Digital Sanskrit Buddhist Canon

मध्यमक-शालिस्तम्बसूत्रम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Madhyamaka-śālistambasūtram
मध्यमक-शालिस्तम्बसूत्रम्।



नमो बुद्धाय॥



अनिरोधमनुत्पादमनुच्छेदमशाश्वतम्।

अनेकार्थमनानार्थमनागममनिर्गमम्॥

यः प्रतीत्यसमुत्पादं प्रपञ्चोपशमं शिवम्।

देशयामास संबुद्धस्तं वन्दे वदतां वरम्॥

प्रतीत्यसमुत्पाद इति कस्मादुच्यते ? सहेतुकः सप्रत्ययो नाहेतुको नाप्रत्यय इत्युच्यते। अथ च पुनरयं प्रतीत्यसमुत्पादो द्वाभ्यां कारणाभ्यामुत्पद्यते। कतमाभ्यां द्वाभ्यां कारणाभ्यामुत्पद्यते ? हेतूपनिबन्धतः प्रत्ययोपनिबन्धतश्चेति। सोऽपि द्विविधो द्रष्टव्यः-बाह्यश्च आध्यात्मिकश्च॥

तत्र बाह्यस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धः कतमः ? यदिदं बीजादङ्कुरः, अङ्कुरात्पत्रम्, पत्रात्काण्डम्, काण्डान्नाडम्, नाडाद्दण्डः, दण्डाद्गर्भः, गर्भाच्छूकः, शूकात्पुष्पम्, पुष्पात्फलमिति। असति बीजे अङ्कुरो न भवति, एवं यावत् असति पुष्पे फलं न भवति। सति तु बीजे अङ्कुरस्य अभिनिर्वृत्तिर्भवति, एवं यावत् सति च पुष्पे फलस्याभिनिर्वृत्तिर्भवति। तत्र च पुनर्बीजस्य नैवं भवति-अहमङ्कुरं निर्वर्तयामीति। एतेन निरीहत्वम्। अङ्कुरस्यापि नैवं भवति-अहं बीजेनाभिनिर्वर्तित इति। एवं यावत्पुष्पस्य नैवं भवति-अहं फलमभिनिर्वर्तयामीति। फलस्यापि नैवं भवति-अहं पुष्पेणाभिनिर्वर्तित इति। अथ बीजे सति च कारणभूते अङ्कुरस्याभिनिर्वृत्तिः प्रादुर्भावो भवति, एवं यावत्पुष्पे सति फलस्याभिनिर्वृत्तिः प्रादुर्भावो भवति। एवं च बाह्यस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धो द्रष्टव्यः॥

पुनः कथं बाह्यस्य प्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्यः ? षण्णां धातूनां समवायात्। स्वभावधारणाद्धातुः। कतमेषां षण्णां धातूनां समवायात् ? यदिदं पृथिव्यप्तेजोवाय्वाकाशधातुसमन्वयाद्बाह्यस्य प्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्यः। तत्र पृथिविधातुर्बीजस्य संधारणकृत्यं करोति, अब्धातुर्बीजं स्नेहयति, तेजोधातुर्बीजं परिपाचयति, वायुधातुर्बीजमभिनिर्हरति, आकाशधातुर्बीजस्यानावरणकृत्यं करोति, ऋतुरपि बीजस्य परिणामकृत्यं करोति। असत्सु प्रत्ययेषु बीजादङ्कुरस्याभिनिर्वृत्तिर्न भवति। यदा बाह्यश्च पृथिवीधातुरविकलो भवति, एवमप्तेजोवाय्वाकाशऋतुधातवश्चाविकला भवन्ति, ततस्तेषां सर्वेषां समवायाद्बीजे निरुध्यमाने अङ्कुरस्याभिनिर्वृत्तिर्भवति। तत्र पृथिवीधातोर्नैवं भवति-अहं बीजस्य धारणाकृत्यं करोमि इति। एवं यावदृतोरपि नैवं भवति-अहं बीजस्य परिणामनाकृत्यं करोमि इति। अङ्कुरस्यापि नैवं भवति-अहमेभिः प्रत्ययैर्जनित इति। अथ पुनः सत्सु प्रत्ययेषु तेषु बीजे निरुध्यमाने अङ्कुरस्याभिनिर्वृत्तिर्भवति। स चायमङ्कुरो न स्वयंकृतो न परकृतो नोभयकृतो नेश्वरनिर्मितो न कालपरिणामितो न प्रकृतिसंभूतो नाकारणाधीनो नाप्यहेतुसमुत्पन्नश्च। पृथिव्यप्तेजोवाय्वाकाशधातुसमवायाद्बिजे निरुध्यमाने अङ्कुरस्याभिनिर्वृत्तिर्भवति। एवं बाह्यस्य प्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्यः॥

