Digital Sanskrit Buddhist Canon

महापरिनिर्वाण सूत्रम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Mahāparinirvāṇa sūtram

महापरिनिर्वाण सूत्रम्

१।१ एवं मया श्रुतम्।

२ एकं समयं भगवा ( न्) राज गृहे विहर (ति) गृध्रकूटे पर्वते। तेन खल्(उ समयेन राजा मागधो ऽजातशत्रुर् वैदेहीपु)त्रो वृजिभिः सार्धं प्रतिविरुद्धः।

३ स एवं परिष दि वाचं (भाषते )। अहम् इमान् वृजीन् ऋद्धांश्) च स्फी(तांश्च क्षेमांश् च सुभिक्षांश् चाकीर्णबहुजनम) नुष्यांश् चोत्सादयिष्यामि विनाशयिष्याम्य् अनयेन व्यसनम्) आपादयिष्यामि।

४ अथ राजा मा(गधो ऽजातशत्रुर् वैदेहीपुत्रो वर्षाकारं ब्र् )आहमणमगधमहामात्रम् आमन्त्रयते।

५ एहि त्वं वर्षाकार येन भगवांस् तेनोपसंक्रम। उपेत्यास्मा (कं वचनेन) भगवतः पादौ शिरसा वन्दस्वा)। पाबाधतां च पृच्छाल्पातण्कतां च लघूत्तहानतां च या त्रां च बलं च (सु)खं चानवद्य(तां च स्पर्शविहारतां च। )

१।६ ( एवं च वद। राजा) मागधो ऽजातशत्रुर् वैदेहीपुत्रो वृजिभिः सार्धं प्रतिविरुद्धः। स एवं परिषदि वाचं भाष्(अते। अहम् इमान् वृजीन् ऋद्धांश् च स्फीतांश् च क्षेमांश् च ) सुभिक्षांश् चाकीर्णबहुजनमनु(स्यां)श् चो (त्सा)दय्(इ)ष्याम्(इ) विनाशयिष्याम्(य्) अनयेन व्यसन्(अम् आपादयिष्यामि। )

७ (किं) भगवान् आमन्त्रयते। यथा वर्षा)कार स भगवां व्याकरोति तथैव्(ओद्गृहाण। तत् कस्माद्)धेतोः। ) (अ) वितथावा(द्)इ(न्)ओ हि भ(व)न्ति (तथागतार्हन्तः सम्यक्संबुद्धाः। )

८ (एवं) देवेति वर्षाकारो ब्राह्म)णमगधमहामात्रो राज्ञो मा(गधस्याजातशत्रोर् वैदेहीपुत्रस्य प्रतिश्रुत्य) सर्वश्वेतं वडब्(आ)रथम् अभ्(इ)रुह्य् (अ) .. .. .. .. .. .. .. .. .. ... .. .. .. ... .. (राजगृहान् निर्याति भगवतो ऽन्तिकेनोपदर्शनाय भगव) न्तं पर्युपासनायै। तस्य याव्(अद् यानस्य भूमिस् तावद् यानेन गत्वा यानाद् अवतीर्य पद्भ्याम् एव गृध्रकूटं पर्वतम् अभिरुह्य येन भगवांस् तेनोपजगामोपेत्य) भगवता सार्धं (संमुखं संमोदनीं संरंजनीं विविधां कथां व्यतिसार्यैकान्ते न्यषीदत्। )

१।९ (एकान्ते निषण्णो वर्षाकारो ब्राह्मणमगधमहामा)त्र्(ओ) भगव(न्)तम् इद(मवोचत्।)

१० (राजा)मागधो ऽजातशत्रुर् वैदेहीपुत्रो भगवतः पादौ शिरसा वन्दत्य् अल्पाबाधतां च पृच्छत्य् अल्पातण्कतां च) पूर्ववद् याव्(अत् स्पर्श)विहारतां च।

११ सु(खी भवतु वर्षाकार राजा मागधो ऽजातशत्रुर् वैदेहीपुत्रस् त्वं च। )

१२ (राजा) भदन्त मागधो ऽजातशत्रुर् वैदेहीपुत्रो वृजिभिः सार्धं) प्रतिविरु(द्धः। स एवं) परिषदि वाचं भ्(आषते। अहम् इमान् वृजीन् ऋद्धांश् च स्फीतांश् च क्षेमांश् च सुभिक्षांश् चाकीर्णबहुजनमनुस्यांश् चोत्सादयिष्यामि विनाशयि) ष्याम्य् अन् (अन्येन व्य)सनम् आपादयिष्(य्)आ(मि)

१३ (किं) भगवाङ् गौतम आमन्त्रयते। )

१४ (एकम् अहं वर्षाकार समयं वृजिषु जनपदेषु विहरामि चापाले) (च्)ऐत्ये)। तत्र म(या वृजीनां) सप्तापरिहा(णीया) धर्मा देशिताः। यावच्) च वर्षाकार वृजय इमान् सप्तापरिहाणीयान् धर्मान् समादाय वर्तीष्यन्ते वृजिषु च सप्तापरिहा) णीया (ध)र्माः सन्द्रक्ष्य्(अन्ते वृद्धिर् एव वृजीनां प्रतिकांक्षितव्या कुशलानां धर्माणां न परिहाणिः।)

१।१५ (एवम्) अहं भदन्तास्य भगवतो गौतमस्य संक्षिप्तेन) भा(षि)तस्यावि(भक्तस्य विस्तरेणार्थं नाजानामि। भगवान् गौतमो संक्षिप्तेन भाषितस्यार्थं विभक्तं विस्तरेण भाषेत। एवम् अहं भगवतो गौतम) स्य संक्षिप्तेन भाषितस्य विभ(अक्तं विस्तरेणार्थं साधु एवाज्ञास्यामि। )

१६ (तेन ) खलु समयेनायुष्मान् आनन्दो भगवतः पृष्ठतः स्थितो भ)गवन्तं वीजयमानः। तत्र भग (वान् आयुष्मन्तम् आनन्दम् आमन्त्रयते। )

१७ (किं नु त्वयानन्द श्रुतं वृजयो ऽभीक्ष्णसन्निपाता अभीक्ष्णं सन्निपातबहुलाविहरन्ति। )

१८ (श्रुतं मे भदन्त वृजयो ऽभिक्ष्णसन्निपाता अभीक्ष्णं सन्निपातबहुला विहरन्ति। )

१९ (यावच्) च वर्षाकार वृजयो ऽभीक्ष्णसन्निपाता अभीक्ष्णं सन्निपातबहुला विहरिष्यन्ति वृद्धिर् एव वृजीनां प्रतिकांक्षितव्या कुशलानां धर्माणां न परिहाणिः। )

२० (किं नु त्वयानन्द श्रुतं वृजयः समग्राः सन्निपतन्ति समग्रा व्युत्तिष्ठन्ति समग्रा वृजिकरणीयानि कुर्वन्ति। )

२१ (श्रुतं मे भ) दन्त वृजयः सम(ग्राः सन्निपतन्ति समग्रा व्युत्थिष्ठन्ति समग्रा वृजिकरणीयानि कुर्वन्ति। )

१।२२ (यावच्) च वर्षाकार वृजयः समग्राः सन्निपतिष्यन्ति सम ) ग्रा व्युत्थास्यन्ति (समग्रा वृजिकरणीयानि करिष्यन्ति वृद्धिर् एव वृजीनां प्रतिकांक्षितव्या कुशलानां धर्माणां न परिहाणिः । )

२३ (किं नु त्वयानन्द श्रुतं वृजयो ऽप्र) णिहितं न प्रणि(दधति प्रणिहितं च न समुच्छिन्दन्ति यथाप्रज्ञप्तं वृजिधर्मं समादाय वर्तन्ते। )

२४ (श्रुतं मे भदन्त वृजयो ऽप्रणिहितं न प्रणिदधति प्रणिहि) तं च न समुच्छिन्(द)न्(ति यथाप्रज्ञप्तं वृजिधर्मं समादाय वर्तन्ते। )

२५ (यावच्) च वर्षाकार वृजयो ऽप्रणिहीतं न प्रणिधास्यन्ति प्रणिहितं च न समुच्छेत्स्यन्ति यथाप्रज्ञप्तं) वृजिधर्मं समादा(य वर्तिष्यन्ते वृद्धिर् एव वृजीनां प्रतिकांक्षितव्या कुशलानां धर्माणां न परिहाणिः। )

२६ ( किं नु) त्वयानन्द श्रुतं यास् ता वृजीनां वृजिप्रजापत्यो) वृजिकुमारिकाश्) च पितृरक्षिता मातृरक्षिता भ्रातृरक्षिता भगिनीरक्षिताः श्वशुररक्षिताः श्वश्रुरक्षिता ज्ञातिरक्षिता गोत्ररक्षिताः सपरिदण्डाः सस्वामिकाः कन्)याः परपरिगृ(हीता अन्तशो) मालागुणपरिक्षिप्ता अपि तद्रूपासु) न स (हसा चारित्रम् आपद्यन्ते। )

१।२७ (श्रुतं मे भदन्त वृजयो या)स् ता वृजीनां वृजि(प्)र्(अजापत्यो वृजिकुमारिकाश् च पितृरक्षिता मातृरक्षिताः पूर्ववद् यावद् अन्तशो मालागुणपरिक्षिप्ता अ ) पि तद्रूपा( सु न सहसा) चारित्रम् आपद्य(न्ते। )

२८ (यावद्)च वर्षाकार वृजयो यास् ता) व्(ऋ)जीनां वृजि(प्रजापत्यो वृजिकुमारिकाश् च पूर्ववद् यावद् अन्तशो मालागुणपरिक्षिप्तापि) तद्रूपासु न स (हसा चारित्रम् आपत्स्यन्ते वृद्धिर् एव ) वृजीनां (प्रतिकांक्षितव्या कुशलाणां धर्माणां न परिहाणिः। )

२९ (किं नु त्वयानन्द श्रुतं वृजयो ये) ते वृजीनां वृजिमह्(अल्लकास् तान् सत्कुर्वन्ति गुरुकुर्वन्ति मानयन्ति पूजयन्ति तेषां वचनं श्रोतव्यं मन्यन्ते।)

३० (श्रुतं मे भदन्त वृज) यो ये ते वृ(जीनां वृजिमहल्लकास् तान् सत्कुर्वन्ति गुरुकुर्वन्ति मानयन्ति पूजयन्ति तेषां वचनं श्रोतव्यं मन्यन्ते। )

१।३१ (यावच्) च वर्षाकार वृजयो ये ते वृजीनां वृजिमहल्लकास् तान् सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति तेषां वचनं श्रोत)व्यं म (ं)स्य्(अन्ते) व्(ऋ)द्धिर् एव वृजीनां प्रति(कांक्षितव्या कुशलानां धर्माणां न परिहाणिः।)

३२ (किं नु त्वयानन्द श्रुतं वृजयो ये ते ) वृजीनां चतुर्दिक्षु वृजिचैत्यास् तान् सत्कुर्वन्ति गुरुकुर्वन्)ति मानयन्ति पूजयन्ति तेषां च पौ(राणं चिह्नवृत्तं न समुच्छिन्दन्ति। )

३३ (श्रुतं मे भदन्त वृजयो ये ते वृजीनां चतुर्दिक्षु वृजिचैत्यास् तान् सत्कुर्वन्ति गुरुकुर्वन्ति मानयन्ति पूजयन्) ति तेषां च पौराणं चिह्(न्)अवृत्तं (न समुच्छिन्दन्ति। )

३४ (यावच्) च वर्षाकार वृजयो ये ते वृजीनां चतुर्दिक्षु वृजिचैत्यास् तान् सत्करि)ष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति तेषां च पौराणं चिह्नवृत्तं न ) समु(च्छेत्)स्य (न्)ति वृद्धिर् एव वृजीनां प्रतिकांक्षितव्या कुशलानां धर्माणा(ं) न परिहाणि(ः)।

३५ (किं नु त्वयानन्द) श्रुतं वृजीनाम् अर्हता( म् अन्ति)के तीव्रचेतस आरक्षास्मृतिः प्रत्युपस्थिता कच्चिद् अनागताश् चार्हन्त आगच्छेयुर् आगताश् चाभिरमेरंस् ते च न विहन्येरञ् चीवरपिण्डपा(तशयनासनग्ला) नप्रत्ययभैषज्यपरिष्कारैः।

१।३६ श्रुतं मे भदन्त वृजीनाम् अर्हताम् अन्तिके तीव्रचेतस आरक्षास्मृतिः प्रत्युपस्थिता कच्चिद् अनागताश् चार्हन्त आर (च्छेयुर् आगताश् चा)भिरमेरंस् ते च न विहन्येरञ् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः।

३७ यावच्) च वर्षाकार वृ(जी)नाम् अर्हताम् अन्तिके तीव्र चेतस (आरक्षास्मृतिः) प्रत्युपस्थिता भविष्यति कच्चिद् अनागताश् चार्हन्त आगच्छेयुर् आगताश् चाभिरमेर(ं)स् ते च न विहन्येरञ् चीवर पिण्डपातशयनासनग्लानप्रत्ययभै षज्यपरिष्का(रैर् वृद्धिर् एव वृजी) नां प्रतिकांक्षितव्या कुशलानां धर्माणां न परिहाणिः।

३८ यावच्) च वर्षाकार वृजय इमान् सप्तापरिहाणीयान् धर्मान् समादाय वर्तिष्यन्ते वृजिषु च सप्तापरिहा(णीयाधर्माः सन्द्रक्ष्यन्)ते वृद्धिर् एव वृजीनां प्रतिकांक्षि तव्या कुशलानां धर्माणां न परिहाणिः।

१।४० एकैकेन तावद् भो गौतमाङ्गेन समन्वागता। वृजयो ऽगमनीयाः स्यू राज्ञो माग(धस्याजातश)त्रोर् वैदेहीपुत्रस्य कः पुनर् वादः सर्वैः।

४१ हन्त भो गौतम गमिष्यामो बहुकृत्याः स्मो बहुकरणीयाः।

४२ यस्येदानीं वर्षाकार काल(ं) मन्यसे।

४३ अथ वर्षाकारो ब्राह्मण मगधमहामात्रो भगवतो भाषितम् अभिनन्द्यानुमोद्य भगवतो ऽन्तिकात् प्रक्रान्तः।

२।१ तत्र भगवान् (आयुष्मन्तम् आनन्दम् आमन्त्रयते। यावन्तो भिक्षवो गृध्र) कूटपर्वतम् उपनिश्रित्य) विहरन्ति तान् सर्वान् उपस्थानशालायां (सन्निपातय। )

२ (एवम् भदन्तेत्य्) आयुष्मान् आनन्दो भगवतः प्रतिश्रुत्य यावन्तो भिक्षवो गृध्रकूटं पर्वत(म् उपनिश्रित्य) विहरन्ति तान् सर्वान् उपस्थानशालायां सन्निपातयित्वा येन भगवांस् तेनोपजगाम। उपेत्य भगवत्पादौ शिरसा वन्दित्वैकान्ते ऽस्थात्। एकान्त्(अ) स्थित्(अ)आ(युष्मान् आनन्दो) भगवन्तम् इदम् अवोचत्।

३ यावन्तो भदन्त भिक्षवो गृध्रकूटं पर्वतम् उपनिश्रित्य विहरन्ति ऽते सर्व उपस्थानशालायां सन्निपतिताः। यस्येदानीं भगवाङ् कालं मन्(यते। )

२।४ (अथ भगवान् ये) नोपस्थानशाला तेनोपजगाम। उपेत्य पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने न्यषी(दत्)। निषद्य भगवान् भिक्षून् आमन्त्र(य)ते स्म।

५ सप्ताहं) वो भिक्षवो ऽपरिहा(णीयान् धर्मान् देशयिष्या) म्(इ)ताञ् शृणुत साधुच सुष्ठु च मनसि कुरुत भाषिष्ये। सप्ताप(रिहाणीया धर्माः कतमे। )

६ (यावच्) च भिक्षवो ऽभीक्ष्णसन्निपाता अ) भीक्ष्णं सन्निपातबहुला विहरिष्यन्ति वृद्धिर् एव भिक्षूणां प्रतिकां (क्षितव्या कुशलानां धर्माणां न परिहाणिः। )

७ (यावच्) च भिक्षवः समग्राः) सन्निपतिष्यन्ति समग्रा व्युत्थास्यन्ति समग्राः संघकरणीया (नि करिष्यन्ति वृद्धिर् एव भिक्षूणां प्रतिकांक्षितव्या कुशलानां धर्माणां न परिहाणिः। )

८ (याव)च् (च) भिक्षवो ऽप्रणिहितं न प्रणिधास्यन्ति प्रणिहितं च न (समुच्छेत्स्यन्ति यथा) प्रज्ञप्(त्)इ(कां शि) क्षां समादाय्(अ वर्तिष्यन्ते वृद्धिर् एव भिक्षूणां प्रतिकांक्षितव्या) क्(उ)शलानां धर्मा(ण्)आं न परिहाणीः।

९ यावच् ) च भिक्(षवस् तृष्णायाः पौनर्भवि) क्या (नन्दिराग)सहगतायास् त(त्रतत्राभिनन्दिन्या वशं न गच्छन्ति वृद्धिर् एव भिक्षूणां प्रतिकांक्षितव्या कुशलानां धर्माणां न परिहाणिः। )

२।१० (यावच्) च भिक्षवो ये ते भिक्षवः) स्थविरा रात्(र्)इज्ञाश् चिरप्रव्रजिता (तान् सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूज) यिष्यन्ति तेषां वचनं (श्)र्(ओत)व्(य्)अं म (ंस्यन्ते वृद्धिर् एव भिक्षूणां प्रतिकांक्षितव्या कुशलानां धर्माणां न परिहाणिः। )

११ (यावच्) च भिक्षवो ऽरण्यवनप्रस्थानि) प्रान्तानि शयनासनान्य् अध्यावसिष्यन्(ति वृद्धिर् एव भिक्षूणां प्रतिकां क्षितव्या कुशलानां धर्माणां न परिहाणिः।)

१२ (यावच्) च भिक्षवः सब्रह्मचारिणाम् अन्तिके ती) व्रचेतस आरक्षास्मृतिः प्रत्युपस्थ्(इता कच्चिद् अनागताश् च सब्रह्मचारिण आगच्छेयुर् आगताश् चाभिरमेरंस् ते च न विहन्येरञ् चीवरपिण्डपातशयनासनग्ला) नप्रत्ययभैषज्यपरिष्कारैर् वृद्धिर् एव भिक्षूणां प्र्(अतिकांक्षितव्या कुशलानां धर्माणां न परिहाणिः। )

१३ (यावच्) च भिक्षव इ(मान् सप्तापरिहाणीयान् धर्मान् समादाय वर्तिष्यन्ते भिक्षुषु ) च सप्तापरिहाणीया धर्माः सन्द्रक्ष्यन्ते वृद्(ध्)इ(र् एव भिक्षूणां प्रतिकांक्षितव्या कुश) लानां धर्माणां न परिहा(णिः।)

१४ (अपरान्) अपि सप्तापरिहाणीयान् धर्मान् देशयिष्यामि ताञ् शृणुत) साधु चसुष्ठु च मनसि कुरुत भा(षिष्ये। सप्तापरिहाणीया ध) र्माः कतमे।

