Digital Sanskrit Buddhist Canon

मेघ सूत्रम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Megha sūtram

मेघ सूत्रम्

नमोऽचिन्त्यसागरेभ्यः सर्वसम्यक्संबुद्धेभ्यः॥

एवं मया श्रुतमेकस्मिन् समये भगवान् नन्दोपनन्दनागराजभवने विहरति स्म। श्रीमणिरत्नगर्भमहामेघमण्डलकूटागारे महता भिक्षुसंघेन सार्धं महता च बोधिसत्त्वसंघेन सार्धं महता च राजगणेन सार्धं तद्यथा नन्देन च नागराजेन उपनन्देन च नागराजेन सागरेण च अनवतप्तेन च मनस्विना च वरुणेन च तक्षकेन च घृतराष्ट्रेण च वासुकिना च मुचिलिन्देन च नागराजेन।

एवम्प्रमुखैः सर्वनागराजपूर्वङ्गमैश्चतुरशीत्या नागकोटीनियुतशतसहस्रैः सन्निपतितैः सन्निषणैः। तेन खलु पुनः समयेन सर्वे ते नागराजाः सपरिवारा उत्थायासनेभ्य एकांसमुत्तरासङ्गानि कृत्वा दक्षिणानि जानुमण्डलानि पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्याप्रमेयासङ्खेयैः परमविविधरुचिरैः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकापट्टदामवाद्यतूर्यताडावचरसङ्गीतिरत्नकुसुमरत्नदाममुक्ताहारनागपुष्पमुक्ताजालैर्ग्गर्ञ्जन्तो गुडुगुडायमाना महावातं प्रवायन्तो महानादं नदन्तो रमणीयांश्च धर्म्मनादान्नदन्तः महतागुरुगोरवचित्रीकारेण भगवन्तमभिच्छादयन्तः प्रदक्षिणीकुर्व्वन्ति स्म।



प्रदक्षिणीकृत्यैकान्ते तस्थुः। एकान्तस्थिताः प्रणिधानानि कुर्व्वन्ति स्म। सर्वलोकधातुसमुद्रपरमाणुरजःसमैः कायसमुद्रैः सर्व्वबुद्धबोधिसत्वपर्षन्मण्डलसमुद्रेषु। सर्व्वलोकघातुप्रसरसमुद्रेषु। सर्व्वपृथिव्यप्तेजोवायुपरमाणुरजःसर्व्वरूपावभाससमपरमाणुरजःसु एकैकस्मिन्परमाणुरजसि। सर्व्वगणनासमुद्रसमतिक्रान्तैरसङ्खेयाप्रमेयाचिन्त्यातुल्यामाप्यानभिज्ञाप्यसमतिक्रान्तैः कायमेघसमुद्रैः एकैकस्मिन्कायेऽप्रमेयासङ्खेयान् समुद्रमेघानघिष्ठाय समन्तदिक्‌श्रोतोऽभिमुखादेकैकस्मात्परमाणुरजोभागात् समन्तदिक्कूलस्फरणैरसम्भिन्नैः सर्वपूजामेघसमुद्रैः सर्वबुद्धबोघिसत्वसमुद्रान् सत्कुर्यामो गुरुकुर्यामो मानयेमः पूजयेमः। यदुताप्रमेयासङ्खेयाचिन्त्यातुल्यामाप्यापरिनाणानभिज्ञाप्यैरसम्भिन्नैः समन्तभद्रचर्याप्रभावसमुद्रमेघैः सञ्छन्नं गगनतलमघिष्ठाय यथायथा बोधिसत्त्वात्मभावसमुद्रमेघैः। एवं सर्व्वरत्नवर्णरश्मिघनसर्व्वसूर्यचन्द्रात्मभावमण्डलसमुद्रमेघैः। सर्व्वरत्नहारकुसुमसमुद्रमेघैः। सर्व्वरत्नावभासगर्भकूटागारसमुद्रमेघैः। सर्व्वचूर्णवृक्षकोशसमुद्रमेघैः। सर्व्वगन्धधूपसर्व्वरूपसन्दर्शनसमुद्रमेघैः। सर्व्वरुतनिगर्जितवाद्यसमुद्रमेघैः। सर्वगन्धवृक्षसमुद्रमेघैः। सञ्छन्नङ्गगनतलमघिष्ठाय। एवम्प्रमुखैरप्रमेयासंख्याचिन्त्यातुल्यामाप्यापरिमाणीयानभिज्ञाप्यैरसम्भिन्नैः सर्व्वपूजामेघसमुद्रैः। सर्व्वबुद्धबोधिसत्वान् सत्कुर्यामो गुरुकुर्यामो मानयेमः पूजयेमः॥ (and so on for half a dozen pages, enumerating the various ornaments, each compounded with समुद्रमेघैः constructed with the same four potentials).