तत्र बाह्यः प्रतीत्यसमुत्पादः पञ्चभिः कारणैर्द्रष्टव्यः। कतमैः पञ्चभिः ? न शाश्वततो नोच्छेदतो न संक्रान्तितः परीत्तहेतुतो विपुलफलाभिनिर्वृत्तितः तत्सदृशानुप्रबन्धतश्चेति। कथं न शाश्वतत इति ? यस्मादन्योऽङ्कुरोऽन्यद्बीजम्, न च यदेव बीजं स एवाङ्कुरः। अथ च पुनर्बीजं निरुध्यते, अङ्कुरश्चोत्पद्यते। अतो न शाश्वततः॥ कथं पुनर्नोच्छेदतः ? न च पूर्वनिरुद्धाद्बीजादङ्कुरो निष्पद्यते, नाप्यनिरुद्धाद्बीजात्। अपि च बीजं च निरुध्यते, तस्मिन्नेव समयेऽङ्कुर उत्पद्यते, तुलादण्डोन्नामावनामवत्। अतो नोच्छेदतः॥ कथं न संक्रान्तितः ? विसदृशो बीजादङ्कुर इत्यतो न संक्रान्तितः॥ कथं परीत्तहेतुतो विपुलफलाभिनिर्वृत्तितः ? परीत्तं बीजमुप्यते (व्याप्तित्वात्-अव्या) विपुलं फलमभिनिर्वर्तयति, इत्यतः परीत्तहेतुतो विपुलफलाभिनिर्वृत्तितः॥ कथं तत्सदृशानुबन्धतः ? यादृशं बीजमुप्यते तादृशं फलमभिनिर्वर्तयति, इत्यतः तत्सदृशानुबन्धतश्चेति। एवं बाह्यः प्रतीत्यसमुत्पादः पञ्चभिः कारणैर्द्रष्टव्यः॥

तत्र पुनश्चाध्यात्मिकस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धः कतमः ? यदिदमविद्याप्रत्ययाः संस्काराः, यावज्जातिप्रत्ययं जरामरणमिति। अविद्या चेन्नाभविष्यत्, नैवं संस्काराः प्रज्ञास्यन्ते। एवं यावद्यदि जातिर्नाभविष्यत् (स्कन्धानां पञ्चानां प्रादुर्भावो जातिरिति), तत्र जरामरणं न प्रज्ञास्यते। अथ च सत्यामविद्यायां संस्काराणामभिनिर्वृत्तिर्भवतीति। तत्राविद्याया नैवं भवति-अहं संस्कारानभिनिर्वर्तयामीति। पुनः सर्वसंस्काराणामप्येवं न भवति-वयमविद्यया अभिनिर्वर्तिता इति। एवं यावज्जातेः (स्कन्धप्रादुर्भावस्य) नैवं भवति-अहं जरामरणमभिनिर्वर्तयामीति। जरामरणस्यापि नैवं भवति-अहं जात्याभिनिर्वर्तित इति। अथ च सत्यामविद्यायां संस्काराणामभिनिर्वृत्तिभवति प्रादुर्भाव एव, एवं यावत् जात्यां सत्यां जरामरणस्याभिनिर्वृत्तिः प्रादुर्भावो भवति। एवमाध्यात्मिकस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धो द्रष्टव्यः॥

