Digital Sanskrit Buddhist Canon

महामेघ सूत्रम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Mahā megha sūtram
महामेघ सूत्रम्



ओं नमो ऽचिन्त्य-सागरेभ्यः सर्व-बुद्ध-बोधिसत्त्वेभ्यः। एवं मया श्रुतम् एकस्मिन् समये भगवन् नन्दोपनन्द-नागराजा भवने विहरति स्म। श्री-मणि-रत्न-गर्भ-महा-मेघ-मण्डल-कूटागारे महता भिक्षु-संघेन सार्धं महता च बोधिसत्त्व-संघेन सार्धं महता च नाग-राज-गणेन सार्धम्, तद्यथा, नन्देन च नाग-राजेन उपनन्देन च सागरेण च अनवतप्तेन च मनस्विना च वरुणेन च तक्षकेन च धृतराष्ट्रेण च वासुकिना च मुचिलिन्देन च एरावणेन च पौण्ड्रेन च श्रीतेजसा च श्री-भद्रेण च विद्यु-मालिना च महा-मणि-चूडेन च चूडा-मणि-धरेण च अवभासन-शिखिना च इन्द्रायुध-शिखरेण च इन्द्र-ध्वजेन च इन्द्र-यष्टिना च जम्बु-ध्वजेन च स्वस्तिकेन च महा-मण्डलिकेन च महा भुजङ्गेन च ज्योति-रसेन च शशितेजसा च श्रिमता च सोम-दर्शनेन च सु-दर्शनेन च सुप्रतिष्ठितेन च मणि-कण्ठेन च मेघ-संभवेन च वर्षधारेण च प्रस्फोटकेन च विस्फोटकेन च विस्फूर्जितेन च महाफनकेन च गम्भीर-निर्घोषेन च महा-निर्नाद-नादिना च नाग-राजेन च विनर्दितेन च उत्पलकेन च महा-विक्रमेण च ईषाधारेण च चित्र-सेनेन च महा-पाशेन च एलपत्रेण च आभासेन च खर-कर्णेन च शङ्खेन च दर्दरेण च उप-दर्दरेण च नाग-राजेन क्षेमं-करेण च महा-क्षेमं-करेण च भुजंगमेन च महा-भूजंगमेन च महा-बलेन च फलुडेन च अपलालेन च लम्बुरेण च कृमिशेन च कृष्णेन च इन्द्र-सेनेन च नाग-राजेन नडेन च उपनडेन च कम्बु-धारेण च द्रमिदेन च सुन्दरेण च हस्ति-कर्णेन च तीक्ष्णकेन च पिङ्गलेन च विद्युज्ज्वालेन च महा-विद्युत्-प्रभेन च बल-देवेन च कम्बलेन च भरु-कच्छेन च नाग-राजेन अमृतेन च तीर्थकेन च वैडूर्य-प्रभेन च सुवर्ण-केशेन च कनक-प्रभेन च शशिकेतु-प्रभेन च सूर्य-प्रभेन च उदयनेन च गवे-शीर्षेण च श्वेतकेन च नाग-राजेन कालकेन च यमेन च श्रामणेन च मसकेन च संहतनेन च निमिन्-धरेण च धरणिं-धरेण च सहस्र-शीर्षेण च मणि-चूडेन च अमोघ-दर्शनेन च नाग-राजेन बलाहकेन च सु-षेणेन च गो-पालेन च नर-दत्तेन च विनीतेन च जरायनेन च कुम्भीरेन च कुम्भीर-मुखेन च विषं-धरेण च आशिविषेण च नाग-राजेन पद्मकेन च लाङ्गुलेन च प्रलम्बेन च भीषणेन च सुतेजसा च पञ्च-शीर्षेण च बल्लिरेण च जरद्-रथेन