Digital Sanskrit Buddhist Canon

३ प्रभाकरी नाम तृतीया भूमिः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

3 prabhākarī nāma tṛtīyā bhūmiḥ

३ प्रभाकरी नाम तृतीया भूमिः।



वज्रगर्भो बोधिसत्त्व आह - योऽयं भवन्तो जिनपुत्रा बोधिसत्त्वो द्वितीयायां बोधिसत्त्वभूमौ सुपरिशोधिताध्याशयस्तृतीयां बोधिसत्त्वभूमिमाक्रमति, स दशभिश्चित्ताशयमनस्कारैराक्रमति। कतमैर्दशभिः ? यदुत शुद्धचित्ताशयमनस्कारेण च स्थिरचित्ताशयमनस्कारेण च निर्विच्चित्ताशयमनस्कारेण च अविरागचित्ताशयमनस्कारेण च अविनिवर्तचित्ताशयमनस्कारेण च दृढचित्ताशयमनस्कारेण च उत्तप्तचित्ताशयमनस्कारेण च अतृप्तचित्ताशयमनस्कारेण च उदारचित्ताशयमनस्कारेण च माहात्म्यचित्ताशयमनस्कारेण च। एभिर्दशभिश्चित्ताशयमनस्कारैराक्रमति। स खलु पुनर्भवन्तो जिनपुत्रा बोधिसत्त्वस्तृतीयायां बोधिसत्त्वभूमौ स्थितोऽनित्यतां च सर्वसंस्कारगतस्य यथाभूतं प्रत्यवेक्षते, दुःखतां च अशुभतां च अनाश्वासिकतां च विप्रलोपतां च अचिरस्थितिकतां च क्षणिकोत्पादनिरोधतां च पूर्वन्तासंभवतां च अपरान्तासंक्रान्तितां च प्रत्युत्पन्नाव्यवस्थिततां च सर्वसंस्कारगतस्य प्रत्यवेक्षते। स एवंभूतं सर्वसंस्कारगतं संपश्यन्ननभिसरं निराक्रन्दं सशोकं सपरिदेवं सोपायासं प्रियाप्रियविनिबद्ध दुःखदौर्मनस्योपायासाबहुलमसंनिचयभूतं रागद्वेषमोहाग्निसंप्रदीप्तमनेकव्याधिविवर्धितं च आत्मभावं संपश्यन् भूयस्या मात्रया सर्वसंस्कारेभ्यश्चित्तमुच्चालयति, तथागतज्ञाने च संप्रेषयति। स तथागतज्ञानस्याचिन्त्यतां च समनुपश्यति, अतुल्यतां च अप्रमेयतां च दुरासदतां च असंस्पृष्टतां च निरुपद्रवतां च निरुपायासतां च अभयपुरगमनीयतां च अपुनरावृत्तितां च बहुजनपरित्राणतां च समनुपश्यति। स एवमप्रमाणतां च तथागतज्ञानस्य समनुपश्यन् एवं बहूपद्रवतां च सर्वसंस्कारगतस्य व्युपपरीक्षमाणो भूयस्या मात्रया सत्त्वानामन्तिके दश चित्ताशयानुपस्थापयति। कतमान् दश? यदुत अनाथात्राणाप्रतिशरणचित्ताशयतां च नित्यदरिद्रप्रतिशरणचित्ताशयतां च रागद्वेषमोहाग्निसंप्रदीप्तप्रतिशरणचित्ताशयतां च भवचारकावरुद्धप्रतिशरणचित्ताशयतां च सततसमितक्लशगहेनावृतप्रसुप्तप्रतिशरणचित्ताशयतां च विलोकनसमर्थप्रतिशरणचित्ताशयतां च कुशलधर्मच्छन्दरहितप्रतिशरणचित्ताशयतां च बुद्धधर्मप्रमुषितप्रतिशरणचित्ताशयतां च संसारस्रोतोनुवाहिप्रतिशरणचित्ताशयतां च मोक्षोपायप्रणष्टप्रतिशरणचित्ताशयतां च। इमान् दश चित्ताशयनुपस्थापयति॥