२।१५ (यावच्) च भिक्षवः शा(स्तारं सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति शास्तारं सत्कृत्वा गुरुकृत्वा मानयित्वा पू(जयित्वोपश्रि)त्य विहरिष्यन्ति धर्मं शिक्षाम् अनुशा (सनम् अप्रमादं प्रतिसंस्तरं समाधिं सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्य)न्ति पूजयिष्यन्ति समाधिं सत्कृत्वा (गुरुकृत्वा) मान(यित्वा पूजयित्वोपश्रित्य विहरिष्यन्ति वृद्धिर् एव भिक्षूणां प्रतिकांक्षितव्या कुशलानां धर्माणां न परिहाणिः। )

१७ (अपरा)न् अपि सप्तापरिहाणीयान् धर्मान् दे(श) यिष्यामि (ताञ् शृणुत साधु च सुष्ठु च मनसि कुरुत भाषिष्ये। सप्तापरिहाणीया धर्माः कतमे। )

१८ (यावच् च भिक्षवो न कर्मारामा भविष्यन्ति न भ्) आष्यारामा न निद्रार्(आमा) न स (ं)गणि(कारामा) (वि) शेषाधिगमेना (न्त)रावसा(न्) (वृद्धिर् एव भिक्षूणां प्रतिकांक्षितव्या कुशलानां धर्माणां न परिहाणिः। )

२० (अपरान्) अपि सप्तापरिहा) णी यान् धर्मान् देशयिष्यामि ताञ् शृणुत (साधु च सुष्ठु च मनसि कुरुत भाषिष्ये। सप्तापरिहाणीया धर्माः कतमे। )

२१ (यावच् च भिक्षवः श्राद्धा ) भविष्यन्ति ह्रीमन्तो भविष्यन्त्य्) अवत्रापिण आरब्धवीर्या उ(पस्थितस्मृतयः समाहिताः प्रज्ञावन्तो भविष्यन्ति वृद्धिर् एव भिक्षूणां प्रतिकांक्षितव्या कुशलानां धर्माणां न परिहाणिः। )

२३ (अपरा)न् अपि सप्तापरिहाणीयान् धर्मान् देश (यिष्यामि ताञ् शृणुत साधु च सुष्ठु च मनसि कुरुत भाषिष्ये। सप्तापरिहाणीया धर्माः कतमे। )

२४ (यावच् च भिक्षवो धर्मज्ञा अर्थ ज्ञा)ः कालज्ञा मात्रज्(ञ्)आ आत्मज्ञाः परिष्(अज्ज्ञाः पुद्गलवरावरज्ञा) वृद्धिर् एव भिक्षूणां प्रतिकांक्षितव्या कुशलानां धर्माणां न परिहाणिः। )

२६ (अपरान्) अपि सप्तापरिहाणीयान् धर्मान् देशयिष्यामि ताञ् शृणुत साधु च सुष्ठु च मनसि कुरुत भाषिष्ये। सप्तापरिहाणीया धर्माः कतमे। )

२७ (यावच् च भिक्षवः स्मृतिसंबोध्यङ्गं) भावयिष्यन्ति विवेकनिश्रितं विरागनिश्रितं निरोधनिश्रितं व्यवसर्गपरिणतं धर्मविचयवीर्यप्रीतिप्रस्रब्धिसमाध्युपेक्षासंबोध्यङ्गं भावयिष्यन्ति विवेकनिश्रितं विरागनिश्रितं निरोधनिश्रितं व्यवसर्गपरिणत वृद्धिर् एव भिक्षूणां प्रतिकांक्षितव्या कुशलानां धर्माणां न परिहाणिः। )

२८ (यावच्) च भिक्षव इमान् सप्तापरिहाणीयान् धर्मान् समादाय वर्तिष्यन्ते भिक्षुषु च सप्तापरिहाणीया धर्माः सन्द्रक्ष्यन्ते वृद्धिर् एव भिक्षूणां प्रतिकांक्षितव्या कुशलानां धर्माणां न परिहाणिः। )

२९ (षड्) अहं वो भिक्षवः संरंजनीयान् धर्मान् देशयिष्यामि ताञ् शृणुत साधु च सुष्ठु च मनसि कुरुत भाषिष्ये। षट् संरंजनीया धर्माः कतमे। )

३० मैत्रं मे कायकर्म प्रत्युपस्थितं भविष्यति शास्तु(र् अ)न्तिके विज्ञ्(आ)नाञ् च सब्रह्मचार्(इ)णाम्। अयं धर्मः संरंजनीयः प्रियकरणो गुरुकरणो मनापकरणः प्रियत्वाय गुरुत्वायगौरवाय भावनाय संग्रहाय समाधयेऽविग्रहायाविवा दाय एकोतीभावाय संवर्तते।

२।३१ मैत्रं वाक्कर्म

३२ मैत्रं मनस्कर्म

३३ ये ते लाभा धार्मिका धर्मलब्धा अन्ततः पात्रगताः पात्रपर्यापन्नास् तद्रूपेषु लाभेषु साधारणपरिभोजिनो भविष्यामो ऽप्रतिगुप्तभोजिन्(अः) सार्धं विज्ञैः सब्रह्मचारिभिः।
अयं धर्मः संरंजनी(यः) पूर्ववत् )।

२।३४ यानि तानि शीला (न्)य् अखण्डान्य् अच्छिद्राण्य् अशबलान्य् अकल्माषाणि भुजिष्याण्य् अपरामृष्टानि सुसमाप्तानि सुसमादत्तानि वि(ज्ञ)प्रशस्तान्य् अगर्हितानि विज्ञैस् तद्रूपैः शीलैः शीलसामान्यगता भविष्यामः सार्धं विज्ञैः स(ब्)र्(अ)ह्मच्(आ)रिभिः। अ यं धर्मः संरंजनीयः पूर्ववत्।

३५ येयं दृष्टिर् आर्या नैर्याणिका )नैर्वेधिक्(आ) निर्याति तत्करसम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै तद्रूपया दृष्ट्या दृष्टि(सा)मान्यगता भविष्यामः सार्धं विज्ञैः सब्रह्मचारिभिः। अयं धर्मः संरंजनीयः पूर्ववद् यावद् एकोतीभावा(य सं) वर्तते।

३६ (यावच्) च भिक्षव इमान् षट् संरंजनीयान् धर्मान् समादाय वर्तिष्यन्ते भिक्षु षु च षट् संरंजनीया धर्माः सन्द्रक्ष्यन्ते वृद्धिर् एव भिक्षूणां प्रतिकां क्षितव्या कुशलानां धर्माणां न परिहाणिः। )

३।१ (तत्र) भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते। आगमयानन्द येन पाटलिग्रामकः। )

२ (एवं ) भदन्तेत्य् आयुष्मान् आनन्दो भगवतः प्रत्यश्रौषीत्। अथ भगवान् सार्धं भिक्षुसङ्घेन मगधेषु जनपदेषु चार्यां चरण् अन्तरा ) च पाटलिग्रामकं अन्तरा च राजगृहं राजागारके रात्रीं विहरति वेणुयष्टिकाम् उपनिश्रित्य। )

३ (अथ भगवान् भिक्षून् आमन्त्रयते स्म। चतुर्णां ) भिक्षव आर्यसत्यानाम् अज्ञानाद् अदर्शनाद् अनवबोधाद् अप्रतिवेधाद् इदम् दीर्घम् अध्वानं) संधावितं संसृतं मया युष्माभिर् एव च। कतमेषां चतुर्णाम्। )

४ ( दुःखस्य दुःखसमुदयस्य दुःखनिरोधस्य दुःखनिरोधगामिन्याः प्रतिपदो ऽज्ञानाद् अदर्शनाद् अनवबोधाद् अप्रतिवेधाद् इदं दीर्घम् अध्वानं संधावितं संसृतं मया युष्मा) भिर् एव च।

३।५ तद् इदं दुःख (म् आर्यसत्यम् अनुविद्धं प्)र् (अति ) विद्धम् उच्छ्(इ)न्ना भवनेत्री विक्षीणो जातिसंसारो नास्तीदानी(ं)पुनर्भवः।

६ दुःखसमुदयो ) दुःखनिरोधो दुःख निरोधगामिनी प्रति(पद् आर्यसत्यम् अनुविद्धं) प्(र)त्(इ)विद्धम् उच्छिन् (न्)आ भवनेत्री विक्षीणो जातिसंसारो नास्तीदानीं पुनर्भवः।

८ चतुर्णाम् आर्यसत्यानां
यथाभूतम् अदर्शनात्।
संसृतं (द्)ईर्घ(म् अध्वानं)
मया यु)ष्माभिर् एव च॥१॥

९ तानि सत्यानि दृष्टानि
भवनेत्री समुद्धृता।
विक्षीणो जातिसंसारो
नास्तीदानीं पुनर्भवः॥२॥

४।१ तत्र भ(गवान् आयुष्मन्तम् आनन् )दम् (आ) मन्त्रयते। आगमयानन्द येन पाटलिग्रामकः।

२ एवं भदन्तेत्य् आयुष्मा(न् आ) नन् (द्)ओ भगवतः प्रत्यश्रौषीत्। अथ भ(गवा)न् (मगधेषु जनपदेषु चर्यां चरन् पाट)लिग्रामकम् अनुप्राप्तः पाटलिग्रामके विहरति पाटलके चैत्ये ।

३ अश्रौ(षु)ः पाट (लिग्रामी)य्(अक्)आ ब्राह्मणगृहपत(य्)ओ (भगवान् गौतमो मगधेषु जनपदेषु चर्यां चरन् पाट)लिग्रामकम् अनुप्राप्तः पाटलिग्रामके विहरति पा(ट)लके चैत्ये।

४।४ (श्रुत्वा) च पुनः सं) घात् संघं पूगात् पूगं सं (गम्य समागम्य पाटलिग्रामकान् निष्क्रम्य येण) भगवांस् तेनोपजग्मुर् उपेत्य भगवत्पादौ शिरसा व (न्दि) त्वैकान्त्(ए न्यषीदन्। )

५ एकान्त्(अनि)षण्णान् पाटलिग्रामीय (कान् ब्राह्मणगृहपतीन् भगवान् इ )दम् अ (वो)चत्।

६ पञ्चेमे) ब्राह्मणगृहपतय आदीनवाः प्रमादे। कतमे पञ्च।

७ इह) ब्र्(आह्म)णग्(ऋह)पतयः प्रमत्तः प्रमाद्(आधिकरणहेतोर्) महतीं भोगज्यानिं निगच्छति। यद् ब्राह्मणगृहपतयः प्रमत्तः प्रमादाधिकरणह्(एतो)र् मनती(ं) भोगज्यानिं निगच्छति। अयं प्रथ्(अम) आद्(ईनवः प्रमादे। )

८ पुनर्) अपरं ब्राह्मणगृहपतयः प्रमत्तः प्रमादाधिकरण हेतोर् यां याम् एव परिषदम् उपसंक्रा मति यदि वा क्षत्रियप(र्)इ(षदं यदि वा ब्राह्) मणपरिषदं यदि वा गृहपतिपरिषदं यदि वा श्रमणपरिषदं तत्र तत्र मद्गुर् उपसंक्रामत्य् अनुदग्रो ऽविशारदः। यद् ब्राह्मणगृहपत(यः) प्(र)मत्तः प्रमादाधिकरणहेतोर् यां याम् एव परिषदम् उपसंक्रामति पूर्ववद् यावद् अविशारदः। अयं द्वितीय आदीनवः प्रमादे।

९ पुनर्) अपरं ब्राह्मणगृहपतयः प्रमत्तस्य प्रमादाधिकरणहेतोर् दिग्विदिक्षु (पा)पको ऽव(र्णो) ऽ(कीर्तिश)ब्दश्ल्(ओ) को ऽभ्युद्गच्छति। यद् ब्राह्मणगृहपतयः प्रमत्तस्य प्रमादाधिकरणहेतोर् दिग्विदिक्षु पापको ऽवर्णो ऽकीर्तिशब्दश्लोको ऽभ्य्(उद्)ग्(अच्)च्छति। अयं तृतीय आदीनवः प्रमादे।

४।१० पुनर्) अपरं ब्राह्मणगृहपतयः प्रमत्तः प्रमादाधिकरणहेतोर् विप्रतिसारी कालं करोति। यद् ब्राह्मणगृहपतयः प्रमत्तः प्रमादाधिकर णहेतोर् विप्रतिसारी कालं करोति। अयं चतुर्थ आदीनवः प्रमादे।

११ पुनर्) अपरं ब्राह्मणगृहपतयः प्रमत्तः प्रमादाधिकरणहेतोः कायस्य भेदान् नरकेषूपपद्यते। यद् ब्राह्मणगृहपतयः प्रमत्तः प्रमादाधिकरणहेतोः कायस्य भेदान् नरकेषूपपद्यते। अयं पञ्चम आदीनवः प्रमादे।

१२ पञ्च ) त्व् इमे ब्राह्मणगृहप तय आनुशंसा अप्रमादे। कतमे पञ्च।

१३ इह) ब्राह्मणगृहपतयो ऽप्रमत्तो ऽप्रमादाधिकरणहेतोर् न महतीं भोगज्यानीं निगच्छति। यद् ब्र्(आ)ह्मणगृहपयो ऽप्रमत्तो ऽप्रमादाधिकरणहेतोर् न महती(ं) भोगज्यानिं निगच्छति। अयम् प्रथम आनुश्(अं) सो ऽप्रमादे।

४।१४ पुनर्) अपरम् ब्राह्मणगृहपतयो ऽप्रमत्तो ऽप्रमादाधिकरणहेतोर् यां याम् एव परिषदम् उपसंक्रामति यदि वा क्षत्रियपरिषदं यदि वा ब्राह्मणपरिषदं यदि वा गृहपतिपरिषदं यदि वा श्रमणपरिषदं तत्र तत्रामद्गुर् उपसंक्रामत्य् उदग्रो विशारदः। यद् ब्राह्मणगृहपतयो ऽप्रमत्तो ऽप्रमादाधिकरणहेतोर् यां याम् एव परिषदम् उपसंक्रामति पूर्ववद् यावद् विशार दः। अयं द्वितीय आनुशंसो ऽप्रमादे।

१५ पुनर्) अपरं ब्राह्म णगृहपतयो ऽप्रमत्तस्याप्रमादाधिक रणहेतोर् दिग्विदिक्षूदारः कल्याणः कीर्तिशब्दश्लोको ऽभ्युद्गच्छति। यद् ब्राह्मणगृहपतयो ऽप्रमत्तस्याप्रमादाधिकरणहेतोर् दिग्विदिक्षूदारः कल्याणः की र्तिशब्दश्लोको ऽभ्युद्गच्छति। अयं तृतीय आनुशंसो ऽप्रमादे।

१६ पुनर्) अपरं ब्राह्मणगृहपतयो ऽप्रमत्तो ऽप्रमादाधिक रणहेतोर् न विप्रतिसारी कालं करोति। यद् ब्राह्मणगृहपतयो ऽप्रमत्तो ऽप्रमादाधिकरणहेतोर् न विप्रतिसारी कालं करोति। अयं चतुर्थ आनु शंसो ऽप्रमादे।

१७ पुनर् ) अपरं ब्राह्मणगृह पतयो ऽप्रमत्तो ऽप्रमादाधिकरणहेतोः कायस्य भेदात् सुगतौ स्वर्गलोके देवेषूपपद्यते। य द् ब्राह्मणगृहपतयो ऽप्रमत्तो ऽप्रमादाधिकरणहेतोः क्(आयस्य) भेदात् सुगतौ स्व्(अ)र्गलोके देवेषूपदद्यते। अयं पञ्चम आनुशंसो ऽप्रमादे।

४।१८ (अथ) भगवान् पाटलिग्रामीयकान् ब्राह्मणगृहपतीन् धार्म्या कथया सन्दर्शयति समादापयति समुत्तेजयति संप्रहर्षयति। अनेकपर्यायेण धार्म्या कथया सन्दर्शयित्वा समादापयित्वा समुत्तेजयित्वा संप्रहर्षयित्वा तूष्णीम् अभूत्। )

१९ अथ पाटलि ग्रामीय का ब्राह्मणगृहपतय उत्थायासनाद् एकांसम् उत्तर्(आस)ङ्गं कृत्वा ये (न) भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् इदम् अवोचन्। अधिवासयत्व् अस्माकं भगवान् आवसथे रात्रिं वासाय। अधिवासयति भगवान् पाटलिग्रामीयक्(आ)नां ब्राह्मणगृहपतीनां तूष्णींभावेन।

२० अथ पाटलिग्रामीयका ब्राह्मणगृहपतयो भगव तस् तूष्णींभावेना धिवासनां विदित्वा भगवत्पादौ शिरषा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्त्(आः)।

५।१ अथ भगवान् अचिरप्रक्रान्तान् पाटलिग्रामीयकान् ब्राह्मणगृहपतीन् विदित्वा बहिर् आवसथस्य पादौ प्रक्षाल्यावसथं प्रविश्य न्यषीदत्। )

५।२ (तेन) समयेन वर्षाकारो ब्राह्मणमगधमहामात्र उद्युक्तः पाटलिग्रामकं नगरं मापयितुं वृजीनां प्रतिघातार्थम्। तदा पाटलिग्रामके महाशक्यमहा शक्या देवता वस्तूनि प्रतिगृह्णन्ति। )

३ पर्यङ्कम् आभुज्यर्जुं कायं प्रणिधाय प्रतिमुखं स्मृतिं उपस्थाप्याद्राक्षीद् भगवान् आवसथे दिवाविहारोपगतो दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुषेण पाटलिग्रामके महाशक्यमहाशक्या देवता वस्तूनि प्रतिगृह्नान्ति। दृष्ट्वा च पुनः सायाह्ने)प्रतिसंलयनाद् व्युत्थायावसथाद् अवतीर्यावसथप्रच्छा(या)या(ं) प्(उ)रस्ता द् भिक्षुसङ्घस्य प्रज्ञप्त एवासने न्यषीदत्।

४ निषद्य भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते।
क आनन्दोद्युक्तः पाटलिग्रामकं न्(अगर)ं मापयितुम्।

५ वर्षाकारो भदन्त ब्राह्मणमगधमहामात्र उद्युक्तः पाटलिग्रामकं नगरं मापयितुं वृजीनां प्रतिघातार्थम्।

६ साधु साध्(आनन्द) वर्षाकारो ब्राह्मणमगधमहामात्रो यथा (देवैस् त्रायस्त्रींशैः सार्धम्)

५।७ (अत्राहम् आन)न्दाद्राक्षम् आवसथे दिवाविहारोपगत्(अः पाटलिग्रामके महाशक्यमहाश)क्या देवता वस्(तू)नि प्(रत्)इ(गृह्णतीः। )

८ (यस्मिन्न् आनन्द प्रदेशे महाशक्यमहाशक्या दे )वता वस्तूनि प्रतिगृह्णन्ति म्(अहाशक्यानां) मनुष्याणां तस्मिन् प्रदेशे ) च्(इ)त्त्(अं) क्रामति यद् उत वा(साय)।

९ यस्मिन् प्रद्(ए)शे मध्या देवता व्(अस्तू)नि प्रतिगृह्णन्ति मध्यानां मनुष्याणां तस्मिन् प्रदेशे चित्तं क्रामति यद् उत वासाय।