च उत्तरकेन च नाग-राजेन दीर्घ-पुच्छेन च स्फार-शीर्षेण च बिम्बिकेन च विधुरेण च अश्वकेन च त्रिशीर्षेण च नाग-षेणेन च महा-तेजसा च नल-दत्तेन च भीमकेन च दीप्त-प्रभेन च सप्त-शीर्षेण च बृहद्-द्रुमेन च प्रियदर्शनेन च महा-प्रचण्डेन च विमल-तेजसा च सु-नेत्रेण च महा-घोरेण च अर्चिः-स्कन्धेन च महा-चण्डेन च नाग-राजेन उग्र-क्रोधेन च रत्नाम्बुदेन च महा-मेघाम्बुदेन च इन्द्र-प्रभेन च पाद-पेन च मेघ-चन्द्रेण च सागर-मेघ च महा-गन्ध-कुसुमेन च कुमुदाकरेण च रत्न-नेत्रेण च नागे-राजेन महा-केतु-ध्वजेन च महा-मेघ-गर्भेण च हिमवता च श्री-गर्भेण च मेघ-शक्तिकेन च रजनिन्-धरेण च अम्बुदेन च महा-मेघाम्बुदेन च महाम्बुदेन च वैश्वानर-तेजसा च मेघेश्वर-राजेन च विगत-क्रोधेन च ककुबेन च नागशूरेण च जलन्-धरेण च मेघ-च्छत्रेण च इङ्गीर-मुखेन च तेजस्विना च मेघ-स्फूदितेन च अनन्त-क्रमेन च नाग-राजेन सुषेणेन च महा-शरीरेण च वृकोदरेण च शान्तिना च वीरेण च काक-नादेन च उद्धुरेण च विषोग्रेण च सुघोषेन च अमृतसारेण च महा-प्रवर्षकेन च विद्युन्-नदेन च संघट्ट-शब्देन च दुंदुभि-स्वरेण च अमृत-धारेण च नन्दिकेन च गर्जस्फोटकेन च सूर-षेणेन च नारायणेन च वदवा-मुखेन च विकटेन च नाग-राजेन, एवं प्रमुखैः सर्व-महा-नाग-राज-पूर्वंगमैश्चतुर्-अशित्या नागा-कोटि-नियुत-शत-सहस्रैः सन्निपतितैः सन्निषन्नैः।



तेन खलु पुनः समयेन सर्वे ते नाग-राजाः सपरिवारा उत्तायासनेभ्य एकांसम्-उत्तरा-सङ्गानि कृत्वा दक्षिणानि जानु मण्डलानि पृथिव्यां प्रतिष्ठाप्य येन भगवांस् तेनाञ्जलिं प्रणम्याप्रमेयासम्ख्येयैः परम-विविध-रुचिरैः पुष्प-धूप-गन्ध-माल्य-विलेपन-चूर्ण-चिवर-च्छत्र-ध्वज-पताक-पट्ट-दाम-वाद्य-तूर्य-ताडावचार-संगीति-रत्नकुसुम- रत्नदाम-मुक्ताहार-नागपुष्प-मुक्तजालैग् गर्जन्तो गुडुगुडायमान महा-वातां प्रवायन्तो महा-नादं नदन्तो रमणीयांश् च धर्म-नादं नदन्तः, महता-गुरु-गौरव-चित्री-कारेण भगवन्तम् अभिच्छादयन्तः प्रदक्षिणी कुर्वन्ति स्म। प्रदक्षिणि कृत्यैकान्ते तस्थुः, एकन्त-स्थिताः प्रणिधानानि कुर्वन्ति स्म। सर्व-लोक-धातु-समुद्र-परमाणुरजः-समैः काय-समुद्रैः, सर्व-बुद्ध-बोधिसत्त्व-पर्षन्-मण्डल-समुद्रेषु, सर्व-लोक-धातु-प्रसर-समुद्रेषु, सर्व-पृथिव्य्-अप्तेजो-वायु-परमाणुरजः