स एवं बहूपद्रवं सत्त्वधातुं समनुपश्यन् एवं वीर्यमारभते - मयैवैते सत्त्वाः परित्रातव्याः परिमोचयितव्याः परितोषयितव्याः संरोपयितव्या विनेतव्याः परिनिर्वापयितव्या इति। स एवं निर्विदनुगतश्च सर्वसंस्कारगत्या उपेक्षानुगतश्च सर्वसत्त्वेषु अनुशंसानुगतश्च सर्वज्ञज्ञाने तथागतज्ञानप्रतिशरणः सर्वसत्त्वपरित्राणायाभियुक्तः एवं व्युपपरीक्षते - कतमेन खलु उपायमार्गेण शक्या इमे सत्त्वा एवं बहुदुःखोपक्लेशप्रपतिता अभ्युद्धर्तुम्, अत्यन्तसुखे च निर्वाणे प्रतिष्ठापयितुम्, सर्वधर्मनिःसंशयतां चानुप्रापयितुमिति? तस्य बोधिसत्त्वस्यैवं भवति - नान्यत्र अनावरणविमोक्षज्ञानस्थानात्। तच्च अनावरणज्ञानविमोक्षस्थानम् नान्यत्र सर्वधर्मयथावदवबोधात्। स च सर्वधर्मयथावदवबोधो नान्यत्र अप्रचारानुत्पादचारिण्याः प्रज्ञायाः। स च प्रज्ञालोको नान्यत्र ध्यानकौशल्यविनिश्चयबुद्धिप्रत्यवेक्षणात्। तच्च ध्यानकौशल्यविनिश्चयबुद्धिप्रत्यवेक्षणं नान्यत्र श्रुतकौशल्यादिति॥