१० यस्मि(न् प्र)द्(ए)शे नीचा देवता वस्तूनि प्रतिगृह्णन्ति नीचानां मनुष्याणां तस्(मिन्) प्रदेशे चित्तं क्रामति यद् उत वासाय।

११ अस्मिन्न् आनन्द पाटलिग्रामके महाशक्यमहा(श)क्या देवता वस्तूनि प्रतिगृह्णन्ति। अस्मिन् प्रदेशे महाशक्यानां ) मनुष्याणां चित्तं क्रमिष्यति यद् उतवासाय।

१२ यावद् एवानन्दार्या आवासा आ(र्या) व्यवहारा आर्या वाणिर् ) यथैतद् अग्रं भविष्यति पुटभ्(एदना)नां यद् उत पाटलिपुत्रं नगरं।

१३ तस्य त्रयो ऽन्तराया वेदितव्या अग्नितो ऽप्युदकतो (ऽप्य् अ ) भ्यन्तरतो ऽपि मिथो भेदात्।

६।१ अश्रौषीद्) वर्षाकारो ब्राह्मणमगधमहाम् (आत्रः। भगव्)आन् गौतमो मगधेषु जनपदेषु चर्यां चरन् पाटलिग्रामकम् अनुप्राप्तः पा(ट)लिग्रामके विहरति पाटलके चैत्ये। (पर्यु)पा (सते) त)ं पा(ट) लिग्र्(आमीयका ब्राह्मणगृह)पतयः।

२ श्रुत्वा च पुनः पाटलिग्रामकान् निष्क्रम्य येन भ(ग)वांस् त्(ए)नोपजगाम। उपेत्य भगवत्(आ) सा(र्)ध्(अं) स्(अं)मुख्(अं सं)म्(ओ)दन्(ईं)संर(ं)ज्(अनीं विविधां कथां व्यतिसा)र्यैकान्ते न्यषीदत्।

३ एकान्तनिषण्णं वर्षाकारं ब्राह्मणमगध (म)हामात्रं भगवान् धार्म्या कथया सन्दर्शयति समादापयति समुत्ते(जयति सं) प्रहर्षयति। अनेकपर्यायेण धार्म्या कथया सन्दर्शयित्वा) समादाप (यि)त्वा समुत्तेजयित्वा संप्रहर्षयि(त्)वा तूष्णीम् अभूत्।

४ अथ व्( अर्षाका)रो ब्राह्मणमगधमहामात्र उत्थायासनाद्) एकांसम् उत्तरासङ्गं कृत्वा ये (न) भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् इदम् अवोचत्।

५ अधिवासयतु) मे भवाङ् गौतम श्वो भक्तेन सार्धं भिक्षुसङ्घेन। अधिवासयति भ(ग)वान् वर्षाकारस्य ब्राह्मणमगधमहामात्रस्य तूष्णीं भावेन।

६।६ अथ) वर्षाकारो ब्राह्मणमगधमहामात्रो भगवतस् तूष्णींभावेनाधिवासनां विदित्वा (भगव)तो भाषितम भिनन्द्यानुमोद्य भगवतो ऽन्तिकात् प्रक्रान्तः।

७ अथ) वर्षाकारो ब्राह्मणमगधमहामात्रस् ताम् एव रात्रिं शुचिं प्रणीतं खादनीयभोजनीयं समुदानीय काल्यम् एवोत्थायासनकानि प्रज्ञप्योदकमणिं प्रतिष्ठाप्य भगवतो दूतेन कालम् आरोचयति। समयो भो गौतम सद्यो भक्तं यस्ये दानीं भवाङ् गौतमः कालं मन्यते।

८ अथ) भगवान् पूर्वाह्णे निवस्य पात्रचीवरम् आदाय भिक्षुसङ्घपरिवृतो भिक्षुसङ्घपुरस्कृतो येन वर्षाकारस्य ब्राह्मणमगधमहामात्रस्य भक्ताभिसारस् तेनोपजगाम। उपेत्य पुरस्ताद् भिक्षुसङ्घस्य प्रज्ञप्त एवासने न्यषीदत्।

९ अथ) वर्षाकारो ब्राह्मणमगधमहामात्रः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं सन्तर्पयति) संप्रवारयति। शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं सन्तर्पयित्वा) संप्रवारयित्वा भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तम् अपनीतपात्रं सौवर्णं भृङ्गारं गृहीत्वा भगवतः पुरतो ऽस्थात्। आयाचमान एवं चाह।

६।१० इतो दानाद् यः पुण्याभिष्यन्दः कुशलाभिष्यन्दः स भवतु पाटलिपुत्रवास्तव्यानां देवतानां दीर्घरात्रम् अर्थाय हिताय सुखाय। तेषाञ् च नाम्ना दक्षिणाम् आदिशस्व। )

११ अथ) भगवान् वर्षाकारस्य ब्राह्मणमगधमहामात्रस्य तद् दानम् अनया(भ्यनु)मोदन याभ्यनुमोदते।

१२ यो देवताः पूजयति श्राद्धः पुरुषपुद्गलः।
शास्तुर् वाक्यकरो भवति
बुद्धैर् एतत् प्रशंसितम्॥१॥

१३ यस्मिन् प्रदेशे मेधावी
वासं कल्पयति पण्ड्(इ)तः।
शीलवन्तं भोजयित्वा
दक्षिणाम् आदिशेत् ततः॥२॥

१४ ते मानिता मानयन्ति
पूजिताः पूजयन्ति च।
अथैनम् अनुकम्पन्ति
माता पुत्रम् इवौरसम्।
देवा नुकम्पितप्पोषः )
सुखी भद्राणि पश्यति॥३॥

७। १ अथ) भगवान् वर्षाकारं ब्राह्मणमगधमहामात्रं धार्म्या कथया सन्दर्शयित्वा) समादापयित्वा समुत्तेजयि त्वा संप्रहर्षयित्वोत्थायासनात् प्रक्रान्तः।

२ अथ वर्षाकारो ब्राह्मणमगधमहामात्रो यत्) तत्रोत्सीदनधर्मं ) तद् सर्वं विसर्जनधर्मम् इति कृत्वा भगवन्तं पृष्ठतः पृष्ठतः समनुबद्धः। )

३ अथ वर्षाकारस्य ब्राह्मणमगधमहामात्रस्यैतद् अभवत्।
येन द्वारेण श्रमनो गौतमः प्रथमतो निष्क्रमिष्यति तम्) अहं गौतमद्वारं मापयिष्यामि येन(त्)ईर्थेन श्रमणो गौतमः प्रथमतो नदीं गङ्गाम् उत्तरिष्यति तम्) अहं गौतम(ती)र्थं मापयिष्यामि।

४ अथ भगवान् वर्षाकारस्य ब्राह्मणमगधमहामात्रस्य चेतसा चित्तम् आज्ञाय पश्चिमेन द्वारेण निष्क्रम्योत्तरेणान्वावृत्तो येन नदी गङ्गा।

५ तेन खलु स मयेन मागधका मनुष्या नदीं गङ्गाम् उत्तरन्त्य् अपि प्रत्युत्तरन्त्य् अप्य् एकत्याः शल्मलिफलेश्व् एकत्या अलाबुनिःश्रयणिकाभिर् एकत्यास्तूलबिम्बोपनैर्) एकत्याश् छागलकैर दृतिभिः।

७।६ अथ भगवत एतद् अभवत्। किं नु नदीं गङ्गाम् असज्यमानः स्रोतसो गच्छा म्य् आहो स्विद् अपारिमे तीरे ऽन्तर्हितः पारि मे तीरे प्रतितिष्ठ्(आमि। अथ) भगवांस् तद्रूपं समाधिं समापन्नो यथा समाहिते चिते ऽपारिमे तीरे ऽन्तर्हितः पारिमे तीरे प्रत्यस्थात्। )

७ अथ वर्षाकारो ब्राह्मणम(ग) धमहामात्रो येन द्वार्(एण भगव्)आ(न्) निष्क्रा(न्)तस् तद् गौतमद्वारं मापयति येन तीर्थेन भगवान् नदीं गङ्गाम् उत्तीर्णस् तद् गौतमतीर्थं मापयति।

८ अथान्यतरो भिक्षुस् तस्यां वेलायां गाथां बभ्(आषे)॥)

९ ये तरन्ति ह्(य्) आ(र्णवं स)रः
सेतुं कृत्वा विसृज्य पल्वलानि।
कोलं हि ज(ना)ः प्रबध्नते )
तीर्णा मेधाविनो जन्(आः॥१॥)

१० (उ)त्तीर्णो भगवान् बुद्धो
ब्राह्मणस् तिष्ठति स्थले।
भिक्षवः परिस्नाय्(अन्)ति
कोलं ब(ध्नन्ति श्राव)काः॥२॥

७।११ किं कुर्याद् उदपानेन )
आपश् चेत् सर्वतो यदि।
छ्(इ)त्त्वेह मूलं तृष्णा(या)ः
कस्य) (पर्येष)णां चरेत्॥३॥

८।१ तत्र भगवान् आयुष्मन्तम् आनन्द(म्)आमन्त्रयते।

२ आगमय्(आनन्द येन कु)ट्(इ)ग्रामकः।

३ एवं भदन्तेत्य् आयुष्मान् आनन्दो भगवतः प्रत्यश्रौ षीत्।

४ अथ भगवां येन (कु)टि(ग्रा) मकस् तेन चर्यां प्रक्रान्तः। अनुपूर्वेण चर्याञ् (चरङ् कुटिग्रामकम् अ)नुप्राप्तः कुटिग्रामके विहरत्य् उत्तरेण ग्रामस्य शिंशपावने। )

५ तत्र भगवा(न् भिक्षून्) आमन् त्रयते। )

६ इती मानि भिक्षवः शीलान्य् अयं स्(अमाधिर् इयं प्रज्ञा। ) शीलपरिभावितः समाधिश्चिरस्थितिको भवति। प्रज्ञापरिभावितं चित्तं सम्यग् एव विम्(उ)च्यते रागद्वेषमोहेभ्यः।

७ एवं संयक्सुविमुक्तचित्त आर्यश्रावकः संयग् (एव) प्रज्(आनाति। ) क्षीणा मे जातिर् उषितं ब्रह्मचर्यं कृतं करणीयं नापरम् अस्माद् भवं ) प्रजानामि।

९।१ तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते।

२ आगमयानन्द येन नादि(क्)आ।

३ एवं भदन्तेत्य् आयुष्मान् आनन्दो भगवतः प्रत्यश्रौषीत्।

४ अथ भगवान् वृजिषु जनपदेषु चर्याञ् चरन् ना(दिकाम्) अनुप्राप्तो नादिकायां विहरति कुञ्जिकावसथे। )

५ (तेन) समयेन नादिकाया महतो जनका यस्य मार्य् उत्थिताभूत्। तथा हि कर्कटक) उपासकः कालगतः।)

६ (निकट) उपासकः कडङ्गरः कात्यर्षभश् चारुर् उपचारुर् अरिष्ट उपारिष्टो भद्रः सुभद्रो यशो यशोदत्तो यशोत्तरो ऽपि कालगतः।)

७ (अथ) संबहुला भिक्षवः पूर्वाह्णे नि वस्य पात्रचीवरम् आदाय नादिकां पिण्डाय प्राविक्षन्)। )

९।८ (अश्रौषुः संबहुला भिक्षवो नादिकां पिण्डाय चरन्तः। ) अस्यां नादिकायां महाञ् जनकायो मृतः। तथा हि कर्कटक उपासकः कालगतो निकटो कडङ्गरः कात्यर्षभश् चारुर् उपचारुर् अरिष्ट उपारिष्टो भद्रः सुभद्रो यशो यशोदत्तो यशोत्तरः कालगतः। )

९ ( श्रुत्वा) च पुनर् नादिकां पिण्डाय चरित्वा कृतभक्तकृत्याः पश्चाद् भक्तपिण्डपाताः प्रतिक्रान्ताः। पात्रचीवरं प्रतिशाम्य पादौ प्रक्षाल्य येन भगवांस् तेनोपजग्मुः। उपेत्य भगवतः पादौ शिरसा वन्दित्वैकान्ते न्यषीदन् । )

१० (ऐकन्ते ) निषण्णाः संबहुला भिक्षवो भगवन्तम् इदम् अवोचन्। )

११ (इह) वयं भदन्त संबहुला भिक्षवः पूर्वाह्णे निवस्य पात्रचीवरम् आदाय) नादिकां पिण्डाय प्राविशाम। अश्रौष्म) (वयम् ) अस्यां नादिकायां क(र्कटक उपासकः कालगतः ) पूर्वव(द् यावद् यशोदत्तो यशोत्तरः कालगतः) तेषां भदन्त का गतिः कोपपत्तिः को ऽभिसंपरायः।

९।१२ कर्कटक उप्(आसकः पञ्चानाम् अवरभागीया)नां ) सं(योजनानां प्रहाणाद् औपपादुकास् तत्र परिनिर्वाय्य् अनागाम्य् अनावृत्तिधर्मा पु)नर् इमं लोकम्।

१३ निकटः कडङ्गरः पूर्ववद् यावद् यशोत्तर उपासकः पञ्(चानाम् अवरभागीयानां पूर्ववद्) यावत् पुनर् इमं लो(कम्। )

१४ (सन्ति) भिक्षवो नादिका) याम् अर्धतृतीयान्य् उपासकशतानि कालगतानि यानि पञ्चानाम् अ(वरभागीयानां संयोजनान्)आं प्रहाणाद् औपपादुकास् तत्र परिनिर्वायिणो ऽनागामिनो ऽनावृत्तिधर्माणः पुनर् इमं लोकम्।

१५ साति (रेकाणि) भिक्षवो नादिकायां त्र्युपास)कशतान्य् अभ्यतीतानि कालगतानि यानि त्रयाणां संयोजनानां प्रहाणाद् रागद्वेषमोहानां च तनुत्वा(त् कालं कृत्वा सकृदागामिनः सकृद् इमं लोकम् आगम्य दुःखस्यान्तं क)रिष्यन्ति।

१६ सातिरेकाण्य् अस्यां नादिकायां पञ्चोपासकशतान्य् अभ्यतीतान्(इ)कालगतानि) यानि (त्रयाणां) संयोजनानां प्रहाणाच् छ्रोतआपन्ना अविनिपा) तधर्माणो नियतं संबोधिपरायणाः सप्तकृत्वः परमाः सप्(तकृत्वो दे) वांश् च मनुष्यां(श् च संधाव्य संसृत्य दुःखस्यान्तं करिष्यन्ति। )

९।१७ (कालगताः का) लगता इति यूयं भिक्षवस्) तथागतं प्रक्ष्यथ विहेठ यिष्यथ तथागतं (न पुन)र् अनेन तथा(गत्) (जातस्या वश्यं कालक्र्)इया।

१८ किम्) अत्र्(आ)श्चर्यम्। उत्पादाद्) वा तथा गतानाम् अनुत्पादाद् वा स्थितैवेयं धर्मता धर्म(स्थितये धातूंस् तांस् तथागतः ) स्वयम् अभिज्ञायाभिसं (बुद्ध्या)ख्याति प्रज्ञ्(आ)पयति प्र(स्थ्)आपय्(अति विभ)जति विवरत्य् उत्तानीक(रोति दे)शयति सं(प्रकाशयति। )

१९ (यद् उतास्मिन्) सतीदं भवत्य् अस्योत्पादाद् इदम् उत्पद्यते यद् उताविद्याप्रत्ययाः संस्कारा यावत् समुदयो निरोध)श् च भवति।

२१ अपि (धर्मादर्शं नाम धर्मप) र्यायं देशयिष्ये। ) (तं सृण्)उतस् (आ)धु चा सु(ष्ठु) च मनसि कुरुत भाषिष्ये। धर्माद(र्)श्(ओ धर्मप)र्यायः (कतमः। बुद्धे धर्मे सङ्घे ऽवेत्यप्रसा)देन) समन्वा(गतो भवत्य् आ) र्यकान्तैः शीलैः समन्वागतो भवति। अयम् उच्यते धर्मादर्शो धर्मपर्यायः। धर्मादर्श्(ओ धर्मपर्यायै )ति मे यद् उक्त्(अं युष्माकं भिक्षवस् तद् उक्तम्। )

१०।१ ( तत्र भगवान् आ) युष्मन्तम् आनन्दम् आमन्त्रयते। ) आगमयानन्द येन वैशाली।

२ (एवं भदन्तेत्य् आयुष्मान् आनन्दो भगवतः प्रत्यश्रौषीत्। )

३ (अथ भगवान् वृजिषु जन पदे)षु चर्यां चरन् वैशालीम् अनुप्राप्तो वैशाल्यां विहरत्य् आम्र(पालिवने। )

४ (अश्रौषीद्) आम्रपालिर् गणिका। भगवाङ् गौतमो वैशालीम् अनु) प्राप्तो वैशाल्यां विहरत्य् अस्माकम् एवाम्रवने।

५ श्रुत्वा च पुन सर्वा(अङ्कारैर् अलङ्कृता स्त्रीगणम् अन्वाहिण्डयित्वा ) भद्रं यानम् अधिरुह्य) वैशाल्या निर्याति भगवतो ऽन्तिकेनो पदर्श)नाय भगवन्तं पर्युपासनायै।

६ तस्या) यावद् यानभूमिस् तावद् यानेन ग्(अत्वा यानाद् अवतीर्य पद्भ्याम् एव येन भगवांस् तेनोपसंक्रान्ता। )

७ (अद्राक्षीद्) भगवान् अनेकशतभिक्षुपरिवारे सन्निषण्ण आम्रपालिं दूराद् आगच्छन्तीं ) दृष्ट्व्(आ) च पुन(र्) भ्(इ)क्षून् आमन्त्रयते।

८ आतापिनो) भिक्षवो विह(रत संप्रजानाः प्रतिस्मृताः। आम्रपालिर् गणिकात्रागता। )

१०।९ (कथञ्) च भिक्षुर् आता) पी भवति।

१० इह भिक्षुर् उत्पन्नानां पादकानाम् अकुशलानां धर्माण्(आं)प्रहाणाय च्छन्दं जनयति व्यायच्छते वीर्यम् आरभते चित्तं प्रगृह्णाति प्रदधाति। )
(अ)नुत्पन्नानां) पापकानाम् अकुशलानां धर्माणाम् अनुत्पाद्(आय च्छन्दं जनयति पूर्ववत्। )
(अनुत्पन्नानां ) कुशलानां धर्माणाम् उत्पादाय च्छन्दं जन) यति पूर्ववत्।
उत्पन्नानां कुशलानां धर्माणां स्थितये (भूयोभावताया) असंप्रमोषाय परिपूरणाय वैपुल्याय च्छन्दं जनयति पूर्ववत्। अयं) भ्(इ)क्षुर् आतापी भवति।

११ कथञ् च भिक्षुः संप्रजानो भवति।

१२ इह भि(क्षुर् अभिक्रान्ते) प्रतिक्रान्ते संप्रजानो भवत्य् आलोकिते विलोकिते संमिञ्जिते प्रसारि) त्(ए) संघाटीचीवरपात्रधारणे गते स्थिते निषण्णे शयिते जागरिते) (भाषिते तूष्णींभावे सुप्ते श्रमे) विश्रमे संप्रजानो भवति। अयं भिक्षुर् संप्रजानो भवति।