एवंरूपं प्रणिधानं कृत्वा ते नागराजानः पुनरपि भगवन्तं त्रिः प्रदक्षिणीकृत्य पादाभिवन्दनाञ्च कृत्वा। भगवतानुज्ञाताः स्वेषु स्वेष्वासनेषु न्यषीदन्। तेन खलु पुनः समयेनानन्तपरिकरसागरमेघव्यूहतेजोमण्डलच्छत्राकारराजस्त्रिसाहस्रमहासाहस्रिको महानागाधिपतिः। उत्थायासनाद् एकांसं उत्तरासंगं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत्।



पृच्छेयमहं भगवन्तं तथागतमर्हन्तं सम्यक्सम्बुद्धं किञ्चिदेव प्रदेशप्रश्नं , सचेन्मे भगवानवकाशं कुर्यात् पृष्टः प्रश्नव्याकरणाय।



एवमुक्ते भगवाननन्तपरिकरसागरमेघव्यूहतेजोमण्डलछत्राकारराजं नागाधिपतिमेतदवोचत्। पृच्छ त्वं भुजङ्गाधिपते यद्यदेवाकाङ्घस्यहं ते तस्य तस्यैव प्रश्नव्याकरणेन चित्तमाराधयिष्ये।



एवमुक्तेऽनन्तपरिकर च्छत्राकारराजत्रिसाहस्रमहासहस्रिको महानागाधिपतिर्भगवन्तमेतदवोचत्।



कथं, भगवन्, सर्वनागानां सर्वनागदुःखानि प्रतिप्रश्रम्भेयुः प्रहर्षिताः सुखसमन्विताश्चेह जम्बुद्वीपकालानुकालं वर्षधारा उत्सृजेयुः। सर्वतृणगुल्मौषधिवनस्पतीन् विरोहयेयुः। सर्वशस्यान्युत्पादयेयुः। सर्वरसान् संजनयेयुः। येन जाम्बुद्वीपका मनुष्याः सुखसमर्प्पिता भवेयुः॥



एवमुक्ते भगवाननन्तपरिकर राजं त्रिसाह महानागाधिपतिमेतदवोचत्। साधु साधु भुजङ्गाधिपते यत्त्वं सर्व्वसत्वानां हितसुखाय प्रतिपन्नः तथागतमेतदर्थं परिप्रष्टव्यं मन्यसे।



तेन हि भुजङ्गाधिपते शृणु साधु च सुष्ठु च मनसिकुरु। भाषिष्येऽहं ते। एकधर्म्मेण भुजङ्गाधिपते समन्वागतानां सर्वनागानां सर्वदुःखानि प्रश्रंभेयुः। सुखसमर्प्पिताश्च भवेयुः।



कतमेनैकधर्म्मेण। यदुत मैत्र्या तत्र भुजङ्गाधिपते मैत्रीविहारिणो देवमनुष्याः। अग्रिना न दह्यन्ते। शस्त्रेण न क्षण्यन्ते। उदकेन नोह्यन्ते। विषेण न हन्यन्ते। परचक्रेण नाभिभूयन्ते। सुखं स्वप्यन्ति। सुखं च प्रतिबुध्यन्ते स्वपुण्यरक्षिताश्च भवन्ति। महापुण्यतेजस्तेजिताः। अनवमर्दनीयाश्च भवन्ति सदेवकेन लोकेन प्रासादिकाश्च भवन्ति। प्रियदर्शनाः सर्वत्राप्रतिहतगतयश्च भवन्ति सर्वदुःखप्रतिप्रश्रब्धाः सम्प्रहर्षिताश्च भवन्ति सर्व्वसुखसमर्प्पिताः॥



