Digital Sanskrit Buddhist Canon

महावदानसूत्रम्

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
  • Parallel version Mahāvadānasūtram


 



महावदानसूत्रम्



 



एवं मया श्रुतं-एकस्मिन् समये बुद्धः श्रावस्थ्यां (देशे)विहरति,पुष्पवनशालायां महता भिक्षुसंघेन च सार्द्धं अर्धद्वादशजनशतेन।



 



तस्मिन् समये संबहुला भिक्षवः पिण्डचारात् प्रतिक्रान्ताः,पुष्पवनशालायां अन्योन्यं कथां संवदन्ति,एके हि आर्या भिक्षवः-(याः)अनुत्तरा प्रणीता भवन्ति अत्याश्चर्यकरा ऋद्धयः,दुरंगमानि वीर्याणि बलानि उदाराणि महान्ति,अतीतानि अनेकविधानि जानाति बुद्धो,निर्वाणप्रविष्टानां छिन्नदृष्टिसंयोजनबंधनानां अकथंकथीनां,  जानाति च तेषां बुद्धानां संख्याप्रमाणं नाम-गोत्र-शब्दं,जातिं,वंशं,कुलं,तेषां पानं भोजनं,दीर्घ अल्पं आयुः,सुखां दुःखा(च)वेदनाम्। तथा च ते बुद्धा एवंशीला एवंधर्मा एवप्रज्ञा एवंप्रतिभा एवंस्थितिकाः यथा त आर्यास्तथागता अभवन् कुशला व्याकृतधर्मस्वभावा (इति)यथार्यं जानाति। देवा आगत्य वदन्ति (तेन)जानाति इमं अर्थम्।



 



तस्मिन् काले भगवान् प्रतिसँल्लयने स्थितः दिव्येन श्रोत्रेण विशुद्धेन पर्यवदातेनाश्रौषीत् तेषां भिक्षूणां एवं संवादम्। अथासनादुत्थाय उपसंक्रम्य पुष्पवनशालां न्यषीदत् च प्रज्ञप्त आसने। तस्मिकाले जानन् अपि अर्थं वचनं अप्राक्षीत् तान् भिक्षून्-



 



"भिक्षवः,यूयं कस्यां कथायां इह सन्निपतिताः ?"



 



तदा ते भिक्षव 'इदं वस्त्वभूद'(इति)अवोचन्। तदा भगवान् अवोचत्तान् भिक्षून्-



 



साधु,साधु,यूयं श्रद्धया आगारं विहाय मार्गं भावयथ,सर्वं करणीयम्। तत्र वो द्वे करणीये। प्रथमं नाम आर्या धर्म-कथा,  द्वितीयं नाम आर्यः तूष्णीभावः। युज्यते युष्माकं एवं संवादः- 'तथागत औदारिकेन महता ऋद्ध्यनुभावबलेन जानाति सर्वं अतीतानेककल्पवस्तु। शक्यः संजानीतुं धर्मस्वभावः,तस्मात् जानाति। यतश्च देवा आगत्य वदंति ततो जानाति।



 



बुद्धस्तदा गाथाभिरवोचत्-



भिक्षवो धर्मशालायां सन्निपतिताः समूचुरार्यकथासंवादम्।



प्रतिसंल्लयनगर्मे स्थितस्तथागतो दिव्येन श्रोत्रेणाज्ञासीत् सर्वम्॥१॥



सूर्यप्रभो लोकालोको बुद्धः संविविच्य धर्मधात्वर्थम्।



जानाति अतीतमप्यर्थं त्रयं परिनिवृतानां बुद्धानाम्॥२॥



नामगोत्रं ज्ञाति-कुलं,संवेदनं,जन्म,भोगं च जानाति।



आश्रित्य तानि तानि स्थानानि,परिशुद्धेन चक्षुषा प्रवेदयति सर्वमथ॥३॥



नाना देवा महावीर्यबलाः,अत्युदारमुखाकाराः।



आगत्य प्रवदन्ति मां त्रयाणां,  बुद्धानां परिविर्वृतानाम्॥४॥



प्रवेदयन्ति कुलं नाम गोत्रं दुःखितं शकुनिस्वरं सर्वं जानाति।



देव-मनुष्याणां अनुत्तरः श्रेष्टः संजानाति अतीतान् बुद्धान्॥५॥



 



उवाच च तान् भिक्षून्-



 



"इच्छथ यूयं श्रोतुं तथागतो जानाति अतीतं जीवितं,जानाति अतीतानां बुद्धानां नानाहेतुप्रत्ययान् न (वैति),भाषिष्ये तद् अहम्।"



 



तदा ते भिक्षवो बुद्धं (इदं)वचनं ऊचुः-



 



"भगवन्,अयं एव एतस्य कालः,इच्छामः सुखं प्रार्थयाम आकर्णितुम्। साधु,भगवान् भाषतां इदानीं कथां,उद्गृहीष्याम आचरिष्यामो (वयं)ताम्।"



 



बुद्ध उवाच तान् भिक्षून् -



 



"श्रृणुत,श्रृणुत,सुष्टु मनसिकुरुत इदं,अहं वो भाषिष्ये,पृथक् व्याख्यास्यामि।"



अथ ते भिक्षवः समन्वमन्यन्त अववादं श्रोतुम्।



बुद्धः प्रत्युवाच तान् भिक्षून् -



"अतीत एकनवतितमे कल्पे तदाऽभूत् विपश्यी नाम बुद्धः तथागतोऽर्हन्,प्रादुरभूत् लोके। पुनश्चापरं भिक्षवः,अतीत एकर्त्रिंशे कल्पेऽभूत् शिखी नाम बुद्धः तथागतोऽर्हन्,प्रादुरभूत् लोके। पुनश्चापरं भिक्षवः,  तत्रैकत्रिंशे कल्पेऽभूत् विश्वभूर्नाम बुद्धः तथागतोऽर्हन्,प्रादुरभूत् लोके। अस्मिन् भद्रकल्पेऽभूत क्रकुच्छन्दो नाम बुद्धः,कोनागमनो नाम च बुद्धः,  काश्यपो नाम च बुद्धः। अस्मिन्नेव भद्रकल्पेऽहं उत्पन्नः सम्यक्-संबुद्धः।"



 



बुद्धोऽथ गाथाभिरुवाच-



एकनवतितमेऽतीते कल्पेऽभूत् विपश्यी बुद्धः।



तत एकत्रिंशे कल्पेऽभूत् बुद्धः शिखी नाम॥६॥



 



तत्रास्मिन् कल्प आगात् विश्वभूस्तथागतः।



इहास्मिन् भद्रकल्पेऽनेकासंख्येये॥७॥



 



अभूवन् चत्वारो महर्षयः सत्वान् ह्यनुकम्प्य आगताः।



क्रकुच्छन्दः कोनागमनः काश्यपः शाक्यमुनिः॥८॥



 



जानीत यूयं,विपश्यिनो बुद्धस्य काले मनुष्याणां आयुः अशीतिवर्षसहस्त्रम्। शिखिनो बुद्धस्य काले मनुष्याणां आयुः सप्ततिवर्षसहस्त्रम्। विश्वभ्वो बुद्धस्य काले मनुष्याणां आयुः विंशतिवर्षसहस्त्रम्। एतर्हि मय्यागते लोके मनुष्याणां आयुः वर्षशतं अल्पतांगतं भूयः प्रक्षीय।"



 



तदा बुद्धो गाथाभिरध्युवाच-



विपश्यिकाले नराणां आयुः चतुराशीतिसहस्त्रम्।



शिखिबुद्धस्य काले मनुष्यायुः सप्ततिवर्षसहस्रम्॥९॥



 



विश्वभूकाले मनुष्यायुः षष्ठिवर्षसहस्त्रम्।



क्रकुच्छन्दकाले मनुष्यायुः चत्वारिंशद्वर्षसहस्रम्॥१०॥



 



कोनागमस्य काले मनुष्यायुः त्रिंशद्वर्षसहस्रम्।



काश्यपबुद्धकाले मनुष्यायुः विंशद्वर्षसहस्रम्।



 



काश्यपबुद्धकाले मनुष्यायुः नाधिकं शतात्॥११॥



 



तथैतर्हि मम काले मनुष्यायुः नाधिकं शतात्॥



 



"विपश्यी बुद्ध आगात् क्षत्रियः गोत्रेण कौंडिन्यः। शिखी बुद्धः,विश्वभू बुद्धोऽपि गोत्रेण तथा। क्रकुच्छन्दो बुद्ध आसीद् ब्राह्मणः गोत्रेण काश्यपः। कोनागमनो बुद्धः,  काश्यपो बुद्धः अपि कुलेन गोत्रेण तथा। अहं एतर्हि तथागतोऽर्हन् अस्मिन् कुलेन क्षत्रियः,गोत्रनाम्ना च उच्यते गौतमः।"



 



बुद्धस्तदा गाथाभिरुवाच-



विपश्यी तथागतः,शिखी,विश्वभूः॥१२॥



इमे त्रयः सम्यक्संबुद्धा आसन् गोत्रेण कौण्डिन्याः॥



अन्ये त्रयः तथागता आसन् गोत्रेणा काश्यपाः॥१३॥



अहं इदानीं अनुत्तरः श्रेष्ठः शास्ता सर्वेषां सत्वानाम्॥



देव-मनुष्यादीनां वशी गौतमो नाम॥१४॥



प्रथमे त्रयः सम्यक्-संबुद्धा आसन् वंशेन क्षत्रियाः॥



अन्त्याः त्रयः तथागताः आसन् वंशेन ब्राह्मणाः॥१५॥



अहमिदानीमनुत्तरः श्रेष्ठोऽस्मि वशी क्षत्रियः॥



 



"विपश्यी बुद्धः पाटलीवृक्षस्याधोऽभूत् सम्यक्संबुद्धः। शिखी बुद्धो निषद्य पुंडरीकवृक्षस्याश्रोऽभूत सम्यक्संबुद्धः। विश्वभूःबुद्धो निषद्य शालवृक्षस्याधोऽभूत् सम्यक्संबुद्धः। क्रकुच्छन्दो निषद्य शिरीषवृक्षस्याधोऽभूत् सम्यक्-संबुद्धः। कोनागमनो बुद्धो निषद्योदुम्बरवृक्षस्याधोऽभूत् सम्यक्-संबुद्धः। काश्यपो बुद्धो निषद्य न्यग्रोधवृक्षस्याधोऽभूत् सम्यक्-संबुद्धः।



 



बुद्धस्तदा गाथाभिरुवाच-



 



"विपश्यी तथागत आजगाम पाटलिवृक्षे॥१६॥



तदा तस्मिन् स्थाने प्राप संबोधिमनुत्तराम्।



शिखी पुण्डरीकवृक्षे प्राप मार्गं निरोधं ससमुदयम्॥१७॥



विश्वभूः तथागतो निषद्य शालवृक्षाधः।



लेभे विमोक्षज्ञानं ऋद्धिमप्रतिहताम्॥१८॥



क्रकुच्छन्दस्तथागतो निषद्य शिरीषवृक्षाधः।



सर्वे विशुद्धप्रज्ञा विगतक्लेशा विगतग्राहाः॥१९॥



कोनागमो मुनिः निषद्योदुम्बरवृक्षस्याधः।



Verse 20-43 are missing here. It is an input error. Missing verses will be posted soon.



