Digital Sanskrit Buddhist Canon

११ परीन्दनापरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 11 parīndanāparivartaḥ
११ परीन्दनापरिवर्तः।



इमास्ताः खलु पुनर्भो जिनपुत्रा दश बोधिसत्त्वभूमयः समासनिर्देशतो निर्दिष्टाः। विस्तरशः पुनरपर्यन्तकल्पनिर्देशनिष्ठातोऽनुगतव्याः। या अतीतानागतप्रत्युत्पन्नैर्बुद्धैर्भगवद्भिर्भाषिताश्च भाषिष्यन्ते च भाष्यन्ते च, ताः खलु पुनर्भो जिनपुत्र, एता दश बोधिसत्त्वभूमयः सर्वाकारसर्वज्ञज्ञानानुगता द्रष्टव्या अनुपूर्वाभिमुखत्वात्। तद्यथापि नाम भो जिनपुत्र अनवतप्तह्रदप्रभवं प्रवहद्वारि चतुर्भिर्महानदीस्रोतोमुखैर्जम्बूद्वीपं संतर्प्य अक्षयं भूयो विवृद्धमप्रमेयाणां सत्त्वानामुपकारीभूतं यावन्महासमुद्रमर्पयति, तच्च वारि आदित एव महासागराभिमुखम्, एवमेव भो जिनपुत्र बोधिचित्तमहाह्रदप्रभवं प्रवहत् कुशलमूलवारि महाप्रणिधाननदीस्रोतोमुखैश्चतुर्भिः संग्रहवस्तुभिः सर्वसत्त्वधातु संतर्प्य अक्षयं भूय उत्तरि विवृद्धम् अप्रमेयाणां सत्त्वानामुपकारीभूतं यावत्सर्वाकारसर्वज्ञज्ञानमहासमुद्रमर्पयति। तच्च कुशलमूलवारि आदित एव सर्वज्ञतामहासागराभिमुखम्॥