उत्तरे च मनुष्यधर्म्मप्रतिविध्यकायस्य भेदाद् ब्रह्मलोके मैत्रेण मनस्कर्म्मणोपपद्यन्ते भुजङ्गाधिपते। एते भुजङ्गाधिपते अनुशंसा मैत्रीविहारिणां देवमनुष्याणां।



तस्मात्तर्हि भुजङ्गाधिपते मैत्रेण कायकर्म्मणा मैत्रेण वाक्कर्म्मणा मैत्रेण मनस्कर्म्मणा विहर्तव्यं। पुनरपरं भुजगाधिपते सर्वसुखंददा नाम धारणी प्रवर्त्तयितव्या। सा सर्वनागानां सर्वनागदुःखानि प्रतिप्रश्रम्भ यति सर्वसुखानि च ददाति। येनेह जम्बुद्वीपे कालेन कालं वर्षधारा उत्सृजति। सर्व्वतृणगुल्मौषधिवनस्पतिशस्यानि च विरोहयति। तत्र भुजगाधिपते कतमा सा सर्वसुखन्ददा नाम धारणी तद्यथा। धरणि धारणि। उत्तारणि सम्प्रतिष्ठिता विजय वर्णसत्य प्रतिज्ञा साहाज्ञानवति उत्पादनि विनाशनि। अभिषेचणि। अभिव्याहारशुभावति। अजामतामहि। कुम्बालनिवाहा। हर क्लेशान्। धुनु पापं। शोधया मार्ग्गाणि। रीहका धर्म्मतासु पदानीति॥



पुनरपरं भुजगाधिपते। मेघकुलसम्भवाधिष्ठानव्यूहतेजीगर्भनिर्स्माणावभासनज्ञानकेत्वम्बुध - रात्रमण्डलश्रीकरणकाशु - वैरोचनैकबालाग्रकोटीनिर्जातवंशगोत्राणां तथागतानां नामघेयानि धारयितव्यानि। मनसिकर्त्तव्यानि। तानि सर्व्वनागानां सर्वनागकुलानां सर्वनागगोत्राणां सर्वनागसम्भवानां सर्वनागयोनीनां सर्वनागराजानां सर्वनागकुलोद्भवमेघविराजितकन्यानां सर्वनागपरिवाराणां सर्वनागदुःखानि प्रतिप्रश्रम्भयन्ति। सर्वसुखोपधानान्युपसंहरन्ति। तत्र भुजगाधिपते कतमानि तानि तथागतनामानि। यदुत नमो भगवते वैरोचनगर्भमहामेघाय तथागताय। नमो भगवते नागकुलोद्भवमेघविराजिताय॥



एभिर्भुजगाधिपते तथागतनामभिः प्रवर्त्तितैः सर्वनागानां सर्वदुःखानि प्रतिप्रश्रब्धानि सर्वदुःखसमर्प्पिताश्च कालेन कालमिह जम्बुद्वीपे वर्षधारा उत्सृजन्ति सर्वतृणगुल्मौशधीवनस्पतिशस्यानि च विरोहन्ति॥



