Digital Sanskrit Buddhist Canon

१० धर्ममेघा नाम दशमी भूमिः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

10 dharmameghā nāma daśamī bhūmiḥ

१० धर्ममेघा नाम दशमी भूमिः।

उपक्रमगाथाः।



एव श्रुत्व चरणमनुत्तमं

शुद्धवासनयुताः प्रहर्षिताः।

अन्तरीक्षस्थित प्रीणितेन्द्रियाः

पूजयन्ति सुगतं तथागतम्॥ १॥



बोधिसत्त्वनयुता अचिन्तिया

अन्तरीक्षगतिप्राप्तिहर्षिताः।

गन्धमेघ अतुलान् मनोमयान्

धूपयन्ति सत्त्वक्लेशघातिनः॥ २॥



देवराज वशवर्ति प्रीणितो

अन्तरीक्ष त्रिसहस्रकोटिभिः।

वस्त्रकैः समकरी सगौरवा

भ्रामयन्ति रुचिरान् वरान् शतम्॥ ३॥



अप्सरा बहव प्रीणितेन्द्रियाः

पूजयन्ति सुगतं सगौरवाः।

तूर्यकोटिनयुताः प्रवादिता

एवरूप रवुयुक्त रावतः॥ ४॥



एकक्षेत्र सुगतो निषण्णकः

सर्वक्षेत्रि प्रतिभास दर्शयी।

कायकोटि विविधा मनोरमा

धर्मधातुविपुलान् स्फरित्वन॥ ५॥



एकरोमु सुगतस्य रश्मयो

निश्चरन्ति जगक्लेश शाम्यति।

शक्यु (क्षेत्र-रज-धातुऽपि) क्षयी

तस्य रश्मिगणना त्वजानितुम्॥ ६॥



केचि बुद्धवरलक्षणं विदुः

पश्ययन्ति वरचक्रवर्तिनः।

अन्यक्षेत्रवरचर्य उत्तमां

शोधयन्ति द्विपदेन्द्र दृश्यते॥ ७॥



(तुषितायतनप्राप्त नायको)

च्यवमानु चंक्रमाण दृश्यते।

गर्भप्राप्त बहुक्षेत्रकोटिषु

जायमान क्वचि क्षेत्र दृश्यते॥ ८॥



निष्क्रमन्त जगहेतु नायको

बुध्यमान पुन बोधिमुत्तमाम्।

(धर्मचक्रवर्तनिर्वृतागतो)

दृश्यमान बुद्धक्षेत्रकोटिषु॥ ९॥



मायकार यथ विद्यशिक्षितो

जीविकार्थ बहुकाय दर्शयी।

तद्व शास्तु वरप्रज्ञशिक्षितो

सर्वकायभिनिहर्तु (सत्त्वन)॥ १०॥



शून्य शान्त गतधर्मलक्षणा

अन्तरीक्षसमप्राप्तधर्मताम्।

बुद्धशास्तु परमार्थतत्त्वतं

दर्शयी प्रवरबुद्धगोचरम्॥ ११॥



यथ स्वभावु सुगतानगोचरा

सर्वसत्त्व तथ प्राप्त धर्मताम्।

लक्षलक्ष समलक्ष तादृशा

सर्वधर्म परमार्थलक्षणाः॥ १२॥



ये तु ज्ञान सुगतान अर्थिंके

कल्पकल्पपरिकल्पवर्जितम्।

भावभावसमभावबुद्धयः

क्षिप्र भेष्यति नरेश उत्तमाः॥ १३॥



ईदृशान् रुतसहस्रान् भणित्व मधुरस्वराः।

मरुकन्या जिनं लोक्य तूष्णीभूताः शमे रताः॥ १४॥



प्रसन्नं पर्षदं ज्ञात्वा मोक्षचन्द्रो विशारदः।

वज्रगर्भं त्रिधापृच्छज्जिनपुत्रं विशारदम्॥ १५॥



दशमी संक्रमन्तानां कीदृशं गुणगोचरम्।

निमित्तप्रातिहार्यांश्च सर्वमाख्या(हि) परिक्रम॥ १६॥



अथ खलु वज्रगर्भो बोधिसत्त्वो दशदिशं व्यवलोक्य सर्वावतीं पर्षदं व्यवलोक्य धर्मधातुं च व्यवलोकयन् सर्वज्ञताचित्तोत्पादं च संवर्णयन् बोधिसत्त्वविषयमादर्शयन् चर्याबलं परिशोधयन् सर्वाकारज्ञतासंग्रहमनुव्याहरन् सर्वलोकमलमपकर्षयन् सर्वज्ञज्ञानमुपसंहरन् अचिन्त्यज्ञाननिर्यूहमादर्शयन् बोधिसत्त्वगुणान् प्रभावयन् एवमेव भूम्यर्थं प्ररूपयमाणो बुद्धानुभावेन तस्यां वेलायामिमा गाथा अभाषत -