सर्व-रूपावभास-सम-परमाणुरजःसु, एकैकस्मिं, परमाणुरजसि, सर्व-गणना-समुद्र-समतिक्रन्तैर् असंख्येयाप्रमेयाचिन्त्यातुल्यामाप्यानभिलाप्य-समतिक्रन्तैः काय-मेघ-समुद्रैः, एकैकस्मिन् काये ऽप्रमेयासंख्येयान् पाणि-समुद्र-मेघान् अधिष्ठाय, समन्त-दिक्-श्रोतो ऽभिमुकाद् एकैकस्मात् परमाणुराजो-भगात् समन्त-दिक्-कुल-स्फलणैर् असंभिन्नैः सर्व-पूजा-मेघ-समुद्रैः, सर्व-बुद्ध-बोधिसत्त्व-समुद्रान् सत्कुर्यामो गुरुकुर्यामो मानयेमः पूजयेमः, यदुताप्रमेयासंख्येयाचिन्त्यातुल्यामाप्यापरिमाणान् अभिलाप्यैर् असंभिन्नैः समन्तभद्र-चर्या। प्रभाव-समुद्र-मेघैः संच्छन्नं गगणतलम् अधिष्ठाय, यथा बोधिसत्त्वात्म-भाव-समुद्र-मेघैः, एवं सर्व-रत्न-वर्ण-रस्मि-धने-सर्व-सूर्य-चन्द्रात्म-भाव-मण्डल-समुद्र-मेघैः, सर्व-रत्न-हार-कुसुम-समुद्र-मेघैः, सर्व-रत्नावभास-गर्भ-कुटागार-समुद्र-मेघैः, सर्व-चूर्ण-वृक्ष-कोशसमुद्र-मेघैः सर्व-गन्ध-धूप-सर्व-रूप-संदर्शन-समुद्र-मेघैः, सर्व-रुत-निगर्जित-वाद्य-समुद्र-मेघैः, सर्व-गन्ध-वृक्ष-कोश-समुद्र-मेघैः, संच्छन्नं गगणतलम् अधिष्ठाय, एवं प्रमुखैर् अप्रमेयासंख्येयाचिन्त्यातुल्यामाप्यापरिमाणानभिलाप्यैः असंभिन्नैः सर्व-पूजा-मेघ-समुद्रैः, सर्व-बुद्ध-बोधिसत्त्व-समुद्रान् सत्कुर्यामो गुरुकुर्यामो मानयेमः पुजयेमः। सर्व-व्यूह-विषय-विद्योतित-गर्भ-मणि-राज-समुद्र-मेघैः संच्छन्नं गगणतलम् अधिष्ठाय, सर्व-बुद्ध-बोधिसत्त्व-समुद्रान् सत्कुर्यामो गुरुकुर्यामो मानयेमः पूजयेमः।



सर्व-समन्तावभास-रत्न-वर्ष-व्यूह-मणि-राज-समुद्र-मेघैः सर्व-रत्नार्चिर्-ज्वालन-बुद्ध-नियाम-निर्घोष-मणि-राज-समुद्र-मेघैः, समन्त-स्फारण-सर्व-बुद्ध-धर्म-निर्घोष-मणि-राज-समुद्र-मेघैः, समन्त-मुख-रत्न-रश्मि-बुद्ध-निर्माणावभास-समुद्र-मेघैः, सर्व-व्यूहासम्भिन्न-पर्षन्-मण्डल-प्रतिभास-संदर्शन-मणि-राज-समुद्र-मेघैः, अर्चिः-प्रदीप-सर्व-बुद्ध-विषयानुसरण-मणि-राज-समुद्र-मेघैः, अचिन्त्य-बुद्ध-क्षेत्र-तथागत-विमान-प्रतिभास-संदर्शन-मणि-राज-समुद्र-मेघैः, सर्व-विचित्र-रत्न-रेणुं त्र्य्-अधव-बुद्ध-काय-प्रतिबास-वैरोचन-मणि-राज-समुद्र-मेघैः, संच्छन्नं गगनतलम् अधिष्ठाय, सर्व-बुद्ध-बोधिसत्त्व-समुद्रान् सत्कुर्यामो गुरुकुर्यामो मानयेमः पूजयेमः। असंभिन्नैः