षे। एवं पञ्चदश्यां पूर्णायां पूर्णिमायां पुष्यनक्षत्रयोगे पोषधपरिगृहीताया मातुः कुक्षौ चरमभविको बोधिसत्त्वोऽवक्रामति॥



अथ खलु ते बोधिसत्त्वास्ते च देवपुत्रा बोधिसत्त्वस्यान्तिकादिमामेवरूपां कुलपरिशुद्धिं मातृपरिशुद्धिं च श्रुत्वा चिन्तामनस्कारा अभूवन्। कतमं कुलं एवंगुणसमन्वागतं भवेद्यावद्विधमनेन सत्पुरुषेण निर्दिष्टम्? तेषां चिन्तामनस्कारप्रयुक्तानामेतदभूत्-इदं खल्वपि शाक्यकुलं ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च रमणीयं चाकीर्णबहुजनमनुष्यं च। राजा शुद्धोदनो मातृशुद्धः पितृशुद्धः पत्नीशुद्धोऽपरिकृष्टसंपन्नायाः स्वाकारसुविज्ञापकः पुण्यतेजस्तेजितो महासंमतकुले प्रसूतश्चक्रवर्तिवंशकुलकुलोदितोऽपरिमितधननिधिरत्नसमन्वागतः कर्मदृक्च विगतपापदृष्टिकश्च। सर्वशाक्यविषये चैकराजा पूजितो मानितः श्रेष्ठिगृहपत्यमात्यपारिषद्यानां प्रासादिको दर्शनीयो नातिवृद्धो नातितरुणोऽभिरूपः सर्वगुणोपेतः शिल्पज्ञः कालज्ञ आत्मज्ञो धर्मज्ञस्तत्त्वज्ञो लोकज्ञो लक्षणज्ञो धर्मराजो धर्मेणानुशास्ता अवरोपितकुशलमूलानां च सत्त्वानां कपिलवस्तुमहानिलयः। येऽपि तत्रोपपन्नास्तेऽपि तत्स्वभावा एव। राज्ञश्च शुद्धोदनस्य माया नाम देवी सुप्रबुद्धस्य शाक्याधिपतेर्दुहिता नवतरुणी रूपयौवनसंपन्ना अप्रसूता अपगतपुत्रदुहितृका सुरूपा सलेख्यविचित्रेव दर्शनीया देवकन्येव सर्वालंकारभूषिता अपगतमातृग्रामदोषा सत्यवादिन्यकर्कशा अपरुषा अचपलानवद्या कोकिलस्वरा अप्रलापिनी मधुरप्रियवादिनी व्यपगताखिलक्रोधमदमानदर्पप्रतिघा अनीर्षुका कालवादिनी त्यागसंपन्ना शीलवती पतिसंतुष्टा पतिव्रता परपुरुषचिन्तामनस्कारापगता समसंहतशिरःकर्णनासा भ्रमवरसदृशकेशी सुललाटी सुभ्रूर्व्यपगतभ्रुकुटिका स्मितमुखी पूर्वाभिलापिनी श्लक्ष्णमधुरवचना प्रदक्षिणग्राहिणी ऋज्वी अकुटिला अशठा अमायाविनी ह्र्यपत्राप्यसंपन्ना अचपला अचञ्चला अमुखरा अविकीर्णवचना मन्दरागद्वेषमोहा क्षान्तिसौरभ्यसंपन्ना करचरणनयनस्वारक्षितबुद्धिः मृदुतरुणहस्तपादा काचिलिन्दिकसुखसंस्पर्शा नवनलिनेन्दीवरपत्रसुविशुद्धनयना रक्ततुङ्गनासा सुप्रतिष्ठिताङ्गी सेन्द्रायुधमिव यष्टिः सुविनीता सुविभक्ताङ्गप्रत्यङ्गा अनिन्दिताङ्गी बिम्बोष्ठी चारुदशना अनुपूर्वग्रीवा स्वलंकृता सुमना वार्षिकी सुविशुद्धदर्शना सुविनीतांसा अनुपूर्वसुजातबाहुश्चापोदरी अनुपहतपार्श्वा गम्भीरनाभिमण्डला वृत्तसुविस्तीर्णश्लक्ष्णकठिनकटिर्वज्रसंहननकल्पसदृशमात्रा गजभुजसमसमाहितसदृशोरू ऐणेयमृगसदृशजङ्घा लाक्षारससदृशपाणिपादा जगति नयनाभिरम्या अप्रतिहतचक्षुरिन्द्रिया मनापप्रियदर्शना स्त्रीरत्न‍रूपप्रतिविशिष्टा मायानिर्मितमिव बिम्बं मायानामसंकेता कलाविचक्षणा नन्दन इवाप्सरः-प्रकाशा शुद्धोदनस्य महाराजस्यान्तःपुरमध्यगता। सा प्रतिरूपा बोधिसत्त्वस्य जननी। या चेयं कुलपरिशुद्धिर्बोधिसत्त्वेनोदाहृता, सा शाक्यकुल एव संदृश्यते॥ तत्रेदमुच्यते—