बुद्धस्तदा गाथयोवाच-



विपश्यिनः पिता बन्धुः,माता बन्धुमती (तथा)।



बन्धुमन्नगरं तत्र बुद्धो धर्मं समादिशत्॥४४॥



 



"शिखिबुद्धस्य पिताऽरुणो नाम क्षत्रियो राजवंशिकः,माता प्रभावती नाम,राजधानी अरुणवती नाम। "



 



बुद्धस्तदा गाथयोवाच-



 



"शिखिनो जनकोऽरुणो माता नाम प्रभावती।



अरुणवती नगरं शीलबलेन परशत्रुजित्॥४५॥



"विश्वभूबुद्धस्य पिता सुप्रीतो नाम क्षत्रियो राजवंशिकः,माता यशोवती नाम,नगरं अनुपमं नाम।"



 



बुद्धस्तदा गाथयोवाच-



विश्वभूबुद्धजनकः सुप्रीतः क्षत्रवंशिकः।



माता यशोवती (नाम)नगरं नामानूपमम्॥४६॥



क्रकुच्छन्दबुद्धस्य पिता मंजुशीलो नाम,ब्राह्मणवंशिकः,माता विशाखा नाम,क्षेमो नाम राजाऽनुगतो राजा,क्षेमवती नाम हि नगरम्।



 



बुद्धस्तदा गाथयोवाच-



मंजुशीलो द्विजः (तातः)विशाखा नाम जननी।



क्षेमो नाम राजा वसति क्षेमवतीपुरे॥४७॥



"कोनागमबुद्धस्य पिता महाशीलो नाम ब्राह्मणः,माता विजया नाम,तदा राजा शुभो नाम उपस्थाको राजनामतो नाम नगरम्।"



 



बुद्धस्तदा गाथयोवाच-



"विजया जननी नाम महाशीलो द्विजः (पिता)।



शुभो नाम (तदा)राजा वसति शुभवतीपुरे॥४८॥



काश्यपबुद्धस्य पिता ब्रह्मशीलो नाम,  ब्राह्मणवंशिकः माता धनवती नाम। तस्मिन् काले किकी नाम राजा (उपस्थाकः)राजधानी वाराणसी नाम नगरम्।"



 



बुद्धस्तस्मिन् काले गाथयोवाच-



"माता धनवती नाम ब्रह्मशीलो द्विजः (पिता)।



तदा राजा किकी नाम पुरी वाराणसी (तथा)॥४९॥



मम पिता शुद्धोदनो नाम क्षत्रियो राजवंशिकः,माता महामाया नाम,राजधानी कपिलवस्तु नाम नगरम्।



 



बुद्धस्तदा गाथयोवाच-



"महामायेति जननी पिता शुद्धोदनो नृपः।



बहुधनजने देशे वा ताभ्यां जातोहं (आत्मजः)॥५०॥



"इमे ते सन्ति बुद्धाः। (ते)हेतुप्रयत्यतः नाम-गोत्र-कुलानां गत्यायुःस्थानतः कथं अभवन् (इति)इदं श्रुत्वा विज्ञः पुरुषो हेतुप्रत्ययतश्च (भवति)सुप्रीतिप्रामोद्यप्राप्तः सुखसौमनस्यचित्तः।



 



तस्मिन् काले भगवान् प्रोवाच तान् भिक्षून्-



"अभिलषाम्यहं इदानीं पूर्वनिवासज्ञानं वक्तुं अतीतानां बुद्धानां विषये,इच्छथ यूयं श्रोतुं न (वेति)"?



 



ते भिक्षवः प्रत्यूचुः-



 



"एतस्येव इदानीं कालः। सुखेनेच्छामः श्रोतुम्।"



 



बुद्ध उवाच तान् -



 



"साधु,साधु,  भिक्षवः,सुष्ठु मनसि कुरुत,तद् अहं वो विभज्य भाषिष्ये। भिक्षवः,विज्ञातव्या तेषां बुद्धानां धर्मता। विपश्यी बोधिसत्वः तुषितदेव-लोकात् च्युतो ऽवाक्रमत् मातृकुक्षौ,दक्षिणपार्श्वतो प्रविश्य संप्रजानन् अमूढः। तत्र तदा पृथ्वी समकंपत,महान्तोऽवभासाः प्राकाशन्त,सर्वं लोकधातुं अवभासयन्तः,यत्र चन्द्रसूर्यौ न प्राप्नुतः,(तत्)सर्वं स्थानं आच्छादयन्त उदारेण अवभासेन। निरय-सत्वा (अपि)एकैकस्यान्योन्यं पश्यन्ति,संजानन्ति स्वकीयां स्थितिं तदाऽस्मिन् अवभासे। पुनश्चापरं दृश्यन्ते मारप्रासादाः सर्वे देवाः शक्रो ब्रह्मा श्रमणा ब्राह्मणाश्चान्ये सत्वाः सर्वे आच्छादिता उदारेणावभासेन। सर्वे देवलोकाः स्वभावतोऽदर्शना अवभासन्ते। बुद्धस्तदा गाथाभ्यामुवाच-



 



नभस्यालम्बते मेघो भाति विद्युद् अधोदिवि।



विपश्यी भासयन् भासा कुक्षौ चापि समाविशत्॥५१॥



सूर्येन्द्वनुपगतमप्यनावृतं न प्रभासा।



कुक्षौ तिष्ठति विशदो म्रक्षित इति धर्मता सर्वबुद्धानाम्॥५२॥



 



"भिक्षवः,सर्वैर्विज्ञेया सर्वबुद्धानां धर्मता। विपश्यी,बोधिसत्वः तदा स्मरन् संप्रजानन् अमूढो मातृकुक्षौ अवाक्रमत्। चत्वारो देवपुत्राः खङ्गं हस्ते गहीत्वा रक्षंति तस्य मातरम्। मनुष्या अमनुष्याश्च न प्रभवन्ति विहिंसितुम्। अयमस्ति शाश्वतो धर्मः (धर्मता)।"



 



बुद्धस्तदा गाथाभिरुवाच-



 



चतुर्दिशं चत्वारो देवपुत्रा ईश्वरा वशिनः।



देवानामिंद्रेण शक्रेण प्रेषिता अरक्षन् बोधिसत्वम्॥५३॥



करासिधारिणो नित्यं अनिर्गच्छन्तो रक्षन्ति।



मनुष्या,अमनुष्या न हिंसन्ति,इयं सर्वेषां बुद्धानां धर्मता॥५४॥



देवा अवभासमाना रक्षन्ति,देवकन्या यथा रक्ष्यंतेदेवेषु।



सुखसम्पन्ने कुले,इयं सर्वेषां बुद्धानां धर्मता॥५५॥



उवाच च -



 



"भिक्षवः,सर्वेषां बुद्धानां धर्मता (एषा)। विपश्यी बोधिसत्वः तुषितात् देवलोकात् मातृकुक्षौ विज्ञानं अवाक्रमत स्मरन् संप्रजानन् असंमूढः। मातुः कायः (तदा)क्षेमसुरक्षितोऽसंबाधितः प्रज्ञा बर्द्धते। मातावलोकयंती स्वयं पश्यति गर्भम्। बोधिसत्वस्य कायः सर्वेन्द्रियपरिपूर्णः,यथालोहितं सुवर्णचूर्णं मल-रजोविरहितं,चक्षुष्मन्तः पुरुषास्तत् तथा पश्यन्ति परिशुद्धे स्फटिके अन्तर्वहिः परिशुद्धं,सर्वावरणकलुषविरहितम्। भिक्षवः,सर्वं इदं अस्ति बुद्धानां धर्मता।"



 



तस्मिन् काले भगवान् गाथाभ्यां उवाच-



 



"यथा शुभो वैदूर्यमणिः सूर्यचंद्र प्रभेव स्वयं।



जातिमान् (तथा)तिष्ठति मातृकुक्षौ,तस्य माताऽसंबाधा॥५६॥



प्रज्ञया भवति वर्द्धमाना,सुवर्णविंवं गर्भं पश्यति।



माता गर्भिणी सुसुखिनी,इयं बुद्धानां धर्मता॥५७॥



 



बुद्ध उवाच -



 



भिक्षवः,विपश्यिनि बोधिसत्वे तुषिताद् देवलोकात् च्यवित्वा मातृ कुक्षिं अवक्रमति स्मरति संप्रजानति अमूढे,मातुर्मनोऽसर्वरागचित्तं,न रागाऽग्निना तत् परिदग्धं (भवति)। इयं अस्ति सर्वबुद्धानां धर्मता।"



 



तस्मिन् काले च भगवान् गाथाभ्यां उवाच-



 



"बोधिसत्वे तिष्ठति मातृकुक्षिं देवदेवे पुण्यसंयुते।



तन्मातुश्चिन्त्तं सुचि निर्मल सर्वरागचिन्ताविरहितम्॥५८॥



सर्वकामरागेच्छया मलिनमसमुपगतम्।



न भवति कामाग्निना दह्यमाना सर्वबुद्धानां माता नित्यं परिशुद्धा॥५९॥



 



बुद्ध उवाच-



 



"भिक्षवः,बुद्धानां धर्मता (एषा)। (यदा)विपश्यी बोधिसत्वः प्रथमं तुषितदेवलोकात् च्यवित्वाऽवाक्रमत् मातृकुक्षौ स्मरन् संप्रजानन् अमूढः। तस्य माता समाचरति पंचशीलं,ब्रह्मचर्यं पूर्णशुद्धनिर्मलं गृह्णाति। अतिश्रद्धा दयापन्नाऽनुकंपिका सर्वकुशलकारिणी सुखिनी निर्भया,कायं विहाय जीवितात् च्यवित्वा उत्पद्यते तुषितेषु देवेषु। इयं अस्ति धर्मता।"



 



तस्मिन् काले च भगवान् गाथयोवाच-



 



"समाचरति मानुष उत्तमे काये वीर्य-शीलपरिपूर्णा।



पश्चात गृह्णाति देवकायं इदं प्रत्यया नाम बुद्धमाता॥६०॥



 



बुद्ध उवाच-



 



"भिक्षवः,एषा बुद्धानां धर्मता। विपश्यी बोधिसत्वः स्वोपपत्तिकाले दक्षिणपार्श्वतो निश्चक्राम। पृथिविकंपोऽभूत। अवभासेन सर्वं अवभासितम्। प्रथम-गर्भप्रवेशकाले तमोमयं स्थानं (अपि)न (किमपि)अवभासेन अनाच्छादितम्। एषाऽस्ति धर्मता।



 



तस्मिन् काले च भगवान् गाथाभ्यां उवाच-



 



राजपुत्रोपपत्तौ पृथिवी च कंपे महदवभासेन न किमप्यनाच्छादितम्।



अयं धातुश्च परो धातुः ऊर्ध्वमधश्च सर्वा दिशः॥६१॥



भासमानो प्रभां ददाति शुद्धेन हेतुना,परिपूर्णो देवकायः।



प्रशांतो भवति शुद्धवाक् उच्यते बोधिसत्वो नाम"॥६२॥



बुद्ध उवाच-



 



"भिक्षवः,(एषा)बुद्धानां धर्मता। विपश्यी बोधिसत्वः तत्र स्वोपपत्तिकाले दक्षिणपार्श्वतो निश्चक्राम स्मरन् अमूढः। तदा बोधिसत्वमाता (अभूत्)हस्ते वृक्षशाखां गृहीत्वाऽविषण्णाऽनिपन्ना। अथ चत्वारो देवपुत्रा हस्ते गृहीत्वा गंधजलं,तत्र मातुः पुरस्तात् अस्थुः वदन्तः "साधु,देवमातः,इदानीं उपपन्न आर्यपुत्रः,मा धारय दुर्मनस्कताम्। एषाऽस्ति धर्मता।"



 



तस्मिन् काले च भगवान् गाथयोवाच-



 



"बुद्धमाता अनिषण्णाऽनिपन्ना शीलसंपन्ना ब्रह्मचर्यचारिणी।



प्रसवति वरं निरलसं देवमनुष्यैर् निषेवितं (पुत्रम्)॥६३॥



 



बुद्ध उवाच- "भिक्षवः (एषा)बुद्धानां धर्मता। विपश्यी बोधिसत्वः तत्र स्वोपपत्तिकाले दक्षिणपार्श्वतो निश्चक्राम,स्मरन् संप्रजानन् अमूढः। तस्य कायः परिशुद्धोऽम्रक्षितः मलेन श्लेष्मणा (वा)। यथा भवति हिमजलम् (?)- परिशोधिता प्रभास्वरा मुक्ता श्वेत कौषेयोपरि निक्षिप्ता न म्रक्षते उभयतः शुद्धत्वात्,बोधिसत्वोऽपि गर्भे एवम्। इयं अस्ति धर्मता।"