१०।१३ कथञ् च भिक्षुः प्रतिस्मृतो भवति।

१४ इह) भिक्षुर् अध्यात्मं का(ये कायानुपश्यी विहरत्य् आतापी संप्रजानः स्मृतिमान् विनीयाभिध्या लोके दौर्मनस्यम्। बहिर्धा का) ये ऽध्यात्मबहिर्धा काये ऽध्यात्मं वेदनासु बहिर्धा वेदनास्व्(अध्यात्मबहिर्धा वेदनास्व् अध्यात्मं चित्ते बहिर्धा चित्ते ऽध्यात्मबहिर्धा चित्ते ऽध्यात्मं धर्मे) षु बहिर्धा धर्मेष्व् अध्यात्मबहिर्धा धर्मेषु धर्मानुपश्यी वि(हरत्य् आतापी संप्रजानः स्मृतिमान् विनीयाभिध्या लोके दौर्मनस्यम्।
अयं भिक्षुर् प्रति) स्मृतो भवति।

१५ आतापिनो) भिक्षवो विहरत संप्रजानाः प्र(तिस्मृताः। आम्रपालिर् गणिकात्रागतेत्य् एव मयाख्यात) म्।

१६ अथ्(आ)म्रप्(आ)लिर् येन भगवांस् तेनोपजगाम। उपेत्य भगवत्पादौ शि(रसा वन्दित्वैकान्ते न्यषिदत्। )

१७ (एकान्तनिषण्णाम् ) आम्रपालिं भगवान् धार्म्या कथया) पूर्ववद् यावत् संप्रहर्षयित्वा तूष्णीम् अभूत्।

१०।१८ अथ आम्रपालि(र्) उत्थायासनाद् येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् इदम् अवोचत्। )

१९ (अधिवास) यतु) मे भगवा(ञ्) श्वो भक्तेन सार्ध्(अं) भिक्षु(संघेन। )

२० (अधिवासयति) भगवां तूष्नींभावेन। अथ आम्रपालिर् भगवतस् तूष्णींभावेनाधिवासनां विदित्वा) भगवत्पादौ शिरसा वन्दित्वा भगवतो (ऽन्तिकात् प्रक्रान्ता।)

११।१ ( आस्रौषुर् ) वैशालका लिच्छवयः। भगवान् वृजिषु जनपदेषु चर्यां चरन् वैशालीम् अनुप्रा) प्(त्)ओ वै(शा)ल्यां विहरत्य् आम्रपालिवने।

२ (श्रुत्वा) प्रत्येकप्रत्येकं भद्रेषु यानेष्व् अधिरुह्य) माणाभिर्

३ ए(क)त्या नीलाश्वा नीलरथा नी(लप्रग्रहप्रतोदा) नीलोष्णीषा नीलच्छत्रखड्गकोशा नीलमणिदण्डकचामरा नीलवस्त्रालङ्कारविलेपना नीलपरिवारा)

४ एकत्याः (पीता)श्वाः पीतरथाः पीतप्रग्रह् (अप्रतोदाः पीतोष्णीषाः पीतच्छ त्रखड्गकोशाः पीतमणिदण्डकचामराः पीतवस्त्रालङ्कारविलेपनाः पीतपरिवारा)

११।५ (एकत्या लोहिताश्वा लोहितरथा लोहितप्रग्रहप्रतोदा ल्(ओहितोष्णीषा लोहितच्छत्रखड्गकोशा लोहितमणिदण्डकचामरा लोहितवस्त्रालङ्कारविलेपना लोहितपरिवारा )

६ (एकत्याः श्वेताश्वाः श्)व्(एत)र्(अ)थाः श्वेतप्रग्रहप्रतोदाः श्व्(ए)तोष्णीष्(आः श्वेतच्छत्रखड्गकोशाः श्वेतमणिदण्डकचामराः श्वेतवस्त्रालङ्कारविलेपनाः श्वेतपरिवारा)

७ (उच्चशब्दं प्रक्ष्वेडयन्तो महाशब्दं प्रक्ष्वेडयन्तो) वैशाल्या निष्क्रम्य येन भगवांस् तेनोपजग्मुर् भग) वद्दर्शनाय्(अ भ)गवन्तं पर्युपासनायै)।

८ (अद्राक्षीद् ) भगवान् वैशालका लिच्छवीन् दूराद् एवागच्छतो दृष्ट्वा च पुनर् भिक्षूनामन्त्रयते। )

९ वैशालका लिच्छवीन् पश्यथ। अनयर्द्(ध्या) य्।

११।१० तेषां) यावद् यानभूमिस् ताव्(अद् यानेन गत्वा यानाद् अवतीर्य पद्भ्याम् एव येन भगवांस् तेनोपजग्मुर् उपे )त्य भगवत्पादौ शिरसा वन्दित्वैकान्ते न्(यषिदन्।)

११ (एकान्तनिषण्णान्) वैशालका लिच्छवीन् भगवान् धार्म्या कथया सन्दर्शयति समादापयति समुत्तेजयति संप्रहर्षयति।)

१२ ( तेन ख) लु समयेन पैङ्गिको माणवस् त्(अस्मिन् समाजे) सन्निषण्णो ऽभूत् सन्निपातितः। अ(थ) पैङ्गिको माणव उत्थायासनाद् एकांसं चीवरं कृत्वा येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् इदम् अवोचत्। )

१३ (प्रति) भाति मे भगवन् प्रतिभाति मे स्(उगत। )

१४ (प्रतिभातु ते पैङ्गिकेति भगवान् अवोचत्। )

१५ (अथ पैङ्गिको माणवो गाथा बभाषे।)

१६ धारिणो लाभा सुलब्धा मगधे।

११।१७ (फु )ल्लम् उपेतगन्धम्। अङ्गीरसं॥२॥

१८ (चक्षु) ष्करालोककरा भवन्ति य उ॥३॥

२० तैः पञ्चोत्तरासङ्गशतानि सो

२१ (अथ) भगवान् वैशालका लिच्छवीन् धार्म्या कथया सन्दर्शयित्वा समादापयित्वासमुत्तेजयित्वा संप्रहर्षयित्वा तूष्णीम् अभूत्। )

२२ (अथ) वैशालका लिच्छवय उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा येन भगवांस् तेनाञ्ज)लिं प्रणम्य भगवन्तम् इदम् अवो(चन्। )

११।२३ (अधिवासयतु) नो भगवाञ् श्वो भक्तेन सार्धं भिक्षुसंघेन। )

२४ ( निमन्त्रितो ) ऽस्मि वासिष्ठास् तत्प्रथमत आम्रपाल्या। )

२५ (भ)दन्ताम्रपाल्याम्बकया अ (पुनर् वयं भदन्तोपस्थास्यामो भगवन्तं भिक्षुसं) घं च। )

२६ कल्याणम् इदं वासिष्ठा उ(क्तम्। )

२७ (अथ ) वैशालका लिच्छवयो भगवतो भाषितम् अभिनन्द्यानुमोद्य भगवत् पादौ शिरसा वन्दि) त्वा भगवतो ऽन्तिकात् प्र्(अ)क्रान्ताः। )

१२।१ (अथाम्रपालिस् ताम् ) एव रात्रिं शुचिं प्रणीतं खादनीयभोजनीयं समुदानीय काल्यम् एवोत्थाय आसनकानि प्रज्ञ) प्योदकमणिं प्रतिष्ठाप्य भ(गवतो दूतेन कालम् आरोचयति। )

२ (समयो भो गौतम सद्यो भक्तं यस्येदाणीं भवाङ् गौतमः कालं मन्यते। )

१२।३ (अथ भगवान् पूर्वाह्णे निवस्य पा) त्रचीवरम् आदाय भिक्षुसंघप( रिवृतो भिक्षुसंघपुरस्कृतो येनाम्रपाल्या गणिकाया भक्ताभिसारस् तेनोपजगाम। उपेत्य पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने न्य)षीदत्।

४ अथाम्रपालिः सुखोपनिषण्णम् बुद्धप्रमुखं भिक्षुसंघं विदित्वा शु(चिन्)आ प्रणीते(न खादनी)यभोजनीयेन स्वहस्तं सन्तर्पयति संप्रवारयति। शुचिना प्रणीतेन खादनीयभोजनी येन स्वहस्तं सन्तर्पयित्वा) संप्रवारयित्वा

५ भगवन्तं भुक्तव्(अन्तं) विदित्वा धौतहस्तम् अपनीतपात्रं नीचतरकम् आसनं गृहीत्वा भगवतः पुरतो निषण्णा धर्मश्रवणाय।

६ अथ) भगवान् आम्रपाल्यास् तद् दानम् अनयाभ्यनुमोदनयाभ्यनुमोदते॥)

७ ददत् प्रियो भवति भजन्ति तं जनाः
कीर्तिं समाप्नोति यशस् च वर्धते।
अम(द्)गु (भू)तः परिषदं विगाहते
विशारदो भवति नरो ह्य् अमत्सरी॥१॥

१२।८ तस्माद् धि दानानि ददति पण्डिता
विनी य मात्सर्यमलं सुखैषिणः।
ते दीर्घरातं त्रिदशे प्रतिष्ठिता देवानां स्वभावगता रमन्तिते॥२॥

९ कृतायुषाः कृतकुशला इतश् च्युताः स्वयंप्रभा अनुविचरन्ति न न्दने।
( ते) तत्र क्रीडन्ति रमन्ति चोभयं)
समर्पिताः कामगुणैस् तु पञ्चभिः।
श्रुत्वेह वाक्यम् असितस्य तायिनः
स्वर्गे रमन्ते सुगतस्य श्रावकाः॥३॥

१० अथ भगवान् आम्रपालि(ं) धार्म्य्(आ) कथया सन्दर्शयित्वा समादापयित्वा समुत्तेजयित्वा संप्रहर्षयित्वो त्थायासनात् प्रक्रान्तः।

१३।१ तत्र भगव्(आ)न् आयुष्मन्तम् आनन्दम् आम(न्)त्रयत्(ए)।

२ आगमयानन्द येन वेणुग्रामकः।

३ एवं भदन्तेत्य् आयुष्मान् आनन्दो भगवत(ः प्रत्)य्(अ)श्रौषीत्।

४ अथ भगवान् वृजिषु जनपदेषु चर्यां चरन् वेणुग्रामकम् अनुप्राप्तो वेणुग्रामके विहरत्य् उत्तरेण ग्रामस्य शिंशपावने।

५ तेन) खलु समयेन दुर्भिक्षम् अभूत् कृच्छ्रः कान्तारो दुर्लभः पिण्डको याचनकेन।

६ तत्र भगवान् भिक्षून् आमन्त्रयते।

१३।७ एतर्हि भिक्षवो दुर्भिक्षं कृच्छ्रः कान्तारो दुर्लभः पिण्डको याचनकेन।

८ एत यूयं भिक्षवो यथासंस्तुतिकया यथासंलप्तिकया यथासंप्रेमिकया वैशालीसम(न्)तकेन वृजिग्रामकेषु वर्षाम् उपगच्छत।

९ अहम् अप्य् अस्मिन्न् एव वेणुग्रामके वर्षाम् उपगमिष्याम्य् आनन्देन भिक्षुणोपस्थायकेन। मा सर्व एव पिण्डकेन क्(लाम)थ।

१० एवं भ्(अदन्तेति) ते भिक्षवो भगवतः प्रतिश्रुत्य

११ यथासंस्तुतिकया यथासंलप्त्(इ)क(य्)आ य्(अथासंप्रेमिकया वैशालीसमन्तकेन वृजिग्रामकेषु वर्षाम् उपगताः। )

१४।१ (भगवान् तत्रैव वेणुग्रामके वर्षाम् उपगत आनन्देन भिक्षुणोपस्थाय) क्(ए)न।

२ त्(अस्य) ख्(अल्)उ (वर्षोपगतस्योत्पन्नः खर आबाधः प्रगाढा वेदना मारणान्तिका। )

३ (अथ) भगवत एतद् अभवत्। )

४ (उत्पन्नो मे खर आबाधः प्रगाढा वे) दना मारणान्तिका विप्रक्रान्त(श्च भिक्षुसंघः। )

५ (न) मम प्रतिरूपं स्याद् यद् अहं विप्रक्रान्ते भिक्षुसङ्घे परिनिर्वायाम्। यन्न्व् अहं तत एकत्या वेदना वीर्येण प्र्(अ)ति प्रस्रभ्य सर्वनिमि(त्तानाम् अमनसिकाराद् अनिमित्तं चेतःसमाधिं ) कायेन साक्षीकृत्वोपसम्पद्य विहरेयम्। )

१४।६ (अथ भगवान् तत ए)कत्या) वेदना वीर्येण प्रतिप्रस्र(भ्य) सर्वनिमित्ता (नाम् अमनसिकाराद् अनिमित्तं चेतःसमाधिं कायेन साक्षीकृत्वोपसम्पद्य व्यहार्षीत्। तेन तथागतस्य क्षेमणी) यतरञ् ) चाभूद् यापनीयतर(ञ् च। )

७ (अथायुष्मान् आ) नन्दः स्(आ)याह्न्(ए) प्रतिस्(अंलयनाद् व्युत्थाय येन ) भगवांस् तेनोपजगाम। उपेत्य भगवतः पादौ शिरसा व) न्दित्वैकान्ते ऽस्थात्।

८ एकान्तस्थित्(अ आयुस्मान् आनन्दो भगवन्तम् इदम् अ ) वोचत्।

९ अपि मे भद (न्)तम् लपन्ते ) भगवत) इमम् एवं (आ)श्वासमात्रम्। न तावद् भगव्(आन् परिनिर्वा)स्यति यावद् भगवान् भिक्षुसंघ्

१४।१० (य) स्यानन्दैवं स्यात्। (ममास्ति) भिक्षु) संघ्(अः । अहं)भिक्ष्(उ) संघं परि(हरिष्यामीति )

११ (मम)खल्वानन्द नैवं भ(वति। ममास्ति भिक्षु) स्(अ)ंघः। अ(ह)ं (भिक्षुसंघं परिहरिष्यामीति )

१३ (तद्यथा) चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गः। )

१४ (न) तत्रानन्द तथागतस्य धर्मेष्वाचार्यमु) ष्टि(र्)यं तथागतः प्रतिच्छादयितव्यं मन्येत। कच्चिन् मे ) परे न वि(द्युर् इति। )

१५ (उत्पन्नः ) कदापि तथागतस्य खर आबाधः प्रगाढा वेदना मारणा) न्तिक्(आ। )

१६ तस्य) म एतद् अभवत्। उत्पन्नो मे खर आबाधः प्रगाढा वेद(नामारणान्तिका विप्रक्रान्तश् च भिक्षुसंघः। )

१४।१७ (न) मम प्रतिरूपं स्याद् यद् अहं वि)प्रक्रान्ते भिक्षुसंघे परिनिर्वायाम्। यन्न्व् अहं तत एकत्या वेदना वीर्येण प्रतिप्र(स्)र्(अभ्य सर्वनिमित्तानां अमनसिकाराद् अनिमित्तं चेतःसमा) धिं कायेन साक्षीकृत्वोपसं पद्य विहरेयम्।

१८ सो ऽहं तत) ( एकत्या वे ) दना वीर्येण प्रतिप्रस्र्(अभ्य सर्वनिमित्तानाम् अमनसिकाराद् अनिमित्तं चेतःसमाधिं कायेन) साक्षीकृत्वोपस(ं)पद्य व्यहार्षम्। तेन तथागतस्य (क्षेमणीयतरञ् चा भूद् यापनीयतरञ् (च। )

१९ (पुनर्) अपरम् आनन्द तथागतो वृद्धो जीर्णतां) प्राप्तो ऽशी) तिके वयसि वर्तते द्वैधानिश्रयेण याप्य्(अते। तद्यथा जीर्णं शकटं द्वैधानिश्रये ) णय्(आ)प्यत एवम् एव (तथागतो वृद्धो जीर्णतां ) प्राप्तो ऽशीतिके वयसि वर्तते द्वैधानिश्रयेण या(प्यते। )

२० (मा) तस्मात् त्वम् आनन्द शोच मा क्लाम। कस्मा) द् एव तत्। कुत एतल् लभ्य्(अं यत् तज् जातं भूतं कृतं संस्कृतं वेदयि ) तं प्रतीत्यसमुत्पन्नं क्षयधर्मं व्ययधर्मं वि(रोधधर्मं प्रलोकधर्मं न प्ररुज्य) ते। नेदं स्थानं विद्यते।

१४।२१ प्राग् (एव भि) क्षवो मयाख्यातं सर्वैर् इष्टैः कान्तैः प्रियैर् मनापै(र्नानाभावो भविष्यति विनाभावो विप्रयोगो विसंयोगः। )

२२ (तस्माद्) आनन्दैतर्हि मम्(अ वा) त्ययाद् आत्मद्वीपैर् विहर्तव्यम् आत्मशरणैर् धर्मद्वीपैर् ध(र्मशरणैर् अनन्यद्वीपैर् अनन्यशरणैः। तत् कस्माद् धेतोः। )

२३ ( ये केचिद् आनन्दैतर्हि मम वात्)ययाद् आत्मद्वीपा आत्मशरणा ढर्मद्वीपा धर्मशरणा अनन्यद्वीपा अ(नन्यशरणास् ते ऽग्रं ) भविष्यन्ति यद् उतमम श्र्) आवक्(आनां शिक्षाकामानाम्। )

२४ (कथं चानन्द भि) क्ष्(उ)र् आत्मद्वीपो भवत्य् आत्मशरणो धर्मद्वीपोधर्मशरणो ऽनन्यद्वीपो ऽनन्यशरणः।

२५ इह) भिक्षुर् (अ)ध्य्(आ)त्म्(अं) काय्(ए) कायानुपश्यी विह(रत्य्) आतापी संप्रजानः स्मृतिमान् विनीयाभिध्या लोके दौर्मनस्यम्। बहिर्धा काये ध्यात्मबहिर्धा काये ऽध्यात्मं वेदनासु बहिर्धावेदनास्व् अध्यात्मबहिर्धा वेदनास्वध्यात्मं चित्ते बहिर्धा चित्ते ऽध्यात्मबहिर्धा चित्ते ऽध्यात्मं धर्मेषु बहिर्धा धर्मेष्व् अध्यात्मबहिर्धा धर्मेषु धर्मानुपश्यी विहरत्य् आतापी संप्रजानः स्मृतिमान् विनीया भिध्या लोके दौर्मनस्यम् ।

१४।२६ एवं हि भिक्षुर् आत्मद्वीपो भवत्य् आत्मशरणो धर्मद्वीपो धर्मशरणो ऽनन्यद्वीपो ऽनन्यशरणः।

१५।१ तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते )।

२ आगमयानन्द येन वैशाली।

३ एवं भदन्तेत्य् आयुष्मान् आनन्दो भगवतः प्रत्यश्रौषीत्।

४ अथ भगवान् वृजिषु जनपदेषु चर्यां चरन् वैशालीम् अनुप्राप्तो वैशाल्यां विहरति मर्क्कटह्रद्(अतीरे) कूटागारशालायाम्।

५ अथ भगवान् प्(ऊ)र्वाह्णे निवस्य पात्रचीवरम् आदाय वैशालिं पिण्डाय प्राविशद्) आयुष्मता नन्देन पश्चाच्छ्रमणेन।