उपसंहारगाथाः।



शमदमनिरतानां शान्तदान्ताशयानां

खगपथसदृशानामन्तरीक्षसमानाम्।

खिलमनविधुतानां मार्गज्ञाने स्थितानां

शृणुत चरिविशेषान् बोधिसत्त्वान श्रेष्ठान्॥ १७॥



कुशलशतसहस्रं संचिया कल्पकोट्या

बुद्धशतसहस्रान् पूजयित्वा महर्षीन्।

प्रत्ययजिनवशींश्चापूजयित्वा अनन्तान्

सर्वजगतहिताया जायते बोधिचित्तम्॥ १८॥



व्रततपतपितानां क्षान्तिपारंगतानां

हिरिशिरिचरितानां पुण्यज्ञानोद्गतानाम्।

विपुलगतिमतीनां बुद्धज्ञानाशयानां

दशबलसमतुल्यं जायते बोधिचित्तम्॥ १९॥



याव जिन त्रियध्वा पूजनार्थाय पूजं

खगपथपरिणामं शोधनं सर्वक्षेत्रम्।

सम्यगनुगतार्थे यावता सर्वधर्मान्

मोक्ष जगत अर्थे जायते बोधिचित्तम्॥ २०॥



प्रमुदितसमुतीनां दानधर्मारतानां

सकलजगहितार्थे नित्यमेवोद्यतानाम्।

जिनगुणनिरतानां सत्त्वरक्षाव्रतानां

त्रिभुवनहितकार्ये जायते बोधिचित्तम्॥ २१॥



अकुशलविरतानां शुद्धशीलाव्रतानां

व्रतनियमरतानां शान्तसौम्येन्द्रियाणाम्।

जिनशरणगतानां बोधिचर्याशयानां

त्रिभुवनहितसाध्यं जायते बोधिचित्तम्॥ २२॥



अनुगतकुशलानां क्षान्तिसौरत्यभाजां

विदितगुणरसानां त्यक्तमानोत्सवानाम्।

निहितशुभमतीनां दान्तुसौम्याशयानां

सकलहितविधाने जायते बोधिचित्तम्॥ २३॥



प्रचलितशुभकार्या धीरवीर्योत्सहा ये

निखिलजनहितार्थे प्रोद्ययामान सिंहाः।

अविरतगुणसाध्या निर्जितक्लेशसंघा

झटिति मनसि तेषां जायते बोधिचित्तम्॥ २४॥



सुसमवहितचित्ता ध्वस्तमोहान्धकारा

विगलितमदमाना त्यक्तसंक्लिष्टमार्गाः।

शमसुखनिरता ये त्यक्तसंसारसङ्गा

झटिति मनसि तेषां जायते बोधिचित्तम्॥ २५॥



विमलखसमचित्ता ज्ञानविज्ञानविज्ञा

निहतनमुचिमारा वान्तक्लेशाभिमानाः।

जिनपदशरणस्था लब्धतत्त्वार्थका ये

सपदि मनसि तेषां जायते बोधिचित्तम्॥ २६॥



त्रिभुवनशिवसाध्योपायविज्ञानधीराः

कलिबलपरिहारोपायविद्यर्द्धिमन्तः।

सुगतगुणसमीहा ये च पुण्यानुरागाः

सपदि मनसि तेषां जायते बोधिचित्तम्॥ २७॥



त्रिभुवनहितकामा बोधिसंभारपूर्ये

प्रणिहितमनसा ये दुष्करेऽपि चरन्ति।

अविरतशुभकर्मप्रोद्यता बोधिसत्त्वाः

सपदि मनसि तेषां जायते बोधिचित्तम्॥ २८॥



दशबलगुणकामा बोधिचर्यानुरक्ता

विजितकलिबलौघास्त्यक्तमानानुषङ्गाः।

अनुगतशुभमार्गा लब्धधर्मार्थकामा

झटिति मनसि तेषां जायते बोधिचित्तम्॥ २९॥



इति गणितगुणांशा बोधिचर्याश्चरन्तु

जिनपदप्रणिधानाः सत्समृद्धिं लभन्तु।

त्रिगुणपरिविशुद्धा बोधिचित्तं लभन्तु