 



तस्मिन् काले च भगवान् गाथयोवाच-



 



"यथ शुद्धा प्रभास्वरा मुक्ता कौषेये निक्षिप्ताऽम्रक्षिता।



बोधिसत्वो गर्भनिष्क्रांतिकाले (तथा)परिशुद्धोऽम्रक्षितः॥६४॥



 



बुद्ध उवाच-



 



भिक्षवः,एषा बुद्धानां धर्मता। विपश्यी बोधिसत्वः तत्र स्वोपपत्तिकाले दक्षिणपार्श्वतो निश्चिक्राम स्मरन् संप्रजानन अमूढः। दक्षिणापार्श्वतो निष्क्रम्य भूमौ निपत्यागमत् सप्त पदानि। अमनुष्या अगृहीषुः तदा। सर्वतो विलोक्य चतुर्दिशं,उत्थाप्य हस्तं चाभाषत- ऊर्ध्व देवात् अधो देवात् अहमेव अस्मि अग्र इच्छामि विमोचयितुं सत्वान् जाति-जराव्याधि-मरणतः। एषा धर्मता"



 



तस्मिन् काले भगवान् गाथाभिरुवाच-



 



"सिंहो यथा गच्छति विलोकयन् सर्वतः चतुर्दिशम्।



निपत्य भूमौ नरसिंहोऽप्येवं सप्त पदानि अगमत्॥६५॥



महानागो यथा गच्छति विलोकयन् सर्वतश्चतुर्दिशम्।



निपत्य भूमौ नरनागोऽप्येवं सप्त पदान्यगमत्॥६६॥



द्विपदोत्तम उपपत्तिकाले सुखं अगमत् सप्त पदानि।



विलोक्य चतुर्दिशं ननाद 'नाशयिष्यामि जाति-मृत्यु-दुःखम्'॥६७॥



प्रथमोपपत्तिकाले स्वतः न उत्तमं (न)उत्तमं (न)उत्तमं च।



पश्यामि,जातिमृत्युमूलं अयं सर्वान्तिमः कायः॥६८॥



 



भगवानुवाच-



 



"भिक्षवः,एषा बुद्धानां धर्मता। विपश्यिनो बोधिसत्वस्य स्मरतः संप्रजानतोऽमूढस्य दक्षिण पार्श्वतः,निष्क्रांतस्य स्वोपपत्तिकाले द्वे स्रोतसी प्रादुरभूतां,एकं शीतलं एकं उष्णं,तस्य स्नपनार्थम्। एषा धर्मता।"



 



तस्मिन् काले भगवान् गाथाभ्यामुवाच-



द्विपदोत्तमस्योपपत्तिकाले स्वयं निश्चक्रमतुः स्रोतसी द्वे।



बोधिसत्वोपयोगार्थं सर्वनेत्रमस्नपयत् परिशुद्धम्॥६९॥



द्वे स्रोतसी स्वयमुद्भिन्ने,तत्र जलं सुपरिशुद्धं निर्मलम्।



एकं उष्णं एकं शुद्धशीतलं सर्वप्रज्ञं (ततः)अस्नपयन्॥७०॥



 



"प्रथमो राजकुमारो जात"(इति)बन्धुमान् राजा नैमित्तिकान् सर्वविद्या-(मंत्रा)- चार्यान आमंत्र्य आज्ञापयांचकार- "पश्यत राजकुमारं,बुध्यत तस्य भाग्यं दौर्भाग्यं।"तदा ते नैमित्तिकाचार्याः प्राप्य आज्ञां (तस्मिन्)क्षणे उपसृत्य अवतार्य वस्त्रं,अपश्यन् संपूर्णानि लक्षणानि। (अथ)व्याचक्रुः वचनं-'यस्य भवन्ति इमानि लक्षणानि,द्वे एव गती (तस्य)हि युक्क्ते,निस्संशयम्। स चेत् आगारे वसति राजा भविष्यति चक्रवर्ती चतुर्णां लोकानां,चतुरंगसेनासंपन्नो करिष्यति सद्धर्मेण राज्यं,न अन्यायेन,लोकं अनुकंपमानः। तस्य सप्त रत्नानि (निघयः)आगच्छन्ति। (परः)सहस्रं पुत्राः शूरा बलिनः बाह्यशत्रुजये समर्थाः। सेनां दंडं अनुपयुज्य पृथ्वीं शमेन (शास्ति)। स चेत् अभिनिष्क्रम्य आगारात्,शिक्षते मार्गं,संबुद्धो भविष्यति दशबलः परिपूर्णः। तदा ते नैमित्तिका आचार्या राजानं एवं वचनं ऊचुः- "(महा)राज,उत्पन्नस्ते पुत्रो द्वात्रिंशल्लक्षण-सहितः द्वे गती (अस्य)युक्ते अवश्यं निस्संशयं। (अयं चेत् )आगारे वसति भविष्यति चक्रवर्ती आर्यराजा। स चेत् आगारात् निष्क्रामति अवश्यं भविष्यति संबुद्धो दशबलपरिपूर्णः।"



 



बुद्धस्तदा गाथाभिरुवाच-



 



"शतपुण्यो राजसुतः प्रसूतः,निमित्ताचार्यं ऊचुरेतत्।



यथेदं भवति ग्रंथे,गती द्वे युक्ते निस्संशयम्॥७१॥



स चेदयं इच्छति गेह(वासं)राजा भविष्यति चक्रवर्ती।



सप्तरत्नलाभी रत्नानि स्वयं राजानं उपगमिष्यन्ति॥७२॥



सत्सुवर्ण(मयं)सहस्त्रारसंपूर्णं,परितः सुवर्णजालधरम्।



चक्रं डयनसमर्थं सर्वंगँ तस्मात् दिव्यचक्रं नामास्ति॥७३॥



सुसंहतः सप्तपक्षानुकूल उच्चो विशालः श्वेतो यथा हिमः।



कामं आकाश उत्पतनसमर्थः द्वितीयं नाम हस्तिरत्नम्॥७४॥



अश्वेन परिगच्छति लोकं प्रातर्गत्वा सायमायाति खादितुम्।



मयूरलोमा मुक्ताधररागः (इव)तृतीयं रत्नं उच्यते॥७५॥



परिशुद्धो वैदूर्यमणिः प्रभासत एकं योजनम्।



रात्रौ भासा भासते दिनं यथा,(इदं)चतुर्थं रत्नं समुच्यते॥७६॥



रूपं शब्दः गंधौ रसः स्पर्शो न (अस्ति)समोऽस्याः किंचिद्।



सर्वांगनानां प्रथमा सैषा (इदं)पंचमं रत्नं समुच्यते॥७७॥



लभते राजा वैदुर्यरत्नं मुक्तां हरितपाषाणां च सर्वरत्नम्।



सन्तुष्टश्च लभते (इदं)षष्ठं रत्नं समुच्यते॥७८॥



राजा चक्रवर्ती यथेच्छति सेना द्रुतं (तथा)यात्यायाति।



राजा चक्रवर्ती तथाद्रुतं इच्छति सेना (पतिः)यात्यायाति।



राजेच्छानुसारं द्रुतं (इदं)सप्तमं रत्नं समुच्यते॥७९॥



इमानि सप्त रत्नानि यानि चक्रं हस्ती शुद्धश्वेतोऽश्वः (च)।



वैदूर्यमणिः मुक्ता स्त्री (च)सेनापति रत्नं भवति सप्तमम्॥८०॥



तान् पश्यत्यक्लान्तः पंचकामगुणान् स्वयं भुंजमानः।



गज इव खंडितरज्जुबंधनो निष्क्रम्यागारात् भवति बुद्धः॥८१॥



राज्ञो भवति तादृशः पुत्रो द्विपदोत्तमः नरो (त्तम)ः।



तिष्ठति लोके प्रवर्त्य धर्मचक्रं मार्गगुणेष्वप्रमादी॥८२॥



 



तस्मिन् काले पिता राजा साग्रहं भूयः त्रिःपुनः अप्राक्षीत् लक्षणाचार्यान्- "यूयं पुनरपि पश्यत कुमारस्य द्वात्रिंशत् लक्षणानि। तेषा नामादि किम् ?"



 



तदा सर्वे लक्षणाचार्यां एकवारं विवृत्य कुमारस्य वस्त्रं अवादिषुः-



 



"द्वात्रिंशत् लक्षाणानि(इमानि)-(१)प्रथमं-पादः समः सुखकरः,पादतलं समं परिपूर्णं भूमौ सुखंगमम्। (२)द्वितीयं-पादतलं लांछितं चक्रेण सहस्रारेण परिपूर्णेन,दीप्यमानमन्योऽन्यम्। (३)तृतीयं-हस्त-पादांगुलयो राजहंसस्येमाः। (४)चतुर्थं च-हस्त-पादौ मृदुकी  दिव्यवस्त्रस्येव। (५)पंचमं-हस्तपादांगुलयो दीर्घाः सूक्ष्मा (लीना)अप्रतिमाः। (६)षष्ठं-पादपार्ष्णिरायता दृस्यते क्लांता। (७)सप्तमं-एणिजंघ ऊर्ध्वमधः ऋजुः। अष्टमं- कुंचितनद्धं अस्थि,अस्थिसंधिरन्योन्य-संयुक्ता अर्गलयोजनस्येव। (९)नवमं-कोषावहितं वस्ति-गुह्यं अंगजातं अश्व(स्य)इव गुह्यम्। (१०)दशमं- स्थितकः परिमृशति पाणिना जानुकं उपरि। (११)एकादशं-एकैकलोमकूप एकैकानि लोमानि जातानि,अस्य लोमानि दक्षिणावर्तीनि अंजननील-वर्णानि। (१२)द्वादशं-केशा दक्षिणावर्तकजाताः सुवर्णवर्णाः कुंडलिताः। (१३)त्रयोदशंकायः  सुवर्णवर्णः (१४)चतुर्दशं-छविः सूक्ष्मा मृदुका नोपलिप्यते रजोजल्येन। (१५)पंचदशं-उभयस्कंधः समवर्तः सुपरिमंडलः। (१६)षोडशं-वक्षो भवति स्वस्तिकाक्षरम्। (१७)सप्तदशंकायो दीर्घः पुरुषद्विगुणः। (१८)अष्टादशं-सप्तसु स्थानेषु सम-परिपूर्णः। (१९)ऊनविंशं- कायो दीर्घ आयामसमानो न्यग्रोधवृक्षस्येव। (२०)विंशं-सिंहपूर्वांग कायः। (२१)एकविंशं-समवक्षो भागः सिंहस्येव। (२२)द्वाविंशं-मुखे चत्वारिंशद्दन्ताः। (२३)त्रयोविंशं-समनद्धसमसमः।(२४)चतुर्विंशं-लग्नदन्तोऽविवरदन्तः।(२५)पंचविंशं-शुद्धश्वेताभास्वरा दन्ताः। (२६)षड्विंशं-सुपरिशुद्धकंठः,यन्नानारसे भुक्ते न किमपि अप्राशु। (२७)सप्तविंशं- प्रभूतजिह्वो वामं दक्षिणं कर्णं (जिह्वया)लेढि। (२८)अष्टाविंशं-स्वच्छविस्पष्ट-ब्रह्मस्वरः। (२९)ऊनत्रिंशं-अभिनीलवर्णनेत्रः। (३०)त्रिंशं-वृषभराजस्येव ऊर्ध्वमध उभयतो दीर्घनेत्रः। (३१)एकत्रिंशं-केशा विशालाः स्वच्छाः भास्वराः मृदुस्निग्धसूक्ष्मा एकवितस्तिदीर्घायताः,मुक्तास्तदा दक्षिणावर्ताः करविकायाः सन्मुक्ताया इव। (३२)द्वात्रिंशं-शीर्षे भवति मांसपुंजं (उष्णीषम्)।"