६ अ(थ भगवान्) वैशालीं पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद् भक्तपिण्डपातः प्रतिक्रान्तः )।

१५।७ (पात्रचीवरं प्रतिशमय्य)। येन चापालं चैत्यं ) तेनोपजगाम। उपेत्यान्यतरं वृक्षमू(लं निश्रित्य निष)ण्णो दि(वा)विहाराय।

८ तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते।

९ रमणीयानन्द वैशाली वृजिभूमिश् चापालं चैत्यं ) सप्ताम्रकं बहुपत्त्रकं) ग्(औतमन्य) ग्रोधः शालवनं) धुरानिक्षेपणं मल्लानां मकुटबन्धनं चैत्यम्। चित्रो जंबुद्वीपो मधुरं जीवितं मनुष्याणाम्।

१० यस्य कस्यचिच्) चत्वार ऋद्धिपादा आसेविता भाविता बहुलीकृता आकङ्क्षमाणः ) स कल्पं वा तिष्ठेत् कल्पावशेषं वा। तथा गतस्यानन्द चत्वार ऋद्धिपादा आसेविता भाविता बहुलीकृताः। आकाङ्क्षमाणस् तथागतः कल्पं वा तिष्ठेत् कल्पावशेसं वा।

११ एवम् उक्त) आयुष्मान् आनन्दस् तूष्णीम् अभूत् )। द्विर् अपि त्रिर् अपि भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते।

१२ रमणीयानन्द वैशाली वृजिभूमिश् चापालं चै(त्)यं सप्ताम्रकं बहुपत्त्रकं ) गौतमन्यग्रोधः शालवनं) धुरानिक्षेपणं मल्ला(नां मकुटबन्धनं चैत्यम्। चित्रो जम्बुद्वीपो मधुरं जीवितं मनुष्याणाम्। )

१५।१३ (यस्य) कस्यचिच् चत्वार ऋद्धिपादा आसेविता भाविता बहुलिकृता आकाङ्क्षमाणः स कल्पं वा तिष्ठेत् कल्पावशेषं वा। तथा गतस्यानन्द चत्)वार ऋद्धिपादा आसेविता भाविता बहुलीकृताः। आकाङ्क्षमाणस् तथागतः कल्(पं वा तिष्ठेत् कल्पावशेषं वा। )

१४ (द्विर् अपि त्रिर् अप्य् आयुष्मान् आनन्दस् तूष्णीम्। )

१५ (अथ भगवत एतद् अ) भवत्। स्फ्(उ)टो बतायम् ) आनन्दो भिक्षुर् मारेण पापीयसा यत्रेदानीं यावत् त्रिर् अप्य् औ(दारिके अवभासनिमित्ते प्राविष्क्रियमाणे न शक्नोति तन्निमित्तम् आज्ञातुं यथापि ततः स्फु ) टो म्(आ)रेण पापीयसा।

१६ इति विदित्वायुष्मन्तम् ) आनन्दम् आमन्त्रयते।

१७ गच्छा(नन्दान्यतरवृक्षमूलम्) निश्रित्य विहर मा उभाव् अप्य् आकीर्ण) विहारिणौ भविष्यावः।

१८ एवं भदन्तेत्य् आयुष्मान् आनन्दो भगवतः प्रतिश्रु(त्यान्यतमवृक्षमूलं निश्रित्य निषण्णो दिवाविहाराय। )

१६।१ ( स मारः पापीयान् येन भगवांस् तेनोपसंक्रान्तः। ) उपेत्य) भगवत् पादौ शिरसा वन्दित्वैकान्ते ऽस्थात्। एकान्तस्थितो मार(ः पापीयान् भगवन्तम् इदम् अवोचत्। )

१६।२ (परिनिर्वाहि) भगवन् परिनिर्वाणसमयः ) सुगतस्य। )

४ (कस्मात् त्वं पापीय) न्न् एवं वदसि। परिनिर्वाहि )। भगवन् परिनिर्वाणसमयः ) सुगतस्य।

५ (एको ऽयं भदन्त समयः। भगवान् उरुविल्वायां विहरति नद्या नैरञ्जनायास् तीरे बोधिमूले ऽचिराभिसंबुद्धः। ) सो ऽहं येन भगवांस् तेनोपसंक्रान्तः।

६ उपेत्य) भगवन्तम् एवं वदा(मि। परिनिर्वाहि) भगवन् परिनिर्वाणसमयः ) सुगतस्य। )

७ (भगवान् एवम् आह। )

८ (न तावत् पापीयन् परिनिर्वास्यामि यावन् न ) मे श्रावकाः पण्डिता भविष्यन्ति व्यक्ता मेधाविनः )। अलम् उ(त्पन्नोत् पन्नानां परप्रवादिनां सह धर्मेण निग्रहीतारः। अलं स्वस्य वादस्य प) र्यवदातारो) भिक्षवो भिक्षुण्य उपासका उपासिका
वैस्तारिकं च मे ब्र(ह्मचर्यं चरिष्यन्ति बहुजन्यं पृथुभूतं यावद् देवमनुष्येभ्यः सम्यक्संप्र) काशितम्।

१६।९ एतर्हि भदन्त भगवतः श्रावकाः पण्डिता व्यक्ता मेधाविनः )। अ(लम् उत्पन्नोत्पन्नानां परप्रवादिनां सह धर्मेण निग्रहीतारः) स्वस्य वादस्य प) र्यवदातारो ) भिक्षवो भिक्षुण्य उपासका उपासिका
वैस्तारिकं च ते ब्रह्म (चर्यं बाहुजन्यं पृथुभूतं यावद् देवमनुष्येभ्यः सम्यक्संप्रकाशितम्। )

१० (तस्माद् अहम् ए) वं वदामि परिनिर्वाहि) भगवन् परिनिर्वाणसमयः) सुगतस्य।

११ अल्पोत्सुकस् त्वं पापीयन् भव न चिरस्येदानीं तथागतस्य त्रयाणां )मासानाम् अत्ययादे अनुपधिशेषे) नि(र्)व्(आ)णधातौ परिन्(इ)र्वाणं भविष्यति।

१२ अथ मारस्य पापीयस एतद् अभवत्। परिनिर्वास्य्(अते) श्रमणो गौतम। इति विदित्वा हृष्टस् तुष्ट )उदग्रः प्रीतिसौमनस्यजातस् तत्रैवान्तर्हितः। )

१३ अथ भगवत एतद् अभवत्। यन्न्वह्(अं) तद्रूपान् ऋद्ध्य्(अ)भिसंस्कारान् अभिस(ं)स्कुर्यां (य)था समाहिते चित्ते जीवितसंस्कारान् अधिष्ठायायुःसंस्कारान् उत्सृजेयम्।

१६।१४ अथ भगवांस् तद्रूपान् ) ऋध्यभिसंस्कारान् अभिसंस्करोति यथा समाहिते चित्ते जीवित (संस्कारान् अधि)ष्ठायायुःसंस्कारान् उत्सृजति)। समनन्त (र्)ओत्स्(ऋ)ष्टायुःसंस्कारेष्व् अत्यर्थं तस्मिन् समये महापृथिवीचालश् चाभूद् ) उल्कापा(ता) द्(इ)शोदा(ह्)आ (अन्तरीक्षे देवदुन्) दुभयो ऽभिनदन्ति।

१५ अथ भगवांस् तस्मात् समाधेर् व्युत्था (य त)स्यां वेलायां (गा)थां बभाषे। )

तुल्यम् अतुल्यं च संभवं
(भवसंस्कारम् अपोत्सृजन् मुनिः।
अध्यात्मरतः समाहि ) तो
ह्(य् अभिनत् को)शम् इवाण्ड(संभवः॥)

१७।१ (अथाय्)उष्मान् आनन्दो येन भ्(अगवांस्तेनोपज)गाम्(अ)। उपेत्य भगव(तः पादौ) शिरसा (वन्दित्वैकान्ते ऽस्थात्। एकान्तस्थित आयुष्मान् आनन्दो भ) ग(वन्तम् इद)म् अवोचत्।

२ को भ्(अदन्त हेतुः कः प्र)त्ययो) येनैतर्ह्य् अ (भूद् महापृथिवी)चाल उल्कापाता दि (शोदाहा अन्तरीक्षे देवदुन्दुभयो ऽभिनदन्ति। )

३ (अष्टाव् इमे) ह्(ए)तवो ऽष्टौ प्रत्यया) (म)हतः पृथिव्(ईच्)आलस्य। कतमे ऽष्टौ।

४ (इ)यं) महापृ(थिव्य्)अप्सु प्रतिष्ठिता। आपोवा (यौ) प्रतिष्ठिता व्(आय्)उ(र् आकाशे प्रतिष्ठितः। भवत्य्) आन्(अन्द सम)यो यद्)आकाशे विषमा वायवो वान्त्य् आपः (क्)ष्(ओ)भयन्ति। आपः क्षुब्धाः पृथिवीं चालयन्ति।

१७।५ अयं प्रथमो हेतुः प्रथमः प्रत्य्(अयो) महतः पृथिवीचालस्य।

६ पुनर् अपरं भिक्षुर् महर्द्धिको भवति महानुभावः स परीत्तां पृथिवीसंज्ञां अधितिष्ठत्य् अप्रमाणां चाप्संज्ञां स आक्(आङ्)क्षमाणः पृथिवीं चालयति।

७ भिक्षुणी) देवता वा महर्द्धिका भवति महानुभावा सा) परीत्तां पृथिवीसंज्ञाम् अधितिष्ठत्य् अप्रमाणां चाप्संज्ञाम्) आकाङ्क्षमाणा पृथिवीं चालयति।

८ अयं द्वीतीयो हेतुर् द्वितीयः प्रत्ययो महतः पृथिवीचालस्य।

९ पुनर् अपरं) यस्मिन् समये बोधिसत्त्वस् तुषिताद् देवनिकायाच् च्युत्वा) मातुः कुक्षाव्) अवक्रामत्य् अत्यर्थं) तस्मिन् समये महापृथिवीचालश् च) भवति स्(अर्वश् चायं लोक उदारेणावभासेन स्फुटो भवति। )

१० अपि ता) लोकस्य लोकान्तरिका अन्धतमा) अन्धकारतमिस्रा यत्रेमौ) सूर्या चन्द्र्(अमसाव्) एवंमहर्द्धि(क्)आव् (एवंमहानुभावाव् आभयाभां न प्रत्यनुभवतस् ता अ)पि तस्मिन् समये उदारेणावभासेन स्फुटा भवन्ति।

१७।११ तत्र ये (सत्त्वा उप)पन्(ना)स् ते तय्(आ)भ(य्)आन्य्(ओन्यं) सत्त्वं दृष्ट्वा संजानन्ते। अन्ये ऽपि भवन्तः सत्त्वा इहोप) पन्नाः। अन्ये ऽपि भवन्तः सत्त्वा इहोपपन्नाः।)

१२ अयं) तृतीयो हे(तुस् तृतीयः प्रत्य)यो मह्(अतः प्)ऋ(थिवीचालस्य। )

१३ (पुनर् अपरं) यस्मिन् समये बोधिसत्त्वो मातुः कु) क्षेर् निष्क्रामत्य् अत्यर्थं) तस्मिन् समये महापृथिवीचालश् च) भवति पूर्ववद्) यावद् अन्ये (ऽपि भ)वन्तः सत्त्वा (इहोपपन्नाः।)

१४ (अयं) चतुर्थो हेतुश् चतुर्थः प्रत्ययो म) हतः पृथिवीचालस्य।

१५ पुनर् अपरं) यस्मिन् समये बोधिसत्त्वो ऽनुत्तरां सम्यक्संबो(धिम्) अधिगच्छत्य् अत्यर्थं) तस्मिन् समये महापृथिवी) चालश् च) भवति पूर्ववत्। )

१६ अयं पञ्चमो हेतुः पञ्चमः प्रत्ययो महतः पृथिव्(ईचालस्य। )

१७( पुनर् अपरम् आनन्द यस्मिन् समये तथागतस् त्रिपरिव)र्तं) द्वादशाकारं धार्म्यं धर्मचक्रं प्रवर्तयत्य् अत्यर्थं तस्मिन् समये महापृथिवीचालश् च) भव(ति पूर्ववत्। )

१७।१८ (अयं) षष्ठो हेतुः षष्ठः प्रत्ययो महतः पृथिवी) चालस्य।

१९ पुनर् अपरं) यस्मिन् समये तथागतो जीवितसंस्कारान् अधिष्ठायायुःसंस्(क्)आ(रान् उत्सृजत्य् अत्यर्थं) तस्मिन् समये महापृथिवीचालो भ)वत्य् उल्क्(आपाता दिशोदाहा अन्तरिक्षे) द्(ए)वदुन्दुभयो ऽभिनदन्ति। )

२० अय्(अं) सप्तमो हेतुः सप्)त्(अ)म्(अ)ः प्रत्ययो महतः पृथिवीचालस्य।

२१ पुनर्) अपरं) न चिरस्येदानीं तथागतस्यानु(पधिशेषे) निर्वा)णधातौ परिनिर्वाणं भविष्य्(अति। अत्यर्थं) तस्मिन्) समये महापृथिवीचालश् च) भवत्य् उल्कापाता दिशोदाहा अन्तरीक्षे देवदुन्दुभयो ऽभिन(दन्)त्(इ)।

२२ अयम्) अष्टमो हेतुर् अष्(टमः प्रत्ययो महत)ः पृथिवीचालस्य।

१८।१ अथायुष्मान् आनन्दो भगवन्तम् इदम् अवोचत्।

२ यथा खल्व् अहं भदन्त भगवतो) भाषितस्यार्थम् आजान्(आमि भगव)तैतर्हि) जीवितसंस्कारान् अधिष्ठायायुःसंस्कारा उत्सृष्टाः।)

१८।३ एवम् एतद् आनन्दैवम् एतद् आनन्द। ए(तर्ह्य् आनन्द) तथागतेन जीवितसंस्कारान् (अधिष्ठायायुःसंस्कार्)आ उत्सृष्टाः।

४ संमुखं मे भदन्त भगवतो ऽन्तिकाच् छ्रुतं संमुखम् उद्गृहीतम्। यस्य कस्यचिच् चत्वार ऋ(द्धिपादा) आसेविता भाविता बहुल्(ईकृता आकाङ्क्षमाणः) क्(अ)ल्पम् अपि) ति(ष्ठ्)ए(त् क)ल्पाव(श्)ए(ष)म् अपि। )

५ (भगवतो) भदन्त चत्वार ऋद्धिपादा आसेविता भाविता बहुलीकृता आकाङ्क्षमाणस् तथागतस् कल्पं वा) तिष्ठेत् कल्पावशेषम् वा )। )

६ तिष्ठतु भगवान् कल्पं तिष्(ठ) त्(उ) सुगतः कल्पावशेषम्)।

७ तवैव्(आनन्दाप)र्(आ)धस् तव्(ऐ)व दुष्कृ(त)ं यस् त्व्(अं तथागतस्य यावत् त्रिरप्य् औदा)र्(ए) ऽवभास्(अनिमि)त्त्(ए प्)राविष्क्रियमाणे) न ऽसक्नोषि तं निमित्तं प्रतिव्(ए)द्धुं) यथापि तत् स्फुटो मारेण (पापी)यसा।

८ क्(इं) मन्यस आनन्द भ्(आषेत तथागतस् तां वा) चं या स्याद् द्वैधविपाक्या)। नो भदन्त।

९ साधु साध्व् आनन्द। अस्थानम्) अनवकाशो यत् तथागतस् तां वाचं भाषेत या स्याद् द्वैधविपा(क्या))।

१९।१ (गच्छ) त्वम् आनन्द यावन्तो भिक्षवश् चापालं चैत्यम् उपनिश्रित्य विहरन्ति तान् सर्वान् उपस्थानशालायां सन्निपातय।

२ एवं भदन्त। आयुष्मान् आनन्दो भगवतः प्रतिश्रुत्य यावन्तो भिक्षवश् चापालं चैत्यम् उपनिश्रित्य विहरन्ति तान् सर्वान् उपस्थानशालायां सन्निपात्य येन भगवांस् तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते ऽस्थात्।

३ एकान्तस्थित आयुष्मान् आनन्दो भगवन्तम् इदम् अवोचत्।

४ यावन्तो भदन्त भिक्षवश् चापालं चैत्यम् उपनिश्रित्य विहरन्ति सर्वे त उपस्थानशालायां निषण्णाः सन्निपतिताः। यस्येदानीं भगवान् कालं मन्यते।

५ अथ भगवान् येनोपस्थानशाला तेनोपसंक्रान्तः। उपसंक्रम्य पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने न्यषीदत्। निषद्य भगवान् भिक्षून् आमन्त्रयते स्म।

६ अनित्या) भिक्षवः सर्वसंस्कारा अध्रुवा अनाश्वासिका विपरिणामधर्माणो यावद् अलम् एव भिक्षवः सर्वसंस्कारान् संस्करितुम् अलं विरन्तुम्। )

७ तस्मात्) तर्ह्(इ) भिक्षवो) ये ते धर्म्(आ) दृष्टधर्महिताय संव(र्)तन्ते दृष्टध र्मसुखाय संपराय्(अहिताय संप)रायसुखाय ते भिक्षुभिर् उद्गृह्य पर्यवाप्य (तथा त)थ्(आ) धारयितव्या ग्राहयितव्या) वाचयितव्यायथेदं) ब्रह्मचर्यं चिरस्थितिकं स्यात्) तद् भविष्(यति बहु)जनहिताय बहुजनसुखाय लो(कानुकम्) पायार्थाय हिताय सुखाय देवमनुष्याणां

१९।८ कतमे) ते धर्मा दृष्टधर्महिताय (संवर्तन्ते दृ)ष्टधर्मसुखाय स(ं)परायहिताय्(अ संपरा)य्(अ)स्(उ)खाय ते) भिक्षुभिर् उद्गृह्य पूर्ववद्) यावद् देवमनुष्याणाम्।

९ तद्यथा) चत्वारि स्मृत्युप्(अस्थाननि चत्वारि) स्(अ)म्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रि(याणि पञ्च ब)लानि सप्त बोध्यङ्गान्य् आर्याष्ट्(आङ्)गो मार्गः।

१० इमे ते) धर्मा दृष्टधर्महितायसंवर्त्(अन्ते पूर्ववद्) यावद् देवमनु)ष्याणाम्।

२०।१ तत्र) भगवान् आयुष्मन्ताम् आनन्दम् आमन्त्रयते। )

२ आगमयानन्द येन कुष्ठग्रामकः। )

३ एवं भद्(अन्त्)ए(त्य् आयु)ष्मान् आनन्दो भगव(तः प्रत्यश्रौषीत्। )

४ (भ)गवान् वैशालीसामन्तकेनातिक्रमन्) दक्षिणेन सर्वकायेन नागाव लोकितेनावलोक्(अयति। )

५ (अद्राक्षीद् आ)युष्मान् आनन्दो भगवन्तं द(क्षिणेन सर्वकाये)न नागावलोकितेन व्यवलोकयन्तं दृष्ट्वा पुनर् भगवन्तम् इदम् अवोचत्। )

६ ना(ह्)ए(त्व् अप्रत्ययं भदन्त तथाग)ता अर्हन्तः सम्यक्संबुद्धा) ना(गावलोकितम् अव)लोकयन्ति। को भदन्त हेतुः कः प्रत्ययो नागावलोकितस्(य।)