सर्व-रत्न-गन्ध-विचित्र-पुष्प-कूटागार-समुद्र-मेघैः, अनन्त-वर्ण-सर्व-मणि-राज-प्रतिमण्डित-कूटागार-समुद्र-मेघैः, सर्व-रत्न-प्रदीप-गन्धार्चिः-कूटागार-समुद्र-मेघैः, सर्व-मुका-हार-विचित्र-कूटागार-समुद्र-मेघैः, सर्व-पुष्प-केशर-समुद्र-मेघैः, अनन्त-रत्न-हार-समलंकृत-कूटागार-समुद्र-मेघैः, संच्छन्नं गगनतलम् अधिष्ठाय, दश-दिक्-स्फरण-समन्त-रश्मि-ज्योतिर्-गर्भ-सर्व-व्यूह-प्रतिमण्डित-समन्त-स्फरण-कूटागार-समुद्र-मेघैः, सर्व-रत्न-रेणु-प्रतिमण्डितानेक-व्यूह-संदर्शन-कूटागार-समुद्र-मेघैः, सर्व-व्यूह-प्रतिमण्डित-समन्त-स्फरण-कूटागार-समुद्र-मेघैः, समन्त-मुख-पुष्प-तोरण-घण्टा-जालावलम्बित-समुद्र-मेघैः, संच्छन्नं गगनतलम् अधिष्ठाय, सर्व-बुद्ध-बोधिसत्त्व-समुद्रान् सत्कुर्यामो गुरुकुर्यामो मानयेमः पूजयेमः। कञ्चन-रत्न-विचित्र-सूत्र-हार-रत्न-हर्ष-गर्भ-सिंहासन-समुद्र-मेघैः, कुसुमावभास-विचित्र-गर्भ-सिंहासन-समुद्र-मेघैः, इन्द्र-नील-जम्बूनद-पद्म-विचिर-गर्भ-सिंहासन-समुद्र-मेघैः, प्रदीप-मणि-पद्म-गर्भ-सिंहासन-समुद्र-मेघैः, ज्योतिर्-ध्वज-मणि-रत्न-पद्म-विचित्र-गर्भ-सिंहासन-समुद्र-मेघैः, रत्न-प्रतिमण्डित-पद्म-विचित्र-गर्भ-सिंहासन-समुद्र-मेघैः, इन्द्र-नील-रुचिर-ज्वलन-रश्मि-पद्म-गर्भ-सिंहासन-समुद्र-मेघैः, अक्षय-रश्मि-ज्वलन-तेजः पद्म-गर्भ-सिंहासन-समुद्र-मेघैः, सर्व-रत्न-ज्वाल-निःसृत-पद्म-गर्भ-सिंहासन-समुद्र-मेघैः, बुद्ध-रुत-निर्घोष-रश्मि-पद्म-गर्भ-सिंहासन-समुद्र-मेघैः, असंभिन्नैः संच्छन्नं गगनतलम् अधिष्ठाय, सर्वबुद्ध-बोधिसत्त्व-समुद्रान् सत्कुर्यामो गुरुकुर्यामो मानयेमः पूजयेमः। सर्व-गन्ध-मणि-विचित्र-वृक्ष-समुद्र-मेघैः, समन्त-मुख-पत्राञ्जलि-मेघ-निःसरण-गन्ध-वृक्ष-समुद्र-मेघैः, सर्व-वृक्ष-रूपानन्त-व्यूह-संदर्शन-वृक्ष-समुद्र-मेघैः, सर्व-कुसुम-मेघ-प्रलम्ब-वृक्ष-समुद्र-मेघैः, सर्व-वृक्ष-व्यूह-निःसृतानत-कोश-वृक्ष-समुद्र-मेघैः, सर्वरत्नार्चिर्-मण्डल-विद्योतित-वृक्ष-समुद्र-मेघैः, सर्व-चन्दन-चूर्ण-बोधिसत्त्वार्ध-काय-संदर्शन-समुद्र-मेघैः, सर्वबोधि-मण्डलाचिन्त्य-व्यूह-प्रभा-वृक्ष-देवतानन्त-सर्व-रत्न-वस्त्र-कोश-सूर्य-विद्योतित-वृक्ष-समुद्र-मेघैः, सर्व-रुत-निर्घोष-निगर्जन-मनोज्ञा-निर्घोष-समन्त-प्रमुञ्चन-वृक्ष-समुद्र-मेघैः, अनन्त-वर्ण-रत्न-पद्म-गर्भ-सिंहासन-समुद्र-मेघैः, समन्त-अभिमुख-मणि-राज