स एवं प्रत्यवेक्षितज्ञानो भूयस्या मात्रया सद्धर्मपर्येषणाभियुक्तो विहरति। रात्रिदिवं धर्मश्रवणार्थिको धर्मकामातृप्ताप्रतिप्रस्रब्धो बुद्धर्धर्मपर्येष्टिहेतोः। धर्मारामो धर्मरतो धर्मप्रतिशरणो धर्मनिम्नो धर्मप्रवणो धर्मप्राग्भारो धर्मपरायणो धर्मलयनो धर्मत्राणो धर्मानुधर्मचारी। स एवं बुद्धधर्मपर्येषणाभियुक्तो नास्ति तत्किंचिद् द्रव्यवित्तजातं वा धनधान्यकोशकोष्ठागारजातं वा हिरण्यसुवर्णमणिमुक्तावज्रवैडूर्यशङ्खशिलाप्रवालजातरूपरजतजातं वा यावत्सर्वाङ्गप्रत्यङ्गपरित्यागो वा यन्न परित्यजति तया धर्मकामतया। न च तस्माद्दुष्करसंज्ञी भवति अन्यत्र तस्मिन्नेव धर्मभाणकपुद्गले दुष्करसंज्ञी भवति योऽस्यैकधर्मपदमपि देशयति। स धर्महेतोर्नास्ति तत्किंचिदुपातं बाह्यं वस्तु यन्न परित्यजति। नास्ति तत्किचिंदाध्यात्मिकं वस्तु यन्न परित्यजति। नास्ति तत्किंचिद्गुरुपरिचर्योपस्थानं यन्नोपादत्ते। नास्ति सा काचिद् मानाभिमानोत्सर्गनिर्माणोपचारता यां नोपादत्ते। नास्ति सा काचित्कायिकी पीडा यां नोपादत्ते। स चित्रो भवत्यश्रुतधर्मपद श्रवणेन, न त्वेव त्रिसाहस्रमहासाहस्रलोकधातुप्रतिमेन रत्न‍राशिप्रतिलम्भेन। स चित्रो भवत्येकसुभाषितगाथाश्रवणेन न त्वेव चक्रवर्तिराज्यप्रतिलम्भेन। स चित्रो भवत्यश्रुतधर्मपदश्रवणेन बोधिसत्त्वचर्यापरिशोधनेन न त्वेव शक्रत्वब्रह्मत्वप्रतिलम्भेन बहुकल्पशतसहस्रपर्यवसानेन। सचेदिदं कश्चिदेवं ब्रूयात् - एवमहं तुल्यमिदं धर्मपदं सम्यक्संबुद्धोपनीतं बोधिसत्त्वचर्यापरिशोधनं संश्रावयेयम्, सचेत्त्वं महत्यामग्निखदायां संप्रज्वलितायामेकज्वालीभूतायामात्मानं प्रपातयेः, महान्तं च दुःखवेदनोपक्रमं स्वशरीरेणोपादद्या इति। तस्यैवं भवति - उत्सहेऽहमेकस्यापि धर्मपदस्य सम्यक्संबुद्धोपनीतस्य बोधिसत्त्वचर्यापरिशोधनस्यार्थाय त्रिसाहस्रमहासाहस्रलोकधातावग्निपरिपूर्णे ब्रह्मलोकादात्मानमुत्स्रष्टुम्, किं पुनः प्राकृतायां अग्निखदायाम्। अपि तु खलु पुनः सर्वैर्निरयापायदुःखसंवासैरप्यस्माभिर्बुद्धधर्माः पर्येषितव्याः, किं पुनर्मनुष्यदुःखसंवासैरिति। स एवंरूपेण वीर्यारम्भेण धर्मान् पर्येषते। यथाश्रुतेषु धर्मेषु च योनिशः प्रत्यवक्षेणजातीयो भवति। तांश्च धर्मान् श्रुत्वा स्वचित्तनिध्यप्त्या एको रहोगत एवं मीमांसते - धर्मानुधर्मप्रतिपत्त्या इमे बुद्धधर्मा अनुगन्तव्या न केवलं वाक्कर्मपरिशुद्ध्येति। सोऽस्यां प्रभाकर्यां बोधिसत्त्वभूमौ स्थितो बोधिसत्त्वो धर्मानुधर्मप्रतिपत्तिहेतोर्विविक्तं कामैर्विविक्तं पापकैरकुशलधर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसंपद्य विहरति। स वितर्कविचाराणां व्युपशमादध्यात्मसंप्रसादाच्चेतस एकोतीभावादवितर्कमविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानमुपसंपद्य विहरति। स प्रीतेर्विरागादुपेक्षको विहरति स्मृतिमान् संप्रजानन्। सुखं च कायेन प्रतिसंवेदयति यत्तदार्या आचक्षन्ते - उपेक्षकः स्मृतिमान्। सुखविहारी निष्प्रीतिकं तृतीयं ध्यानमुपसंपद्य विहरति। स सुखस्य च प्रहाणाद्दुःखस्य च प्रहाणात्पूर्वमेव च सौमनस्यदौर्मनस्ययोरस्तंगमाददुःखासुखमुपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानमुपसंपद्य विहरति। स सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञानामस्तंगमान्नानात्वसंज्ञानाममनसिकारादनन्तकमाकाशमित्याकाशानन्त्यायतनमुपसंपद्य विहरति। स सर्वश आकाशानन्त्यायतनसमतिक्रमादनन्तं विज्ञानमिति विज्ञानानन्त्यायतनमुपसंपद्य विहरति। स सर्वशो विज्ञानानन्त्यायतनसमतिक्रमान्नास्ति किंचिदित्याकिंचन्यायतनमुपसंपद्य विहरति। स सर्वश आकिंचन्यायतनसमतिक्रमान्नैवसंज्ञानासंज्ञायतनमुपसंपद्य विहरति तेनानभिरतिपदस्थानेन नान्यत्र धर्मानुधर्मप्रतिपत्तिमुपादाय। स मैत्रीसहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणासपत्नेनानावरणेनाव्याबाधेन सर्वत्रानुगतेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने सर्वावन्तं लोकं स्फरित्वोपसंपद्य विहरति। एवं करुणासहगतेन चित्तेन। मुदितासहगतेन चित्तेन। उपेक्षासहगतेन चित्तेन विहरति॥



सोऽनेकविधां ऋद्धिविधिं प्रत्यनुभवति। पृथिवीमपि कम्पयति। एकोऽपि भूत्वा बहुधा भवति। बहुधापि भूत्वैको भवति। आविर्भावं तिरोभावमपि प्रत्यनुभवति। तिरःकुड्यं तिरःप्राकारं पर्वतमप्यसज्जन् गच्छति तद्यथापि नाम आकाशे। आकाशेऽपि पर्यङ्केन क्रामति तद्यथापि नाम पक्षिशकुनिः। पृथिव्यामप्युन्मज्जननिमज्जनं करोति तद्यथापि नाम उदके। उदकेऽप्यमञ्जन् गच्छति तद्यथापि पृथिव्याम्। धूमयति प्रज्वलति, तद्यथापि नाम महानग्निस्कन्धः। स्वकायादपि महावारिधारा उत्सृजति तद्यथापि नाम महामेघः। याभिर्वारिधाराभिरयं त्रिसाहस्रमहासाहस्रो लोकधातुरादीप्तः प्रदीप्तः संप्रज्वलितोऽग्निना एकज्वालीभूतो निर्वाप्यते। इमावपि चन्द्रसूर्यावेवंमहर्द्धिकौ एवंमहानुभावौ पाणिना परामृशति परिमार्ष्टि यावद्ब्रह्मलोकमपि कायेन वशं वर्तयति॥