७ (ए)व्(अम् ए)तद् आनन्दैवम् एतद् आनन्द )। नाहे(त्व् अप्रत्ययं तथागता अर्हन्तः सम्यक्संबुद्धा दक्षिणेन सर्वकायेन नागावलोकितेना वलोकयन्ति। ))

८ (इदम् आनन्द तथागतस्य वैशा)ल्याः पश्चिमं द(र्)शनं) न भूय इह स(ं) बुद्धो (वैशालीम् आगमिष्यति। परिनिर्वाणाय गमिष्यति मल्लानाम् उपवर्तनं यमकशालवनम्। )

२०।९ (अथान्यतरो भि)क्षुस् तस्यां वेलायां गाथां बभाषे। )

१० इ(दम् अपश्चिमकं नाथ
वैशाल्यास् तव दर्शनम्।
न भूयः सुगतो बुद्धो)
वैशालीम् आगमिष्यति।
निर्वाणाय) प्रयातो ऽयं )
मल्लानाम् उपवर्तने। )

२१।१ अथ भग(वान् वृजिषु जनपदेषु चर्यां चरङ् कुष्ठग्रामकम् अनुप्राप्तः कुष्ठग्रामके विहरत्य् उत्तरेण ग्राम)स्य शिंशपावने । )

२ तत्र भगवान् भिक्षून् आमन्त्रयते। )

३ इतीमानि भिक्ष्(अवः शीलानि। अयं समाधिः। इयं प्रज्ञा शीलप्रभावितः समाधिश् चिरस्थितिको भवति। प्रज्ञापरिभावितं चित्तं सम्यग् एव विमुच्यते रागद्वेष मोहेभ्यः। )

४ (एवं सम्यक्सुविमुक्तचित्त आर्यश्रावकः सम्यग् एव प्रजानाति। )

२१। ५ (क्षीणा मे जातिर् उषितं ब्रह्मचर्यं कृतं करणीयं नापरम् अस्माद् भवं प्रजानामि॥ )

६ (यथा कु)ष्ठग्रामक एवं गण्डग्रामको द्रोणग्रामकः शूर्पग्रामक) आ(म्रग्रामको जम्बुग्रामको हस्तिग्रामकः। )

७ (वृजिग्रामकाद् मल्लग्रामकाद् भोगनगरकम् अनु)प्राप्तः। भोगनगरके विहरत्य् उत्तरेण ग्रामस्य शिंशपावने।

८ त(त्)र्(अ भगवान् भिक्षून् आमन्त्रयते। ))

९ (इतीमानि भिक्षवः शीलानि पूर्ववद् यावद् नाप)रं अस्माद् भावं प्रजानामि।

२२।१ तेन खलु समयेन महापृथिवीचा(लश् चाभूद् उल्कापाता दिशोदाहा अन्तरीक्षे देवदुन्दुभयो ऽभिनदन्ति। ))

२ (अथायुष्मान् आनन्दः) सायाह्ने प्रतिसंलयनाद् व्युत्थाय येन (भग)वा(ंस्त्)ए(नोपजगाम। उपेत्य भगवतः पादौ शिरसा वन्दित्वैकान्ते ऽस्थात्।))

३ (एकान्तस्थित आयुष्मान् आन)न्दो भगवन्तम् इदम् अवोचत्।

२२।४ को भदन्त हे(तुः कः प्रत्ययो येनैतर्ह्य् अभूद् महापृथिवीचाल उल्कापाता दिशोदाहा अन्तरीक्षे देवदुन्दुभयो ऽभिन्द)न्ति।

५ त्रय इमे आनन्द हेतवस् त्रयः प्रत्यया (महतः पृथिवीचालस्य। )

६ (कतमे त्रयः। )

७ (इयं महापृथिव्य् अप्सु प्रतिष्ठिता पूर्ववद् यावच् चालयन्ति। )

८ (अयं प्रथमो हेतुः प्र)थ्(अमः) प्रत्ययो महतः पृथिवीचाल्(अस्य। )

९ (पुनर् अपरं भिक्षुर् महर्द्धिको भवति पूर्ववद् यावच् चालयति। )

११ (अयं द्वितीयो हेतुर् द्वितीयः प्रत्ययो महतः पृथिवीचालस्य। )

१२ (पुनर् अ)परं न चिरस्येदानीं तथागतस्यानु(पधि)श्(ए)ष्(ए) न्(इर्वाण) धातौ परि(न्)इ(र्वाणं भविष्यति। अत्यर्थं तस्मिन् समये महापृथिवीचा)ल्(अ)श् च भवत्य् उल्क्(आपाता दिशो) दाहा अन्तरीक्षे देवदुन्दुभयो ऽभिनदन्ति। )

१३ अयं तृतीयो (हेतु)स् तृतीय्(अः प्रत्ययो महतः पृथिवीचालस्य। ))

२३।१ (अथायुष्मान् आनन्दो भगवन्तम् इदं अवोचत्। )

२ (आश्च)र्याद्भुतधर्मस(मन्वागता)स् तथागता अर्हन्तः सम्यक्संबुद्धाः। यत्रेदानीं न चिर(स्य) तथागतस्यानुपधिशेष निर्वाणधातौ परिनिर्वाणं भवि)ष्यत्य् अत्य्(अ)र्थं तस्मि(न् समये) महापृथिवीचालश् च भवत्य् उल्कापाता दिशोदाहा (अन्तरीक्षे देवदुन्दुभयो ऽभिनदन्ति। )

३ (एवम्) एतद् आनन्द एवम् ए)तद् आनन्द। आश्चर्याद्भ्(उतधर्म) समन्वागता एव तथागता अ(र्हन्त)ः सम्यक्संबुद्धाः।

४ अभिजान्(आमि खलु पुनर् अहम् अनेकशतं क्षत्रियपरिषदं दर्शनायोपसंक्रमि)तुम्) उपसंक्रान्तस्य (च मे या) द्(ऋ)शस् तेषाम् आरोहपरिणा(ह्)ओ (भव)ति ममापि तादृश आरो(हपरिणाहो भवति। यादृशी तेषां वर्णपुष्कलता भवति मम्)आपि तादृशी वर्ण्(अपु)ष्कलता भवति। यादृशी तेषां स्व्(अरगुप्ति)र् भवति ममापि त्(आ)दृश्(ई) स्(वरगुप्तिर् भवति।)

५ (ते यम् अर्थं मन्त्रयन्त्य् अहम् अपि तम् अर्थं मन्त्रयामि। ते यम् अ)र्थ(ं) न मन्त्रयन्त्य् (अह)म् अपि तम् अर्थं (न) मन्त्रयामि। उत्तरे वै (तान् धा)र्म्या कथया) सन्दर्शयामि (समादापयामि समुत्तेजयामि संप्रहर्षयामि ततो) ऽन्तर्धापयामि। अन्तर्हि(तस्य) मे न जानन्ति क एष अन्तर्हितो देवो वा मनुष्यो वा।

२३।६ ए(वम् अपि ब्राह्मणपरिषदं गृहपतिपरिषदं) श्(र्)अमणपरिषदं चा(तुर्महा)राजिकान्) देवांस् त्रायस्त्रिंशान्यामांस् तुषितान् निर्माणर(तीन् परिनिर्मित वशवर्तिनो ब्रह्मकायिकान् ब्रह्मपारिषद्यान् ब्रह्मपुरो)हितान् महाब्रह्म(णः प)रित्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् अ(प्र)म्(आ)णशु(भाञ्शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् अबृ)हान् अतपान् सुदृश्(आन् सुदर्श)नान् अकनिष्ठान् देवान् दर्शनायो पसंक्र्(अमितु)म्

७ (उ)प(संक्रा)न्तस्य च मे (यादृशस् तेषाम् आरोहपरिणाहो भवति पूर्ववद्) यावद् दे)वो वा मनुष्यो वा।

८ (एवम्) आश्चर्या) द्भुतधर्मसमन्वाग(तास् तथागता अर्)ह्(अ)न्तः सम्यक्संबुद्धाः।

२४।१ तत्र भगवान् आयुष्मन्तम् आ(नन्दम् आमन्त्र)यते।

२ तस्मात् त(र्)ह्(इ) त आनन्द भि(क्षुभिः) सूत्रान्तप्रतिसरणैर्) भवितव्यं न पुद्गल(प्)र्(अतिसरणैः।)

३ (कथं) भ्(इ)क्षुः सूत्रान्तप्रतिसरणो भवति न (पुद्गलप्रतिस)रणः।

४ इहान्(अ)न्द भिक्षुर् आगच्छ्(एत् स एवं)) वदेत्।

५ संमुखम्) मे भगवतो ऽन्तिकाच्छ्रुतं संमुख्(अम् उद्गृहीतम् अयं ध)र्मो ऽयं विनय इदं शास्तुः शासनम्।

६ त्(अस्य भिक्षवस्) तन्)नोत्साहयित्(अ)व्यं नावसादयितव्यम्। अनुत्साहयित्वानवसादयित्वा श्रोत्रम् अवधा(य तानि प)दव्यंजनान्य् उद्गृह्य सूत्रे ऽवतार्(अयितव्यं विन)य्(ए) संदर्शयितव्यं। यदि सूत्र्(ए) ऽवतार्यमाणा विनये संदर्श्यमानाः सूत्रे नावतरन्(ति विनये) न संदृश्यन्ते धर्मतां च विलोमयन्ति (स एव)ं स्याद् वचनीयः।

७ अद्धायुष्मन्न्) इमे धर्मा न भगवता भाषिताः। आयुष्मता वा इमे) धर्मा दु(र्गृहीतास् तथा) हीमे) धर्माः सूत्रे ऽवतार्यमाणा विनये संद्(अर्श्यमानाः सूत्रे नावतरन्ति विनये न संदृश्यन्त्)ए धर्मतां च विलोमयन्ति।

२४।८ नायं) धर्मो नायं वि(नयो नेदं शास्)तुः शासनम् इति विदित्वा छोरयितव्याः।

९ पुन(र् अप)रम्) (आनन्द) भिक्षुर् आगच्छेत् स एवं वदेत्।

१० अमुष्मिन्न्) आवासे महान् भिक्षुसंघ(ः प्रतिवसति सस्थविरः सप्रमोक्षः। )

११ (संमुखं) मे तस्य महतो भिक्षुसं घस्यान्तिकाच् छ्रुतं संमुखम् उद्गृहीतम् अयं धर्मो) ऽयंविनय इदं शास्तुः शासनम्।

१२ तस्य (भिक्षवस्) त(न् नोत्साहयितव्यं नावसादयितव्यम्। अनुत्साहयित्वानवसादयित्वा श्रोत्रम् अवधाय तानि पदव्यंज)नान्य् उद्गृह्य सूत्रे ऽवतारयितव्यं विनये सं(दर्शयितव्यं। यदि सूत्रे ऽवतार्यमाणा विनये संदर्श्यमाना सूत्रे नावतरन्ति विनये न सं)दृश्यन्ते धर्मतां च विलोमयन्ति स एवं स्याद् व(चनीयः। )

१३ (अद्धायुष्मंस्) तेन महता भिक्षुसंघेन धर्मसंज्ञिना च विनयसंज्ञिना चाधर्मश् चाविनय)श् च भाषितः)। आयुष्मता वा इमे) धर्मा दुर्गृ(हीतास् तथा हीमे धर्मा सूत्रे ऽवतार्यमाणा विनये संदर्श्यमानाः सूत्रे नावतरन्ति विनये न संदृश्यन्ते धर्म) तां च विलोमयन्ति।

१४ नायं) धर्मो नायं विनयो (नेदं शास्तुः शासनम् इति विदित्वा छोरयितव्याः। )

२४।१५ (पुनर् अपरम् आनन्द) भिक्षुर् आगच्छेत् स एवं वदेत्। )

१६ (अमुष्मिन्न्) आवासे संब)हुला भिक्षवः प्रतिवसन्ति सूत्रधरा विन(यधरा मातृकाधराः। )

१७ (संमुखं) मे तेषां संबहुलानां भिक्षूणाम् अन्तिकाच् छ्रुतं संमुखं उद्गृहीतम् अयं धर्मो ऽयं विनय इदं शास्तुः शासनं )

१८ (तस्य भिक्षवस्) तन् नोत्साहयितव्यं पूर्ववद् यावत् स) एवं स्याद् वचनीयः।

१९ अद्धायुष्मंस्) (तैर्) भिक्षुभिर् ध(र्मसंज्ञिभिश् च विनयसंज्ञिभिश् चाधर्मश् चाविनयश् च भाषितः)। पूर्ववद् )

२० (यावद्) इति विदित्वा छोरयितव्याः। )

२१ (पुनर् अपरम् आनन्द)) भिक्षुर् आगच्छेत् स एवं वदेत्

२४।२२ अमुष्मिन्न्) आवासे (भिक्षुः प्रतिवसति स्थविरः )

२३ (सं)मुखं) मे तस्य भिक्षोर् अन्तिकाच् छ्रुतं संमुख(म् उद्गृहीतम् अयं धर्मो ऽयं विनय इदं शास्तुः शासनं। )

२४ (तस्य भिक्षवस्) तन् नोत्साहयितव्यं पूर्ववद् यावत् स एवं स्याद् वचनीयः। )

२५ (अद्धायुष्मंस्) तेन भि)क्षुणा) धर्मसंज्ञिना च विनयसंज्ञिना चा(धर्मश् चाविनयश् च भाषितः)। पूर्ववद् )

२६ (यावद्) इति विदित्वा छोरयितव्याः। )

२७ (पुनर् अपरम् आन)न्द) भिक्षुर् आगच्छेत् स एवं वदेत्।

२८ संमुखं) मे भगव(तो ऽन्तिकाच् छ्रुतं संमुखम् उद्गृहीतम् अयं धर्मो ऽयं विनय इदं शास्तुः शासनम्। )

२४।२९ (तस्य भिक्षवस्) तन् नोत्साहयितव्)य्(अं) नावसादयितव्यम्। अनुत्साहयित्वा नवसा(दयित्वा श्रोत्रम् अवधाय तानि पदव्यञ्जनान्य् उद्गृह्य सूत्रे ऽवतारयितव्यं विनये सन्दर्शयि)तव्यं। यदि सूत्रे ऽवत्(आ)र्यमा(णा विन)ये सन्दर्श्य्(अमा)नाः सूत्रे (ऽवतरन्ति विनये संदृश्यन्ते धर्मतां च न विलोमयन्ति स एवं स्याद् वचनीयः। )

३० (अद्धायुष्मन्)न्) (इ)मे धर्मा भगवता भाषिताः। आयु(ष्मत्)आ चेमे ध्(अर्)म्(आ)ः सुगृहीता(स् तथा हीमे धर्माः सूत्रे ऽवतार्यमाणा विनये संदर्श्यमानाः सूत्रे ऽवतरन्ति विन)ये संदृश्यन्ते धर्मतां च न विलोमयन्ति।

३१ अयं) धर्मो ऽयं वि(नय इदं शास्तुः शासनम् इति विदित्वा धारयितव्याः। )

३२ (पुनर् अपरम् आनन्द) भिक्षुर् आगच्छेत् स) एवं वदेत्।

३३ अमुष्मिन्न्) आवासे महान् भिक्षुसंघः प्रति(व)सति स(स्थविरः सप्रमोक्षः। )

३४ (संमुखम्) मे तस्य महतो भिक्षुसंघस्यान्तिकाच् छ्रुतं संमुखम् उद्गृहीतम् अयं धर्मोऽ) यं विनय इदं शास्तुः शासनम्।

३५ (तस्य भिक्षवस्) तन् न्)ओत्साह(यितव्यं पूर्ववद् यावत् स एवं स्याद् वचनीयः। )

२४।३६ (अद्धायुष्मंस्) तेन महता भिक्षुसंघेन धर्मसंज्ञिना विनय) संज्(ञ्)इनात्र धर्मश् च विनयश् च (भाषितः)। आयुष्मता) चे(मे धर्माः सुगृहीतास् तथा हीमे धर्माः सूत्रे ऽवतार्यमाणा विनये संदर्श्यमानाः सूत्रे ऽवतरन्ति विनये संद्)ऋश्य्(अन्ते) धर्मताञ् च न वि(लोमयन्ति। )

३७ (अयं) धर्मो) ऽयं वि(नय इदं शास्तुः शासनम् इति विदित्वा धारयितव्याः। )

३८ (पुनर् अपरम् आनन्द) भिक्षुर् आगच्छेत् स एवं वदेत्। )

३९ (अमुष्मिन्) न्)आवासे स्(अं)बहुला भिक्षवः प्रति(वसन्ति सूत्रधरा वि)नयध(रामातृकाधराः।)

४० (संमुखं) मे तेषां संबहुलानां भिक्षूणाम् अन्तिकाच् छ्रुतं संमुखम् उद्गृहीतम् अयं ध)र्मो ऽयं विनय इदम् शास्तुः शासनं।

४१ (तस्य) भिक्षवस्) तन् नोत्साहयितव्यं) पूर्वव(द्) य्(आ)वत् स एवं (स्याद् वचनीयः। )

४२ (अद्धायुष्मंस्) तैर् भिक्षुभिर् धर्मसंज्ञिभिश् च विनयसंज्ञिभिश् च धर्मश् च विन) यश् च भाषितः)। आयुष्मताचेमे धर्माः सुगृहीतास् तथा ही(मे धर्माः सूत्रे ऽवतार्यमाणाः पूर्ववद् यावद् )

२४।४३ (अयं) धर्मो ऽयं विनय इदं शास्तुः शासनम् इति विदित्वा धारयितव्याः। )

४४ पुनर् अपरम् (आनन्द) भिक्षुर् आगच्छेत् स ए(व)ं (वदे)त्।

४५ अमुष्मिन्न्) आवासे भिक्षुः प्रति(वसतिस्थविरः )

४६ (संमुखं) मे त)स्य भिक्षोर् अन्तिकाच् छ्रुतं संमुख(म् उद्गृही)तम् अयं (धर्मो ऽयम् विनय (इदं शास्तुः शासनं। )

४७ (तस्य भिक्षवस्) तन् नो)त्साह(यितव्यं पूर्ववद् यावत्) स्(अ) एवं स्याद् वचन्(ई)य्(अः। )

४८ (अद्धायुष्मम्ष्) तेन भिक्षुणा) धर्मसंज्ञिना च विनयसंज्ञिना च धर्मश् च विनयश् च भाषितः) पूर्ववद्। )

४९ (यावद् ) इ)त्(इ) विदित्वा धा(रयितव्याः। )

५० (तत्र्)आनन्द ये ते पूर्वकाश् च(त्)व् (नायं धर्मो नायं विनयो नेदं) शास्तुः (शासनम् इति) विदित्वा छोरयितव्याः।

५१ त(त्रानन्द ये ते) (अ)यं धर्मो (ऽयं विनय) इदं शास्त्(उः) शासन(म् इति विदित्वा धारयितव्याः। )

५२ (एवम्) एवानन्द भिक्षुभिः सूत्रान्तप्रतिसरणैर् भवितव्यं न पुद्गलप्रतिसरणैह्। ))

२६।१ (तत्र) भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते। )

२ (आगमयानन्द) येन पापाग्रामकः। एवं भदन्तेत्य् आयुष्मान् आनन्दो भगवतः प्रत्यश्रौषीत्। )