पुनः कथमाध्यात्मिकस्य प्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्यः ? यदिदं पृथिव्यप्तेजोवाय्वाकाशविज्ञानधातूनां समवायादाध्यात्मिकस्य प्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्यः। तत्राध्यात्मिकस्य प्रतीत्यसमुत्पादस्य पृथिवीधातुः कतम इति ? योऽयं कायस्य संश्लेषतः (संपर्कात्) कठिनभावमभिनिर्वर्तयति, अयमुच्यते पृथिवीधातुः॥ यः पुनः कायस्य परिग्रहकृत्वं (स्वीकारसंचयकृत्यं) करोति, अयमुच्यते अब्धातुः॥ यश्च पुनः कायस्य अशितं पीतं भक्षितं परिपाचयति अयमुच्यते तेजोधातुः॥ यः कायस्य आश्वासप्रश्वासकृत्यं (वायोराकर्षणमाश्वासः एतत्कृत्यं) करोति, अयमुच्यते वायुधातुः॥ यः कायस्यान्तःशौषिर्यभावमभिनिर्वर्तयति, अयमुच्यते आकाशधातुः॥ यो नामरूपमभिनिर्वर्तयति नडकलापयोगेन चक्षुरादिपञ्चविधविज्ञानकाय (विज्ञानसमूह)- संयुक्तं सास्रवं (सावरणं) मनोविज्ञानम्, अयमुच्यते विज्ञानधातुः॥ असत्सु प्रत्ययेषु कायस्योत्पत्तिर्न भवति। यदा चाध्यात्मिकः पृथिवीधातुरविकलो भवति, एवमप्तेजोवाय्वाकाशविज्ञानधातवश्चाविकला भवन्ति, तत्स्तेषां सर्वेषां समवायात्कायस्योत्पत्तिर्भवति। तत्र पृथिवीधातोर्नैवं भवति-अहं कायस्य कठिनत्वमभिनिर्वर्तयामीति। अब्धातोर्नैवं भवति-अहं कायस्यानुपरिग्रहं करोमीति। तेजोधातोर्नैवं भवति-अहं कायस्य अशितपीतखादितं परिपाचयामीति। वायुधातोर्नैवं भवति-अहं कायस्याश्वासप्रश्वासकृत्यं करोमीति। आकाशधातोर्नैवं भवति-अहं कायस्यान्तःशौषिर्यभावमभिनिर्वर्तयामीति। विज्ञानधातोर्नैवं भवति-अहं कायमभिनिर्वर्तयामीति। कायस्यापि नैवं भवति-अहमेभिः प्रत्ययविशेषैर्जनित इति॥ अथ च सत्सु प्रत्ययेषु कायस्योत्पत्तिर्भवति॥

तत्र पृथिवीधातुर्नात्मा (न मुक्तो न बद्धो) न जीवो न जन्तुर्न मनुजो न मानवो न स्त्री न पुरुषो न नपुंसकं न चाहं न च मम, नाप्यन्यस्य कस्यचित्। (एवं अब्धातुस्तेजोधातुर्वायुधातुराकाशधातुर्विज्ञानधातुर्नात्मा.............. नाप्यन्यस्य कस्यचित् )॥

तत्राविद्या कतमा ? या एष्वेव षड्धातुषु एकसंज्ञा पिण्डसंज्ञा नित्यसंज्ञा ध्रुवसंज्ञा शाश्वतसंज्ञा सुखसंज्ञा सत्त्वजीवजन्तुपोषपुरुषपुद्गलमनुजमानवसंज्ञा अहंकारममकारसंज्ञा, एवमादि विविधमज्ञानम्, इयमुच्यते अविद्येति। एवमविद्यायां सत्यां विषयेषु रागद्वेषमोहाः प्रवर्तन्ते। तत्र ये रागद्वेषमोहा विषयेषु, अमी उच्यन्ते संस्कारा इति॥ वस्तुप्रज्ञप्तिः (इन्द्रियविज्ञानचेतना) विज्ञानम्॥ विज्ञानसहजाश्चत्वार उपादानस्कन्धाः, तन्नामरूपम्। नामरूपसंश्रितानीन्द्रियाणि षडायतनम्। त्रयाणां धर्माणां संनिपातः स्पर्शः, (विषयेन्द्रियविज्ञानसंनिपात इत्यर्थः)। स्पर्शानुभावो वेदना। वेदनाध्यवसानं तृष्णा (अध्यवसानं काङ्क्षा सुखाद्यनुभवः)। तृष्णावैपुल्यमुपादानम्। उपादाननिर्जातं पुनर्भवजनकं कर्म भवः। भवहेतुकः स्कन्धप्रादुर्भावो जातिः। स्कन्धपरिपाको जरा (स्कन्धजीर्णतेत्यर्थः)। स्कन्धविनाशो मरणम्। म्रियमाणस्य मूढस्य साभिष्वङ्गस्यान्तर्दाहः शोकः। शोकेनालपनं परिदेवनम्। चक्षुरादिपञ्चविज्ञानकायसंयुक्तं असातानुशयनं दुःखपश्चात्तापं दुःख(म्)। मनसिकार संप्रयुक्तं मानसं दुःख(म्) दौर्मनस्यम्। ये चाप्यन्ये एवमादयः क्लेशाः, उपक्लेशा उपायासाः (मनोविकल्पजातमायाशाठ्यदैन्यकामरागादयस्ते सर्वे। पेयालम्)॥