ताः खलु भो जिनपुत्र एता दश भूमयो बुद्धज्ञानं प्रतीत्य प्रज्ञायन्ते। तद्यथापि नाम भो जिनपुत्र महापृथिवीं प्रतीत्य दश महारत्नपर्वतराजाः प्रज्ञायन्ते। तद्यथा हिमवान् पर्वतराजो गन्धमादनो वैदल्य ऋषिगिरिर्युगंधरोऽश्वकर्णगिरिर्निमिंधरश्चक्रवालः केतुमान् सुमेरुश्च महापर्वतराजः। तर भो जिनपुत्र तद्यथापि नाम हिमवान् पर्वतराज आकरः सर्वभैषज्यजातीनामपर्यन्तः सर्वभैषज्यजातिग्रहणतया, एवमेव भो जिनपुत्र प्रमुदितायां बोधिसत्त्वभूमौ स्थितो बोधिसत्त्व आकरो भवति सर्वलौकिककाव्यशास्त्रमन्त्रविद्यास्थानानामपर्यन्तः सर्वलौकिककाव्यशास्त्रमन्त्रविद्योपायेन। तद्यथापि नाम भो जिनपुत्र गन्धमादनो महापर्वतराज आकरः सर्वगन्धजातीनामपर्यन्तः सर्वगन्धजातिग्रहणेन, एवमेव भो जिनपुत्र विमलायां बोधिसत्त्वभूमौ स्थितो बोधिसत्त्व आकरो भवति सर्वबोधिसत्त्वशीलसंवरचारित्रगन्धानामपर्यन्तः सर्वबोधिसत्त्वशीलसंवरचारित्रगन्धसंग्रहणेन। तद्यथापि नाम भो जिनपुत्र वैदल्यो महापर्वतराजः शुद्धो रत्नमय आकरः सर्वरत्नजातीनामपर्यन्तः सर्वलौकिकरत्नजातिग्रहणेन, एवमेव भो जिनपुत्र प्रभाकर्यां बुद्धभूमौ सर्वलौकिकध्यानाभिज्ञाविमोक्षसमाधिसमापत्तीनाम्, अपर्यन्तः सर्वलौकिकध्यानाभिज्ञाविमोक्षसमाधिसमापत्तीनाम्, अपर्यन्तः सर्वलौकिकध्यानाभिज्ञाविमोक्षसमाधिसमापत्तिपरिपृच्छानिर्देशैः। तद्यथापि नाम भो जिनपुत्र ऋषिगिरिर्महापर्वतराजः पञ्चाभिज्ञानामृषीणामपर्यन्तः पञ्चाभिज्ञर्षिगणनया, एवमेव भो जिनपुत्र अर्चिष्मत्यां बुद्धभूमौ सर्वमार्गामार्गान्तरावतारनिर्देशविशेषज्ञानानामपर्यन्तः सर्वमार्गामार्गान्तरविशेषज्ञानपरिपृच्छानिर्देशैः। तद्यथापि नाम भो जिनपुत्र युगंधरो महापर्वतराजः सर्वयक्षमहर्द्धिकानामपर्यन्तः सर्वयक्षमहर्द्धिकगणनया, एवमेव भो जिनपुत्र सुदुर्जयायां बुद्धभूमौ सर्वाभिज्ञर्द्धिविकुर्वणप्रातिहार्याणामपर्यन्तः सर्वाभिज्ञर्द्धिविकुर्वणप्रातिहार्यपरिपृच्छानिर्देशैः। तद्यथापि नाम भो अश्वकर्णगिरिर्महापर्वतराजः सर्वफलजातीनामपर्यन्तः सर्वफलजातिग्रहणेन, एवमेव भो जिनपुत्र अभिमुख्यां बुद्धभूमौ प्रतीत्यसमुत्पादावतारनिर्देशानामपर्यन्तः श्रावकफलाभिसमयपरिपृच्छानिर्देशैः। तद्यथापि नाम भो जिनपुत्र निमिंधरो नाम महापर्वतराजः सर्वनागमहर्द्धिकानामपर्यन्तः सर्वनागमहर्द्धिगणनया, एवमेव भो जिनपुत्र दूरंगमायां बुद्धभूमौ उपायप्रज्ञानिर्देशानामपर्यन्तः प्रत्येकबुद्धफलाभिसमयपरिपृच्छानिर्देशैः। तद्यथापि नाम भो जिनपुत्र चक्रवालो नाम महापर्वतराजः वशीभूतानामपर्यन्तो वशीभूतगणनया, एवमेव भो जिनपुत्र अचलायां बुद्धभूमौ सर्वबोधिसत्त्ववशिताभिनिर्हाराणामपर्यन्तो लोकधातुविभक्तिपरिपृच्छानिर्देशैः। तद्यथापि भो जिनपुत्र केतुमान् नाम महापर्वतराजः असुरमहर्द्धिकानामपर्यन्तोऽसुरमहर्द्धिकगणनया, एवमेव भो जिनपुत्र साधुमत्यां बुद्धभूमौ सर्वसत्त्वप्रवृत्तिनिवृत्तिज्ञानोपचाराणामपर्यन्तः सर्वजगत्संभवविभवपरिपृच्छानिर्देशैः। तद्यथापि भो जिनपुत्र सुमेरुर्महापर्वतराजः सर्वदेवमहर्द्धिकानामपर्यन्तः सर्वदेवमहर्द्धिकगणनया, एवमेव भो जिनपुत्र धर्ममेघायां बुद्धभूमौ तथागतबलवैशरद्यावेणिकबुद्धधर्माणामपर्यन्तो बुद्धकायसंदर्शनपरिपृच्छानिर्देशैः। यथा खलु पुनरिमे भो जिनपुत्र दश महारत्नपर्वता महासमुद्रसंभूता महासमुद्रप्रभाविताः, एवमेव भो जिनपुत्र इमा अपि दश भूमयं सर्वज्ञतासंभूताः सर्वज्ञताप्रभाविताः॥



तद्यथापि भो जिनपुत्र महासमुद्रो दशभिराकारैः संख्यां गच्छत्यसंहार्यतया। कतमैर्दशभिः? यदुत अनुपूर्वनिम्नतश्च मृतकुणपासंवासतश्च अन्यवारिसंख्यात्यजनतश्च एकरसतश्च बहुरत्नतश्च गम्भीरदुरवगाहतश्च विपुलाप्रमाणतश्च महाभूतावासतश्च स्थितवेलानतिक्रमणतश्च सर्वमेघवारिसंप्रत्येषणातृप्तितश्च, एवमेव भो जिनपुत्र बोधिसत्त्वचर्या दशभिराकारैः संख्यां गच्छत्यसंहार्यतया। कतमैर्दशभिः ? यदुत प्रमुदितायां बोधिसत्त्वभूमौ अनुपूर्वमहाप्रणिधानाभिनिर्हारनिम्नतः। विमलायां बोधिसत्त्वभूमौ दौःशील्यमृतकुणपासंवासतः। प्रभाकर्यां बोधिसत्त्वभूमौ लौकिकप्रज्ञप्तिसंख्यात्यागतः। अर्चिष्मत्यां बोधिसत्त्वभूमौ बुद्धभेद्यप्रसादैकरसतः। सुदुर्जयायां बोधिसत्त्वभूमौ अप्रमाणोपायाभिज्ञालोकक्रियाभिनिर्हारबहुरत्नतः। अभिमुख्यां बोधिसत्त्वभूमौ प्रतीत्यसमुत्पादप्रत्यवेक्षणदुरवगाहगाम्भीर्यतः। दूरंगमायां बोधिसत्त्वभूमौ बुद्धिप्रविचयकौशल्यविपुलाप्रमाणतः। अचलायां बोधिसत्त्वभूमौ महाव्यूहाभिनिर्हारसंदर्शनमहाभूतावासतः। साधुमत्यां बोधिसत्त्वभूमौ गम्भीरविमोक्षजगच्चरितयथावत्प्रतिवेधस्थितवेलानतिक्रमणतः। धर्ममेघायां बोधिसत्त्वभूमौ सर्वतथागतधर्मावभासमहामेघवारिसंप्रत्येषणातृप्तितः॥



