Digital Sanskrit Buddhist Canon

२ समुत्साहपरिवर्तो द्वितीयः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 2 samutsāhaparivarto dvitīyaḥ
२ समुत्साहपरिवर्तो द्वितीयः।



तत्र भिक्षवः कतमः सुललितविस्तरो नाम धर्मपर्यायः सूत्रान्तो महावैपुल्यः ? इह भिक्षवो बोधिसत्त्वस्य तुषितवरभवनावस्थितस्य पूज्यपूजितस्याभिषेकप्राप्तस्य देवशतसहस्रस्तुतस्तौमितवर्णितप्रशंसितस्य लब्धाभिषेकस्य प्रणिधानसमुद्गतस्य सर्वबुद्धधर्मसमुदागतबुद्धेः सुविपुलपरिशुद्धज्ञाननयनस्य स्मृतिमतिगतिधृत्युत्तप्तविपुलबुद्धेः दानशीलक्षान्तिवीर्यध्यानप्रज्ञामहोपायकौशल्यपरमपारमिताप्राप्तस्य महामैत्रीकरुणामुदितोपेक्षाब्रह्मपथकोविदस्य महाभिज्ञासंगणावरणज्ञानसंदर्शनाभिमुखीभूतस्य स्मृत्युपस्थानसम्यक्प्रहाणऋद्धिपादेन्द्रियबलबोध्यङ्गमार्गसर्वबोधिपक्षधर्मसुपरिपूर्णकोटिप्राप्तस्य अपरिमितपुण्यसंभारलक्षणानुव्यञ्जनसमलंकृतकायस्य दीर्घानुपरिवर्तिनो यथावादितथाकार्यवितथवाक्कर्मसमुदाहारकस्य ऋज्वकुटिलावङ्काप्रतिहतमानसस्य सर्वमानमददर्पभयविषादापगतस्य सर्वसत्त्वसमचित्तस्य अपरिमितबुद्धकोटिनयुतशतसहस्रपर्युपासितस्य बहुबोधिसत्त्वकोटिनयुतशतसहस्रावलोकितावलोकितवदनस्य शक्रब्रह्ममहेश्वरलोकपालदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगराक्षसगणैरभिनन्दितयशसः सर्वपदप्रभेदनिर्देशासङ्गप्रतिसंविदवतारज्ञानकुशलस्य सर्वबुद्धभाषितधारणस्मृतिभाजनाविक्षेपानन्तापर्यन्तधारणीप्रतिलब्धस्य महाधर्मनौस्मृत्युपस्थानसम्यक्प्रहाणऋद्विपादेन्द्रियबलबोध्यङ्गमार्गपारमितोपायकौशल्यधर्मरत्नपुण्यसमुदानीतमहासार्थवाहस्य चतुरोघपारगामिनाभिप्रायस्य निहतमानप्रत्यर्थिकस्य सर्वपरप्रवादिसुनिगृहीतस्य संग्रामशीर्षसुप्रतिष्ठितस्य क्लेशरिपुगणनिसूदनस्य ज्ञानवरवज्रदृढप्रहरणस्य बोधिचित्तमूलमहाकरुणादण्डाध्याशयोद्गतस्य गम्भीरवीर्यसलिलाभिषिक्तस्य उपायकौशलकर्णिकस्य बोध्यङ्गध्यानकेशरस्य समाधिकिञ्जल्कस्य गुणगणविमलसरसिसुजातस्य विगतमदमानपरिवाहशशिविमलविस्तीर्णपत्रस्य शीलश्रुताप्रसाददशदिगप्रतिहतगन्धिनो लोके ज्ञानवृद्धस्याष्टाभिर्लोकधर्मैरनुपलिप्तस्य महापुरुषपद्मस्य पुण्यज्ञानसंभारविसृतसुरभिगन्धिनः प्रज्ञाज्ञानदिनकरकिरणैर्विकसितसुविशुद्धशतपत्रपद्मतपनस्य चतुरृद्धिपादपरमजापजपितस्य चतुरार्यसत्यसुतीक्ष्णनखदंष्ट्रस्य चतुर्ब्रह्मविहारनिश्रितदर्शनस्य चतुःसंग्रहवस्तुसुसंगृहीतशिरसः द्वादशाङ्गप्रतीत्यसमुत्पादानुबोधानुपूर्वसमुद्गतकायस्य सप्तत्रिंशद्बोधिपक्षधर्मसंप्रतिपूर्णसुविजातिनाविद्याज्ञानकेशरिणस्त्रिविमोक्षमुखावजृम्भितस्य शमथविदर्शनासुविशुद्धनयनस्य ध्यानविमोक्षसमाधिसमापत्तिगिरिदरीगुहानिवासितस्य चतुरीर्यापथविनयनौपवनसुवर्धिततरोर्दशबलवैशारद्याभ्यासीभावितबलस्य विगतभवविभवभयलोमहर्षस्यासंकुचितपराक्रमस्य तीर्थ्यशशमृगगणसंघशमथनस्य नैरात्म्यघोषोदाहारमहासिंहनादनादिनः पुरुषसिंहस्य विमुक्तिध्यानमण्डलप्रज्ञप्रभरश्मितीर्थकरखद्योतगणनिःप्रभंकरस्य अविद्यातमोन्धकारतमःपटलवितिमिरकरणस्योत्तप्तबलवीर्यस्य देवमनुष्येषु पुण्यतेजस्तेजितस्य महापुरुषदिनकरस्य कृष्णपक्षापगतस्य शुक्लपक्षप्रतिपूर्णस्य मनापप्रियदर्शनस्य अप्रतिहतचक्षुरिन्द्रियस्य देवशतसहस्रज्योतिर्गणप्रतिमण्डितस्य ध्यानविमोक्षज्ञानमण्डलस्य बोध्यङ्गसुखरश्मिशशिकिरणस्य बुद्धविबुद्धमनुजकुमुदविबोधकस्य महापुरुषचन्द्रसमचतुष्पर्षद्द्वीपानुपरीतस्य सप्तबोध्यङ्गरत्नसमन्वागतस्य सर्वसत्त्वसमचित्तप्रयोगस्याप्रतिहतबुद्धेः दशकुशलकर्मपथव्रततपसः सुसमृद्धप्रतिपूर्णविशेषगमनाभिप्रायस्य अप्रतिहतधर्मराजावरप्रवरधर्मरत्नचक्रप्रवर्तकस्य चक्रवर्तिवंशकुलकुलोदितस्य गम्भीरदुरवगाहप्रतीत्यसमुत्पादसर्वधर्मरत्नप्रतिपूर्णस्य अतृप्तश्रुतविपुलविस्तीर्णारम्भज्ञानशीलवेलानतिक्रमणस्य महापद्मगर्भेक्षणस्य सागरवरधरविपुलबुद्धेः पृथिव्यप्तेजोवायुसमचित्तस्य मेरुकल्पदृढबलाप्रकम्पमानस्यानुनयप्रतिघापगतस्य गगनतलविमलविपुलासह्यविस्तीर्णबुद्धेः अध्याशयसुपरिशुद्धस्य सुदत्तदानस्य सुकृतपूर्वयोगस्य सुकृताधिकारस्य दत्तसत्यंकारस्य पर्येषितसर्वकुशलमूलस्य वासितवासनस्य निर्याणमिव सर्वकुशलमूलस्य सप्तसंख्येयेषु कल्पेषु समुदानीतसर्वकुशलमूलस्यन्दस्य दत्तसप्तविधदानस्य पञ्चविधपुण्यक्रियावस्त्ववसेवितवतस्त्रिविधं कायिकेन चतुर्विधं वाचा त्रिविधं मनसा सुचरितवतो दशकुलकर्मपथादानसेवितवतः चत्वारिंशदङ्गसमन्वागतसम्यक्प्रयोगमासेवितवतः चत्वारिंशदङ्गसमन्वागतसम्यक्प्रणिधानप्रणिहितवतः चत्वारिंशदङ्गसमन्वागतसम्यगध्याशयप्रतिपन्नवतः चत्वारिंशदङ्गसमन्वागतसम्यग्विमोक्षपरिपूरितवतः चत्वारिंशदङ्गसमन्वागतसम्यगधिमुक्तिमृजीकृतवतः चत्वारिंशत्सु बुद्धकोटीनियुतशतसहस्रेष्वनुप्रव्रजितवतः पञ्चपञ्चाशत्सु बुद्धकोटीनियुतशतसहस्रेषु दानानि दत्तवतः अर्धचतुर्थेषु प्रत्येकबुद्धकोटीशतेषु कृताधिकारवतः अप्रमेयासंख्येयान् सत्त्वान् स्वर्गमोक्षमार्गप्रतिपादितवतः अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामस्यैकजातिप्रतिबद्धस्य इतश्च्युत्वा तुषितवरभवने स्थितस्य श्वेतकेतुनाम्नो देवपुत्रोत्तमस्य सर्वदेवसंघैः संपूज्यमानस्य रश्म्यायमपरमितश्च्युतो मर्त्यस्य लोकोत्पन्नो नचिरादनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यतीति॥



