Digital Sanskrit Buddhist Canon

९ साधुमती नाम नवमी भूमिः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

9 sādhumatī nāma navamī bhūmiḥ

९ साधुमती नाम नवमी भूमिः।



वज्रगर्भो बोधिसत्त्व आह - योऽयं भवन्तो जिनपुत्रा बोधिसत्त्व एवमप्रमाणज्ञेयविचारितया बुद्ध्या भूयश्चोत्तरान् शान्तान् विमोक्षानध्यवस्यन् अध्यालम्बमानः भूयश्चोत्तरं तथागतज्ञानं सुसमाप्तं विचारयन् तथागतगुह्यानुप्रवेशं चावतरन् अचिन्त्यज्ञानमाहात्म्यं च प्रविचिन्वन् धारणीसमाधिप्रविचयं च परिशोधयन् अभिज्ञावैपुल्यं चाभिनिर्हरन् लोकधातुविभक्तिं चानुगच्छन् तथागतबलवैशाद्यावेणिकबुद्धधर्मासंहार्यतां च परिकर्मयन् तथागतधर्मचक्रप्रवर्तनवृषभतां चानुक्रममाणः महाकरुणाधिष्ठानप्रतिलम्भं चानुत्सृजन् नवमीं बोधिसत्त्वभूमिमाक्रमति। सोऽस्यां साधुमत्यां बोधिसत्त्वभूमौ स्थितः कुशलाकुशलाव्याकृतधर्माभिसंस्कारं च यथाभूतं प्रजानाति। सास्रवानास्रवधर्माभिसंस्कारं च...। लौकिकलोकोत्तरधर्माभिसंस्कारं च...। चिन्त्याचिन्त्यधर्माभिसंस्कारं च...। नियतानियतधर्माभिसंस्कारं च...। श्रावकप्रत्येकबुद्धधर्माभिसंस्कारं च...। बोधिसत्त्वचर्याधर्माभिसंस्कारं च...। तथागतभूमिधर्माभिसंस्कारं च...। संस्कृतधर्माभिसंस्कारं च..। असंस्कृतधर्माभिसंस्कारं च यथाभूतं प्रजानाति॥