तथा गाथयोवाच-



 



"क्षीरपायिका करुणास्नेहसान्विता जातं पुत्रं अथ पोषयन्ति॥९८॥



एका क्षीरं पाययति स्नपयंत्येका,द्वेगंधविलेपिका क्रीडायिका च।



लोके (चा)नुत्तमो गंधः (तेन)लिंपति नरोत्तमम्॥९९॥



(यदा)दहरोऽभूत् देशजना विलोकयंति (तं)अतृप्तभावेन।



 



तदा गाथयोवाच-



 



बहुजनैर्मानितो लालितः प्रत्यग्रकृतः स्वर्णप्रतिमा यथा।



पुरुषाः स्त्रियः सर्वेऽतृप्तदृशा तं विलोकयंति॥१००॥



 



बाल्यकाले देशजनाः सर्व एकतः समादाय महार्धं पुष्पं इव विलोकयन्ति।



 



तथा गाथयोवाच-



 



"द्विपदोत्तमस्य जातकाले बहुजनानां मानितो मनआपः।



आदाय सर्वे वारेण धारयन्ति विलोकयन्ति महार्घसुगंधपुष्पमिव॥१०१॥



बोधिसत्वो जन्मकाले त्रायस्त्रिंशैः देवैरिव स्वनेत्रं न निमिषति। यस्मात् विगतनिमेषं पश्यति,तस्मात् विपश्यी इति नाम प्राप।



तथा गाथयोवाच-



"देवानां देवो न निमिषति देवाः त्रायस्त्रिंशा यथा।



पश्यन् रूपं सम्यक् विपश्यति तस्मात् विपश्यी नाम॥१०२॥



बोधिसत्वस्य जन्मकाले तस्य स्वरः शुद्धः,मृदुः,गंभीरः,यथा कलविंकपक्षिस्वरः।



 



तथा गाथयोवाच-



 



"हिमगिरिपक्षी यथा निपीय पुष्परसं च गायति।



तस्य  द्विपदोत्तमस्याऽपि स्वरः (तथा)स्पष्टः॥१०३॥



 



बोधिसत्वस्य जन्मकाले (तस्य)दूरं बिलोकने नेत्रं एकं योजनं पश्यति।



 



तथा गाथयोवाच-



 



शुद्धकर्मविपाकेन प्राप्य विद्ययोज्ज्वलं उत्तमम्।



बोधिसत्वो (हि)नेत्रेण परिपश्यत्येकयोजनम्॥१०४॥



बोधिसत्वस्योपपत्तिकालाद् आयुः शनैर्वर्धते,महाप्रणीत शालायां करोति मार्गशिक्षां जनेऽनुकम्पकः गुणकीर्तितो दूरजन्मा।



 



तदा (बुद्धः)गाथाभिरध्यभाषत-



 



शिशुभावेऽवसत् प्रणीतशालायां अकरोत् मार्ग प्रभवन् स लोकम्।



पश्यति सर्वान् व्यवहारान् ततो विपश्यी नाम (सः)॥१०५॥



विपुलविशालविशुद्धप्रज्ञोऽतिगंभीरो यथा समुद्रः।



हृष्टस्तत्र स कुर्वन् प्रज्ञाविवृद्धिम्॥१०६॥



 



तस्मिन् काले बोधिसत्व ऐच्छद् वहिर्गन्तुं दर्शनाथार्य अवोचत् (च)सारथिं-"योजय अश्वं,रत्नमये रथे,गच्छामोऽथ चंक्रमितुं उद्यानं द्रष्टुम्।"भृत्योऽथ त्वरितं उपयोजनं समाप्य प्रत्यावर्त्य अवोचत्-"इदानीं (यस्य)सम्यक् कालोऽस्ति।"कुमारः



तदा रत्न‍रथं आरूढः तदुद्यानगेहं गच्छन् अन्तरा मार्गेऽपश्यत् एकं जीर्णं पुरुषं गलितसितदन्तं,वलितमुखं,वक्रकायं,दंडपरायणं,दुर्बलं,प्रवेपमानं (पथि)गच्छन्तम्। (दृष्ट्वा च )कुमारोऽपृच्छद् भृत्यं,-"कोयं अस्ति पुरुषः?"



 



स प्रत्युवाच-"अयमस्ति जीर्णो मनुष्यः।"



पुनः अपृच्छत्-"किमिति जरा अस्ति?"



प्रत्युवाच-"जीर्णं आयुः जातं निःशेषं आयुः,(अनेन)न बहु जीवितव्यं,तस्मादुच्यत एष जीर्णः।"



 



पुनरपि कुमारोऽपृछत्-"(कच्चिद्)अहमपि भविष्यामि एतस्माद् दुःखादनतीतः ?



प्रत्युवाच- "आम,जातस्य भवति ध्रुवं जरा,न (तां)विना(केऽपि)हीना वा प्रणीताः।"



तदा दुःखी दुर्मना कुमारः त्वरितमुवाच भृत्यं,-"नीयाहि पश्चाद् रथं प्रासादम्।"



(अथ कुमारः)तूष्णीं प्रध्यायमानोऽचिन्तयत्-"इदं जरादुःखं प्राप्स्यते माम्।"



 



बुद्धस्तदा गाथाभिरध्यभाषत-



 



दृष्ट्वा जरा जीवितं समापयिष्यति (इति)दुर्बलस्य दण्डेन गच्छतः।



बोधिसत्वोऽचिंतयदात्मनि नातीतो ऽहं इमामापदम्॥१०७॥



तस्मिन् काले पित्रा राज्ञाऽलंकृते प्रासादे पुनः सुन्दर्यः कुमार्यः (प्रेषिताः तं)प्रसादयितुम्। बोधिसत्त्वस्तदा गाथाभिरध्यभाषत-



 



"पिता राजा श्रुत्वा तद् वचनं उपायतोऽलंकारयामास प्रासादभवनम्।



वर्धयामास पंच कामगुणान्,इच्छां न कुर्यां निष्क्रमणस्य गेहात्"॥१०८॥



पुनश्च पश्चात् कुमार आज्ञापयामास सारथिं -



"योजय रथं निष्क्रमिष्यामि विहाराय।"



अथ तस्य मार्गे समगच्छद् एको व्याधितः पुरुषः कायेन शिथिलो महोदरः कृष्णमुखः (स्व-)मूत्रपुरीषे शयानः। न पुरुषाः प्रेक्षंते तम्। (स हि)अतिग्लानः मुखतो भाषितुं न समर्थः। (दृष्ट्वा च तं कुमारः)पप्रच्छ सारथिं-"कोऽयमस्ति पुरुषः ?



प्रत्युवाच -"अयमस्ति व्याधितः पुरुषः।"



-"वद किमिति व्याधितः?"



प्रत्युवाच- "व्याधितः (स)यः पीडितः दुःखितः। मरिष्यति न चिरेण,तस्मादुच्यतेऽसौ व्याधित इति।"



पुनरुवाच-"कच्चिदहं अपि नास्माद् दुःखादनतीतः ?"



प्रत्युवाच-"आम,जातस्य भवति व्याधिः,न तां विना (केऽपि)हीना वा प्रणीताः।"



ततः कुमार उवाच दुर्मनाः- "एवं वदसि चेत् सारथे,नीयाहि पश्चात् रथं प्रासादे तूष्णीम्।"



(अथ)ध्यायमानोऽचिंतयत्-"अयं व्याधितो दुःखी,अहमपि भविष्यामि (तथा)।"



बोधिसत्वः तदा गाथयाऽभाषत-



अपश्यं तं चिरव्याधितं नरं वर्णं तस्य पीतं क्षतम्।



मूकः तूष्णीमचिन्तयं अहं च नातीत एतामापदम्॥१०९॥



 



पिता राजा तदा पुनरपृच्छत् सारथिं- "कच्चिद् विहाराय निष्क्रांतः कुमारो न आतमनाः ?"पुनश्चापृच्छत् तस्य कारणम्।



 



स चोवाच-"(यान-)रूढः समागच्छत् व्याधितेन नरेण,तस्मात् न आत्तमनाः।



अथ पिता राजाऽऽत्मनि तूष्णीं अचिन्तयत्- "एकदा लक्षणचिंतका व्याचक्रुः-निष्क्रमिष्यति (कुमारः)गेहात्। अद्य न सुमनाः,किमेतद् एवं भविष्यति। पुनरपि करोमि उपायम्। वर्धयामि कन्याः,यथा तासां गीतेन प्रसन्नचित्तौऽसौ न निष्क्रमेद् गृहात्।'अथ पुनरपि अलंकृते प्रासादभवने तं प्रसादितुं सुंदर्यः कुमार्या नियुक्ताः।



 



तदा बोधिसत्वो गाथयोवाचः -



 



रूप-शब्द-गंध-रस-स्प्रष्टव्यान् प्रणीतान् प्रासादिकान्।



तथा उपभुंक्ते बोधिसत्वः पूर्वं कृतपुण्यो यस्मात्॥११०॥



 



अथ पुनरपि अन्यस्मिन् काले कुमार आज्ञापयत् सारथिं-



 



"योजय रथं,निर्गमिष्यामि विहाराय।"



अथास्य मार्गे समापतत् एको मृतः पुरुषः नानावर्णाभिः पताकाभिः पुरतः पश्चाच्च नीयमानः। संबंधिनो ज्ञातयः ग्रामवासिनश्च अतिकरुणं क्रंदंतः परिदेवयन्तः नयन्ति तं बहिर्नगरम्।



 



कुमारः पुनरपृच्छत्-"कोऽयमस्ति पुरुषः?"



प्रत्युवाच-"अयमस्ति मृतः पुरुषः।"



अपृच्छत्- "कोऽस्ति मृतो नाम?"



प्रत्युवाच- "मृतोऽसौ निरुद्धो लोके। वातः प्रथमं,अग्निः पश्चात्,सर्वाणि इन्द्रियाणि त्यजंति मृतं,अन्यदा कुलात् निर्गमयन्ति। तस्मादुच्यतेऽसौ मृत इति।"



पुनरपि कुमारः पप्रच्छ सारिंथ- "अहं अपि (एवं)भविष्यामि ?कच्चिद् अनतीतोऽहं इमां आपदम् ?"



प्रत्युवाच- "आम,जातस्य हि ध्रुवो मृत्युः न (तं विना)भवति हीनः प्रणीतो (वा)। "



ततः कुमारः अनात्तमना असुमना उवाच सारथिं-



"नीयाहिं रथं पश्चात् प्रासादं।



शांतः तूष्णीभूतोऽचिन्तयत् चिन्तयन् सः- "अयं मृत्युर्दुःखं,अहमपि भविष्यामि (एवं)।



 



तस्मिन् काले बुद्धोऽध्यभाषत गाथया -



प्रथमं अपश्यत् नरं म्रियमाणं,अज्ञासीत् स पुनर्जायत इति



तूष्णीं शांतोऽचिन्तयत् आत्मनि 'अहं (अपि)अनतीत इमां आपदमि'ति॥१११॥



तदा पुनपृच्छत् पिता राजा सारथिं- "कच्चित् च कुमार आत्तमना वहिर्गतः ?"



प्रत्युवाच- "नात्तमनाः।"



पुनरपृच्छत् तस्य कारणम्। (स)प्रत्युवाच-



"मार्गे समागात् मृतः पुरुषः,तस्मान्नात्तमना। "



अथ पिता राजा तूष्णीं आत्मनि अचिंतयत्-"एकदा लक्षणाचार्या व्याचक्रुः लक्षणं कुमारस्य (येन)निष्क्रमिष्यति गृहात्। अद्य न सुमनाः,अहं पुनरपि विधास्येऽस्यो पायम्। वर्धयांचकार ताः कन्याः,प्रसादयन्तु तस्य चित्तमिति,यथा न निष्क्रमेत् गेहात्।



अथ पुनरपि अलंकारयामास प्रासादभवनं,नियोजयामास कन्याः तं प्रसादयितुम्।



बुद्धस्तत्र गाथयोवाच-



कौमार्ये भवति सुंदरीभिः कुमारीभिः परिवारितः।



पंच भोगान् भुंजानः शक्रो यथा देवेन्द्रोऽसौ॥११२॥



अथान्येद्युः पुनराज्ञापयत् सारथिं (कुमारः)-



"योजय रथं बहिर्गमनाय।"



अन्तरामार्गे समागमत् अपश्यत् चासौ एकं श्रमणं परिधाय चीवरं आदाय पात्रं भूमौ चरन्तम्। अथाऽपृच्छत् स सारथिं-



-"कोऽयमस्ति पुरुषः ?"