-विद्योतित-गर्भ-सिंहासन-समुद्र-मेघैः, सर्वालंकार-व्यूह-प्रतिमण्डित-गर्भ-सिंहासन-समुद्र-मेघैः, विचित्र-रत्नार्चिः-प्रदिप-मालागर्भ-सिंहासन-समुद्र-मेघैः, समन्त-निर्घोष-रत्न-वर्ष-निःसरण-गर्भ-सिंहासन-समुद्र-मेघैः, सर्व-गन्ध-कुसुम-पद्म-हार-रत्न-गर्भ-सिंहासन-समुद्र-मेघैः, सर्व-बुद्धासन-व्यूह-संदर्शन-मणि-राज-गर्भ-सिंहासन-समुद्र-मेघैः, सर्व-व्यूह-हार-प्रलंब-तोरण-वेदिका-प्रतिमण्डित-रत्न-गर्भ-मेघ-सिंहासन-समुद्र-मेघैः, सर्व-द्रुम-मणि-रत्न-शाख-चूर्ण-कोश-गर्भ-सिंहासन-समुद्र-मेघैः, विचित्र-गन्ध-रत्न-किंकिनी-जाल-समन्तालंकार-सूर्य-विद्योतित-गर्भ-सिंहासन-समुद्र-मेघैः, संच्छन्नं गगनतलम् अधिष्ठाय, सर्व-बुद्ध-बोधिसत्त्व-समुद्रान् सत्कुर्यामो गुरुकुर्यामो मानयेमः पूजयेमः। सर्व-चिन्ता-राज-मणि-वितान-समुद्र-मेघैः, इन्द्र-नील-रत्न-केशर-सर्व-पुष्प-व्यूह-वितान-समुद्र-मेघैः, सर्व-गन्ध-मणि-वितान-समुद्र-मेघैः, रत्नार्चिः-प्रदीप-विग्रह-वितान-समुद्र-मेघैः, बुद्ध-ऋद्धि-विनिदर्शन-प्रभास-निर्घोष-मणि-राज-वितान-समुद्र-मेघैः, विचित्र-मणि-वस्त्र-सर्व-व्यूह-प्रभास-संदर्शन-वितान-समुद्र-मेघैः, सर्व-पुष्प-औघ-ज्वालावभास-रत्न-वितान-समुद्र-मेघैः, विचित्र-घण्ट-समन्त-निर्घोष-स्फरण-ज्वाल-वितान-समुद्र-मेघैः, अनन्त-वर्ण-पद्म-ज्वाल-विचित्र-मणि-कर्कटिक-पद्म-जाल-वितान-समुद्र-मेघैः, सुवर्ण-केशर-रश्मि-ज्योतिर्-ध्वज-वितान-समुद्र-मेघैः, अचिन्त्य-व्यूह-प्रतिभास-प्रभा-सर्व-व्यूहालंकार-वितान-समुद्र-मेघैः, संच्छन्नं गगनतलम् अधिष्ठाय, सर्व-बुद्ध-बोधिसत्त्व-सागर-मेघ-समुद्रान् सत्कुर्यामो गुरुकुर्यामो मानयेमः पूजयेमः। विचित्र-सर्व-मणि-रत्न-च्छत्र-समुद्र-मेघैः, संच्छन्नं गगनतलम् अधिष्ठाय, दशभिर्-रत्न-रश्मि-ज्योतिर्-व्यूह-पुष्प-च्छत्र-समुद्र-मेघैः, अनन्त-वर्ण-मुक्ति-कोश-च्छत्र-समुद्र-मेघैः, सर्व-बुद्ध-बोधिसत्त्व-करुणा-मुख-निर्घोष-मणि-राज-च्छत्र-समुद्र-मेघैः, विचित्र-रत्नार्चिर्-माला-च्छत्र-समुद्र-मेघैः, समन्त-रत्न-रेणु-प्रभास-प्रतिमण्डित-घण्टा-जालावलंबित-च्छत्र-समुद्र-मेघैः, सर्व-मणि-द्रुम-शाकालंकार-च्छत्र-समुद्र-मेघैः, सूर्य-विरोचनार्चिर्-मणि-राज-सर्व-गन्ध-धूप-च्छत्र-समुद्र-मेघैः, चन्दन-चूर्ण-कोश-समन्त-स्फरण-च्छत्र-समुद्र-मेघैः, विपुल-बुद्ध-विषय-विद्योतित-समन्त-व्यूह-स्फरण-च्छत्र-समुद्र-मेघैः, असंभिन्नैः