तद्यथापि भो जिनपुत्र महामणिरत्नं यदा दश रत्नगोत्राण्यतिक्रम्य अभ्युत्क्षिप्तं च भवति कुशलकर्मारसुपरितापितं च सुपरिपिण्डितं च सुपरिशोधितं च सुपर्यवदापितं च सुनिर्विद्धं च रत्नसूत्रस्वाविद्धं च उच्चवैडूर्यमणिरत्नदण्डध्वजाग्रावरोपितं च सर्वावभासप्रमुक्तं च राजानुज्ञातं च भवति, तदा सर्वसत्त्वानां सर्वरत्नसंग्रहाय प्रत्युपस्थितं भवति, एवमेव भो जिनपुत्र यदा बोधिसत्त्वानां सर्वज्ञतारत्नचित्तोत्पादो दशार्यरत्नगोत्राण्यतिक्रम्योत्पन्नो भवति धूतगुणसंलेखशीलव्रततपःसुपरितापितश्च ध्यानसमाधिसमापत्तिसुपरिपिण्डितश्च मार्गाङ्गाकारसुपरिशोधितश्च

उपायाभिज्ञासुपर्यवदापितश्च प्रतीत्यसमुत्पादसुनिर्विद्धश्च उपायप्रज्ञाविचित्ररत्नसूत्रस्वाविद्धश्च वशितामहावैडूर्यमणिरत्नदण्डध्वजाग्रावरोपितश्च सत्त्वचरितप्रत्यवेक्षणश्रुतज्ञानावभाससंप्रयुक्तश्च तथागतधर्मराजसम्यक्संबुद्धज्ञानाभिषेकानुगतश्च भवति, तदा सर्वसत्त्वानां सर्वबुद्धकार्यरत्नसंग्रहाय प्रत्युपस्थितो भवति, तदा च सर्वज्ञ इत्याख्यायते॥



अयं खलु पुनर्भो जिनपुत्र बोधिसत्त्वचर्यासमुदानयनः सर्वाकारसर्वज्ञज्ञानगुणसंचयो धर्ममुखपरिवर्तो नानवरोपितकुशालमूलानां सत्त्वानां श्रवणावभासमागमिष्यति॥



विमुक्तिचन्द्रो बोधिसत्त्व आह - येषां पुनर्भो जिनपुत्र अयं सर्वाकारसर्वज्ञज्ञानगुणसंचयो धर्ममुखपरिवर्तः श्रवणावभासमागमिष्यति, ते कियता पुण्योपचयेन समन्वागता भविष्यन्ति? वज्रगर्भो बोधिसत्त्व आह - यावान् भो जिनपुत्र सर्वज्ञज्ञानस्य प्रभावस्तावान् सर्वज्ञताचित्तोत्पादसंग्रहालम्बनात्पुण्योपचयः स्यात्। यावान् सर्वज्ञताचित्तोत्पादसंग्रहालम्बनतः पुण्योपचयस्तावानेवास्य धर्ममुखपरिवर्तस्याभिमुखः पुण्योपचयोऽनुगन्तव्यः। तत्कस्य हेतोः? न हि भो जिनपुत्र शक्यं अन्यत्र बोधिसत्त्वेन अयं सर्वाकारसर्वज्ञज्ञानगुणसंचयो धर्ममुखपरिवर्तः श्रोतुं वा अधिमोक्तुं वा प्रत्येतुं वा उद्ग्रहीतुं वा धारयितुं वा संधारयितुं वा। कः पुनर्वादो भावनाकारप्रयोगोद्योगनिष्पादनेषु? तस्मात्तर्हि भो जिनपुत्र सर्वज्ञज्ञानमुखानुगतास्ते संधारयितव्याः, ये इमं सर्वज्ञज्ञानगुणसंचयधर्ममुखपरिवर्तं श्रोप्यति, श्रुत्वा चाधिमोक्ष्यन्ते, अधिमुच्य चाधारयिष्यन्ति, भावनाकारेण प्रयोक्ष्यन्ते॥