अथ खल्वनन्तपरिकर..... नागाधिपतिर्भगवन्तमध्येषते स्म। भाषतु भगवांस्तादृशानि धारणीमन्त्रपदानि यैरिह जम्बुद्वीपे पश्चिमे काले पश्चिमे समयेऽनावृष्टावुदीरितैर्महावर्षधाराः प्रवर्षेयुः। दारुणकालसमये कान्तारकालसमयेऽधार्म्मिकजनपदकलिकलहकालसमय ईत्युपद्रवकालसमये रोगमरणकालसमये विषमनक्षत्रसंस्थानकालसमये। सर्वेत्युपद्रवपीडाप्रशमनं कुर्याद्बुद्धाधिष्ठानेनाधितिष्ठतु। भगवान् परमकारुणिकः। सर्वसत्वानुकम्पकः तथारूपाणि धारणीमन्त्रपदानि भाषतां यानि सर्वनागान् सञ्चोदयेयुः। सर्वदेवान् प्रहर्षयेयुः। सर्वमारान् विध्वंशयेयुः। सर्वसत्त्वानां सर्वघातनाः सत्वभयोपद्रवपीडाश्च निवारयेयुः शान्तिस्वस्त्ययनं च कुर्युः विषमनक्षत्रकृतं च प्रशमयेयुः। यञ्च वर्षान्तरायानि यानि भगवतोक्तानि सर्वाणि विष्कम्भयेयुः। सम्यग् वर्षधारा इह जम्बुद्वीपे उत्सृजेयुरिति। अहं भगवन्तं तथागतमध्येषयामि। एवमुक्ते भगवाननन्तपरिकर..... नागाधिपतिमेतद् अवोचत्। साधु साधु भुजगोधिपते यत्त्वं तथागतमध्येषसि सर्वसत्त्वानामर्थाय हिताय सुखाय। तेन हि भुजगाधिपते शृणु साधु च सुष्ठु च मनसि कुरु भाषिप्येऽहं ते। महाकरुणोद्भवमहामेघनिर्न्नादविजृम्भितसूरकेतुनाम धारणी सर्वबुद्घभाषिताधिष्ठितानुमोदिता सर्वसत्त्वानामर्थाय सुखाय। यानावृष्टौ वर्षयति। अतिवृष्टिं धारयति। मरणकान्तारं प्रशमयति। सर्वनागान् सञ्चोदयति। सर्वदेवान् प्रह्लादयति। सर्वमारान् विध्वंसयति सर्वसत्त्वान् सर्वसुखसमर्पितान् करोति। तद्यथा।



महाज्ञानावभासनि श्रीतेजोलक्ष्मीदृढविक्रमवज्रसंहनने परमविरजनिर्मलगुणकेतुसूर्यप्रभे विमलाङ्गयष्टि भर भर संभर



सर सर सिरे २ सुरु २ नागानां। जव २ जिवि २ जुवु २ महानागा आगच्छत........ जम्बुद्वीपे प्रवर्षध्वं



भो महानागा..... वर्षधारा उत्सृजतेह जम्बुद्वीपे सर्वदेवसत्याधिष्ठानेन.... स्वाहा। बह्मसत्याधिष्ठानेन प्रवर्षतेह जम्बुद्वीपे स्वाहा। शक्रसत्येन प्र ह ज ज स्वाहा। चतुर्महाराजसत्येन प्र......। अष्टाङ्गकसत्येन......। श्रोतापन्नसत्येन .......। सकृदागामिस.....। अनागामिस ......। अर्हत्सत्येन....। प्रत्येकबुद्ध.....।



नमः सर्वबुद्धेभ्यः सिध्यन्तु मन्त्रपदानि स्वाहा॥



शतसाहस्रिकान्महामेघान्महायानसूत्राद् वर्षागमनमण्डली नाम चतुःषष्टितमपरिवर्त्तः॥॥



उपचारो महावृष्टिमाकांक्षताभ्यवकाशे नीलवितानवितते। नीलपताकोच्छ्रिते शुचौ पृथवीप्रदेशे धर्म्मभाणकेन नीलासनोपविष्टेन। अष्टाङ्गोपवासिना सुस्नातगात्रशुचिवस्त्रप्रावृतेन। सुगन्धिगन्धोद्वर्त्तितेन त्रिशुल्कभोजिना अयं महामेघमण्डलः परिवर्त्तव्यः पूर्वाभिमुखेन रात्रिन्दिवमव्यवच्छिन्नं वाचयितव्यः। सर्वतथागतान् आयाच्य स्वच्छनीलोदकपरिपूर्णाश्चत्वारः पूर्णकुम्भाः स्थापयितव्याः



यथाशक्ति च बलिविधानं धूपपुष्पाणि च। तत्र धर्म्मभाणकस्य चतुर्दिशं गोमयेन रसेन शर आलिख्य पूर्वस्यां दिशि त्रिहस्तमात्रेण त्रिशीर्षको नाम नागपरिवारो गोमयेन नागराज आलिखितव्यः॥



दक्षिणस्यां दिशि पञ्चहस्तमात्रेण पञ्चशीर्षको नाम नागपरिवारो नागराज आलिखितव्यः। पश्चिमायां दिशि सप्तहस्तमात्रेण सप्तशीर्षको नाम नागपरिवारो नागराज आलिखितव्यः। उत्तरस्यां दिशि नवहस्तेमात्रेण नवशीर्षको न न न आ।