प्रत्युवाच-"अयं अस्ति श्रमणः।



पुनः पप्रच्छ- "कोऽयमुच्यते श्रमणः ?"



प्रत्युवाच- "श्रमणोऽसौ (यः)प्रव्रजति विहाय प्रियं,निष्क्रम्य गेहाद् अनुयुंक्ते मार्गे दमयति इंद्रियाणि,न रजते वाह्येषु कामेषु,अनुकंपकः सर्वेषु अविहिंसकः,दुःखेषु न दुर्मनाः,सुखेषु न सुमनाः,सहते सर्वं पृथिवीमिव। तस्मादुच्यते श्रमण इति।"



कुमारोऽवदत्-"साधु,अयं मार्गः सत्यं विषयेषु सम्यग् भयदर्शक उत्तमः प्रणीतः परिशुद्धोऽकर्कशः। अत्रास्ति आनन्दः।"अथासौ आज्ञापयत् सारथिं -



"उपनय रथं तस्योपकंठम्।



तदा कुमारः श्रमणं अपृच्छत्- "अवहार्य केशश्मशु,चीवरंवसान आदाय पात्रं किं प्रार्थयसे?



श्रमणः प्रत्युवाच- "यः प्रव्रजति गेहात् स इच्छति दमयितुं चित्तं चैतसिकं,सदा विरतः विषयरागात्,सर्वेषु सत्वेषु करुणायमानोऽविहिंसमानः,शांतचित्तः शांत एव मार्गे भवति सावधानः।"



कुमार उवाच -"साधु,अयं परमः सत्यमार्गः "



अथाज्ञापयत् सारथिं त्वरितं (कुमारः)-



-आदाय मे महार्घं वस्त्रं रथं च प्रतिनीयाहि महाराजस्य (अन्तिकम)। अहं इदानिं अवहार्य केशश्मश्रु,परिवास्य त्रिचीवरं प्रव्रज्य आगाराद् अनुयुंजे (च)मार्गम्। तत् किंनिःश्रित्य ?इच्छामि दमयितुं चितं चेतसिकं,परिहरामि दूरतो विषयरजः परिशुद्धेन आत्मना वसन् पर्येष्य मार्गविद्याम्।"



तदा सारथिः शीग्रमगच्छत् पितू राज्ञः (अन्तिकं)प्रत्यावर्तयितुं कुमारस्य आरोहणरथं वस्त्रं च आदाय। ततः पश्चात् कुमारोऽवहार्य केशश्मश्रु परिवास्य त्रिचीवरं प्राव्रजत् आगारात् अन्वयुंजत मार्गम्।



"बुद्ध उवाच- स चेद् भिक्षवः,कुमारो दृष्ट्वा जीर्णं व्याधितं पुरुषं,अज्ञासीद्



(अस्ति)लोके दुःखं,दृष्ट्वा च मृतं पुरुषं,(तस्य)लोके चित्तरागः प्रश्रब्धः,दृष्ट्वा च श्रमणं सर्वशो महाजागृतोऽवातरत् रथात्। तस्मिन् काले पदे पदे तत्र सुखाभिभूतः दूरं (अक्षिपद्)बंधनम्। इदमस्ति सत्यं गृहात् प्रव्रज्या,अस्ति सत्यं निष्क्रमणम्।



 



अश्रुण्वन् देशे मनुष्याः - "कुमारोऽवहार्य केशश्मशु धर्म(चीवरं)आछाद्य आदाय पात्रं आगारात् प्रव्रजितोऽनुयुक्तो मार्गम्।"सर्वेऽन्यमन्यं अवदन् - "अद्धा,अयं मार्गः सत्यं स्यात् (यथा)कुमारः प्रव्राजत् पर्यवर्जयत् च राज्यसम्मानपदं विशेषतः।"



 



अथ चतुराशीतीसहस्त्रं मनुष्याणां देशस्य गत्वा कुमारस्यान्तिक अयाचन्त श्रावका भवितुं आगारात् प्रव्रजितुं,अनुयोक्तुं मार्गे। तदा बुद्धो गाथयाऽभाषत



प्रतिनिवृतोऽभ्युपागमत् गंभीरं धर्ममुत्तमं ते श्रुत्वाऽनुजग्मुः।



प्रव्रजितुं दूरं हि रागस्नेहबंधनागारात् रहिताः सर्वबंधनैः॥११३॥



 



अथ कुमारस्तदा यथाविधं अन्वजानत। तैः सार्धं चरति सर्वत्र ग्रामाद् ग्रामं जनपदाद् जनपदं सर्वत्र (धर्म)देशयन्। स प्राप्य तत् स्थानं न किमपि गौरवं (अभिकांक्षते)मनुष्याश्च,प्रत्ययचतुष्टयेन उपतिष्ठंति। बोधिसत्वोऽचिन्तयत्-'अहं हि परिषदा बिहरन् सर्वत्र जनपदे मनुष्यैराकीर्णः,इदं न मे प्रतिरूपम्। यन्नु अहं विहाय इमां परिषदं प्रविविक्ते स्थाने विहरामि,तत्र मार्गं पूरयिष्यामि वांछितम्। अथ प्रविविक्ते स्थान एकाकी अन्न्वयुंजत मार्गे। अकरोत् च चिन्तां (कृच्छ वत रे)सत्वा अनुकंपनीयाः,सदा तपःपरायणा लब्ध्वा कायं सातंकं भंगुरं,जायंते जीर्यन्ते व्याधिमन्तश्च्यवन्ते,सर्व दुःखं उपपद्यन्ते। च्युता इतो जायंते तत्र ततो जायंतेऽत्र। एतत्प्रत्ययात् अयं दुःखस्कन्धः। (एतस्मिन्)संसरमाणः संधावमानः अनंत(कालं)कदाहं साक्षात्करिष्यामि दुःखस्कन्धं,निरुध्येत (मे)जाति-जरा-मरणम्।"



 



अथ तस्य,मनसि अभवत् "जातिमरणं कुतः किंप्रत्ययं च भवति ?"ततः प्रज्ञाय अपश्यत् कुतः। जातितो भवति जरामरणं,जातिरस्ति जरामरणस्य प्रत्ययः। जातिरुपपद्यते भवतः। उपादानं तृष्णाया उपपद्यते,तृष्णाऽस्ति उपादानस्य प्रत्ययः। तृष्णा वेदनात् उपपद्यते,वेदनाऽस्ति तृष्णायाः प्रत्ययः। वेदना स्पर्शतः उपपद्यते,स्पर्शोऽस्ति वेदनायाः प्रत्ययः। स्पर्शः षडायतनतः उपपद्यते,षडायतनं अस्ति स्पर्शस्य प्रत्ययः। षडायतनं नामरूपत उपपद्यते,नामरूपं अस्ति षडायतनस्य प्रत्ययः। नामरूपं विज्ञानत उपपद्यते,विज्ञानं अस्ति नामरूपस्य प्रत्ययः। विज्ञानं संस्कारत उपपद्यते,संस्कारोऽस्ति विज्ञानस्य प्रत्ययः। संस्कारोऽविद्यात उपपद्यते,अविद्यास्ति संकारस्य प्रत्ययः। इदं भवति अविद्याप्रत्ययात् संस्काराः संस्कारप्रत्ययाद् भवति विज्ञानं,विज्ञानप्रत्यात् नामरूपं,नामरूपप्रत्ययात् षडायतनं,षडायतनप्रत्ययात् स्पर्शः,स्पर्शप्रत्ययात् वेदना,वेदनाप्रत्ययात् तृष्णा,तृष्णाप्रत्ययाद् उपादानं,उपादनप्रत्ययाद् भवः,भवप्रत्ययाद् जातिः,जातिप्रत्ययाद् जराव्याधि-मरणशोक-परिदेवदुःखदौर्मनस्यम्।



 



अयं केवलो दुःखस्कन्धः,। जातिप्रत्ययाच्च भवः,अयमस्ति दुःखस्य समुदयः।



 



दुःखस्कंधसमुदये समाधीयमाने बोधिसत्वस्य उदपादि ज्ञानं,उदपादि चक्षुः,उदपादि विद्या,उदपादि आलोक,उदपादि ऋद्धिः,उदपादि साक्षात्कारः। तस्मिन् काले बोधिसत्वः पुनरात्मनि समाधात्,योनिशोऽचिन्तयत्- 'कस्य अभावे न जरामरणं,कस्य निरोधाद् जरामरणनिरोधः?'



ततः प्रज्ञयाऽभिसमायात् जातेरभावे न जरामरणं,जातिनिरोधाद् जरामरणनिरोधः। भवस्याभावे न जातिः,भवनिरोधाद् जातिनिरोधः। उपादानस्याभावे न भवः,उपादाननिरोधाद् भवनिरोधः। तृष्णाया अभावे न उपादानं,तृष्णानिरोधाद्  उपादाननिरोधः। वेदनाया अभावे न तृष्णा,वेदनानिरोधात् तृष्णानिरोधः। स्पर्शस्य अभावे न वेदना,स्पर्शनिरोधाद् वेदनानिरोधः। षडायतनस्याभावे न स्पर्शः,षडायतननिरोधात् स्पर्शनिरोधः। नामरूपस्याभावे न षडायतनं,षडायतन० नामरूपनिरोधः। संस्कारस्याभावे न विज्ञानं,संस्कारनिरोधः नामरूपनिरोधः - संस्कारस्याभावे न विज्ञानं,संस्कारनिरोधाद् विज्ञानननिरोधः। अविद्याया अभावे न संस्कारः,अविद्यानिरोधात् संस्कारनिरोधः।



 



अयं अस्ति अविद्यानिरोधात् संस्कारनिरोधः ,संस्कारनिरोधाद् विज्ञाननिरोधः विज्ञाननिरोधात् नामरूपनिरोधः,नामरूपनिरोधात् षडायतननिरोधः,षडायतननिरोधात् स्पर्शनिरोधः,स्पर्शनिरोधाद् वेदनानिरोधः,वेदनानिरोधात् तृष्णानिरोधः,तृष्णानिरोधाद् उपादाननिरोधः,उपादाननिरोधाद् भवनिरोधः,भवनिरोधाद् जातिनिरोधः,जातिनिरोधाद् जरामरणशोकपरिदेवदुःखदौर्मनस्यनिरोधः।



 



बोधिसत्वः समाधात्। दुःखस्कन्धनिरोधकाले उदपादि ज्ञानं उदपादि चक्षुः,उदपादि विद्या,उदपादि आलोकः,उदपादि ऋद्धिः,उदपादि प्रज्ञा,उदपादि साक्षात्कारः।



 



तस्मिन् काले बोधिसत्वः प्रतिलोमक्रमेण अभिसमायात्,द्वादश हेतुप्रत्ययान् यथाभूतं अज्ञासीत्। यथाभूतं ज्ञात्वा तत्रैव तस्मिन् आसने अभूत् अनुत्तरः सम्यक्संबुद्धः।



 



तस्मिन् काले बुद्धो गाथाभिरध्यभाषत-



 