अथ खलु तस्यां वेलायां बुद्धानुभावेन धर्मताप्रतिलम्भेन च दशदिग्लोकदशबुद्धक्षेत्रकोटिपरमाणुरजःसमा लोकधातवः षड्विकारमष्टादशमहानिमित्तमकम्पन्त प्राकम्पन्त संप्राकम्पन्त। अचलन् प्राचलन् संप्राचलन्। अवेधन्त प्रावेधन्त संप्रावेधन्त। अरणन् प्रारणन् संप्रारणन्। अक्षुम्यन् प्राक्षुभ्यन् संप्राक्षुम्यन्। अगर्जन् प्रागर्जन् संप्रागर्जन्। दिव्याश्च पुष्पगन्धमाल्यमेघा अभिप्रावर्षन्। दिव्याश्च वस्त्रमेघा दिव्याश्चूर्णमेघा दिव्या रत्नमेघा दिव्या आभरणमेघा दिव्या छत्रमेघा दिव्या ध्वजमेघा दिव्या पताकामेघा अभिप्रावर्षन्। दिव्यं च सूर्यचक्रात्मभावमण्डलमणिराजसुमेरुमेघवर्षमभिप्रावर्षन्। दिव्यं च सर्वरुतरवितवाद्यमणिराजसुमेरुमेघवर्षमभिप्रावर्षन्। दिव्यं च जाम्बूनदकनकवर्णप्रभामण्डलमणिराजसुमेरुमेघवर्षमभिप्रावर्षन्। दिव्याश्च तूर्यतालावचरसंगीतिमेघा नदन्ति स्म। दिव्यसमतिक्रान्ताः सर्वज्ञताभूम्यभिष्टवसंगीतिमेघा नदन्ति स्म। यथा चास्यां लोकधातौ चातुर्द्वीपिकायां परनिर्मितवशवर्तिनो देवराजस्य विमाने मणिरत्नगर्भप्रासादे, तथा सर्वलोकधातुषु दश दिशः स्फरित्वा इयमेव धर्मदेशना सर्वत्रैव प्रवर्तते स्म। ...दशभ्यो दिग्भ्यो दशबुद्धक्षेत्रकोटिपरमाणुरजःसमानां लोकधातूनां परेण दशबुद्धक्षेत्रकोटिपरमाणुरजःसमा बोधिसत्त्वा आगच्छन्ति दशदिशं स्फरन्तः। ते च आगत्यैवमाहुः - साधु साधु भो जिनपुत्र, यस्त्वमिमां बोधिसत्त्वभूमिधर्मतां सूचयति। वयमपि भो जिनपुत्र सर्वे वज्रगर्भसमनामका एव वज्रश्रीनामिकाभ्यो नानालोकधातुभ्य इहागता वज्रध्वजनामकानां तथागतानामन्तिकेभ्यः। सर्वासु च तासु लोकधातुषु इयमेव धर्मदेशना प्रवर्तते बुद्धानुभावेन एवंरूपास्वेव पर्षत्सु। एभिरेव पदैरेभिरेव व्यञ्जनैरेभिरेव निरुक्तैरेतमेवार्थमभिलषद्भिरनूनमनधिकमनतिरिक्तम्, ते वयं भो जिनपुत्र साक्षीभूता बुद्धानुभावेनेमां पर्षदं संप्राप्ताः। यथा च भो जिनपुत्र वयमिमां लोकधातुं संप्राप्तास्तथा च दशसु दिक्षु सर्वलोकधातुष्वेकैकस्यां लोकधातौ चातुर्द्वीपिकायां परनिर्मितवशवर्तिभवने वशवर्तिनो देवराजस्य विमाने मणिरत्नगर्भप्रासादे संप्राप्ता इति॥



इदमवोचद्वज्रगर्भो बोधिसत्त्वो महासत्त्वोऽभ्यनुज्ञातस्तथागतेन। आत्तमनाः सा च सर्वावती बोधिसत्त्वपर्षत् सा च देवनाग...शुद्धावासपर्षद् भगवांश्च परनिर्मितवशवर्तिषु देवेषु विहरन्नचिराभिसंबुद्धो द्वितीये सप्ताहे वशवर्तिनो देवराजस्य विमाने मणिरत्नगर्भे वज्रगर्भस्य बोधिसत्त्वस्य भाषितमभ्यनन्दन्निति॥



इति परीन्दनापरिवर्तो नामैकादशः॥



इति श्रीबोधिसत्त्वचर्याप्रस्थानो दशभूमीश्वरो नाम महायानसूत्ररत्न‍राजः समाप्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project