३ (अथ) भगवान् मल्लेषु जनपदेष्व् अनुपूर्वेण) चर्यां चरन् पापाम् अनुप्राप्तः पापायां विहरति जलूकावनषण्डे। )

४ (अश्रौषुः) पापीयका मल्ला भगवान् मल्लेषु जनपदेष्व् अनुपूर्वेण चर्यां चरन्पापाम् अनुप्राप्तः पापायां विहरति जलूकावनषण्डे। )

२६।५ (श्रुत्वा) च पुनः संघात् संघं पूगात् पूगं संगम्य समागम्य पापाया निष्क्रम्य येन भगवांस् तेनोपजग्मुः। )

६ (उपेत्य भगवत्पादौ शिरसा वन्दित्वैकान्ते न्यषीदन्। एकान्तनिषण्णान्) भगवान् धार्म्या कथया सन्दर्शयति समादापयति समुत्तेजयति संप्रहर्षयति। )

७ (तेन) खलु समयेन चुन्दः कर्मारपुत्रस् तस्मिन् समाजे सन्निषण्णो ऽभूत् सन्निपतितः। अथ) भगवान् पापीयकान् मल्लान् अनेकपर्यायेण धार्म्या कथया सन्दर्शयित्वा समादापयित्वा समुतेजयित्वा संप्रहर्षयित्वा तूष्णीम् अभूत्। अथ पापीयका मल्ला भगवतो भाषितम् अभिनन्द्यानुमोद्य भगवत्पादौ शिरसा वन्दित्वा प्रक्रान्ताः। )

८ (चुन्दः) कर्मारपुत्रस् तत्रैवास्थात्। अथ चुन्दः कर्मारपुत्रो ऽचिरप्रक्रान्तान्) पापीयकान् मल्लान् विदित्वोत्थायासनाद्) एकां सम् उत्तरासङ्गं कृत्वा येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् इदम् अवोचत्। )

९ (अधिवासयतु) मे भगवाञ् श्वो भक्तेन सार्धं भिक्षुसंघेन। )

१० (अधिवासयति भगवाञ् चुन्दस्य कर्मारपुत्रस्य तूष्णींभावेन। )

११ (अथ चुन्दः कर्मारपुत्रो भगवतस् तूष्णींभावेनाधिवासनां विदित्वा भगवतो भाषितम् अभिनन्द्यानुमोद्य भगवत्पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तः। )

१२ (अथ चुन्दः कर्मारपुत्रस् ताम् एव रात्रिं शुचिं प्रणीतं खादनीयभोजनीयं समुदानीय काल्यम् एवोत्थायासनकानि प्रज्ञप्योदकमणिं प्रतिष्ठाप्य भगवतो दूतेन कालम् आरोचयति। )

१३ (समयो भो गौतम सद्यो भक्तं यस्येदानीं भवाङ् गौतमः कालं मन्यते। )

१४ (अथ भगवान् पूर्वाह्णे निवस्य पात्रचीवरम् आदाय भिक्षुसङ्घपरिवृतो भिक्षुसङ्घपु)रस्कृ(तो) येन चुन्दस्य क(र्)मारपुत्रस्य भ्(अक्ताभिसारस् तेनोपजगाम। उपेत्य पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने न्यषीद)त्।

१५ अथ चुन्दः कर्मारपुत्रः सुख्(ओप)निषण्णं बुद्धप्रमुखं भिक्षुसंघं विदि(त्वा) भगवन्तं प्रणीतेन खादनीयेन लोहकरोटकात् स्वहस्तं सन्तर्पयति संप्रवार)यति। भिक्षुसङ्घं) च शुचिना प्रणीतेन खादनीयभोजनीयेन स्व(हस्तं सन्तर्पयति संप्रवारयति। )

१६ (तेन समयेन अन्यतमः पापभिक्षुर्) लोहकरोटकं कक्षेणापहृतवांस् तं खलु पापभिक्षुं भग(वान्) अद्राक्षीच् चुन्दश् च बुद्धानुभावेन। )

१७ (अथ) चुन्दः कर्मारपुत्रो बुद्धप्र)मुखं भिक्षुसंघं शुचिना प्रणीतेन खादनीयभोजनीयेन स्वह(स्तं संतर्पयित्वा संप्रवारयित्वा भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तम् अपनीतपात्रं नीचत)र्(अ)क्(अ)म् आसनं गृहीत्वा भगवतः प्(उ)रतो निषद्य भगवन्तं गा(थाभिर्) गीताभिः पप्रच्छ)। )

१८ (सा)र्(अ)थ्(इ)प्र्(अ)वरं विनायकाग्रं कत्(इ) लोक्(ए) श्रमणास् तद् अङ्ग ब्रूहि॥१॥

१९ भ(गवान् आह।) (मार्गज्ञश् च मार्ग) दैशिको मार्ग्(ए) जीवति यश् च मार्गदूषी॥२॥

२० चुन्द(ः) प्राह। कें मार्गजिनं वद्(अन्ति)

२१ भगवान् आह। यश् छिन्नकथंकथो विशल्यो निर्वाणा

२२ परमप्रवरं हि यो विदित्वा आख्याता विभजेत् तथैव ध

२३ (ध)र्मपदे सुदेशिते मार्गे जीवति संयतः स्मृतश् च। अनवद्यपदेषु स्

२४ प्रस्कन्दी कुलदूषकः प्रगल्भः। मायावी ह्(य् अ)संयतः प्रलापी प्(र)तिर्(ऊ)पे चर

२५ (सर्वे) न्(आ)प्य् एवंविधा भवन्ति ज्ञात्वैतान् ति तस्य श्रद्धाम्॥८॥

२६ कथं नु दुष्टेषु (ह्य् अ)स(ं)प्रदुष्टं शुद्धान् अशुद्ध्

२८ पकं धूपिता कर्णिकेव लोहार्धमाष इव हिरण्यनद्धः। (बहि)र् आर्य(बिंबः)।

२९ (अथ) भगवाञ् चुन्दस्य कर्मारपु)त्रस्य तद् दानम् अनयाभ्यनुमोदनयाभ्य्(अनुमोदते। )

३० (ददतः) पुण्यं प्ररागद्वेषमोहक्षयात् सुनिर्वृतिः।

३१ अथ) भ्(अगवांश् चुन्दं कर्मा)रपुत्रं धार्म्या कथ्(अया सन्दर्शयित्वा समादापयित्वा समुत्तेजयित्वा संप्रहर्ष) यित्वोत्थायासनात् प्रक्रान्तः।

२७।१ तत्र) भगवान् आयुष्मन्त्(अम् आनन्दम् आमन्त्र)यते।

२ आगमयान्(अन्द येन कुशिनगरी। )

३ (एवं भदन्तेत्य् आयुष्मान् आनन्दो भगवतः प्र)त्यश्रौषीत्।

४ अथ भगवान् मल्लेषु जनपदेषु चर्यां चरन् त(त्रान्तरा) च पापाम्) अन्त्(अ)रा चनदीं हि(रण्यवतीम् अध्वप्रतिपन्नो मार्गाद् अवक्रम्य् )-

५ (आयुष्मन्तम् आनन्दम् आमन्त्रय) ते।

६ प्रज्ञापयानन्द तथागतस्य चतुर्गुणम् उत्तरास(ङ्गं पृष्ठी म आवि)लायति ता(ं) त्(आवद् आयामयिष्ये। )

७ (एवं भदन्तेत्य् आयुष्मान् आनन्दो) भगवतः प्रतिश्रुत्य) लघु लघ्व् एव चतुर्गुणम् उत्तरासङ्गं प्रज्ञप्य भग्(अवन्तम् इदम् अवोच)त्।

८ प्रज्ञप्तस् तथाग(तस्य चतुर्गुण उत्तरासङ्गः। यस्येदानीं भगवाङ् कालं मन्यते। )

९ अथ भगवाङ् गणगुणां संघाटिं शिर(सि प्रतिष्ठाप्य दक्षि)णेन पार्श्वेन शय्यां (कल्पयति) पादे पादम् आधायालो कसंज्ञी प्रतिस्मृतः संप्रजान) उत्थानसंज्ञां मनसि कुर्वाणः। तत्र भग(वान् आयुष्मन्)त्(अम् आन)न्दम् आमन्त्र(यते। )

१० (गच्छानन्द) नद्याः कुकुस्तायाः) पात्रेण उदकम् आहर य)तो ऽहं पानी यं पास्यामि गात्राणि च परिषेक्ष्यामि।

११ एवं भदण्ते(त्य् आयुष्मान् आनन्दो) भगव(तः प्रतिश्रुत्य पात्रं) गृहीत्वा जगाम येन नदी कुकुस्ता। )

१२ (तेन ख)लु समयेन नद्याः कुकुस्तायाः पञ्चमात्राणि शकटशता(न्य् अचिरव्यतिक्रान्तानि)। तैर् उदकं विलोडितं लुठितम् आविलम्। )

१३ (अथ आयुष्मान् आनन्दो नद्याः कुकुस्तायाः पात्रेण) पानीयम् आदाय येन भगवांस् तेनोपजगाम। उपेत्य भगवन्तम् इदम् अवोचत्। )

१४ (अत्र) भदन्त नद्याः कुकुस्तायाः पञ्चमात्राणि शकटशतान्य् अचिरव्यतिक्रान्तानि। तैर् उदकं विलोडितं लुठितम् आविलम्। )

१५ (तेन) भदन्तोदकेन भगवान् मुखं परिषिञ्चतु पादौ प्रक्षालयतु। अस्माद् भदन्ताविदूरे नदी हिरण्यवती। तत्र भगवान् पानीयं पास्यति गात्राणि च परिषेक्ष्यति। )

१६ (अथ) भगवांस् तेन पात्रोदकेन पादौ प्रक्षालयति मुखं परिषिञ्चति। अतोविश्रान्तः सुखित उत्थाय) न्यषीदत् पर्यङ्कम् आभुज्यर्जुं कायं प्रणिधाय प्रतिमुखं स्मृतिम् उपस्थाप्य। )

२८।१ (तेन) खलु समयेन पुत्कसो मल्लमहामात्रस् तत्रैवाध्वप्रतिपन्नः। )

२ (अद्राक्षीत्) पुत्कसो मल्लमहामात्रो भगवन्तं प्रासादिकं) प्रसादनीयं शान्तेन्द्रियं शान्तमानसं परचित्तदमकम्) उपशान्तोपशमनं सुवर्णयष्टिसदृशप्रभम्) अन्यतमस्मिन् वृक्षमूले निषण्णम्। )

३ (दृष्ट्वा) च पुनर् येन भगवांस् तेनोपजगाम। उपेत्य भगवत्पादौ शिरसा वन्दित्वैकान्ते न्यषीदत्। )

४ (एकान्तनिषण्णं) पूत्कसं मल्लमहामात्रं भगवान् आमन्त्रयते। )

५ (पुत्कस) रोचयसि त्वं काञ्चिच् छ्रमणस्य वा ब्राह्मणस्य शौचेयान् धर्मान्। )

६ (भदन्ताराडस्य कालामस्य शौचेयान् धर्मान् रोचयामि। )

७ (कस्मात् पुत्कस रोचयसि त्वम् आराडस्य कालामस्य शौचेयान् धर्मान्। )

८ (एको) ऽयं भदन्त समय आराडः कालामो ऽध्वप्रतिपन्नो मार्गाद् अवक्रम्यान् यतमस्मिन् वृक्षमूले दिवाविहारोपगतः )। )

९ (तेन) खलु समयेन तत्रैव मार्गस्य पञ्चमात्राणि शकटशतान्य् अचिरव्यतिक्रान्तानि। )

१० (अथान्यतमः पुरुषस् तेषां शकटानां पृष्ठतो ऽवशिष्टो येनाराडः कालामस् तेनोपजगाम। उपेत्याराडं कालामम् इदम् अवोचत्। )

११ ( किं भवान् पञ्चमात्राणि शकटशतानि व्यतिक्रममाणान्य् अद्राक्षीत्। )

१२ ( न भोः) पुरुषाद्राक्षम्। )

१३ (किं) नु भवान् पञ्चमत्राणां शकट)श्(अ)ताना(ं) व्य्(अतिक्रम)म्(आणानां) श्(अ)ब्द्(अं नाश्रौषीत्। )

१४ (न भोः पुरुषाश्रौषम्। )

१५ क्(इं) नु भवाञ्) शये (सुप्)त्(अः। )

१६ (न भोः पुरुषाहं शये सुप्तः। )

१७ (किं नु भवान् संज्ञ्य् एव समानो जाग्रन् नाश्रौषीत् पञ्चानां शकटशतानां व्यतिक्रममाणानां शब्दम्। )

१८ संज्ञी) एवाहं भोः पुरुष समानो जाग्रन् नाश्रौषं पञ्चानां शकटशतानां व्यत्(इ)क्रममाणानां शब्दम्।

१९ अथ तस्य पुरुषस्यैत(द् अभवत्। )

२० (आश्चर्यं बत प्रव्रजितानां शान्तविहारिनां यत्रेदानीं) संज्ञी) समानो जाग्रन् नाश्रौषीत् पञ्चानां शकटशतानां व्यतिक्रममाणा(नां शब्दम्। तथापि) आवरं रजसावकीर्णम्। )

२१ (प्रसन्नश्) चास्य स पुरुषो वशीकृतः। एवम् एवाहं) भदन्ताराडस्य कालामस्य शौचेयान् धर्मान् रोचयामि।

२२ किं मन्यसे (पुत्कस कतर उत्तमो यः पञ्चानां शकटशतानां व्य)तिक्रममाणानां शब्दो यो वा देवस्य गर्जतो ऽशन्याश् च स्फोटत्याः।

२३ किं भदन्त करि(ष्यन्ति पञ्चमात्राणि दश वा सहस्रं वा शकटशतानि)। उत्तमः) शब्दो यो देवस्य गर्जतो ऽशन्याश् च स्फोटत्याः।

२४ एको ऽयं पुत्कस समय आदुम्(आ)य्(आं) विहर्(आमि भूतागारे)। पूर्वाह्णे) निवस्य पात्रचीवरम् आदायादुमां पिण्डा) यप्रविशामि। आदुमां पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद् भक्तपिण्डपातः प्र(तिक्रम्य पात्रचीवरं प्रतिशमय्य) पादौ प्रक्षाल्य भूतागारे निषण्णः प्रतिसंल)यनाय।

२५ तेन खलु समयेनादुमायां देवेन गर्जताशन्या (च) स्फ्(ओ)टत्या) च्(अत्वारो) बलिवर्दका हता द्वौ च कार्षकौ भ्रातरौ। तदादुमाया उच्चशब्दो महाश)ब्दो महाजनकायस्य निर्घोषः।

२६ सो ऽहं सायाह्ने) प्रतिसंलयन्(आद् व्युत्थाय भूतागारस्य च्छायायाम् अभ्यवकाशे) चङ्क्रमे चङ्क्रम्ये। )

२७ (अथान्यतमः पु)रुषस् तस्मान् महाजनकायाद् येनाहं तेनोपसंक्रान्तः। उपेत्य मम्(अ पादौ शिरसा वन्दित्वा मां) चङ्क्रममाणम् अनुचङ्क्रम्यते। )

२८ (तम् अहम् एवम् आ)मन्त्रये)।

२९ किम् एतद् भोः पुरुषादुमाया उच्चशब्दो महाशब्दो महाजनकायस्य निर्घोषः। )

३० (स आह। इदानीं भदन्तादुमायां) देवेन गर्जताशन्या च स्फ्)ओटत्या च्(अत्वारो ब)लिव्(अर्दक्)आ (हता)) द्वौ च कार्षकौ भ्रातत्रौ। त(द्)ऐष उच्चशब्दो महाशब्(दो महाजनकायस्य निर्घोषः। )

३१ (किं) नु भगवान् देवं गर्जन्तम् अशनिं च स्फोटतीं नाश्रौषीत्। )

३२ (न भोः पुरुषाश्रौषम्। )

३३ (आह स) पुरुषः। कि(ं) नु भगवाञ् (शये सुप्तः। )

३४ (न भोः पुरुषाहं शये सुप्तः। )

३५ (किं नु) भगवा(न्) संज्ञ्य् ए(व) समानो ज्(आग्रन् नाश्रौषीद् देवस्य गर्जतो ऽशन्याश् च स्फोटत्याः शब्दम्। )

३६ (सं)ज्ञ्य् एवाहं भोः पुरुष्(अ समानो जाग्रन् नाश्रौषं देवस्य गर्जतो ऽश)न्याश् च स्फोटत्याः शब्दम्।

३७ अथ तस्य्(अ प्)उरुषस्य्(ऐतद् अभवत्। आश्चर्यं बत) तथागतानाम् अ(र्हतां सम्यक्संबुद्धानां) शान्तविहारिणां यत्रेदानीं सं)ज्ञ्य् एव सम्(आ)नो जाग्रन् नाश्रौषीद् देवस्य गर्जतो (ऽशन्याश् च स्फोटत्याः शब्दम्। )

३८ (प्र)सनश् च मे स पुरु(षो वशीकृतः। )

३९ (स आह। को भदन्त भग)वतो न्(आ)भिप्रसीदेत्। एषाहं भदन्त भगव(तौदारम्) अभिप्रसन्नः। )

४० अथ पुत्कसो मल्लमहा(मात्र उपकारकं) पुरुषम् इदम् अवोचत्। )

४१ अनुप्रयच्छ मे भोः (पु)रु(ष) नवं सुवर्णपीतं दुष्य(युगं तेनाहं भगवन्तम् आच्छादयि)ष्य्(आ)मि।

४२ अदाद् उप(क्)आ(रकः पुरुषः पुत्कसाय मल्लमहामात्रा)य नवं (सुव)र्(ण)पी(तं दुष्)ययुगम्।

४३ अथ पुत्कसो म(ल्लमहामात्रो नवं सुवर्णपीतं दुष्ययु)गम् आद्(आ)यभग(वन्तम् इदं अवोचत्। )

४४ (इदं नवं सुवर्णपी)तं दुष्य(युगम)स्म्(आकं प्रि)य्(अं) मनापं च तद् भगवा(न् प्रतिगृह्णात्व्) अनुकम्पाम् उपादाय। )

४५ (प्र)तिगृह्णाति भगवान् पुत्क्(असस्य मल्लमहामात्रस्य नवं सु)वर्ण पीतं दुष्ययु(ग)म् अनुकम्पाम् उपादाय।

४६ अथ पुत्कसो मल्ल्(अमहामात्रो भगवन्त)म् इदम् अवोचत्।

४७ पुन्(अर् अहं भदन्तोपस्थास्यामि) भगवन्तं भि)क्षुसंघञ्च

४८ कल्याणम् इदं पुत्कसोच्यते भगवान् अवोचत्।

४९ अथ पु(त्क)सो म्(अल्ल) महामात्रो भगव्(अतो) भाषितम् अभिनन्द्यानुमोद्य भगवत्पादौ) शिरसा वन्दित्वा भ(ग)वतो ऽन्तिकात् प्रक्रान्तः।

५० तत्र भगवान् आयुष्मन्त(म् आनन्दम् आमन्त्र)यते।

५१ अनुप्रयच्छ म (आनन्द नवं सुवर्णपीतं दुष्ययुगं शस्त्र)लूनं) कृत्वाच्छा दयिष्यामि)।