स एवंज्ञानानुगतया बुद्ध्या सत्त्वचित्तगहनोपचारं च यथाभूतं प्रजानाति। क्लेशगहनोपचारं च...। कर्मगहनोपचारं च...। इन्द्रियगहनोपचारं च ...। अधिमुक्तिगहनोपचारं च...। धातुगहनोपचारं च...। आशयानुशयगहनोपचारं च...। उपपत्तिगहनोपचारं च...। वासनानुसंधिगहनोपचारं च...। त्रिराशिव्यवस्थानगहनोपचारं च यथाभूतं प्रजानाति। स सत्त्वानां चित्तवैमात्रतां च यथाभूतं प्रजानाति। चित्तविचित्रतां च चित्तक्षणलघुपरिवर्तभङ्गभङ्गतां च चित्तशरीरतां च चित्तानन्त्यसर्वतःप्रभूततां च चित्तप्रभास्वरतां च चित्तसंक्लेशनिःक्लेशतां च चित्तबन्धविमोक्षतां च चित्तमायाविठपनतां च चित्तयथागतिप्रत्युपस्थानतां च यावदनेकानि चित्तनानात्वसहस्राणि यथाभूतं प्रजानाति। स क्लेशानां दूरानुगततां च यथाभूतं प्रजानाति। प्रयोगानन्ततां च...। सहजाविनिर्भागतां च...। अनुशयपर्युत्थानैकार्थतां च...। चित्तसंप्रयोगासंप्रयोगतां च...। उपपत्तिसंधियथागतिप्रत्युपस्थानतां च...। त्रैधातुकविभक्तितां च...। तृष्णाविद्यादृष्टिशल्यमानमहासावद्यतां च...। त्रिविधकर्मणि दानानुपच्छेदतां च...। समासतो यावच्चतुरशीतिक्लेशचरितनानात्वसहस्रानुप्रवेशतां च यथाभूतं प्रजानाति। स कर्मणां कुशलाकुशलाव्याकृततां च...। विज्ञप्त्यविज्ञप्तितां च...। चित्तसहजाविनिर्भागतां च...। स्वरसक्षणक्षीणभङ्गोपचयाविप्रणाशफलानुसंधितां च...। विपाकविपाकतां च... कृष्णशुक्लाकृष्णशुक्लानेकदेशकर्मसमादानवैमात्रतां च...। कर्मक्षेत्राप्रमाणतां च...। आर्यलौकिकप्रविभक्तितां च...। लोकोत्तरधर्मव्यवस्थानतां च...। (सोपादानानुपादानतां च...। संस्कृतासंस्कृततां च।) दृष्टधर्मोपपद्यापरपर्यायवेदनीयतां च...। यानायाननियतानियततां च...। समासतो यावच्चतुरशीतिकर्मनानात्वसहस्रप्रविभक्तिविचयकौशल्यं च यथाभूतं प्रजानाति। स इन्द्रियाणां मृदुमध्याधिमात्रतां च...। पूर्वान्तापरान्तसंभेदासंभेदतां च...। उदारमध्यनिकृष्टतां च...। क्लेशसहजाविनिर्भागतां च...। यानायाननियतानियततां च...। यथापरिपव्कापरिपक्ववैनेयिकतां च...। इन्द्रियजालानुपरिवर्तनलघुभङ्गनिमित्तग्रहणतां च...। इन्द्रियाधिपत्यानवमर्दनीयतां च...। विवर्त्याविवर्त्येन्द्रियप्रविभागतां च...। दूरानुगतसहजाविनिर्भागनानात्वविमात्रतां च, समासतो यावदनेकानीन्द्रियनानात्वसहस्राणि प्रजानाति। सोऽधिमुक्तीनां मृदुमध्याधिमात्रतां च...यावदनेकान्यधिमुक्तिनानात्वसहस्राणि प्रजानाति। स धातूनां....। स आशयानां....। सोऽनुशयानामाशयसहजचित्तसहजतां च....। चित्तसंप्रयोगतां च...। विप्रयोगविभागदूरानुगततां च...। अनादिकालानुद्धटिततां च...। सर्वध्यानविमोक्षसमाधिसमापत्त्यभिज्ञाप्रसह्यतां च। त्रैधातुकसंधिसुनिबद्धतां च। अनादिकालचित्तनिबन्धसमुदाचारतां च। आयतनद्वारसमुदयविज्ञप्तितां च। प्रतिपक्षालाभाद्रव्यभूततां च। भूम्यायतनसमवधानासमवधानतां च। अनन्यार्यमार्गसमुद्धटनतां च प्रजानाति। स उपपत्तिनानात्वतां च। यथाकर्मोपपत्तितां च। निरयतिर्यग्योनिप्रेतासुरमनुष्यदेवव्यवस्थानतां च। रूपारूप्योपपत्तितां च। संज्ञासंज्ञोपपत्तितां च। कर्मक्षेत्रतृष्णास्नेहाविद्यान्धकारविज्ञानबीजपुनर्भवप्ररोहणतां च। नामरूपसहजाविनिर्भागतां च। भवसंमोहतृष्णाभिलाषसंधितां च। भोक्तुकामभवितुकामसत्त्वरत्यनवराग्रतां च। त्रैधातुकावग्रहणसंज्ञानिष्कर्षणतां च प्रजानाति। स वासनानामुपचारानुपचारतां च...। यथागतिसंबन्धवासनावासिततां च। यथासत्त्वचर्याचरणवासिततां च। यथाकर्मक्लेशाभ्यासवासिततां च। कुशलाकुशलाव्याकृतधर्माभ्यासवासिततां च। पुनर्भवगमनाधिवासिततां च...। अनुपूर्वाधिवासिततां च। दूरानुगतानुपच्छेदक्लेशोपकर्षणविकारानुद्धरणवासिततां च। द्रव्यभूताद्रव्यभूतवासिततां च। श्रावकप्रत्येकबुद्धबोधिसत्त्वतथागतदर्शनश्रवणसंवासवासिततां च प्रजानाति। स सत्त्वराशीनां सम्यक्त्वनियततां च प्रजानाति मिथ्यात्वनियततां च। उभयत्वानियततां च...। सम्यग्दृष्टिसम्यग्नियततां च मिथ्यादृष्टिमिथ्या...नियततां च। तदुभयविगमादनियततां च पञ्चानन्तर्यान्यतममिथ्यादृष्टिनियततां च...। पञ्चेन्द्रियसम्यग्नियततां च...। अष्टमिथ्यात्वमिथ्यानियततां च...। सम्यक्त्वसम्यग्नियततां च...। अपुनःकारिततां च...। मात्सर्येर्ष्याघृणोपचाराविनिवृत्त्या मिथ्यानियततां च...। आर्यानुत्तरमार्गभावनोपसंहारसम्यक्त्वनियततां च...। तदुभयविगमादनियतराश्युपदेशतां च प्रजानाति। इति हि भो जिनपुत्र एवंज्ञानानुगतो बोधिसत्त्वः साधुमत्यां बोधिसत्त्वभूमौ प्रतिष्ठित इत्युच्यते॥