पुनरपरम्-तत्त्वेऽप्रतिपत्तिः मिथ्याप्रतिपत्तिरज्ञानम् (संवृतिपरमार्थयोर्विभागाज्ञानं अज्ञानम्)। अविद्यायां सत्यां त्रिविधाः संस्कारा अभिनिर्वर्तन्ते-पुण्योपगा अपुण्योपगा अनिञ्ज्योपगाश्चेति संभाव्यन्ते अविद्याप्रत्ययाः संस्कारा इति। पुण्योपगानां संस्काराणां पुण्योपगमेव विज्ञानं भवति, अपुण्योपगानां संस्काराणां अपुण्योपगमेव विज्ञानं भवति, अनिञ्ज्योपगानां संस्काराणामनिञ्ज्यो पगमेव विज्ञानं भवति। इदमुच्यते संस्कारप्रत्ययं विज्ञानमिति॥ तदेवं विज्ञानप्रत्ययं नामरूपम्॥ नामरूपविवृद्ध्या षड्भिरायतगद्वारैः कृत्यक्रिया(ः) प्रवर्तन्ते, तन्नामरूपप्रत्ययं षडायतनमुच्यते॥ षड्भ्य आयतनेभ्यः षट् स्पर्शकायसमूहाः प्रवर्तन्ते, अयं षडायतनप्रत्ययः स्पर्श उच्यते॥ यज्जातीयः स्पर्शो भवति, तज्जातीया वेदना प्रवर्तते, इयं स्पर्शप्रत्यया वेदना उच्यते॥ यस्तां वेदना (वेदयाति) विशेषेणास्वादयति अभिनन्दति अध्यवस(स्य ?)ति (काङ्क्षति) अधितिष्ठति, सा वेदनाप्रत्यया तृष्णेत्युच्यते॥ आस्वादनाभिनन्दनं आध्यवसायस्थानम्, न मे प्रियरूपसातरूपैः पञ्चभिः कामगुणैर्वियोगो भवतु अपरित्यागः, भूयोभूयश्च प्रार्थना, इदं तृष्णाप्रत्ययमुपादानमित्युच्यते॥ एवं प्रार्थयमानः पुनर्भवजनकं कर्म समुत्थापयति कायेन मनसा वाचा, स उपादानप्रत्ययो भव इत्युच्यते॥ यत् कर्मनिर्जातानां स्कन्धानामभिनिर्वृत्तिः, सा भवप्रत्यया जातिरित्युच्यते॥ यो जात्यभिनिर्वृत्तानां स्कन्धानामुपचयपरिपाकाद्विनाशो भवति, तदिदं जातिप्रत्ययं जरामरणमित्युच्यते। ( पेयालम्, तत्र अविद्यादिषु शोकपरिदेवदुःखदौर्मनस्योपायासाः पेयालार्थेन निदर्शिताः )॥