प्रासादि धर्मोच्चयि शुद्धसत्त्वः

सुधर्मसिंहासनि संनिषण्णः।

सभागदेवैः परिवारितो ऋषिः

संबोधिसत्त्वेभि महायशोभिः॥१॥



तत्रोपविष्टान अभूषि चिन्ता

कतमत्कुलं शुद्धसुसंप्रजानम्।

यद्बोधिसत्त्वे प्रतिरूपजन्मे

माता पिता कुत्र च शुद्धभावाः॥२॥



व्यवलोकयन्तः खलु जम्बुसाह्वयं

यः क्षत्रियो राजकुलो महात्मा।

सर्वान् सदोषाननुचिन्तयन्तः

शाक्यं कुलं चादृशु वीतदोषम्॥३॥



शुद्धोदनो राजकुले कुलीनो

नरेन्द्रवंशे सुविशुद्धगात्रः।

ऋद्धं च स्फीतं च निराकुलं च

सगौरवं सज्जनधार्मिकं च॥४॥



अन्येऽपि सत्त्वाः कपिलाह्वये पुरे

सर्वे सुशुद्धाशय धर्मयुक्ताः।

उद्यानआरामविहारमण्डिता

कपिलाह्वये शोभति जन्मभूमिः॥५॥



सर्वे महानग्न बलैरुपेता

विस्तीर्णहस्ती नवरत्नवन्ति।

इष्वस्त्रशिक्षासु च पारमिं गता

न चापरं हिंसिषु जीवितार्थम्॥६॥



शुद्धोदनस्य प्रमदा प्रधाना

नारीसहस्रेषु हि साग्रप्राप्ता।

मनोरमा मायकृतेव बिम्बं

नामेन सा उच्यति मायादेवी॥७॥



सुरूपरूया यथ देवकन्या

सुविभक्तगात्रा शुभनिर्मलाङ्गी।

न सोऽस्ति देवो न च मानुषो वा

यो माय दृष्ट्वाथ लभेत तृप्तिम्॥८॥



न रागरक्ता न च दोषदुष्टा

श्लक्ष्णा मृदू सा ऋजुस्निग्धवाक्या।

अकर्कशा चापरुषा च सौम्या

स्मितीमुखा सा भ्रुकुटीप्रहीणा॥९॥



ह्रीमा व्यपत्रापिणी धर्मचारिणी

निर्माण अस्तब्ध अचञ्चला च।

अनीर्षुका चाप्यशठा अमाया

त्यागानुरक्ता सहमैत्रचित्ता॥१०॥



कर्मेक्षिणी मिथ्यप्रयोगहीना

सत्ये स्थिता कायमनःसुसंवृता।

स्त्रीदोषजालं भुवि यत्प्रभूतं

सर्वं ततोऽस्याः खलु नैव विद्यते॥११॥



न विद्यते कन्य मनुष्यलोके

गन्धर्वलोकेऽथ च देवलोके।

मायाय देवीय समा कुतोऽन्तरी

प्रतिरूप सा वै जननी महर्षेः॥१२॥



जातीशतां पञ्चमनूनकारि

सा बोधिसत्त्वस्य बभूव माता।

पिता च शुद्धोदनु तत्र तत्र

प्रतिरूप तस्माज्जननी गुणान्विता॥१३॥



व्रतस्थ सा तिष्ठति तापसीव

व्रतानुचारी सहधर्मचारिणी।

राज्ञाभ्यनुज्ञात वरप्रलब्धा

द्वात्रिंश मासामव काम सेवहि॥१४॥



यत्र प्रदेशे स्थिहते निषीदते

शय्यागता च क्रमणं च तस्याः।

ओभासितो भोति सदेवभागो

आभाय तस्याः शुभकर्मनिष्ठया॥१५॥



न सोऽस्ति देवासुर मानुषो वा

यो रागचित्तेन समर्थ प्रेक्षितुम्।

पश्यन्ति मातां दुहितां च सर्वे

ईर्यापथेष्टार्यगुणोपपेता॥१६॥



मायाय देव्याः शुभकर्महेतुना

विवर्धते राजकुलं विशालम्।

प्रदेशराज्ञामपि चाप्रचारो

विवर्धते कीर्ति यशश्च पार्थिवे॥१७॥



यथा च माया प्रतिरूपभाजनं

यथार्यसत्त्वः परमं विराजते।

पश्येत एवावधिकं गुणान्विता

दया सुता सा जननी च माया॥१८॥



जम्बुध्वजेऽन्या न हि सास्ति नारी

यस्या समर्था धरितुं नरोत्तमः।

अन्यत्र देव्यातिगुणान्विताया

दशनागसाहस्रबलं हि यस्याः॥१९॥



एवं हि ते देवसुता महात्मा

संबोधिसत्त्वाश्च विशालप्रज्ञा।

वर्णन्ति मायां जननीं गुणान्वितां

प्रतिरूप सा शाक्यकुलनन्दनस्य॥२०॥इति॥



इति श्रीललितविस्तरे कुलपरिशुद्धिपरिवर्तो नाम तृतीयोऽध्यायः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project