सर्व-बुद्ध-बोधिसत्त्व-समुद्रान् सत्कुर्यामो गुरुकुर्यामो मानयेमः पूजयेमः। सर्वरत्नावभास-मण्डल-समुद्र-मेघैः, असंभिन्नैः सर्व-रत्नार्चिर्-विग्रह-प्रभा-मण्डल-समुद्र-मेघैः, कुसुम-मेघ-विद्योतित-प्रभा-मण्डल-समुद्र-मेघैः, सर्व-रत्न-रश्मि-बुद्ध-निर्माण-प्रभा-मण्डल-समुद्र-मेघैः, सर्व-बुद्ध-क्षेत्र-प्रतिभासान्तर्गत-प्रभा-मण्डल-समुद्र-मेघैः, समन्त-मुख-बुद्ध-विषय-निगर्जन-रत्न-शाख-प्रभा-मण्डल-समुद्र-मेघैः, सर्व-वैदूर्य-रत्न-गोत्र-मणि-राज-रश्मि-प्रभा-मण्डल-समुद्र-मेघैः, अनन्त-सत्त्व-रूप-चित्त-क्षण-संदर्शन-प्रभा-मण्डल-समुद्र-मेघैः, सर्व-बुद्ध-प्रणिधानं-संभव-मनोज्ञा-नाद-प्रमुञ्चन-प्रभा-मण्डल-समुद्र-मेघैः, सर्व-पर्षन्-मण्डल-सत्त्व-विनय-निर्घोष-मणि-राज-प्रभा-मण्डल-समुद्र-मेघैः, सर्व-बुद्ध-बोधिसत्त्व-समुद्रान् सत्कुर्यामो गुरुकुर्यामो मानयेमः पूजयेमः। सर्व-मणि-कोश-रश्मि-समुद्र-मेघैः, सर्व-बुद्ध-रूप-शब्द-गन्ध-रस-स्प्रष्टव्य-रश्मि-समुद्र-मेघैः, सर्व-रत्नार्चिः-समुद्र-मेघैः, सर्व-बुद्ध-धर्म-निगर्जन-स्फरण-रश्मि-समुद्र-मेघैः, सर्व-बुद्ध-क्षेत्र-व्यूह-विद्योतित-रश्मि-समुद्र-मेघैः, सर्व-पुष्प-कूटागार-रश्मि-समुद्र-मेघैः, सर्व-रत्न-रेणु-रश्मि-समुद्र-मेघैः, सर्व-कल्प-परंपरा-बुद्ध-संभव-सत्त्व-परिपाचन-निगर्जन-रश्मि-समुद्र-मेघैः, अक्षयसत्त्व-रत्न-निदर्शन-सर्व-पुष्प-केशर-रश्मि-समुद्र-मेघैः, सर्वासन-व्यूह-संदर्शन-रश्मि-समुद्र-मेघैः असंभिन्नैः सर्व-बुद्ध-बोधिसत्त्व-समुद्रान् सत्कुर्यामो गुरुकुर्यामो मानयेमः पूजयेमः। असंभिन्नैर् अनन्त-वर्ण-रत्नार्चिः-समुद्रमेघैः, समन्त-प्रभा-मणि-राजार्चिः-समुद्र-मेघैः, विपुल-सर्व-बुद्ध-क्षेत्र-व्यूह-विद्योतितार्चिः-समुद्र-मेघैः, सर्व-गन्धार्चिः-समुद्र-मेघैः, सर्व-व्यूहार्चिः-समुद्र-मेघैः, सर्व-बुद्ध-निर्माणार्चिः-समुद्र-मेघैः, विचित्र-रत्न-द्रुम-केशरार्चिः-समुद्र-मेघैः, सर्व-वस्त्रार्चिः-समुद्र-मेघैः, अनन्त-बोधिसत्त्व-चर्या-निर्घोष-मणि-राजार्चिः-समुद्र-मेघैः, सर्व-मुक्ता-प्रदिपार्चिः-समुद्र-मेघैः, असंभिन्नैः सर्वबुद्ध-बोधिसत्त्व-सागर-मेघ-समुद्रान् सत्कुर्यामो गुरुकुर्यामो मानयेमः पूजयेमः। अचिन्त्यैः