त्रिशरणपरिशुद्धा बोधिसत्त्वा भवन्तु॥ ३०॥



दश पारमिताः पूर्य दशभूमीश्वरो भवेत्।

भूयोऽपि कथ्यते ह्येतच्छ्रुणुतैवं समासतः॥ ३१॥



बोधिचित्तं यदासाद्य संप्रदानं करोति यः।

तदा प्रमुदितां प्राप्तो जम्बूद्वीपेश्वरो भवेत्॥ ३२॥



तत्रस्थः पालयन् सत्त्वान् यथेच्छाप्रतिपादनैः।

स्वयं दाने प्रतिष्ठित्वा परांश्चापि नियोजयेत्॥ ३३॥



सर्वान् बोधौ प्रतिष्ठाप्य संपूर्णा दानपारगः।

एतद्धर्मानुभावेन संवरं समुपाचरेत्॥ ३४॥



सम्यक्शीलं समाधाय संवरकुशली भवेत्।

ततः स विमलां प्राप्तश्चातुर्द्वीपेश्वरो भवेत्॥ ३५॥



तत्रस्थः पालयन् सत्त्वान् अकुशलनिवारणैः।

स्वयं शीले प्रतिष्ठित्वा परांश्चापि नियोजयेत्॥ ३६॥



सर्वान् बोधौ प्रतिष्ठाप्य संपूर्णशीलपारगः।

एतद्धर्मविपाकेन क्षान्तिव्रतमुपाश्रयेत्॥ ३७॥



सम्यक्क्षान्तिव्रतं धृत्वा क्षान्तिभृत्कुशली भवेत्।

ततः प्रभाकरीप्राप्तस्त्रयस्त्रिंशाधिपो भवेत्॥ ३८॥



तत्रस्थः पालयन् सत्त्वान् क्लेशमार्गनिवारणैः।

स्वयं क्षान्तिव्रते स्थित्वा परांश्चापि नियोजयेत्॥ ३९॥



सत्त्वान् बोधौ प्रतिष्ठाप्य क्षान्तिपारंगतो भवेत्।

एतत्पुण्यविपाकैः स वीर्यव्रतमुपाश्रयेत्॥ ४०॥



सम्यग्वीर्यं समाधाय वीर्यभृत् कुशली भवेत्।

ततश्चार्चिष्मतीप्राप्तः सुयामाधिपतिर्भवेत्॥ ४१॥



तत्रस्थः पालयन् सत्त्वान् कुदृष्टिसंनिवारणैः।

सम्यग्दृष्टौ प्रतिष्ठाप्य बोधयित्वा प्रयत्नतः॥ ४२॥



स्वयं वीर्यव्रते स्थित्वा परांश्चापि नियोजयेत्।

सर्वान् बोधौ प्रतिष्ठाप्य वीर्यपारंगतो भवेत्॥ ४३॥



एतत्पुण्यविपाकैश्च ध्यानव्रतं समाश्रयेत्।

सर्वक्लेशान् विनिर्जित्य समाधिसुष्ठितो भवेत्॥ ४४॥



सम्यग् ध्यानं समाधाय समाधिकुशली भवेत्।

ततः सुदुर्जयाप्राप्तः संतुषिताधिपो भवेत्॥ ४५॥



तत्रस्थः पालयन् सत्त्वान् तीर्थ्यमार्गनिवारणैः।

सत्यधर्मं प्रतिष्ठाप्य बोधयित्वा प्रयत्नतः॥ ४६॥



स्वयं ध्यानव्रते स्थित्वा परांश्चापि नियोजयेत्।

सर्वान् बोधौ प्रतिष्ठाप्य ध्यानपारंगतो भवेत्॥ ४७॥



एतत्पुण्यविपाकैश्च प्रज्ञाव्रतमुपाश्रयेत्।

सर्वमारान् विनिर्जित्य प्रज्ञाभिज्ञसमृद्धिमान्॥ ४८॥



सम्यक्प्रज्ञां समाधाय स्वभिज्ञाकुशली भवेत्।

ततश्चाभिमुखीप्राप्तः सुनिर्मिताधिपो भवेत्॥ ४९॥



तत्रस्थः पालयन् सत्त्वान् अभिमाननिवारणैः।

शून्यतासु प्रतिष्ठाप्य बोधयित्वा प्रयत्नतः॥ ५०॥



स्वयं प्रज्ञाव्रते स्थित्वा परांश्चापि नियोजयेत्।