तस्मिन् महाविमाने सुखोपविष्टस्य द्वात्रिंशद्भूमिसहस्रप्रतिसंस्थिते वितर्दिनिर्यूहतोरणगवाक्षकूटागारप्रासादतलसमलंकृते उच्छ्रितछत्रध्वजपटाकरत्नकिङ्किणीजालवितानवितते मान्दारवमहामान्दारवपुष्पसंस्तरणसंस्तृते अप्सरसःकोटीनियुतशतसहस्रसंगीतिसंप्रचलिते अतिमुक्तकचम्पकपाटलकोविदारमुचिलिन्दमहामुचिलिन्दाशोकन्यग्रोधतिन्दुकासनकर्णिकारकेशरसालरत्नवृक्षोपशोभिते हेमजालसंछन्ने महता पूर्णकुम्भोपशोभिते समतलव्यूहोपशोभिते ज्योतिर्मालिकासुमनोवाते देवकोटीनियुतशतसहस्राभिमुखनयनावलोकितालोके महाविपुलधर्मसंगीतिसर्वकामरतिवेगक्लेशच्छेदने व्यपगताखिलक्रोधप्रतिघमानमददर्पापनयने प्रीतिप्रसादप्रामोद्योत्तप्तविपुलस्मृतिसंजनने सुखोपविष्टस्य तस्मिन् महाधर्मसांकथ्ये प्रवृत्ते तेभ्यश्चतुरशीतिभ्यस्तूर्यसंगीतिसहस्रनिर्नादितेभ्यो बोधिसत्त्वस्य पूर्वशुभकर्मोपचयेनेमाः संचोदनागाथा निश्चरन्ति स्म—