५२ अदाद् आयुष्मान् आनन्दो भगवतो (नवं सुवर्णपीतम् दु)ष्ययुगं शस्त्रलूनं कृ(त्वा। )

५३ (तद्) आच्छादितं भगवतश् छविवर्णा) वभासेन हतावभासम् इवख्य्(आ)ति।

५४ अथायुष्मान् आनन्दो भगव(न्)त्(अम् इदम् अवोचत्। )

५५ (अहं) भदन्त विंशतिं वर्षानि साधिकं भगवन्तम्) उपत्(इ)ष्ठा(मि)) नाभ्(इ)जानाम्य् (ए)व्(अं) विधस्य च्छविवर्नावभासस्य प्रादुर्भावं)। को भदन्त हेत्(उः कः प्रत्ययो ऽस्यैवं विधस्य च्छविवर्णावभासस्य प्रादुर्भावाय।

५६ एवम् एतद् आनन्द। एवम् एतद् आनन्द। द्वाव्) इमौ हेतू द्वौ प्रत्ययाव् अस्यैवंविधस्य (च्छविवर्णावभासस्य् प्रादुर्भावाय। )

५७ (कतमौ द्वौ। )

५८ (यस्यां रात्रौ बोधिसत्)त्वो) ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो यस्यां च रात्रौ तथागतो) ऽनुपधिशेषे निर्वाण्(अधातौ परिनिर्वास्यते। )

५९ (इमौ द्वौ हेतू द्वौ प्रत्ययाव् एवंविधस्)य च्छविवर्णावभासस्य प्रादुर्भावाय।

२९।१ तत्र भगवान् आयु(ष्)म्(अ)न्तम् आनन्दम् आमन्त्रयते।

२ आग(मयानन्द येन नदी हिरण्यवती। )

३ (एवं भदन्तेत्य् आयुष्मा)न् आनन्दो भगवतः प्रत्यश्रौषीत्।

४ अथ भगवान् येन नदी हिरण्यवती तेनोपजगाम्(ओपेत्य) नद्या हिरण्यवत्यास् तीरे निवासनं एकान्ते स्थापयित्वा नदीं हिरण्)य्(अ)वतीम् अभ्यवगाह् यगात्राणि परिषिच्य नदीं हिरण्यवतीं प्रत्यु(त्थ्)आ(य न्यषीदद् गात्राणि) विशोषयन्। )

५ (अथ भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते। )

६ स्याद् आनन्द चुन्दस्य कर्मारपुत्रस्य विप्रतिसारः परे(षाम् आपादितः)। तस्य) ते चुन्द न लब्धम् अलाभा तस्य ते दुर्लब्धं न सुलब्धं य)स्य्(अ) ते शास्ता प्(अ)श्च्(इ)मं पिण्डपातं परिभुज्यानुपधिशेषे निर्वाणधातौ प(रिनिर्वृतः। )

७ (द्विविधानन्द) चुन्दस्य कर्मारपुत्रस्य विप्रतिसारिणो कौकृत्यं) व्)इनोदयितव्यम्।

८ संमुखं) म आयुष्मंश् चुन्द भगवतो ऽन्तिकाच् छ्रुतं संमुख्(अम् उद्गृहीतं द्वौ पिण्डपातौ समसमौ विपाकेन।)

९ (यं च पिण्डपातं) भुक्त्वा बोधिसत्त्वो) ऽनुत्तरां सम्य(क्स)ंबोधिम् अभिसंबुद्धः।

१० यं च पिण्ड(पातं भुक्त्वा तथागतो) ऽनुपदिशेषे निर्वाणधातौ परिनिर्वास्यते। )

११ (इमौ द्वौ पिण्डपातौ) समसमौ विपाकेन।

१२ तद् इदम् आनन्द चुन्देन कर्मारपुत्रेणायुःसं (वर्तनीयं कर्म) कृतं वर्णसंवर्तनीयं बलसंवर्तनीयं भोग)संवर्तनीयं स्वर्गसंवर्(त)नीयम् ऐश्(व)र्यसंवर्तनीयं कर्म कृतं भविष्य(ति। )

१३ (अथायुष्मान् आनन्दो भगवन्तम् इदम् अवोचत्। )

१४ (अयं) आयुष्माञ् छन्दश् चण्डो रभस परुषो रोषित आक्रोश) क्(ओ) भिक्षू(णां। त)स्य्(आ)स्म्(आभिर्) भद(न्)त (भ)गवत्(ओ) ऽत्यय्(आ)त् कथ्(अं प्)र्(अ)त्(इ)प्(अत्त)व्य्(अं। )

१५ छ्(अन्)द्(अ)) आ(नन्द भिक्षुर् ममात्ययाद् ब्रह्मदण्डेन तर्जनीयः। ब्रह्मदण्डेन तर्जितश् चेद् विप्रतीसार) वश्(अ)मापत्स्यते तथा संविग्नश् च कात्यायनाववादेनाववादितव्यः। )

३०।१ तत्र भग्(अव्)आ(न् आयुष्मन्तम् आनन्दम् आमन्त्रयते। )

२ (आगमयानन्द येन कुशिनगरी। )

३ (एवं भदन्तेत्य् आयुष्मान् आनन्दो) भगवतः प्रत्य्(अ)श्रौषीत्।

४ अथ) भगवान् अन्तर्(आ) च नदी(ं) हिरण्यवतीम् अन्तरा च कुशि(नगरीं मल्लेषु जनपदेषु चर्यां चरन्न् अत्रान्तराध्वप्रतिपन्नो मार्गाद् अवक्रम्यायुष्मन्तम् आनन्दम् आमन्त्रयते। )

५ (प्रज्ञापया) नन्द तथागतस्य चतुर्गुणम् उत्तरासङ्गं पृष्ठी) म आविलायति त्(आ)ं तावद् आयामयिष्ये। )

६ (एवं भदन्तेत्य् आयुष्मान् आनन्दो भगवतः प्रतिश्रुत्य लघु लघ्व् एव चतुर्गुणम् उत्त)रास(ङ्)गं प्रज्ञप्य भगवन्तम् इदम् अवोचत्।

७ (प्)रज्ञप्तस् तथागतस्य चतुर्गुण) (उ)त्त्(अरासङ्गः। यस्येदानीं भगवाङ् कालं मन्यते। )

८ (अथ भगवाङ् गणगुणां संघाटिं शिरसि प्रतिष्ठाप्य) दक्षिणेन पार्श्वेन शय्(य्)आं कल्पयति पादे पादम् आधायालोकसंज्ञी (प्रतिस्मृतः संप्रजान उत्थानसंज्ञां मनसि कुर्वाणः। )

९ (तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते। )

१० (प्रतिभान्तु) त आनन्द बोध्यङ्ग्(आ)नि।

११ स्मृतिसंबोध्यङ्गं) भदन्त भगवता स्व्(अयम् अभिज्ञातं सम्यगधिगतं सुव्याख्यातं विवेकनिश्रितं विरागनिश्रितं निरोधनिश्रितं व्यवसर्गपरिणतम्। )

१२ (धर्मविच)यो वीर्यं प्(र्)ईति(ः) प्(रस्रब्धिः) सम्(आ)धि(र् उ)पे(क्षा च संब्)ओध्(य)ङ्गं (भदन्त भगवता स्वयम् अभिज्ञातं सम्यगधिगतं सुव्याख्यातं विवेकनिश्रितं विरागनिश्रितं निरोधनिश्रितं व्यवसर्गपरिणतम्। )

१३ (प्रतिभातं) त आनन्द वीर्यं। )

१४ (प्रतिभातं भगवन् वीर्यम्।)

१५ (वीर्यम्) आनन्दासेवितं भावितं बहुलीकृतम् अनुत्तरसम्यक्संबोधये संवर्तते। )

१६ (एवम् उक्त्वा भगवान् उत्थाय न्य)षीदत्) प्(अर्)य्(अङ्क)म् आभुज्यर्जुं कायं प्रणीधाय प्रतिमुख(ं) स्मृतिं उप्(अस्)थ्(आप्य। )

१७ (अ)थान्य्(अतमो भिक्षुस् तस्यां वे)लायां ग्(आ)था बभाषे।

१८ मधुर्(अं) धर्म(ं) श्रोतुं ग्लान्य्। शास्(त्)आ भिक्षो ऽवदद् बोध्यङ्गानि वर्तन्ते॥१॥

२० साध्व् इत्य् अवदत् स्थविरो
ऽप्य् (आ)नन्दः प
शुक्ला ह्य् एते धर्माः
सन्ति विरजस(ः) प्रवचनेन्(अ)॥२॥

२१ स्मृतिविचयौ) वीर्यं च
प्रीतिः प्र(स्रब्ध्)इ(र् य)थ्(आ) समाधिश् च।
सोपेक्षाण्य् एतानि हि बोध्य(ङ्गानि)॥३॥

२२ बोध्यङ्गकथां श्रुत्वा
बोध्यङ्गानां रसं स विज्ञाय।
बाढ्धात्व् उत्थित॥४॥

२३ सो ऽपि हि धर्मस्वामी
धर्मस्या आ।
इच्छति धर्मं श्रोतुं
न श्रोतव्यः कथं सो ऽन्यैः॥५॥

२४ यो ऽप्य् (अग्रो) भिक्षुश् च
प्रज्ञावान् दश) बले(न नि)र्दिष्टः।
सो ऽपि जगाम ग्लानो
धर्मश्रवणार्थम् उपतिष्यः)॥६॥

२५ शृण्वन्ति ते ऽपि (सूत्रध)रा
(विनय) धरा मातृक्(आ)धराश् चैव। कुशलान् अय्
(न श्रोतव्यः कथं सो ऽन्यैः))॥७॥

२६ शृण्वन्ति यथाधर्मम्
आज्ञाचित्(त्)अं उपस्थाप्य।
प्रीतिं त्(अ)था लभ(न्)ते
(निरामिष्)एषु (बुद्धवचनेषु)॥८॥

२७ प्र्(ई)तिमनः) प्(र्)अस्रब्धिः
काये ऽस्मिन् स सु(ख)।
(समा) धिं )
पि संस्प्)॥९॥

२८ च्(इ)त्ते समाहिते विश्वे
संस्का(र)शरण(ं न गच्छन्ति)।
(संसार) भ्(अ)व्(अ)ग्(अ)ति(भ्)य्(ओ)
व्(इ)रक्तचित्ता विमुच्यन्ते॥१०॥

२९ (देवेष्)उ मनुज्(ए)षु।
निरुपादान इव शिखी
प्(अरिनिर्वास्यति भूत्वार्हन्)॥११॥

३० म् इह धर्मश्रवणं जिनेन निर्दिष्ट(म्।)

स्तु॥१२॥

३२।१ (तत्र) भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते। )

२ (आगमयानन्द येन कुशिनगरी। )

३ (एवं भदन्ते) (त्)य् (आ)युष्मान् (आ)नन्दो (भगवतः प्रत्यश्रौषीत्। )

४ (अथ भगवान् मल्लेषु जनपदेषु चर्यां चरङ् कुशिनगरीम् अनुप्राप्तः। कुशि)नगर्यां विहरति मल्लानाम् उपवर्तने यमकशालवने।

५ अथ भगवांस् तदैव (परिनिर्वाणकालसमय) आयुष्मन्तम् आनन्दम् आमन्त्रयते स्म। )

६ (प्रज्ञापयानन्द तथा) गतस्यान्तरेण यमकशालयोर् उत्तराशीर्षं मञ्चम् अद्य तथागतस्य रात्र्या (मध्यमे यामे ऽनुपधिशेषे) निर्वाणधातौ परिनिर्वाणं भविष्यतीति। )

७ (एवं भदन्)तेत्य् आयुष्मान् आनन्दो भगवतः प्रतिश्रुत्यान्तरेण यमकशा(लयोर् उत्तराशीर्षं मञ्चं प्रज्ञप्य येन भगवांस् तेनोपजगाम। )

८ (उपेत्य भग)वत्पादौ शिरसा वन्दित्वैकान्ते ऽस्थात्।

९ एकान्ते स्थित आयुष्मान् आनन्द्(ओ भगवन्तम् इदम् अवोचत्। प्रञप्तो भदन्त तथागतस्यान्तरेण यमकशालयोर्) उत्तराशीर्षो मञ्चः।

१० अथ भगवान् येन मञ्चस् तेनोपजगाम। उपेत्य दक्षिणेन पार्श्वे(न शय्यां) कल्पयति पादं पादेनोपधायालोकसंज्ञी प्रतिस्मृतः संप्रजानो निर्वाणसंज्ञाम्) एव मनसि कुर्वाणः। )

११ अथायुष्मान् आनन्दो भगवतः पृष्ठतः) स्थितो मञ्चम् अवलंब्य प्रारोदीद् अश्र्(ऊ)णि वर्तयमान्(अ एवम् आह। )

१२ (अतिक्षिप्रं) भगवान् परिणिर्वात्य् अतिक्षिप्रं सुगतः) परिनिर्वात्य् अतिक्षिप्रं चक्षुर् लोकस्यान्तर्धीयते। )

१३ पूर्वे च भिक्षवस् ताभ्यस् त्(आ)भ्य्(ओ दिग्भ्यस् तेभ्यस् तेभ्यो) जनपदेभ्य आगच्छन्ति भगवतो ऽन्तिकेनोपदर्श) नाय भगवन्तं पर्युपासनायै। तेषाम् उपसंक्रान्तानां भगवान् धर्मं देशय्(अत्य् आदौ) कल्या) ण्(अं) म(ध्)ये कल्याण्(अं पर्यवसाने कल्याणं स्वर्थं सुव्यञ्जनं केवलं) परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं प्रकाशयति।

१४ यतो (ऽनुका)ल्(अं) गंभीरगंभी(रां धर्मकथां) ये श्रोतुम् आगतास् ते भग)वान् परिनिर्वृत इति श्रुत्वा नागमिष्यन्ति। महतो धर्मसंभोगस्य्(ऐव लोके ऽन्तर्धानं) भविष्यति)। )

१५ (अथ) भगव्(आ)न् भिक्षून् आमन्(त्)र्(अयते।)

१६ (क्व) च नु स्थित आनन्दो) भिक्षुः।

१७ एष भदन्तायुष्मान् आनन्दो भगवतः पृष्ठतः) स्थितो मञ्चम् अवलंब्य प्रारो(दीद् अश्रूणि प्रवर्तय) मानः

१८ पूर्व्(अवद् )

१९ (यावद् अन्तर्धानं भ)विष्यति।

२० तत्र भग(व्)आन् आयुष्मन्तम् आनन्दम् आमन्त्रयते।

२१ मा) त्वम् आनन्द शोच मा क्ला(म। तद्) कस्माद् धेतोः। )

२२ (त)थ्(आग)त उपस्थितस् त (आनन्द) मैत्रेण) कायकर्मणा हितेन सुखेनाद्वयेनाप्रमाणेन। मैत्रेण वाक्कर्मणा मैत्रेण मनस्कर्मणा हितेन सुखेना द्वयेना) प्रमाणेन।

२३ ये ते ऽ(तीते ऽध्वनि तथागता अर्हन्तः सम्य) क्स्(अं) बुद्धास् तेष्(आम्) बुद्धानां भगवतां सदृशम् उपस्थानं करिष्यते तद्यथा त्वया मह्यम् एतर्हि। )

२४ (ये) ऽपि ते भविष्यन्त्य् अ(नागते ऽध्वनि तथागता अर्हन्तः) सम्यक्संबुद्धास् ते(षा)म् अपि बुद्ध्(आनां) भगवतां सदृशम् उपस्थानं करिष्यते तद्यथा त्वया मह्यम् एत)र्(ह्)इ।

२५ (मा)) तस्मात् त्वम् आन्(अन्द शोच मा क्लाम। कस्माद् एव तत्। कुत एतल् लभ्यं य)त् तज् जातं भूतं कृतं संस्कृतं पूर्व्(अवद् ))

२६ (यावद् विसंयोगः। )

२७ (अथ भगवान् आयुष्मन्तम् आ)नन्दं संहर्(षयितुं) भिक्षून् आमन्त्रयते। )

२८ (चत्वारो भिक्षव आश्चर्या अद्भुता ध)र्मा राज्ञश् चक्रवर्तिनः। कतमे च(त्वारः।)

२९ (सचेद् क्षत्रियपरिषद् राजानं चक्रवर्तिनं दर्स)नायोप (संक्रामत्य् आप्तमनस्का भवति दर्शनेन। सचेद् उपसंक्रान्तायां धर्मं देश) यत्य् आप्तमनस्का भवति धर्मश्र्(अवणेन। )

३० (सचेद् ब्राह्मणपरिशद् )

३१ (गृहपतिपरिषच् )

३२ (छ्रमणपरिषद् राजानं) चक्रवर्तिनं द(र्)श्(अनायोपसंक्रामत्य् आप्तमनस्का भवति दर्श)नेन। सचेद् उपसंक्रान्तायां धर्म्(अ)ं (देशयत्य् आप्तमनस्का भवति धर्मश्रव)णेन)।

३३ एवम् एव (भिक्षवश् चत्वार आश्चर्या अद्भुता धर्मा आनन्दस्य भिक्षोः। कतमे चत्वा)रः।

३४ सचेद् भिक्षुपरिषद् आनन्(द)ं (दर्शनायोपसंक्रामत्य् आ)प्तम नस्काभवति (दर्शनेन। सचेद् उपसंक्रान्तायां धर्मं देशयत्य् आप्तमनस्काभवति ध)र्म्(अ)श्रवणेन।

३५ स(च्)ए(द्) भिक्षु(णीपरिषद् )

३६ (उपासकपरिषद् )

३७ (उपा)सिकापरि(षद् आनन्दं दर्शनायोपसंक्रामत्य् आप्तमनस्का भवति दर्शनेन। सचेद् उपसंक्रान्तायां धर्मं देशयत्य् आप्तमनस्का भव)ति धर्मश्रव(णेन। )

३८ (अपरे ऽपि) चत्वारो भिक्षव आश्चर्या अद्भुता धर्मा आनन्दस्य भिक्षोः। कतमे चत्वारः। )

३९ (सचेद् आनन्द भिक्षुर् भिक्षुपरिषदे धर्मं देशयति) सत्कृत्य देश) यति नासत्कृत्य (देशयति ततो भिक्षुसङ्घस्यैवं भवति। अहो बतायुष्मान् आनन्दो धर्मम् एव भाषेत न तूष्णीं स्यात्। अतृप्तैव भवति भिक्षुपरिषद् आनन्दस्य) भ्(इ)क्षोर् धर्मश्रवणेन। (पुनर् आनन्दो भिक्षुस्) तूष्णीं भवति।

४० सचेद् भिक्षुणीपरिषद

४१ उपासकपरिष्(अद)

४२ उपासिकापरिषदे धर्मं देश(यति) सत्कृत्य देशयति नास्(अत्कृत्य देशयति तत उपासकसङ्घादेर् ए)वं भवति। अहो बतायुष्मान् आनन्दो धर्मम् एव भाषेत न तूष्णीम् स्यात्। अतृप्तैव भवत्य् उपासिकापरिषद् आनन्दस्य भिक्षोर् धर्म(श्रवणेन।) पुनर् आनन्दो भिक्षु(स्)त्(ऊष्णीं भ)वति।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project