इदं बचोऽवोचद् गणे,श्रृणुत यूयं कुशलाः।



अतीतेऽपश्यन् बोधिसत्वः पूर्वाश्रुतं धर्मम्॥११४॥



कस्य प्रत्ययाद् जरामरणं कस्य हेतोश्च भवति।



एवं सम्यग् दृष्ट्वा जानीत तस्य समुदयो जातितः॥११५॥



कस्य प्रत्ययाद् जातिसमुदयः कस्य हेतोश्च भवतीदं वस्तु।



एवं मनसि कृत्वा जानीत,भवाद् जातिसमुदयः॥११६॥



तत्तद् उपादानं उपादाय पर्यायेण पुनः वर्धते।



तस्मात् तथागता अवदन् 'उपादानं अस्ति भवस्य हेतुप्रत्ययः'।११७॥



गंभीरमलाकुशलनिकायो वातो वहति यथा न परिशुद्धः।



एवं उपादानलक्षण-हेतुरेषा जायते तृष्णा॥११८॥



ततो वेदना जायते,उपपद्यते दुःखसमुदयो यतः।



रागस्य हेतुप्रत्ययाद्,सुखदुःखमन्योन्यसंगतम्॥११९॥



वेदनासमुदयः कस्य प्रत्ययाद् हेतुः कश्च भवति वेदनायाः।



एवं चिंतयित्वाऽज्ञासीद् वेदना जायते स्पर्शतः॥१२०॥



स्पर्शसमुदयः कस्य प्रत्ययाद्,हेतुः कश्च भवति स्पर्शस्य।



एवं चिंतयित्वाऽज्ञासीद् स्पर्शः जायते षडायतनतः॥१२१॥



षडायतनसमुदयः कस्य प्रत्ययाद्,हेतुः कश्च भवति षडायतनस्य



एवं चिंतयित्वाऽज्ञासीत् षडायतनं ज्ञायते नामरूपतः॥१२२॥



नामरूपसमुदयः कस्य प्रत्ययाद् हेतुः कश्च भवति नामरूपस्य।



एवं ० ........................नामरूपं जायते विज्ञानतः॥१२३॥



विज्ञानसमुदयः कस्य प्रत्ययात् ० ...........................।



एवं०........................विज्ञानं जायते संस्कारतः॥१२४॥



संस्कारसमुदयः०.........................................।



एवं.................................संस्कारो जायतेऽविद्यातः॥१२५॥



एवं हेतुप्रत्यये सति अस्ति सत्यार्थहेतुः।



आर्यप्रज्ञयाऽभिसमयो दृष्टिहेतुप्रत्ययमूलस्य॥१२६॥



दुःखं न आर्यकृतं,न चापि भवति अप्रत्ययः।



तस्माद् अनित्यं दुःखं पंडितैरूपच्छेदनात्॥१२७॥



स चेदविद्या निरुध्यति तदा न भवति संस्कारः।



स चेद् न भवति संस्कारः,न भवति विज्ञानं तदा॥१२८



विज्ञानस्य नित्यरोधश्चेत् न भवति नामरूपकम्।



नामरूपं निरुद्धं चेत्,न भवति सर्वमायतनम्॥१२९॥



आयतनानां नित्यनिरोधे न भवति स्पर्शः तदा।



स्पर्शस्य नित्यनिरोधे तु न भवति वेदना तदा॥१३०॥



वेदना नित्यरोधे तु,न भवति तृष्णा तदा।



तृष्णा नित्यरोधे तु,न भवति उपादानं तदा।१३१॥



उपादाननित्यरोधे तु,न भवति भवस्तदा।



भवनित्यनिरोधे तु न भवति जातिस्तदा॥१३२॥



जातेर्नित्यनिरोधे तु,न जरा-व्याधि-दुःखकम्।



सर्वेषां सर्वथा क्षये पंडितस्तेन उच्यते॥१३३॥



द्वादशप्रत्यया अतिगंभीरा दुर्दर्शाः (च)विज्ञातुम्।



बुद्धा एवालं संबोद्धुं हेतुरस्ति नास्ति वा॥१३४॥



आत्मना ज्ञायमाने तु नायतनानि भवंति (हि)।



गंभीरं हेतुप्रत्ययं दृष्ट्वा नरो न परं स्पृहयत्याचार्यम्॥१३५॥



शक्तः स्कन्ध-धात्वायतने वहिः कामी न रागवान्।



लाभी सर्वदानानां परिशुद्धं प्रतिफलं दायकस्य॥१३६॥



लब्धं चेत् चतुर्भाणकं लभते तत्र ध्रुवं प्रतिवेदनम्।



शक्तः बंधनग्रंथीनां स्कंधानां छेत्तुमप्रमादतः॥१३७॥



रूप-वेदना-संज्ञा-संस्कार-विज्ञानानि जीर्णपुराणरथो यथा।



सत्यं इमं धर्मं पश्यति चेत् तदा भवति सम्यक्संबुद्धः॥१३८॥



शकुनो यथा उड्डयते नभसि शक्नोति पूर्वं परं चानुवातम्।



छित्त्वा पाशान् बोधिसत्वो गुरुवस्त्रमिव डयतेऽनुवातम्॥१३९॥



विपश्यी तत्रोपशान्तः अभिसमबुध्यत तत्र सर्वधर्मान्।



जरामरणं किंप्रत्ययो भवति,तत् केन निरुध्यति॥१४०॥



स इदं साक्षात्कृत्य जातः शुद्धनिर्मलप्रज्ञोऽज्ञासीत्।



जरामरणं जातेः जरामरणनिरोधो जातिनिरोधतः॥१४१॥



विपश्यी बुद्धः प्रथमाभिसंबुद्धः तस्मिन् काले प्रायेण द्वाभ्यां विहाराभ्यां विहरति।



मैत्री विहारेण उपेक्षाविहारेण वा। बुद्धस्तदा गाथाभिरध्यभाषत-



 



तथागतोऽसमसमः प्रायेणान्वयुंजत द्वियोर्विहारयोः।



मैत्र्या चोपेक्षया च ऋषिर्मुक्तः पारंगतः॥१४२॥



तस्य चित्तमलभत स्वस्य भावं छित्वा सर्वपाशान्।



आरुह्य शैलं पश्यति चतुर्दिशं,तस्माद् विपश्यी समुच्यते॥१४३॥



महाज्ञानालोकेन तमो विनाश्य यथा स्वच्छ आदर्शः।



लोकस्यानाशयत् मोहान्तरायं क्षीणं जातिजरामरणदुःखम्॥१४४॥



 



विपश्यी बुद्धः प्रविविक्ते स्थाने पुनरिदं अचिन्तयत्-"प्राप्तो मयाऽतिगंभीरोऽद्भुतो दुर्ज्ञेयो दुर्दृशोऽनुत्तरो धर्मः प्रहाणं निरोधः अन्तरायोपशामकः पंडितैर्वेदनीयः न पृथग्जनैर्लभ्यः। यतः सत्त्वा नानाधिमुक्तिका नानादृष्टिका नानाग्राहिणो नानाशिक्षास्ततस्ते नानादृष्टयः। प्रत्येकं ते सुखविषयसमन्वागताः प्रत्येकं ते चर्याचित्ताः,तस्मात् ते न ज्ञातुं शक्नुवंति इमं अतिगंभीरं हेतुप्रत्ययं,भूयो दुर्ज्ञेयं तृष्णाक्षयं निर्वाणम्। अहं चेत् तेषां देशेयं,ते नूनं न ज्ञास्यंति,(एवं)भविष्यति च मे केवलं क्लमथो विहिंसा।"एवं चिन्तयित्वा तूष्णीभूतो न उवाद धर्मम्। अथ ब्रह्मा देवराजोऽज्ञासीत् विपश्यितथागतस्य चित्तं अचिन्तयत् च-



 



"नश्यति वत रे,अयं लोकः,विनश्यति वत रे,शीग्रं अयं लोकः। (स)चेद् विपश्यी बुद्धो लब्ध्वा गंभीरं अणुं एतं धर्मं नेच्छति देशितुम् (अथ)यथा बलवान् पुरुषः बाहुद्वयं संकोचयेत् एवं स ब्रह्मा देवप्रासादतः तत् क्षणं (अन्तर्धायं)आगम्यावातिष्ठद् बुद्धस्य संमुखे,शिरसा पादौ वंदित्वाऽतिष्ठत् एकमन्तम्। अथ ब्रह्मा देवराजो दक्षिणं जानु पृथिव्यां स्थापयित्वांऽजलिं बध्वाऽवोचद् बुद्धम् -



 



"इच्छतु भगवान् करोतु एतर्हि धर्मदेशनाम्। संति इदानीं इमे सत्वा अल्पक्लेशाः तीक्ष्णबलेन्द्रिया सगौरवचित्ताः सुखेन आज्ञातारो विभ्यति परलोकाद् अमुक्तघोषाः शक्ता निरोद्धुं अकुशलं,धर्मं,कुशलात् मार्गाद् बहिः।"



 



(अथ)बुद्ध उवाच महाब्रह्माणं - "एवमेव एतद् यथा त्वं वदसि। अहं पुनः विविक्ते स्था आत्मनि अचिन्तयं - अतिगंभीरोऽणुभुत एष सद्धर्मः,अहं च तेषा देशेयं ते च न आजानीयुः,तच्च में भवेत् क्लमथो विहिंसा। तस्मादहं तूष्णीं नोत्सुको देशयितु धर्मम्। अहमितोऽसंख्येयकल्पपूर्वं आतापी प्रहितात्माऽप्रमत्तो व्यहरं अनुत्तरं (ब्रह्म-)चर्यं,अथाध्यगच्छं दुर्लभमेतं धर्मम्। स चेद् वदेयं क्रोधनायान्यस्मै सत्वाय  तन्नूनं,अनुद्गृहीतं भवेत्। (तच्च)भवेत् मे क्लमथो विहिंसा। अयं धर्मोऽणुरभुतः,लोकतो विप्रतीपः। सत्वाः कामरता अज्ञा अवाटा,नालं ज्ञातुं देशनां (मे)। ब्रह्मराज,-एवं पश्यामि अहमत्र तेन तूष्णीं,नेच्छामि धर्म देशितुं।"



 



अथ ब्रह्मा देवराजं पुनर्ययाचे हृदयात् प्रार्थयन् सकरुणं यावत् तृतीयं- "स चेद् भगवान् न दिशति धर्मं,नश्यति वत रे अयं लोकः। कृच्छं वत रे,नेच्छति भगवान् अकाले देशयितुम्,अथ सत्वाऽधो गमिष्यंति अपरांगतिम्।"



 



तदा भगवान् श्रुत्वाऽभिप्रार्थयमानस्य ब्रह्मराजस्य त्रिर्याचनां,बुद्धचक्षुषाऽपश्यत्- "लोके सत्वाः समन्वागताः क्लेशेन स्थूलेन अणुना,तीक्ष्णमंदेन्द्रियाः सुखेन दुःखेन वा विनेयाः।



सुखविनेया ये विभ्यति परलोकाद्। तस्मादलंते निरोदधुं अकुशलं धर्मं उत्पन्नकुशलगतिकाः। यथा (पुनः)उत्पलिन्यः पद्मिन्यो वा कुमुदिन्यः पुंडरीकिण्यो (वा सरसि)भवंति मलिने पंके जायमानाः। (तत्रेकत्या)न यावद् जलं,अन्या तिष्ठंति अभ्युद्गम्य जलेन,अन्या वा भवंति अप्सुलोक एवम्।"



 



अथ भगवान् उवाच ब्रह्मराजं - "अनुकंपां उपादाय ते देशयिष्यामि इदानीं अमृतधर्मद्वारं,धर्ममति गंभीरं अद्भुतं दुविज्ञेयम्। इदानीं ये श्राद्धाः,प्रसन्नाः,तेषां,देशयामि,न तु विवदमानेभ्या उदप्रतेभ्यः। अनुपकारकं तेभ्यां देशनम्। "



 