सर्व-गन्ध-पुष्प-विचित्र-समुद्र-मेघैः, सर्व-रत्नार्चिः-पद्म-जाल-समुद्र-मेघैः, अनन्त-वर्ण-मणि-रत्न-प्रभा मण्डल-समुद्र-मेघैः, सर्व-रत्न-वर्ण-मुक्ता-कोश-समुद्र-मेघैः, सर्व-रत्न-गन्ध-चन्दन-चुर्ण-समुद्र-मेघैः, सर्व-रत्न-च्छत्र-समुद्र-मेघैः, मनोज्ञ-शुभ-रुत-स्वर्ण-केशर-रश्मि-ज्योतिर्-ध्वज-वितान-समुद्र-मेघैः, अचिन्त्य-व्यूह-प्रतिभास-प्रभा-सर्व-व्यूहालंकार-समुद्र-मेघैः, मनोज्ञ-शुभ-रुचिर-निर्घोष-मणि-राज समुद्र-मेघैः, सूर्य-ज्योतिर्-मणि-चक्र-हार-समुद्र-मेघैः, अनन्त-रत्न-कोश-समुद्र-मेघैः, सर्व-समत-भद्रात्म-भाव-समुद्र-मेघैः, असंभिन्नैः सर्व-बुद्ध-बोधिसत्त्व-सागर-मेघ-समुद्रान् सत्कुर्यामो गुरुकुर्यामो मानयेमः पूजयेमः।



एवम् रूपं प्रणिधानं कृत्वा ते नाग-राजानः पुनर् अपि भगवन्तं त्रिः प्रदक्षिणिकृत्य पादाभिवदनाञ् च कृत्वा, भगवतानुज्ञताः स्वेषु स्वस्थासनेषु न्यषीदन्। तेन खलु पुनः समयेन अनन्त-परिकल-सागल-मेघ-व्यूह-तेजो-मण्डल-छत्राकार-राजस् त्रि-साहस्र-महा-साहस्रिको महा-नागाधिपतिः अवैवर्तिक-प्रणिधान-परिकर्मैर् जम्बुद्वीपे ऽत्यागतस् तथागतस्य पूजनायै वन्दनायै पर्युपासनायै धर्म-श्रवणायै च।



अथ खल्व् अनन्त-परिकर-सागर-मेघ-व्यूह-तेजो-मण्डल-छत्राकार-राजस् त्रि-साहस्र-महा-साहस्रिको महा-नागाधिपतिः उत्थायासनाद् एकांशम् उत्तरा-सङ्गं कृत्वा दक्षिणम् जानु-मण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् एतद् अवोचत्।



पृच्छेयम् अहं भगवन्तं तथागतम् अर्हन्तं सम्यक्सम्बुद्धं किञ्चिद् एव प्रदेश-प्रश्नं सचेन् मे भगवान् अवकाशं कुर्यात् पृष्टः प्रश्न-व्याकरणाय। एवम् उक्ते भगवान् अनन्त-परिकर-सागर-मेघ-व्यूह-तेजो-मण्डल-छत्राकार-राजं नागाधिपतिम् एतद् अवोचत्। पृच्छ त्वं भुजङ्गाधिपते यद् यद् एवाकाङ्क्षस्य् अहं ते, तस्य तस्यैव प्रश्न-व्याकरणेन चित्तम् आराधयिष्ये।



एवम् उक्ते ऽनन्त-परिकर-सागर-मेघ-व्यूह-तेजो-मण्डल-छत्राकार-राजस् त्रि-साहस्र-महा-साहस्रिको महा-नागाधिपतिर् भगवन्तम् एतद् अवोचत्। कतं भगवन् सर्व-नागानां सर्वनाग-दुःकानि प्रति-प्रश्रंभ्येयुः, प्रहर्षिताः सुख-समन्विताश् चेह जम्बु-द्वीपे कालानुकालं वर्ष-धारा उत्सृजेयुः, सर्व-तृण-गुल्मौषधि-वनस्पतीन् विरोहयेयुः, सर्व-शस्यान्य् उत्पादयेयुः, सर्व-रसान् संजनयेयुः, येन जंबुद्वीपका मनुष्याः सुखसमर्पिता भवेयुः।