धर्म्मभाणकेन च कृतात्मरक्षेण मैत्रीविहारिणा सर्वसत्त्वेषूपस्थातव्यं करुणाचित्तेन सर्वबुद्धबोधिसत्त्वान् आयाच्य नागानां स्वकुशलमूलेन संविभक्तव्योऽयं विधिः। पश्चादनावृष्टिकालसमय इमं महामेघमण्डलिपरिवर्तं वाचयिष्यत्येकाहं वा द्व्यहं वा यावत् सप्तरात्रेऽवश्यं वर्षयिष्यति। अपि समुद्रो वेलामतिक्रमेन्न तु वृष्टिरिति शुभ-वचनं नान्यथा। किन्तु शीलगुणादिसंयुक्तेन पायसगुडक्षीरौदनादिना त्रिमधुरेण घृतमधुगुडेनाहारं कुर्वता वाचयितव्य इत्यवश्यं सिध्यति यथाह वादिराट् स्वयमिति। नमो भगवतेऽक्षोभ्याय तथागताय। नमोऽमितायुषे तथागताय। नमः शाक्यमुनये तथागताय॥०॥



एवं मया श्रुतमेकस्मिन् समये भगवान् महासागरे विहरति स्म मणिरत्नशिखरकूटागारे महता नागगणेन सार्द्धं परिपूर्णेन नागसहस्रेण। सर्वनागमहर्द्धिकैर्महता नागपरिवारेण। तद्यथा। नन्देन च।



एतैश्चान्यैश्च महानागराजसहस्रैः सर्वे च ते नागराजानो महत्या नागऋद्ध्या महता नागविकुर्वितेनाकाशे गुलुगुलेन च महावातवर्षं प्रमुञ्चन्तो भगवन्तः शुश्रूषाकरणाय धर्मश्रवणाय चागच्छन्ते स्म। तेन च खलु पुनः समयेन भगवान् महानागेभ्यः साधुकारमदात्। साधु २ नागा। भो महानागाः॥



महामेघविकुर्वितालङ्कारव्यूहाः सर्वरत्नशिखरहेमपटरुचिरदाममुक्तिकाहारप्रलम्बनमहासमुद्रमेघैः.....( here follow some twenty long compounds describing ornaments, etc., each ending with मेघैः )......... गगनमभिच्छादयन्तु। सर्वेषां नागराजान आगच्छन्त्विमस्मिन् पृथिवीमण्डले राजन्तु वर्षन्तु प्रवर्षन्तु हुदुहुदुयन्तु महाविद्युद्दर्शनं प्रमञ्चन्तु घटन्तः सङ्घटन्तः। चटचटयन्तो गुलुगुलुयन्तो महानागनादान् रमणीयान् महाशब्दान् निश्चारयन्तो महाघोषं सम्प्रघोषयन्तः। प्रवर्षध्वं जम्बुद्वीपे स्वाहा।



एथ २ महानागाः स्वाहा। पौण्ड्रनागराजानं संचोदयामि बुद्घसत्येन जम्बुद्वीपे प्रवर्षथ स्वाहा। श्रीतेजं नागराजान संचोदयामि धर्म्मसत्येनेह जम्बुद्वीपे प्रवर्षथ स्वाहा। अनन्तं न. स. सङ्घस ज. प. स.।



वासुकिनाग स वज्रपाणिस ज प स।

तक्षकं न ब्रह्मस ज प स।

श्रीकण्ठ न स इन्द्रस ज प स।

एरावणं न स विष्णुस ज प स।

मलिन न स रूद्रसत्य ज प स।

मनस्विनं न स ऋषिस ज प स।

विद्रावणं न स सर्वनागानां सत्येन ज प स।

प्रस्फोटं न स यक्षस ज न स।

अनवतप्तं न स राक्षसस ज प स।

सर्वनागा उपर्युपरिसत्येन वर्षथ २



मा विलम्बथागच्छथ भो २ महानागाः सर्वनागहृदगयानि सञ्चोदयामि। आकट्टामि सर २ हर २ धप २ हाहाहाहा हि ४ .... एहेहि थ ३ चचचचरत सर्वक्षेत्राणि आपूरयथ सर्वशस्यानि वर्षथ महावातान् प्रमुञ्चथ। द्रुं २ घ्रि २ पृं २ टा ४ णि चारिणि स्तम्भनि मोहनि। जाङ्गुले पुक्कशि ब्रह्मणि मातङ्गि जये विजये स्वाहा।