अथ ब्रह्मराजो 'बुद्धेनोपगृहीता प्रार्थना म'इति संतुष्ट उत्थाय प्रदक्षिणां कृत्वा बुद्धस्य पादौ त्रिबारं शिरसा वंदित्वा तत्क्षणं अन्तरधात्। अचिरप्रक्रान्ते तस्मिन् अथ तथागतः तूष्णीं आत्मन्यचिन्तयत्- 'कं प्रथमं देशयं धर्मम्'। अथाचिन्तयदात्मनि 'प्रतिवसतश्च बंधुमतीनगरे कुमारो यशः महामात्यपुत्रः तिष्यश्च। ताभ्यो विवृणुयां अमृतधर्मद्वारम्।" 



 



अथ भगवान् यथा बलवान् पुरुषः समंजिते विमिंजेत वा (प्रसारितं)बाहुं,तथा तत्क्षणं मार्ग वृक्षे अन्तर्धाय यत्र बंधुमतीनगरे बंधु (मतो)राज्ञो मृगदाववनं तत्र प्रज्ञप्त आसने न्यषीदत्। अथ बुद्धो गाथयाऽभाषत-



 



सिंहो यथा स्वच्छन्दः  परिक्रमते वने।



एवं बुद्धोऽपि परिक्रमतेऽव्याहतगतिः॥१४५॥



 



(अथ)विपश्यी बुद्ध आमंत्रयते स्म उद्यानपालं -"प्रविश्य नगरं वद राजपुत्रं यशसं (खंडं)महामात्यपुत्रं तिष्यं च कच्चित् न जानाति (भवान्)विपश्यी बुद्ध इदानीं वसति मृगदाववने,इच्छेः द्रष्टुम्। (यस्य इदानीं )कालो मन्यते (स्वामी)।"



 



अथ उद्यानपाल आदेशं गृहीत्वा यत्र तयोर्द्वयोः पुरुषयोः स्थानं तत्राऽगमत्,अवोचच्च बुद्धस्यादेशम्। तच्छ्रुत्वा उभौ उपसमक्रतां बुद्धस्य स्थानम्। (उपसंक्रम्य च)शिरसा बंदित्वा (बुद्धस्य)पादौ एकमन्तं न्यषीद्ताम्। तयोर्बुद्धोऽनुपूर्व्येण धर्मं प्रथमं प्रकाशयामास सुखेन उदग्राहयितुं,तद् यथा दानकथां,शीलकथां स्वर्गोपपत्तिकथां,कामानां,अपकारं संक्लेशस्य ऊर्ध्वाश्रवभूम्यन्तरायस्य प्रज्ञानं विनिर्गमं अत्यंतं सुंदरं परिशुद्धम्। यदा भगवान् अपश्यत् तयोरुभयोः चित्तचैत्तं मृदु उदग्रं प्रसन्नं हृष्टं सद्धर्मग्रहणसमर्थं,अथ ताभ्यां देशयामास दुःखं आर्यसत्यं,व्याचकार घोषयांचलार दुःखसमुदयार्यसत्यं,दुःखनिरोधार्य सत्यं दुःखनिरोधागामिनीप्रतिपदार्यसत्यं च। अथ राजपुत्रस्य यशसः तिष्यस्य च महामात्यपुत्रस्य तस्मिन्नेवासने वीतमलं बिरजं परिशुद्धं धर्मचक्षुरुदयादि,तद्यथा शुद्धं वस्त्रं सुखेन गृह्णीयाद् रजनम्।



 



तस्मिन् काले भौमा देवा तत्रागायन्त इदं वचनं - "विपश्यी तथागतः बंधुमतीनगरे मृगदावोद्याने प्रवर्तयांचकार अनुत्तरं धर्मचक्रं,(केनापि)श्रमणेन ब्राह्मणेन सर्वैर्देवैः मारब्रह्मणा चान्येन लोकजनेन अप्रवर्त्यम्। एवं प्रवर्त्तितः शब्द उपरि (यावत्)चतुरो देवराजान् यावच्च परिनिर्म्मितवशवत्तिदेवं,क्षणेन प्राप्तो ब्रह्मदेव लोकम्।



 



भगवान् (तस्मिन्)समये गाथाभिरध्यभाषत-



तुष्टचित्तः समुत्थाय प्राशंसत तथागतम्।



विपश्यी भूत्वा बुद्धोऽनुत्तरं धर्मचक्रं प्रावर्त्तयत्॥१४६॥



तोतिराज उपपन्न उपाक्रमद् बंधुपुरीम्।



यशस्तिष्ययोः कृते प्रावर्त्तयत चतुःसत्यधर्मचक्रम्॥१४७॥



अथ लब्ध्वा यशस्तिष्यौ बुद्धस्य देशनाम्।



परिशुद्धं धर्मचक्रं ब्रह्मचर्यमनुत्तरम्॥१४८॥



अथ देवाः त्रायस्त्रिंशाः शक्रश्च देवानामिंद्रः।



हृष्टतुष्टा मिथ ऊचुः सर्वैर्देवै रश्रुतम्॥१४९॥



बुद्धो जातो लोके प्रावर्तयद् धर्मचक्रमनुत्तरम्।



वृद्धिर्देवानां सर्वेषामसुराणां च परिहाणिः॥१५०॥



उत्थाय विश्वश्रवा नाम ऋषिदुःखे ज्ञानं लोकतो विरागः।



सर्वेषु धर्मेष्वात्मस्थितः प्रावर्त्तयत् प्रज्ञया धर्मचक्रम्॥१५१॥



अभावयत् समसमैः धर्मैरवशिष्ठैः चित्तं निर्मलम्।



परिज्ञातुं जातिमरणान्तरायं प्रावर्त्तयत् प्रज्ञाया धर्मचक्रम्॥१५२॥



निरोधाय दुःखस्य विरागाय च सर्वदोषाणाम्।



निष्कामोऽलभत आत्मस्थितिम्।



राग-लोभ-सौमनस्यवर्जितः प्रावर्त्तयत् प्रज्ञया धर्मचक्रम्॥१५३॥



श्रेष्ठो नराणां संबुद्धो द्विपदामुत्तमो वशी।



सर्ववंधिवर्निमुक्तः प्रावर्त्तयत् प्रज्ञया धर्मचक्रम्॥१५४॥



देशयन् कुशलं नानाऽऽचार्यकं मारशत्रो र्विजेता।



विगतः सर्वैरकुशलैः प्रावर्त्तयत् प्रज्ञया धर्मचक्रम्॥१५५॥



निरास्त्रवो मारजित् सर्वेन्द्रियेष्वपरिश्रान्तः।



क्षीणास्त्रवो विगतमारपाशः प्रावर्त्तयत् प्रज्ञया धर्मचक्रम्॥१५६॥



स चेत् शिक्षेत निश्चिनुयात् सर्वान् धर्मान् अनात्मतः।



अयमस्ति धर्मेषूत्तरः प्रावर्त्तयत् ०॥१५७॥



नेच्छति यत आजीवलाभं अपि न याचते यशः।



सत्वेषु तेषु करुणायमानः प्रावर्त्तयत् ०॥१५८॥



दृष्ट्वा सत्वान् दुखान्तरायमग्नान् जराव्याधि-मृत्युभिः पीडितान्।



एताभिः तिसृभिः दुर्गतिभिः प्रावर्त्तयत् ०॥१५९॥



क्षीणरागद्वेषमोहः प्रहीणतृष्णामूलः।



अचलश्च विमुक्तौ प्रावर्त्तयत् ०॥१६०॥



आत्मा (हि)जेतुं दुर्जयोऽकरोद् जिन आत्मजयम्।



दुःखं जेतुं अजयत् मारं प्रावर्त्तयत्॥ १६१॥



अनुत्तरं धर्मचक्रमिदं बुद्ध एव तदा प्रवर्त्तयितुमलम्।



सर्वैर्देवशत्रुमारब्रह्मभिर्नालं,दुष्प्रवर्त्यम्॥१६२॥



संबुद्धप्रवर्तितं धर्मचक्रं हिताय देव-मनुष्याणाम्।



एतान् देव-मनुष्यान् शास्ताऽतारयत् परंपारम्॥१६३॥



तदा राजपुत्रो यशो महामात्यपुत्रः तिष्यश्चापश्यतां धर्मं,अलभतां फलं अमृषाभूतं परिपूर्णं अभयम्। अथ तौ ऊचतुः बुद्धं एतद् वचनं- "इच्छावः तथागतस्य सुपरिशुद्धे धर्मविनये ब्रह्मचर्यं चरितुम्।"



 



बुद्ध उवाच- "साधु,एतां भिक्षू,मम धर्मे परिशुद्धे आत्मनिस्थितो चरतां (ब्रह्मचर्यं)सम्यग्दुःखक्षयाय।"



 



तस्मिन् काले द्वौ जनौ अलभतां उपसंपदम्। उपसम्पाद्य तथागतो नचिरेण प्रादुरकरोत् निर्माय त्रीणि वस्तूनि,तद्यथा प्रथमं ऋद्धिपाद इति,द्वितीयं परचित्तज्ञानं इति,तृतीय च शिक्षा-शीलं इति। तदा अलभतां अनास्त्रवां चेतोविमुक्तिं अविचिकित्सतप्रज्ञताम्।



 



तस्मिन् काले बंधुमतीनगरेऽश्रृणोत् महाजनः -



 



"द्वौ जनौ प्रब्रज्य आगारात् शिक्षेते (बोधि-)मार्गं,आदाय चीवरं परिशुद्धं पात्रं च भावयतो ब्रह्मचर्यम्। (अथ)ते सर्वे परस्परं ऊचुः - "अद्धा,सत्य एष मार्गः यत एतौ चक्रतुः परितत्यजतुः लोकसत्कारम्।"



 



अथ नगरात् चतुरशीतिसहस्त्र मनुष्याः जग्मुः मृगदावे,यत्र विपश्यी बुद्धः स्थितः। बंदित्वा च (बुद्धस्य)पादौ एकमन्तं न्यषीदन्। देशयामास बुद्ध आनुपूर्व्येण धर्म्यां (कथां),तद्यथा दानकथां,शीलकथां,स्वर्गकथां,कामानां आदिनवं अपरिशुद्धतां हीनानां आस्त्रवाणां,सभयतां,प्राशंसच्च नैष्कर्म्यस्य भावम् अतिसूक्ष्मं परिशुद्धं अनुत्तरम्। यदा भगवान् अपश्यत् तं महाजनं मृदुचित्तं श्राद्धं प्रसन्नं हृष्टतुष्टं भव्यं सद्धर्मलाभाय। अथ तं अदेशयत् दुखं आर्य सत्यं संवदमानः संविभजमानः,प्राकाशयत्,व्याकरोच्च दुःखसमुदयं आर्यसत्यं,दुःखनिरोधं आर्यसत्यं,दुःखनिरोधगामिनीप्रतिपदं आर्यसत्यम्। अथ तत् चतुराशीति जनसहस्त्रं तस्मिनेवासनेऽलभत परिशुद्धं धर्मचक्षुः,तद्यथाऽवदातं वस्त्रं सम्यग् गृहणीयाद् रजनम्। अपश्यत् अलभत च फलं पूर्णं अभयं अमृषाद्वारेण।



 



अथ तेऽवदन् बुद्धं च इदं वचनं-



"इच्छामो वयं तथागतस्य सुपरिशुद्धे धर्मविनये ब्रह्मचर्यं चरितुम्। "



 



बुद्ध उवाच - "साधु,एत भिक्षवः,मम धर्मे आत्मस्थिताः चरत (ब्रह्मचर्यं)सम्यग्दुःखक्षयाय।"



 



अथ चतुराशीतिजनसहस्त्रं अलभत उपसंपदम्। उपसंपाद्य च तथागतो नचिरेण पर्यपूरयत् भगवतः त्रिवस्तुकां शिक्षां,तत्र प्रथम  उच्यते ऋद्धिपादः,द्वितीयं उच्यते परचित्तज्ञानं,तृतीयमुच्यते शिक्षाशीलम्। अथ तेऽलभन्त अनास्त्रवां चेतोविमुक्तिं अविचिकित्सप्रज्ञां चतुराशीतिसहस्त्रं जनाः।



