Digital Sanskrit Buddhist Canon

६ अभिमुखी नाम षष्ठी भूमिः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 6 abhimukhī nāma ṣaṣṭhī bhūmiḥ
६ अभिमुखी नाम षष्ठी भूमिः।

उपक्रमगाथाः।



चरणवर श्रुणित्वा भूमिश्रेष्ठं विदूनां

गगनि सुगतपुत्रा हर्षिताः पुष्पवर्षी।

मणिरतन उदारा आभयुक्ता विशुद्धा

अभिकिर सुगतस्य साध्विति व्याहरन्तः॥ १॥



मरुत शतसहस्रा हर्षिता अन्तरीक्षे

दिविय रुचिर चित्रा रत्नचूर्णा उदाराः।

अभिकिर सुगतेभ्यो गन्धमाल्यानुलेपान्

छत्रध्वजापताकाहारचन्द्रार्धहारान्॥ २॥



मरुपति वशवर्ती सर्वदेवगणेन

उपरि खग पठित्वा मेघ रत्नामयानि।

अभिकिरिषु प्रसन्नः पूजनार्थं जिनस्य

साधु सुगतपुत्रा व्याहरी हृष्टचित्ताः॥ ३॥



अमरवधुसहस्राण्यन्तरीक्षे स्थितानि

गीत रुत मनोज्ञा वाद्यसंगीतियुक्ता।

सर्वरुतस्वरेभ्यो एव शब्दा रवन्ते

जिन कृतु सुमनोज्ञैः क्लेशतापस्य हन्ता॥ ४॥



शून्य प्रकृतिशान्ता सर्वधर्मानिमित्ताः

खगपथसमतुल्या निर्विकल्पा विशुद्धाः।

गतिस्थितिविनिर्वृत्ता निष्प्रपञ्चा अशेषा

तथतसम तथत्वाद्धर्मता निर्विकल्पा॥ ५॥



यैः पुनरनुबुद्धाः सर्वधर्मेव तेषां

भावि तथ अभावे इञ्जना नास्ति काचित्।

कृप करुण जगे च मोचनार्थं प्रयुक्ता-

स्ते हि सुगतपुत्रा औरसा धर्मजाताः॥ ६॥



दानचरि चरन्ते सर्व हित्वा निमित्तं

शीलसुधृतचित्तां आदिशान्ता प्रशान्ताः।

जगति कृत क्षमन्ते अक्षया धर्मज्ञानी

विरियबल‍उपेताः सर्वधर्माविविक्ताः॥ ७॥



ध्याननयप्रविष्टा जीर्णक्लेशा विशुद्धाः

सर्वविदितवस्तू आदिशून्याधिमुक्ताः।

ज्ञानक्रियबलाढ्या नित्ययुक्ता जगार्थं

ते हि सुगतपुत्राः शान्तपापा महात्माः॥ ८॥



ईदृशा रुतसहस्र भणित्वा

खे स्थिताः सुमधुरा सुरकन्याः।

तूष्णिभूत जिनमीक्षि प्रसन्ना

धर्मगौरवरता मरुकन्याः॥ ९॥



विमुक्तिचन्द्र अब्रवीद्वज्रगर्भं विशारदम्।

कीदृशाकारनिष्पत्तिः पञ्चमायामनन्तरम्॥ १०॥



उपसंहारगाथाः।



परिपूर्णमार्गचरणा विदु पञ्चमायां

धर्मानिमित्तत अलक्षणता अजाता।

अनुत्पाद आदिपरिशुद्ध्यतिनिष्प्रपञ्चा

भावेत्व ज्ञानमति षष्ठि समाक्रमन्ति॥ ११॥



धर्मा विविक्त अप्रतिग्रह निर्विकल्पा

मायास्वभाव द्वयभावतु विप्रयुक्ता।

अनुलोमयन्त अविलोमन्त धर्मनेत्री

ज्ञानान्विताः प्रवर षष्ठि समाक्रमन्ति॥ १२॥



तीक्ष्णानुलोमस्थित ज्ञानबलोपपेताः

समुदागमं विभवु प्रेक्षिषु सर्वलोके।

मोहान्धकारप्रभवं जगसंभवात्मा

तस्यैव मोहविगमेन प्रवृति नास्ति॥ १३॥



विचिनन्ति प्रत्ययकृतिं परमार्थशून्यां

क्रिय हेतुप्रत्ययसमज्ञ क्रियाविरोधौ।

याथावतः करकपेतक्रियां विदित्वा

विचिनन्ति संस्कृत घनाभ्रसमं निरीहम्॥ १४॥



सत्येषुऽज्ञानु परमार्थतु सा अविद्या

कर्मा च चेतनबलेन विभागप्राप्तम्।