एवम् उक्ते भगवान् अनन्त-परिकर-सागर-मेघ-व्यूह-तेजोमण्डल-छत्राकार-राजं त्रि-साहस्र-महा-साहस्रिको महा-नागाधिपतिम् एतद् अवोचत्। साधु साधु भुजङ्गाधिपते यत् त्वं सर्वसत्त्वानां हित-सुखाय प्रतिपन्नः तथागतम् एतद् अर्थं परिप्रष्टव्यं मन्यसे। तेन हि भुजङ्गाधिपते शृणु साधु च सुष्ठु च मनसिकुरु भाषिष्ये ऽहन् ते। एक-धर्मेन भुजङ्गाधिपते समन्वागतानां सर्व-नागानां सर्व-दुःखानि प्रश्रंभ्येयुः, सुख-समर्पिताश् च भवेयुः। कतमेनैक-धर्मेण, यदुत मैत्र्या तत्र भुजङ्गाधिपते मैत्री-विहारिणो देव-मनुस्याः, अग्निना न दह्यन्ते, शस्त्रेण न क्षण्यन्ते, उदकेन नोह्यन्ते, विषेण न हन्यन्ते, पर-चक्रेण-नाभिभूयन्ते, सुखं स्वप्यन्ति, सुखं च प्रतिबुद्ध्यन्ते, स्वपुण्य-परिरक्षिताश् च भवन्ति, महा-पुण्यतेजस् तेजिताः, अनवमर्दनीयाश् च भवन्ति, स-देवकेन लोकेन प्रसादिकाश् च भवन्ति, प्रिय-दर्शनाश् च सर्वत्राप्रतिहत-गतयश् च भवन्ति, सर्व-दुःख-प्रतिप्रश्रब्धाः संप्रहर्षिताश् च भवन्ति। सर्व-सुख-समर्पिताः उत्तरे च मनुष्य-धर्म-प्रतिविध्य-कायस्य भेदाद् ब्रह्म-लोके उपपद्यन्ते। एते भुजङ्गाधिपते अनुशंसा मैत्री-विहारिणां देव-मनुष्यानां, तस्मात् तर्हि भुजङ्गाधिपते मैत्रेण काय-कर्मणा मैत्रेण वाक्-कर्मणा मैत्रेण मनस्-कर्मणा विहर्तव्यं। पुनर्-अपरं भुजङ्गाधिपते सर्व-सुखं-ददा-नाम-धारणी प्रवर्त्तयितव्या, सा सर्व-नागानां सर्व-नाग-दुःखानि प्रतिप्रस्रम्भ्यति सर्व-सुखानि च ददाति, येनेह जम्बुद्वीपे कालेन कालं वर्ष-धारा उत्सृजति, सर्व-तृन-गुल्मौषधि-वनस्पति-शस्यानि च विरोहयन्ति, तत्र भुजङ्गाधिपते कतमा सा सर्व-सुखं-ददा-नाम-धारणी। तद्यथा, धारणि धारणि उत्तारणि संप्रतिष्ठिता विजय-वर्ण सत्यप्रतिज्ञा सहा-ज्ञानवति उत्पादनि विनाशनि अभिषेचनि अभिव्याहारशुभावति अजीमतामहि कुम्बाल-निवाहा, हर क्लेशान्, धुनु पापं, शोधय मार्गान्, निरीहक-धर्मता, शुद्धालोक, वितिमिरा-रजस, दुःख-शमन, सर्व-बुद्धावलोकनाधिष्ठिते, सहा-प्रज्ञा, ज्ञानाभे, स्वाहा।



इमानि तानि भुजङ्गाधिपते धारणी-मन्त्र-पदानि धारयितव्यानि परिवर्त्तयितव्यानि सर्व-साधनानि धर्म-प्रवेशनानि सर्वबुद्धाधिष्ठितानि सर्व-सुख-प्रदानानि।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project