 



अथ अश्रृण्वन् बंधुमतीजनाः - "बुद्धो (भगवान्)मृगदावे प्रावर्त्तयद् अनुत्तरं धर्मचक्रं केनापि श्रमणेनब्राह्मणेन देवेन मारेण च अप्रावर्त्यम्।"



 



तदा बंधुमतीवासिन उपसंचक्रमुः तत् स्थानं,यत्र भगवान् स्थितः। उपसंक्रम्य च शिरसा वंदित्वा (भगवतः)पादौ एकमन्तं न्यषीदन्। तदा बुद्धो गाथयाऽभाषत-



 



यथा याचन्ते शरणात् प्रदीपात् शीघ्रं कामयन्तो निरोधस्थानम्।



एव जना,अपि शीघ्रं उपजम्मुः तं तथागतम्॥१६४॥



 



अपि चैवं ,तस्मिन् काले बंधुमत्यां अभवत् त्रिशताष्टचत्वारिंशत्सहस्त्रं  महाभिक्षुसंघः। यशो भिक्षुस्तिष्यो भिक्षुश्च तस्मिन् संघे उद्गम्य आकाशकायात् निष्कासयामासतुः जलं अग्निं (यमकप्रातिहार्यं),अदर्शयतां च ऋद्धिं महाजनाय,देशयांचक्रतुरणुं धर्मम्।



तस्मिन् काले तथागतः तूष्णीं स्वचित्त उवाच- "अस्मिन् नगरे च भवति त्रिशताष्टचत्वारिंशत्सहस्त्रं महाभिक्षुसंघः,यन्नु अहं प्रेषयेयं द्वौ द्वौ प्रत्येकं स्थानं षष्ठे संवत्सरे च प्रत्यावर्त्तनं नगरे तेषां,देशयंतु च ते परिपूर्णं शीलम्।"



 



आज्ञासीत् च तथागतस्य चित्तं सहांपतिः ब्रह्मा (सि-तु-ब्रह्म-देवो),अथ यथा बलवान् पुरुषः समिंजिंत बाहुं प्रसारयेत्,तथा तस्माद् देवलोकात् निष्क्रम्य उपाक्रमत् इहात्र भगवतः पुरः शिरसा वंदित्वा एकमन्तं अतिष्ठत्। एकमन्तं स्थित्वा च उवाच बुद्धं -



 



"एवमेव भगवान्,अस्मिन् बंधुमतीनगरे बहुभिक्षुसंघः,युक्तः सर्वेषां संविभागः सर्वत्र चारिका च,षटसु संवत्सरेषु प्रत्यावर्त्तनं चास्मिन् नगरे। देशयंतु ते परिपूर्णं ब्रह्मचर्यं आरक्षिष्यामि च तत्र छिद्रं न लाभं गवेषयेत्।"



 



तदा तथागतो देवस्य वचनं श्रुत्वा तूष्णीं अन्वज्ञासीत्। दृष्ट्वा अनुजाननं बुद्धस्य सहांपतिर्देवो वंदित्वा बुद्धस्य पादौ तत् क्षणं अन्तर्धाय ऊर्ध्वं देवलोकं प्रत्यावर्त्तत।



 



न चिरेण तस्य गमनाद बुद्धस्तान् भिक्षून् उवाच-



इदानीं अस्मिन् नगरे बहुभिक्षुसंघः,परितो गच्छत चारिकार्थं,षण्णां संवत्सराणां पश्चाद् आगच्छत शीलं (प्रातिमोक्षं)उद्देष्टुम्।"



 



तदा ते भिक्षव उद्गृह्य बुद्धस्य वचनं पात्र-चीवरं आदाय वंदित्वा च बुद्धं अगमन्।



तस्मिन् काले बुद्धो गाथया उवाच -



प्राहिणोद् बुद्धः संघं वीतमोहं वीतलोभं च।



यथा दृढः सुवर्णपक्षः हंसो निपतेत् रिक्तपुष्करिण्याः॥१६५॥



अथ सहांपति देव एकं संवत्सर विहाय उवाच तान् भिक्षून्-



"निष्ठितं एकं संवत्सरं युष्माकं (चारिकां)चरमाणानां,अवशिष्यंते पंच संवत्सराणति जानीत। यं षण्णां संवत्सराणां अत्ययेन प्रत्यावर्त्य उद्दिशत प्रातिमोक्षम्।"



 



एवं यावत् षड् वर्षं देवः पुनरुवाच वचनम्।



एवं यावत् षष्ठे संवत्सरे देवः पुनरुवाच वचनम्-



"परिपूर्णानि षट् संवत्सराणि,प्रत्यावर्त्तध्वं प्रातिमोक्षं उद्देष्टुम्।"



अथ ते भिक्षवः प्रतिश्रुत्य देवस्य वचनं पात्रचीवरं आदाय प्रत्यागमन् बंधुमतीनगरे,गताश्च मृगदावे (यत्र)विहरंति विपश्यी बुद्धः। शिरसा वंदित्वा बुद्धस्य पादौ एकमन्तं न्यषीदन्। तस्मिन् काले बुद्धो गाथयाऽध्यभाषत-



यथा हस्ती सुविनीतः कामनां नानुगच्छति।



एवं संघः (सुविनीतः)शिक्षां अनुप्रत्यावर्त्तते॥१६६॥



 



तस्मिन् काले तथागतो महतः संघस्य पुरत ऊर्ध्व वाते पर्यंकं आभुज्य न्यषीदत् अदिशच्च प्रातिमोक्षसूत्रं क्षांतिं प्रथमं अदिशद् बुद्धो निर्वाणं- न भवति केश-श्मश्रववहारेण मुंडोऽथश्रमणः।



तस्मिन् काले सहांपति र्देव उपागम्य बुद्धस्य नातिदूरे गाथाभिरभाषत् स्तोमनवचनं-



 



तथागतो महाप्राज्ञः सूक्ष्माद्भुतकेवलोत्तमः।



सम्यग्भावना परिपूर्णोऽभवत् सम्यक्संबुद्धः॥१६७॥



सत्वेष्वनुकंपया लोके परिपूर्णं मार्गम्।



चतुर्णां आर्यसत्यानां श्रावकेभ्यः सादिशत्॥१६८॥



दुःखं दुःखसमुदयं च दुःखनिरोध-सत्यं (च)।



आर्याष्टागिकं मार्गं प्राप्य स्थानं सुरक्षितम्॥१६९॥



विपश्यी बुद्धः प्रादुर्भुय लोके संघमध्ये 



 सूर्यो यथा प्रभया प्रभासते॥१७०॥



इमां गाथां उक्त्वा (स)तत्रैवान्तरधात्।



 



तस्मिन् काले भगवान् उवाच तान् भिक्षून् -



 



पूर्वं एकदा राजगृहे गृद्धकूटपवर्तेऽभूवम्। तदा मम चित्त इदं अभूत्- यः कोऽपि मम उपस्थानं ऋच्छति सहांपतिदेवं परिवर्ज्य,स चेद जायते देवेषु,न पुनरागमिष्यतीह। पुनरपि भिक्षवः,तदा मम चित्त इदं अभूत्-इच्छामि अहं यावत् देवेषु उपरि गन्तुम्। अथ अहं यथा वलवान् पुरुषः सम्मिंजितं बाहुं प्रसारयेत् (प्रसारितं वा समिंजेत्,तस्मिनेष)काले इतो निर्गम्य प्रादुरभूतं तेषु देवेषु। अथ ते सर्वे देवा मां द्रष्टुं आगतास्तत्र। (आगम्य)च शिरसा वंदित्वा एकमन्तं स्थिता ऊचुश्च इदं वचनंवयं सर्वे श्रावका विपश्यिनम् तथागतस्य,तस्माद् बुद्धदेशना (श्रवणार्थं)आगता इह। (अथ)आदिशद् बुद्धो हेतुं प्रत्ययं साद्यन्तं पुनः (भविष्यति)शिखी बुद्धः,विश्वभूः बुद्धः,क्रकुसच्छन्द,कोनागमनो बुद्धः,काश्यपो बुद्धः,शाक्यमुनिर्बुद्धः। सर्व इमे भवन्ति शास्तारः। अहं एतद्देशनार्थं आगत इह अवदंश्च ते बुद्धाः सहेतु-प्रत्ययं साद्यन्तं,जाता च अकनिष्ठलोके एवम्।



 



तस्मिन् काले बुद्धो गाथामिरभाषत-



पुरुषो यथा बलवान् बाहुं समिंजेत प्रसारयेत्।



अहं अकरवं ऋद्धिविधं गन्तुं अकनिष्ठदेवेषु॥१७१॥



सप्तमे महास्वर्गे?जित्वा उभयं मारम्।



अपश्यन् अनन्ता देवा अवदन् कृत्वांऽजलिम्॥१७२॥



यथा श-तु-वृक्षः शक्रः शास्तारमश्रुणोत्।



सुलक्षणं पुण्यं सुदर्शनं देवाः॥१७३॥



पद्मपुष्पं यथा नोलिप्यते जलेन।



तथा भगवान् अनास्त्रवो गतः सुदर्शनै॥१७४॥



सूर्यो यथा प्रथम उद्गतः परिशुद्धोऽनाविलः।



प्रभा यथा शरदिन्दोः प्राप्तं परममनुत्तमं एकम्॥१७५॥



इमेषु पंचस्वावसथेषु सर्वे जायन्ते शुद्धकर्माणः।



शुद्धचित्ताः तत आगत्य न क्लेशं प्राप्नुवंति ते॥१७६॥



परिशुद्धं चित्तमागम्य भूत्वा बुद्धस्य श्रावकाः।



परिहाय क्लेशोपादानं सन्तुष्टा अनुपादानात्॥१७७॥



दृष्ट्वा धर्मं निश्चितं विपश्यिनः सुतः।



शुद्धचित्तः समागतः संगम्य महर्षिणा॥१७८॥



शिखिबुद्धस्य सुतो विरजः (च-)संस्कृतः।



चित्तं संशोध्य गतो निर्गम्य भव स्वामिनः॥१७९॥



विश्वभू (बुद्धस्य)सुतः सर्वेन्द्रियपरिपूर्णः।



शुद्धचित्तः समागतः सूर्यस्येव प्रभा नभसि॥१८०॥



क्रकुच्छन्दस्य पुत्रः सर्वान् परिहाय कामान्।



शुद्धचित्तोऽगमत् पूर्णचन्द्रप्रभास्वरः॥१८१॥



कोणागमनस्य पुत्रः विरजः (च-)संस्कृतः।



शुद्धचित्ततोऽगमत् मां अनुत्तरदेव इव चिन्तयन्॥१८२॥



अशक्नोत् महर्षिः प्रथमं ऋद्धिपादम्।



उपायुंक्तातिबलं चित्तं भवितुं बुद्धस्य श्रावकः॥१८३॥



शुद्धचित्तस्य संजातो भवितुं बुद्धस्य श्रावकः।



वंदित्वा तथागतं अवोचत्  पुरुषोत्तमम्॥१८४॥



प्राप्तो मार्ग इह जन्मनि नामगोत्रं (च)।



सम्यग्दृष्टिं धर्मं गंभीरं प्राप्तोऽनुत्तरं मार्गम्॥१८५॥



विविक्तस्थापितो भिक्षवो विगतान्तारजोमलाः।



अकुसीति-वीर्या रंभिणः छेत्स्यंति भवपाशम्॥१८६॥



इमे सन्ति सर्वे बुद्धा साद्यन्तहेतुप्रत्ययाः।



सक्तास्तथागतास्तेन (दिशन्ति)देशनाः॥१८७॥



 



बुद्धोऽवोचदिदं महावदानसूत्रं अथ ते भिक्षवः श्रुत्वा बुद्धस्य भाषितं आत्तमनसः समन्वमोदन्त्त॥



 



॥ (इति)बुद्धभाषिते दीर्घागमसूत्रे प्रथमः भागः॥



 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project