सर्वान् बोधौ प्रतिष्ठाप्य प्रज्ञापारंगतो भवेत्॥ ५१॥



एतत्पुण्यविपाकैश्च स सुपायव्रतं चरेत्।

सर्वदुष्टान् विनिर्जित्य सद्धर्मकुशली भवेत्॥ ५२॥



स सुपायविधानेन सत्त्वान् बोधौ नियोजयेत्।

ततो दूरंगमाप्राप्तो वशवर्तीश्वरो भवेत्॥ ५३॥



तत्रस्थः पालयन् सत्त्वानभिसमयबोधनैः।

बोधिसत्त्वनियामेषु प्रतिष्ठाप्य प्रबोधयन्॥ ५४॥



तत्रोपाये स्वयं स्थित्वा परांश्चापि नियोजयेत्।

सर्वान् बोधौ प्रतिष्ठाप्य ह्युपायपारगो भवेत्॥ ५५॥



एतत्पुण्यानुभावैश्च सुप्रणिधिमुपाश्रयेत्।

मिथ्यादृष्टिं विनिर्जित्य सम्यग्दृष्टिकृती बुधः॥ ५६॥



सुप्रणिहितचित्तेन सम्यग्बोधौ प्रतिष्ठितः।

ततश्चाप्यचलाप्राप्तो ब्रह्मा साहस्रिकाधिपः॥ ५७॥



तत्रस्थः पालयन् सत्त्वान् त्रियानसंप्रवेशनैः।

लोकधातुपरिज्ञाने प्रतिष्ठाप्य प्रबोधयन्॥ ५८॥



सुप्रणिधौ स्वयं स्थित्वा परांश्चापि नियोजयेत्।

सर्वान् बोधौ प्रतिष्ठाप्य प्रणिधिपारगो भवेत्॥ ५९॥



एतत्पुण्यानुसारैश्च बलव्रतमुपाश्रयेत्।

सर्वदुष्टान् विनिर्जित्य संबोधौ कृतनिश्चयः॥ ६०॥



सम्यग्बलसमुत्साहैः सर्वतीर्थ्यान् विनिर्जयेत्।

ततः साधुमतीप्राप्तो महाब्रह्मा भवेत् कृती॥ ६१॥



तत्रस्थः पालयन् सत्त्वान् बुद्धयानोपदर्शनैः।

सत्त्वाशयपरिज्ञाने प्रतिष्ठाप्य प्रबोधयन्॥ ६२॥



स्वयं बले प्रतिष्ठित्वा परंश्चापि नियोजयेत्।

सर्वान् बोधौ प्रतिष्ठाप्य बलपारंगतो भवेत्॥ ६३॥



एतत्पुण्यविपाकैश्च ज्ञानव्रतमुपाश्रयेत्।

चतुर्मारान् विनिर्जित्य बोधिसत्त्वो गुणाकरः॥ ६४॥



सम्यग् ज्ञानं समासाद्य सद्धर्मकुशली भवेत्।

धर्ममेघां ततः प्राप्तो महेश्वरो भवेत् कृती॥ ६५॥



तत्रस्थः पालयन् सत्त्वान् सर्वाकारानुबोधनैः।

सर्वाकारवरे ज्ञाने प्रतिष्ठाप्य प्रबोधयन्॥ ६६॥



स्वयं ज्ञाने प्रतिष्ठित्वा परांश्चापि नियोजयेत्।

सर्वान् बोधौ प्रतिष्ठाप्य ज्ञानपारंगतो भवेत्॥ ६७॥



एतत्पुण्यानुभावैश्च दशभूमीश्वरो जिनः।

सर्वाकारगुणाधारः सर्वज्ञो धर्मराड् भवेत्॥ ६८॥



इति मत्वा भवद्भिश्च संबोधिपदलब्धये।

दशपारमितापूर्यै चरितव्यं समाहितैः॥ ६९॥



तथा बोधिं शिवां प्राप्य चतुर्मारान् विजित्य च।

सर्वान् बोधौ प्रतिष्ठाप्य निर्वृतिं समवाप्स्यथ॥ ७०॥



एतत्च्छ्रुत्वा परिज्ञाय चरध्वं बोधिसाधने।

निर्विघ्नं बोधिमासाद्य लभध्वं सौगतां गतिम्॥ ७१॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project