चित्तं निश्रित्य सहजं पुन नामरूपम्

एवंमुखा भवति याव दुखस्य स्कन्धः॥ १५॥



ते चित्तमात्र ति त्रैधातुकमोतरन्ति

अपि चा भवाङ्ग इति द्वादश एकचित्ते।

संरागु जातु अपि चित्तु प्रभावितस्तु

एवं च संभवक्षयं पुन चित्तभागम्॥ १६॥



कार्यं अविद्यद्वय कुर्वति मोहभावे

मोहेभि हेतु वहते पुन चेतनायाः।

एवं च याव जरध्वंसनस्कन्धभेदम्

अनु सर्व दुःखप्रभवं क्षयतः अभावः॥ १७॥



उच्छेदु नो भवति प्रत्ययतामविद्या

नोच्छेद्यतापि कर प्रहाय संनिरोधम्।

मोहो तेषु च उपादानं क्लेशवर्त्म

कर्म भवं च अपि चेतन शेष दुःखा॥ १८॥



मोहं तु आयतन संस्कृतदुःख तेषां

स्पर्शं च वेदन सुखादुखताय दुःखा।

शेषानमङ्गनपरिणामदुःखवृद्धिः

व्युच्छेद तस्य दुःखता न हि आत्ममस्ति॥ १९॥



अध्वेषु पूर्वं तमचेतनसंस्कृतस्य

विज्ञान वेदन विवर्तति प्रत्युत्पन्नम्

अपरान्तु तेषु प्रभवो दुखसंभवेयम्

आपेक्ष च्छेदु प्रसरं च निरीक्षयन्तः॥ २०॥



मोहस्य प्रत्ययतु संभवते विबन्धा

विनिबन्धनव्ययक्षये सति प्रत्ययानाम्।

हेतोश्च मूलप्रभवं न तु हेतुभेदं

व्युपरीक्षते च जिन ज्ञान स्वभावशून्यम्॥ २१॥



अनुलोम मोहप्रभवं च प्रभावतश्च

प्रतिलोमहेतु क्षयतो भव सर्वच्छेद्यम्।

गम्भीरप्रत्ययतमस्य सतोऽसतश्च

व्युपरीक्षते दशविधं अनिकेतबुद्धिः॥ २२॥



संधी भवाङ्गतु तथापि च कर्मस्थानम्

अविभागतस्त्रिविधु वर्त्मनि पूर्वतश्च।

त्रियहेतु दुःखविभवा उदय व्ययं च

अभावतोऽक्षयत प्रत्यय आनुलोमम्॥ २३॥



एवं प्रतीत्यसमुत्पाद समोतरन्ति

मायोपमं वितथ वेदकर्मापनीतम्।

स्वप्नोपमं च तथता प्रतिभास चैव

बालान मोहन मरीचिसमस्वभावम्॥ २४॥



या एव भावन स शून्यत पण्डितानां

रति प्रत्ययान भवते इदमानिमित्तम्।

जानित्व जातु वितथं प्रणिधातु नास्ति

अन्यत्र सत्त्वकृपया उपपद्यन्ति॥ २५॥



एवं विमोक्षमुख भावयि ते महात्मा

कृपबुद्धि भूय तथ बुद्धगुणाभिलाषी।

संयोगसंस्कृतिकृत व्युपरीक्षमाणो

नियताशयो भवति नैकगुणोपपेतः॥ २६॥



पूर्णा सहस्र दश शून्यतये समाधी

तथ आनिमित्तवरदं च विमोक्ष तायी॥ २७॥



प्रल्हादयन्ति जगदाशय चन्द्रआभा

वहमानु वात चतुरो असंहार्यप्राप्ता।

अतिक्रम्य मारपथमाभ जिनौरसानां

प्रशमेन्ति क्लेशपरिताप दुखार्दितानाम्॥ २८॥



इह भूमिदेशुपगता मरुताधिपास्ते

भोन्ती सुनिर्मित कृतावधिमानघाती।

यं चैव आरभिषु ज्ञानपथोपपेता

असंहार्य श्रावकगती अतिक्रान्त धीराः॥ २९॥



आकाङ्क्षमाणु सुगतात्मज वीर्यप्राप्ताः

कोटीशतसहस्रपूर्ण समाधि लब्धाः।

पश्यन्ति एकक्षणि बुद्ध दशद्दिशासु

प्रतपन्ति सूर्य एव मध्यगु ग्रीष्मकाले॥ ३०॥



गम्भीर दुर्दृशा सूक्ष्म दुर्ज्ञेया जिनश्रावकैः।

षष्ठी भूमिर्महात्मानामाख्याता सुगतात्मजाः॥ ३१॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project