स दिव्येन श्रोत्रधातुना [विशुद्धेना]तिक्रान्तमानुष्यकेन उभयान् शब्दान् शृणोति दिव्यान् मानुष्याकान्, सूक्ष्मानौदारिकांश्च। ये दूरेऽन्तिके वा अन्तशो दंशमशककीटमक्षिकाणामपि शब्दान् शृणोति। [एषा दिव्यश्रोत्राभिज्ञा]॥



स परसत्त्वानां परपुद्गलानां चेतसैव चित्तं यथाभूतं प्रजानाति। सरागं चित्तं सरागचित्तमिति यथाभूतं प्रजानाति। विरागं चित्तं विरागचित्तमिति प्रजानाति। सदोषं...विगतदोषं...समोहं...विगतमोहं...सक्लेशं...निःक्लेशं...परीत्तं...विपुलं...महद्गतं...अप्रमाणं...संक्षिप्तं...[विस्तीर्णं]...समाहितं...असमाहितं...विमुक्तं...अविमुक्तं...साङ्गनम्...अनङ्गनम्...औदारिकं चित्तमौदारिकचित्तमिति यथाभूतं प्रजानाति। अनौदारिकं चित्तमनौदारिकं चित्तमिति यथाभूतं प्रजानाति। इति परसत्त्वानां परपुद्गलानां चेतसैव चित्तं यथाभूतं प्रजानाति। [इत्येषा परचित्तज्ञानामिज्ञा]॥



सोऽनेकविधं पूर्वनिवासमनुस्मरति। एकामपि जातिमनुस्मरति। द्वे तिस्रश्चतस्रः पञ्च दश विंशतिः त्रिंशतं चत्वारिंशतं पञ्चाशतं जातिशतमनुस्मरति। अनेकान्यपि जातिशतानि। अनेकान्यपि जातिशतसहस्राणि। संवर्तकल्पमपि विवर्तकल्पमपि। अनेकानपि संवर्तविवर्तकल्पानप्यनुस्मरति। कल्पशतमपि कल्पसहस्रमपि कल्पकोटीमपि कल्पकोटीशतमपि कल्पकोटीसहस्रमपि कल्पकोटीशतसहस्रमपि यावदनेकान्यपि कल्पकोटीनियुतशतसहस्राण्यनुस्मरति - अमुत्राहमासं एवंनामा। एवंगोत्रः एवंजातिः एवमाहार एवमायुःप्रमाणः एवं चिरस्थितिकः एवं सुखदुःखप्रतिसंवेदी। सोऽहं ततश्च्युतोऽत्रोपपन्नः। ततश्च्युत इहोपपन्नः। इति साकारं सोद्देशं सनिमित्तमनेकविधं पूर्वनिवासमनुस्मरति। [एषा पूर्वनिवासानुस्मृत्यभिज्ञा]॥



स दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेण सत्त्वान् पश्यति च्यवमानानुपपद्यमानान् सुवर्णान् दुर्वर्णान् सुगतान् दुर्गतान् प्रणीतान् हीनान्। यथाकर्मोपगान् सत्त्वान् यथाभूतं प्रजानाति - इमे भवन्तः सत्त्वाः कायदुश्चरितेन समन्वागता वाग्दुश्चरितेन समन्वागता [मनोदुश्चरितेन समन्वागताः]। आर्याणामपवादका मिथ्यादृष्टयः मिथ्यादृष्टिकर्मसमादानहेतोस्तद्धेतुं तत्प्रत्ययं कायस्य भदात्परं मरणादपायदुर्गतिविनिपातनिरयेषूपपद्यन्ते। इमे पुनर्भवन्तः सत्त्वाः कायसुचरितेन समन्वागता [वाक्सुचरितेन समन्वागता मनःसुचरितेन समन्वागता] आर्याणामनपवादकाः। सम्यग्दृष्टिकर्मसमादानहेतोस्तद्धेतुं तत्प्रत्ययं कायस्य भेदात् परं मरणात्सुगतौ स्वर्गे देवलोकेषूपपद्यन्त इति। [प्रजानाति। एवं] दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमनुष्येण साकारं सोद्देशं सनिमित्तं सत्त्वान् पश्यति। च्यवमानानुपपद्यमानान्...यथाभूतं पश्यति॥