स्मर विपुलपुण्यनिचय स्मृतिमतिगतिमनन्तप्रज्ञाप्रभाकरिन्।

अतुलबलविपुलविक्रम व्याकरणं दीपंकरस्यापि॥१॥



स्मर विपुलनिर्मलमनस् त्रिमलमलप्रहीणशान्तमददोषम्।

शुभविमलशुद्धचित्ता दामचरी यादृशा ति पुरे॥२॥



स्मर कुलकुलीना शमथं शीलव्रतं क्षमा दमं चैव।

वीर्यबलध्यानप्रज्ञा निषेविता कल्प(कोटी)नियुतानि॥३॥



स्मर स्मर अनन्तकीर्ते संपूजिता ये ति बुद्धनियुतानि।

सर्वान् करुणायमानः कालोऽयं मा उपेक्षस्व॥४॥



च्यव च्यव हि च्युतिविधिज्ञा जरमरणक्लेशसूदना विरजा।

समुदीक्षन्ते बहवो देवासुरनागयक्षगन्धर्वा॥५॥



कल्पसहस्र रमित्वा तृप्तिर्नास्त्यम्भसीव समुद्रे।

साधु भव प्रज्ञातृप्त तर्पय जनतां चिरतृषार्ताम्॥६॥



किं चाप्यनिन्दितयश(स्त्वं) धर्मरतिरतो न चासि कामरतः।

अथ च पुनरमलनयना अनुकम्पा सदेवकं लोकम्॥७॥



किं चापि देवनयुताः श्रुत्वा धर्मं न ते वितृप्यन्ते।

अथ च पुन रक्षणगतानपायसंस्थानपेक्षस्व॥८॥



किं चापि विमलचक्षो पश्यसि बुद्धान् दशादिशि लोके।

धर्मं शृणोषि च ततस्तं धर्मवरं विभज लोके॥९॥



किं चापि तुषितभवनं तव पुण्यश्रियाभिशोभते श्रीमान्।

अथ च पुन करुणमानस प्रवर्ष जम्बुध्वजे वर्षम्॥१०॥



समतीत्य कामधातुं देवा ये रूपधातुकानेके।

सर्वे त्यभिनन्दन्ते स्पृशेय सिद्धिव्रतो बोधिम्॥११॥



निहता ति मारकर्मा जितास्त्वयान्ये कुतीर्थिका नाथा।

केन सकलगत ति बोधी कालोऽयं मा उपेक्षस्व॥१२॥



क्लेशाग्निना प्रदीप्ते लोके त्वं वीर मेघवद् व्याप्य।

अभिवर्षामृतवर्षं शमय क्लेशान्नरमरूणाम्॥१३॥



त्वं वैद्य धातुकुशल चिरातुरान् सत्यवैद्य सत्यवान्।

त्रिविमोक्षागदयोगैर्निर्वाणसुखे स्थपय शीघ्रम्॥१४॥



अश्रुत्व सिंहनादं क्रोष्टुकनादं नदन्त्यनुत्रष्टाः।

नद बुद्धसिंहनादं त्रासय परतीर्थिकशृगालान्॥१५॥



प्रज्ञाप्रदीपहस्तो बलवीर्यबलोदितो धरणिमण्डे।

करतलवरेण धरणीं पराहनित्वा जिनहि मारम्॥१६॥



समुदीक्षन्ते पालाश्चतुरो ये तुभ्य दास्यते पात्रम्।

शक्राश्च ब्रह्म नयुता ये जातं त्वां ग्रहीष्यन्ति॥१७॥



व्यवलोकयाभियशा कुलरत्नकुलोदिता कुलकुलीना।

यत्र स्थित्वा सुमते दर्शेष्यसि बोधिसत्त्वचरिम्॥१८॥



यत्रैव भाजनेऽस्मिन् मणिरत्नं तिष्ठते भवति श्रीमान्।

मणिरत्नं विमलबुद्धे प्रवर्ष जम्बुध्वजे वर्षम्॥१९॥



एवं बहुप्रकारा संगीतिरवानुनिश्चरा गाथा।

चोदेन्ति करुणामनसं अयं स कालो मा उपेक्षस्व॥२०॥ इति॥



इति श्रीललितविस्तरे समुत्साहपरिवर्तो नाम द्वितीयोऽध्यायः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project