तत्र विज्ञानं बीजस्वभावत्वेन हेतुः। कर्म क्षेत्रस्वभावत्वेन हेतुः। अविद्या तृष्णा च क्लेशस्वभावत्वेन हेतुः। कर्मक्लेशा विज्ञानबीजं जनयन्ति। तत्र कर्म विज्ञानबीजस्य क्षेत्रकार्यं करोति, तृष्णा विज्ञानबीजं स्नेहयति, अविद्या विज्ञानबीजमवकिरति। सतामेषां प्रत्ययानां विज्ञानबीजस्य अभिनिर्वृत्तिर्भवति। तत्र कर्मणो नैवं भवति-अहं विज्ञानबीजस्य क्षेत्रकार्यं करोमीति। तृष्णाया अपि नैवं भवति-अहं विज्ञानबीजं स्नेहयामीति। अविद्याया अपि नैवं भवति-अहं विज्ञानबीजमवकिरामीति। विज्ञानबीजस्यापि नैवं भवति-अहमेभिः प्रत्ययै(प्रतीत्योत्पादै)र्जनित इति॥ अपि तु विज्ञानबीजं कर्मक्षेत्रप्रतिष्ठितं तृष्णास्नेहाभिस्यन्दितमविद्यावकीर्णं विरोहति। नामरूपाङ्कुरस्याभिनिर्वृत्तिर्भवति॥ स चासौ नामरूपाङ्कुरो न स्वयंकृतो न परकृतो नोभयकृतो नेश्वरनिर्मितो न कालपरिणामितो न प्रकृतिसंभूतो नाकारणाधीनो नाप्यहेतुसमुत्पन्नः। अथ न मातापितृसंयोगात् ऋतुसमवायादन्येषां च प्रत्ययानां समवायादास्वादात्प्रबुद्धं विज्ञानबीजं तत्रत्रोपपत्त्या मातुः कुक्षौ नामरूपाङ्कुरमभिनिर्वर्तयति, अस्वामिकेषु (धर्मनैरात्म्येन) अधर्मेषु (पुद्गलनैरात्म्येन) अममेषु अपरिग्रहेषु अप्रत्यर्थिकेषु आकाशसमेषु मायालम्बनस्वभावेषु, हेतुप्रत्ययानामवैकल्यात्। (पेयालम्, पेयालशब्देन सावशेषं निर्दिशति)॥

तद्यथा-पञ्चभिः कारणैश्चक्षुर्विज्ञानमुत्पद्यते। कतमैः पञ्चभिः ? चक्षुश्च प्रतीत्य रूपं च आलोकं च आकाशं च तज्जमनसिकारं च प्रतीत्य उत्पद्यते चक्षुर्विज्ञानम्। तत्र चक्षुर्विज्ञानस्य चक्षुराश्रयकृत्यं करोति, रूपमालम्बनकृत्यं करोति, आलोकोऽवभासकृत्यं करोति, आकाशमनावरणकृत्यं करोति, तज्जमनसिकारः समन्वाहरणकृत्यं करोति। असत्सु प्रत्ययेषु चक्षुर्विज्ञानं नोत्पद्यते। यदा चक्षुराध्यात्मिकमायतनमविकलं भवति, एवं रूपालोकाकाशतज्जमनसिकाराश्चाविकला भवन्ति, ततः सर्वेषां समवायाच्चक्षुर्विज्ञानस्योत्पत्तिर्भवति। तत्रापि चक्षुषो नैवं भवति-अहं चक्षुर्विज्ञानस्य आश्रयकृत्यं करोमीति। रूपस्यापि नैवं भवति-अहं चक्षुर्विज्ञानस्य अवलम्बनकृत्यं करोमीति। आलोकस्यापि नैवं भवति-अहं चक्षुर्विज्ञानस्य अवभासकृत्यं करोमीति। आकाशस्यापि नैवं भवति-अहं चक्षुर्विज्ञानस्य अनावरणकृत्यं करोमीति। तज्जमनसिकारस्यापि नैवं भवति-अहं चक्षुर्विज्ञानस्य समन्वाहरणकृत्यं करोमीति। चक्षुर्विज्ञानस्यापि नैवं भवति-अहमेभिः प्रत्ययसमवायैर्जनित इति। अथ च सत्सु प्रत्ययेषु चक्षुर्विज्ञानस्योत्पत्तिः प्रादुर्भावो भवति। एवं शेषाणामिन्द्रियाणां यथायोगं कर्तव्यम्॥ तत्र प्रतीत्यसमुत्पादे न कश्चिद्धर्मो अस्माल्लोकात्परलोकं संक्रामति, (इति शाश्वतान्तनिषेधः), अस्ति च कर्मफलप्रतिविज्ञप्तिहेतुप्रत्ययानामवैकल्यात्। (पेयालम्)। यथा अग्निरुपादानवैकल्यान्न ज्वलति, उपादानावैकल्याच्च ज्वलति, एवमेव कर्मक्लेशजनितं विज्ञानबीजं तत्रतत्रोपपत्त्या आयतनप्रतिसंधौ मातुः कुक्षौ नामरूपाङ्कुरमभिनिर्वर्तयति, अस्वामिकेषु अधर्मेषु अपरिग्रहेषु अप्रत्यर्थिकेषु आकाशसमेषु मायालक्षणस्वभावेषु, हेतुप्रत्ययानामवैकल्यात्। एवं आध्यात्मिकस्य प्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्यः॥