स इमानि ध्यानानि विमोक्षान् समाधीन् समापत्तीश्च समापद्यते, व्युत्तिष्ठेते। न च तेषां वशेनोपपद्यतेऽन्यत्र यत्र बोध्यङ्गपरिपूरिं पश्यति तत्र संचिन्त्य प्रणिधानवशेनोपपद्यते। तत्कस्य हेतोः? तथा हि तस्य बोधिसत्त्वस्योपायकौशल्याभिनिर्हता चित्तसंततिः॥



तस्य अस्यां प्रभाकर्यां बोधिसत्त्वभूमौ स्थितस्य बोधिसत्त्वस्य बहवो बुद्धा आभासमागच्छन्ति। पेयालं। परिणामयति। तांश्च तथागतानर्हतः सम्यक्संबुद्धान् पर्युपास्ते। तेषां च धर्मदेशनां सत्कृत्य शृणोति उद्गृह्णाति धारयति। श्रुत्वा च यथाभजमानं प्रतिपत्त्या समादयति। स सर्वधर्माणामसंक्रान्तितां च अविनाशितां च प्रतीत्य प्रत्ययतया व्यवलोकयति॥



तस्य भूयस्या मात्रया सर्वाणि कामबन्धनानि तनूनि भवन्ति। सर्वाणि रूपबन्धनानि सर्वाणि भवबन्धनानि सर्वाण्यविद्याबन्धनानि तनूनि भवन्ति। दृष्टिकृतबन्धनानि च पूर्वमेव प्रहीणानि भवन्ति। तस्य अस्यां प्रभाकर्यां बोधिसत्त्वभूमौ स्थितस्य बोधिसत्त्वस्य...पेयालं...अनुपचयं मिथ्यारागः प्रहाणं गच्छति अनुपचयं मिथ्यादोषः प्रहाणं गच्छति, अनुपचयं मिथ्यामोहः प्रहाणं गच्छति। तानि चास्य कुशलमूलान्युत्तप्यन्ते परिशुद्ध्यन्ति कर्मण्यानि च भवन्ति। तद्यथापि नाम भवन्तो जिनपुत्रास्तदेव जातरूपं कुशलस्य कर्मारस्य हस्तगतं तुल्यधरणमेव प्रमाणेनावतिष्ठते, एवमेव भवन्तो जिनपुत्रा बोधिसत्त्वस्य अस्यां प्रभाकर्यां बोधिसत्त्वभूमौ स्थितस्य अनेकान् कल्पान् यावदनेकानि कल्पकोटिनियुतशतसहस्राणि....प्रहाणं गच्छन्ति। तस्य भूयस्या मात्रया क्षान्तिसौरत्याशयता च परिशुद्ध्यति, साखिल्यमाधुर्याशयता च अकोप्याशयता च अक्षुभिताशयता च अलुभिताशयता च अनुन्नामवनामाशयता च सर्वकृतप्रतिकृतानां निःकाङ्क्षाशयता च सत्त्वकृतप्रतिकृतानां काङ्क्षाशयता च अशाठ्यमायाविताशयता च अगहनाशयता च परिशुद्ध्यति। तस्य चतुर्भ्यः संग्रहवस्तुभ्योऽर्थचर्या अतिरिक्ततमा भवति। दशभ्यः पारमिताभ्यः क्षान्तिपारमिता अतिरिक्ततमा भवति। न च परिशेषासु न समुदागच्छति यथाबलं यथाभजमानम्। इयं भवन्तो जिनपुत्रा बोधिसत्त्वस्य प्रभाकरी नाम तृतीया बोधिसत्त्वभूमिः समासनिर्देशतः, यस्यां प्रतिष्ठितो बोधिसत्त्वो भूयस्त्वेन इन्द्रो भवति देवराजस्त्रिदशाधिपतिः कृती प्रभुः सत्त्वानां कामरागविनिवर्तनोपायोपसंहाराय कुशलः सत्त्वान् कामपङ्कादभ्युद्धर्तुम्, यच्च किंचित्...पेयालं...यथारूपेण वीर्यारम्भेण एकक्षणलवमुहूर्तेन समाधिशतसहस्रं च प्रतिलभते...॥



प्रभाकरी नाम तृतिया भूमिः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project