Digital Sanskrit Buddhist Canon

२ विमला नाम द्वितीया भूमिः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 2 vimalā nāma dvitīyā bhūmiḥ
२ विमला नाम द्वितीया भूमिः।

उपक्रमगाथाः।



श्रुत्वैतदुत्तमं स्थानं भूम्याः श्रेष्ठं मनोरमम्।

प्रसन्नमनसंकल्पहर्षिताः सुगतात्मजाः॥ १॥



अभ्युत्थिता आसनेभ्य अभ्युद्गम्य खगपथे।

अभ्योकिरन्ति कुसुमैः साध्विति व्याहरी गिरा॥ २॥



साधु साधु महाप्राज्ञ वज्रगर्भ विशारद।

यन्निर्दिष्टा त्वया भूमि बोधिसत्त्वान या चरी॥ ३॥



पर्षद्धि विप्रसन्ना तु विमुक्तिचन्द्रः पृच्छति।

उत्तरिं कीर्तिया भूमिं द्वितीयां सुगतात्मजाः॥ ४॥



कीदृशा मनसंकल्पा द्वितीयामभिलक्षतः।

प्रव्याहर महाप्राज्ञ श्रोतुकामा जिनात्मजाः॥ ५॥



उपसंहारगाथाः।



ते मार्दवार्जवमृदूकर्मणीयचित्ताः

कल्याणआशय दमाशयताभ्युपेताः।

संसर्गपेक्षविगताश्च उदारबुद्धि

माहात्म्य आशयविद् द्वितीयाक्रमन्ति॥ ६॥



अत्र स्थिता गुणधराः कुशलोपपेताः

प्राणातिपातविगता अविहिंसचित्ताः।

अदत्तदानपगताः परदारतां च

सत्यान्विता अपिशुनः पुरुषप्रधानाः॥ ७॥



परभोगभिद्यविगता विदु मैत्रचित्ताः

सम्यक्पथे उपगता अशठज्ञकाश्च।

निर्माणकायग्रहणाश्च सुपेशलाश्च

रक्षन्ति शास्तुशरणं सद अप्रमत्ताः॥ ८॥



दुःखानि यानि निरये तथ तिर्यग्योनौ

यमशासने ज्वलितआश्रयनित्युपेताः।

सर्वे ति पापपतिताक्षलाः प्रभोन्ति

हन्ता विवर्जिय उपेमहि सत्यधर्मम्॥ ९॥



आदौ च कृत्व मनुजानुपपत्तिमिष्टां

यावद्भवाग्रमरणाशयध्यानु शिक्षाम्।

प्रत्येकयानमथ श्रावकबुद्धयानं

सर्वे इतो दशभि शुक्लपथैः प्रभूतम्॥ १०॥



एवं विदित्व सततं विदु अप्रमत्ताः

शीलेषु संस्थित परानपि स्थापयन्ति।

भूयोत्तरे करुणआशयताभ्युपेताः

सत्त्वान् विदित्व दुखितान् कृप संजनेन्ति॥ ११॥



हन्तो विदृष्टिपतिता इमि बालबुद्धी

क्रोधोपनाहद्रुतचित्त विवादप्राप्ताः।

सततं अतृप्त विषये भुयु प्रार्थयन्ति

त्रिनिदान सत्त्व परिमोचयितव्य एते॥ १२॥



मह‍अन्धकारतमसावृत मोहछन्नाः

कान्तारमार्गपतिता महदृष्टिजाले।

संसारपञ्जरगता रिपु धर्षयन्ति

मोक्षाम्यहं नमुचिपञ्जरमध्यप्राप्तान्॥ १३॥



क्लेशोर्मिभिह्रियत ओघचतुर्निमग्ना

त्रैधातुके दुखशतैः परिपीड्यमानाः।

स्कन्धालयाभ्युपगता वृतआत्मसंज्ञा

तेषार्थि युज्यमि अहं दुखमोचनार्थम्॥ १४॥



अवसृज्य श्रेष्ठप्रवरं इम बुद्धज्ञानं

सति एव निःसरणि हीनमतिं जनेन्ति।

स्थापेमि तान् विमलज्ञानि तथागतानां

वीर्यारभन्ति अतुलं विदु बोधिहेतोः॥ १५॥



अत्र स्थिता गुणशतोपचिता महर्षि

पश्यन्ति नैकसुगतानपि पूजयन्ति।

तेषां शुभं भुयु उत्तप्यति कल्पकोट्यां

कासीसकाञ्चनवरं च यथा निक्षिप्तम्॥ १६॥



अत्र स्थिता जिनसुता नृपचक्रवर्ति

भूत्वा प्रणेन्ति दशभिः कुशलेभि सत्त्वान्।

यच्चैव संचि शुभसंचय संचिनन्ति

त्राता भवेम जगतो दशभिर्बलाढ्यैः॥ १७॥



आकाङ्क्षमाण विजहित्व च रजभोगान्

प्रव्रज्य शासनवरे उपगम्य धीराः।

वीर्यान्विता लभिय श्रेष्ठवरं समाधिं

बुद्धा सहस्र परिपूर्ण क्षेणे दृशन्ति॥ १८॥



एवंविधा गणनया भुयु अन्य नेका

आदर्शयन्ति वृषभी स्थित अत्र भूमौ।

अत उत्तरि प्रणिधिज्ञानवराभ्युपेता

नैका विकुर्वितविधौ विनयन्ति सत्त्वान्॥ १९॥



इत्येषा द्वितिया भूमिर्निर्दिष्टा सुगतात्मजाः।

सर्वलोकहितैषीणां बोधिसत्त्वाननुत्तमा॥ २०॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project