तत्र आध्यात्मिकः प्रतीत्यसमुत्पादः पञ्चभिः कारणैर्द्रष्टव्यः। कतमैः पञ्चभिः ? यदुत न शाश्वततः, नोच्छेदतः, न संक्रान्तितः, परित्तहेतुतः विपुलफलाभिनिर्वृत्तितः, तत्सदृशानुबन्धतश्चेति। कथं न शाश्वततः ? यस्मादन्ये मरणान्तिकाः स्कन्धाः, अन्ये औपपत्त्यंशिकाः स्कन्धाः प्रादुर्भवन्ति। न तु य एव मरणान्तिकाः स्कन्धाः, त एव औपपत्त्यंशिकाः स्कन्धाः प्रादुर्भवन्तीति न। अतो हेतोर्न शाश्वततः॥ कथं पुनर्नोच्छेदतः ? न च पूर्वनिरुद्धेषु मरणान्तिकेषु स्कन्धेषु औपपत्त्यंशिकाः स्कन्धाः प्रादुर्भवन्ति, नाप्यनिरुद्धेषु। अपि तु मरणान्तिकाः स्कन्धा निरुध्यन्ते, तस्मिन्नेव समये औपपत्तिकाश्च स्कन्धाः पुनर्भवन्ति, प्रादुर्भवन्ति, तुलादण्डोन्नामावनामवत्। अतो नोच्छेदतः॥ कथं न संक्रान्तित इति ? विसदृशात् सत्त्वनिकायात् विसभागाः स्कन्धा जात्यन्तरेष्वभिनिर्वर्तन्ते, अतो न संक्रान्तितः॥ कथं परीत्तहेतुतो विपुलफलाभिनिर्वृत्तितः ? परीत्तं कर्म क्रियते, विपुलफलविपाकोऽनुभूयते, अतः परित्तहेतुतो विपुलफलाभिनिर्वृत्तितः॥ कथं तत्सदृशानुप्रबन्धतः ? यथावेदनीयं कर्म क्रियते, तथावेदनीयो विपाकोऽनुभूयते, अतस्तत्सदृशानुप्रबन्धतश्चेति॥

यः कश्चिद्भदन्त शारद्वतीपुत्र इमं प्रतीत्यसमुत्पादं भगवता तथागतेन सम्यक्प्रणीतं यथाभूतं सम्यक्प्रज्ञया सततसमितं अजीवं निर्जीवं यथावद्(वि)परीतं अजातं अभूतं अकृतं असंस्कृतं अप्रमितं अनावरणं शिवं अभयं अहार्यं अव्ययं अव्युपशमस्वभावं पश्यति, असत्यतोऽसक्ततः असारतो रोगतो गण्डतः शल्यतोऽनित्यतः दुःखतः शून्यतोऽनात्मतः समनुपश्यति, स न पूर्वान्तं प्रतिसरति-किमहमभूवमतीतेऽध्वनि आहोस्विन्नाभूवमतीतेऽध्वनि, को न्वहमभूवमतीतेऽध्वनि। अपरान्तं वा पुनर्न प्रतिसरति-किं नु भविष्याम्यहमनागतेऽध्वनि, आहोस्विन्न भविष्याम्यहमनागतेऽध्वनि, को न्वहं भविष्यामीति। प्रत्युत्पन्नं वा पुनर्न प्रतिसरति-किं न्विदम्, कथंस्विदिदम्, कि सन्तः के भविष्याम इति॥