सर्वमहामेघगर्ज्ज महामेघतथागतानां संचोदयामि महामेघश्रीतेजाय तथागताय। महामेघस्फोटकाय तथागताय।



सर्वबुद्धानामधिष्ठानेन सर्वबोधिसत्वानामधिष्ठानेन च सर्वनागानां सत्येन सर्वनागहृदयान्सञ्चोदयामि शीघ्रमागच्छथ रत्नत्रयानुमतेन।



नमो रत्नत्रयाय। नमश्चण्डवज्रपाणये महायक्षसेनापतये बन्धबन्धसुरूपे कालरूपिणे स्वाहा। चीवरकर्णिके सप्तजप्तेन ग्रन्थिबन्धः कार्यः पूर्वमेव धर्म्मभाणकेन कृतरक्षाविधानेन। अयं वातमण्डलिपरिवर्तः सर्वनागानां हृदयं नाम वाचयितव्यः। अव्यवचिन्न-त्रिसप्ताहं। गोमयेन पूर्वस्यां दिशि त्रिशीर्षो नाम नागराजः सपरिवार आलिखितव्यः। दक्षिणस्यां दिशि पञ्चशीर्षः प्रस्फोटनो नाम सप आलि। पश्चिमस्यां दिशि अवभासनशिखी नाम नागराजा सप्तशीर्षो नागपरिवारेणालिखितव्यः। उत्तरेण मेघसञ्चोदनो नाम नागराजा नवशीर्षश्चित्रयितव्यः। नीलविताननीलवस्त्रं नीलध्वजं सर्वा च नीला बलिः कर्त्तव्या नागानां तु मधुरवलिः त्रिमधुरं च होतव्यं सर्वाहुतिः नागहृदयेन। मेघराजानश्च चित्रयितव्या वर्षधारां मुञ्चयन्तः। अन्योन्यांश्च संघट्टयमानाः। अन्ते विद्युच्चकोरमाला लेख्याः। स्वस्तिकोल्लोचिका लाजा मत्स्यमांसं तथा मधुभक्षाणि चादधीनि। उदारश्चात्र बलिःकर्तव्यः। ततो धर्म्मभाणकेन शुचिना शुचिवस्त्रप्रावृतेन वातमण्डलिपरिवर्तः स नागहृदयो वाचयितव्यः। ततो नागाः प्रथमदिवसमारभ्य गुलुगुलशब्दं कुर्वन्ति। शब्दांश्च रमणीयान् नदन्ति न चास्य परिवर्तस्य विसंवाद आज्ञा वा।



समुद्रो यदि वेलामतिक्रमेत् ततो वृष्टिरियमतिक्रमेदिति॥ नमः श्रीगर्भकूटविनर्दितराजाय तथागतायार्हते सम्यक्सम्बुद्धाय।



नमो भगवते मम स्वस्ति भवतु सर्वसत्त्वानां मैत्री भवतु। सर्वभूतेष्वभयं भवतु। सर्वतिर्य्यग्गतानां शाम्यन्तु सर्वदुर्गतयः। नमः सर्वनिवारणविस्कम्भिणे। सिध्यत्वयं सर्वतथागतविधिः। सर्वबुद्धावलोकितविधिः। तद्यथा। स्फट ७ स्वाहा। यः कश्चिच्छिरस्नातः। भिक्षुर्वा भिक्षुणी वा। उपासको वा। उपासिका वा शुचिवस्त्रप्रावृतो मैत्रचित्तः। इमानि तथागतनामानि लिखित्वा शुचिन्यासने स्थापयित्वा सप्तधूपकटच्छुकामुत्क्षिपेदाकाशे। पञ्चपञ्चवारांस्तथागतनामानि परिवर्त्तयेत्। महतीं पूजां कृत्वा अनावृष्टौ सप्ताहमव्यवचिन्नं प्रवर्तयितव्यं। देवो वर्षयिष्यति। इति श्रीमहामेघाद् महायानसूत्राद्वातमण्डलीपरिवर्तः पञ्चषष्टितमः समाप्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project