आर्यदशभूमकेऽप्युक्तम्- "तत्राविद्यातृष्णोकादानं क्लेशवर्त्मनो व्यवच्छेदः, संस्कारा भवश्च कर्मवर्त्मनो व्यवच्छेदः, परिशेषं दुःखवर्त्मनो व्यवच्छेदः। (अविद्याप्रत्ययाः) संस्कारा इत्येषा पूर्वान्तिकी अपेक्षा, विज्ञानं यावद्वेदनेति एषा प्रत्युत्पन्नापेक्षा, तृष्णा यावद्भव इति एषा अपरान्तिकी अपेक्षा, अत ऊर्ध्वमस्य प्रवृत्तिरिति। पेयालम्॥" "तस्यैवं भवति-संयोगात् संस्कृतं प्रवर्तते, विसंयोगान्न प्रवर्तते। सामग्र्या संस्कृतं प्रवर्तते, विसामग्र्या न प्रवर्तते। हन्त, वयमेवं बहुदोषदुष्टं संस्कृतं विदित्वा अस्य संयोगस्य अस्याश्च सामग्र्या व्यवच्छेदं करिष्यामः, न चात्यन्तोपशमं सर्व-संस्काराणामधिगमिष्यामः सत्त्वपरिपाचनतायै" इति॥ इदं संक्षेपान्मोहशोधनम्॥

तत्त्वं अधरसंवृत्त्यक्षरं संवृतिस्वभावसर्वधर्मानुत्पादज्ञानम्। तदाह-रूपं तु द्विविधम्, -वर्णतः संस्थानतः। ते च विंशतिधा, तत्र नीलादि नव, दीर्घाद्येकादश। एतत्सर्वं रूपं पारमार्थिकं नास्तीति प्रतिज्ञा, स्वरूपेण हेतुः। स्वहेतुना तथैव जनितो यथावत् परमार्थिकं तु। यथा जलचन्द्रः इति दृष्टान्तः। स्वरूपेण नास्ति रुपमित्यस्यायमभिप्रायः। "पररूपेण रूपं नास्ति, स्वरूपेण वा उभयरूपेण वा अनुभयरूपेण वेति" शास्त्रम्॥ उत्पादकहेतुपक्षो विकल्पः॥



"न सत् नासत् न सदसत् न चाप्यनुभयात्मकम्"। इति शास्त्रम्॥ ॥ कर्तृपक्षो विकल्पः, तत्र विलोम्ना निदर्शनम्।

"न सन्नासन्न सदसन्न चाप्यनुभयात्मकम्।

चतुःकोटिविनिर्मुक्तं तत्त्वं माध्यमिका विदुः"॥

"न स्वति नापि परतो न द्वाभ्यां नाप्यहेतुतः।

उत्पन्ना जातु दृश्यन्ते भावाः क्वचन केचन"॥



तत्र सतो विद्यमानस्योत्पादायोगात् विद्यमानस्योत्पादे निरवधिजन्मप्रसङ्गेनानवस्था स्यात्। असदुत्पादे शशविषाणादीनामुत्पादप्रसङ्गाद्धेतोः प्राक् असदिति चेत्, तदेव चिन्त्यते-हेतोः किमुत्पद्यते सदसद्वा ? उभयात्मकस्योत्पादे विरुद्धधर्मयोरेकस्वभावताभ्युपगमः कथं स्यात् ? भवतु विरुद्धधर्मबन्धनस्वरूपं च पररूपनिमित्तकम्। तच्च पररूपं विरुद्धधर्माभ्यासः, स च भेदकः। यत्र परप्रतिपत्तिस्तत्र किं स्वरूपप्रतिपत्तिरेव नास्ति ? प्रतीतिरस्ति, न स्वरूपप्रतिपत्तिः। इयमेव प्रतीतिरिति चेत्, तर्हि अप्रतीतिरेव प्रतीतिः। किं ब्रूमः ? अथ घटे पटाभावोऽस्ति। घटः पटो न भवतीति चेत्, मिश्रप्रतीतिरपि नास्ति। तस्मात् घटो भावाभावात्मकः, अतः सिद्धाः द्विरूपता। सत्यम्, यदि व्यवहर्तव्यैकशरीरतां त्यक्त्वा प्रसह्य रूपस्याभावस्य किंचिद्रूपं स्यात्, तत्र ह्यनन्यगतिकोभयाभावस्वरूपोपलम्भात् अभावो व्यवह्रियते घटस्येति। तस्मान्न द्विस्वभावस्य जन्म। अहेतुकोत्पन्नं सर्वं सर्वस्मादुत्पद्यते। अथ हेतुशब्दो न नित्यैकहेतुरपेक्षितः, तस्योत्पादे सर्वदैव उदयव्ययौ स्याताम्, नित्यैकहेतूत्पन्नापेक्षाया अयोगात्। परापेक्षायां सोऽपि अनित्यः, अनित्यं प्रति विकल्पे सर्वं पूर्वदापद्यते॥

अतः स्वस्मात् स्वयमुत्पद्यते, अन्यस्माद्वा ? नाद्यः, प्रागनुत्पन्नः स्वयमुत्पद्यते। किमनुत्पन्नेन रूपेण उत्पन्नेन वा ? अनुत्पन्नेन रूपेण अनुत्पन्न एवोत्पन्नः, अनुत्पादेन रूपेणोत्पादायोगात्। अथ प्रागभावः अनुत्पन्नशब्दवाच्यः, तत् किं प्रागभावः स्वेन रूपेणोत्पद्यते ? यद्येवम्, तदा अभावनं भावः, पश्चाद्भाव इति चेत्, तत्र किमभाव एव भावो भवति ? एवं सति अभावस्य पुनःपुनरुत्पादे न प्रयोजनमुत्पश्यामः, अनवधिरुत्पादश्चेति पररूपेणोत्पादे च अपूर्वकोत्पाद एवाङ्गीकृतः स्यात्। न चैवं सिद्धान्तः, उत्पन्नेन उत्पादे वा संसारेषु उत्पादविरमाभावप्रसङ्गः प्रयोजनाभावश्च। द्वितीयोऽपि न, अन्यस्मादन्योत्पादात्। अथ वा-स्वयमेव अन्यरूपेण उत्पद्यते, स्वात्मनि कारित्रविरोधः, स्वात्मनि क्रियाविरोधात्। न परत उत्पादः, कुतस्तत्र सिद्धस्य वा असिद्धस्य वा ? उक्तमत्रोत्तरम्-सिद्धस्य उत्पादेन किम्, असिद्धस्य उत्पाद एव नास्ति। इत्यादिनाऽपि उभयपक्षतः प्रत्येकं ये प्रसहु(ज्य ?)न्ते, द्वयोर्भावे कथं न भवति इति न्यायात्॥ नाप्यहेतुतः, सर्वत्र सर्वदोत्पादप्रसङ्गात्, तथा अनुत्पादप्रसङ्गाच्च। कुत एतत् ? अस्मात्प्रमाणात्। तद्यथा-यत् स्वतन्त्रं न तत् कादाचित्कम्, यथा अन्या सामग्री। स्वातन्त्र्यं च विवादपदम्। तस्मात् कादाचित्कतया परतन्त्रता व्याप्ता। यत् कादाचित्कं तत्परतन्त्रम्, यथा कुशूलतलनिमीलितं बीजमङ्कुरजननं प्रति। कादाचित्काश्च भावाः। इति विवादपदम्। यत् परतन्त्रं तत्प्रतीत्यसमुत्पन्नम्, यथा तदेव वीजम्। परतन्त्राश्च भावा विवादपदम्। यत्प्रतीत्योत्पन्नं तन्नोत्पन्नं स्वभावतः। यथा जलचन्द्रः प्रतीत्योत्पन्नश्च। परतन्त्राश्च भावा विवादपदम्॥

आर्यचन्द्रप्रदीपसूत्रे -

यः प्रत्ययैर्जायति स ह्यजातो

न तस्य उत्पाद सभावतोऽस्ति।

यः प्रत्ययाधीनु स शून्य उक्तः

यः शून्यतां जानति सोऽप्रमत्तः॥

इति वचनं धार्यं मनसिकार्यं सर्वथा सर्वदा सर्वदर्शिभिः॥



(मध्यमक-शालिस्तम्बसूत्रं समाप्तम्॥)
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project