सोऽस्यां साधुमत्यां बोधिसत्त्वभूमौ स्थित एवं चर्याविमात्रतां सत्त्वानामज्ञाय तथैव मोक्षोपसंहारमुपसंहरति। स सत्त्वपरिपाकं प्रजानाति। सत्त्वविनयं च...। श्रावकयानदेशनां च। प्रत्येकबुद्धयानदेशनां च। बोधिसत्त्वयानदेशनां च। तथागतभूमिदेशनां च प्रजानाति। स एवं ज्ञात्वा तथत्वाय सत्त्वेभ्यो धर्मं देशयति।

यथाशयविभक्तितो यथानुशयविभक्तितो यथेन्द्रियविभक्तितो यथाधिमुक्तिविभक्तितो यथागोचरविभागज्ञानोपसंहारतः सर्वगोचरज्ञानानुगमनतो यथाधातुगहनोपचारानुगमनतो यथागत्युपपत्तिक्लेशकर्मवासनानुवर्तनतो यथाराशिव्यवस्थानानुगमनतो यथायानाधिमोक्षविमुक्तिप्राप्तितोऽनन्तवर्णरूपकायसंदर्शनतः सर्वलोकधातुमनोज्ञस्वरविज्ञापनतः सर्वरुतरवितपरिज्ञानतः सर्वप्रतिसंविद्विनिश्चयकौशल्यतश्च धर्मं देशयति॥



सोऽस्यां साधुमत्यां बोधिसत्त्वभूमौ स्थितः सन् बोधिसत्त्वो धर्मभाणकत्वं कारयति, तथागतधर्मकोशं च रक्षति। स धर्माभाणकगतिमुपगतोऽप्रमाणज्ञानानुगतेन कौशल्येन चतुःप्रतिसंविदभिनिर्हृतया बोधिसत्त्ववाचा धर्मं देशयति। तस्य सततसमितमसंभिन्नाश्चतस्रो बोधिसत्त्वप्रतिसंविदोऽनुप्रवर्तन्ते। कतमाश्चतस्रः? यदुत धर्मप्रतिसंवित् अर्थप्रतिसंवित् निरुक्तिप्रतिसंवित् प्रतिभानप्रतिसंवित्॥



स धर्मप्रतिसंविदा स्वलक्षणं धर्माणां प्रजानाति। अर्थप्रतिसंविदा विभक्तिं धर्माणां प्रजानाति। निरुक्तिप्रतिसंविदा असंभेददेशनां धर्माणां प्रजानाति। प्रतिभानप्रतिसंविदा अनुप्रबन्धानुपच्छेदतां धर्माणां प्रजानाति॥



पुनरपरं धर्मप्रतिसंविदा अभावशरीरं धर्माणां प्रजानाति। अर्थप्रतिसंविदा उदयास्तगमनं धर्माणां प्रजानाति। निरुक्तिप्रतिसंविदा सर्वधर्मप्रज्ञप्त्यच्छेदनधर्मं देशयति। प्रतिभानप्रतिसंविदा यथाप्रज्ञप्त्यविकोपनतापर्यन्ततया धर्मं देशयति॥



पुनरपरं धर्मप्रतिसंविदा प्रत्युत्पन्नविभक्तिं धर्माणां प्रजानाति। अर्थप्रतिसंविदा अतीतानागतविभक्तिं धर्माणां प्रजानाति। निरुक्तिप्रतिसंविदा अतीतानागप्रत्युत्पन्नासंभेदतो धर्मं देशयति। प्रतिभानप्रतिसंविदा एकैकमध्वानमारभ्य अपर्यन्तधर्मालोकतया धर्मं देशयति॥



पुनरपरं धर्मप्रतिसंविदा धर्मप्रभेदं प्रजानाति। अर्थप्रतिसंविदा अर्थप्रभेदं प्रजानाति। निरुक्तिप्रतिसंविदा यथारुतदेशनतया धर्मं देशयति। प्रतिभानप्रतिसंविदा यथानुशयज्ञानं देशयति॥



पुनरपरं धर्मप्रतिसंविदा धर्मज्ञानविभक्त्यसंभेदकौशल्यं प्रजानाति। अर्थप्रतिसंविदा अन्वयज्ञानतथात्वव्यवस्थानं प्रजानाति। निरुक्तिप्रतिसंविदा संवृतिज्ञानसंदर्शनासंभेदतया निर्दिशति। प्रतिभानप्रतिसंविदा परमार्थज्ञानकौशल्येन धर्मं देशयति॥



पुनरपरं धर्मप्रतिसंविदा एकनयाविकोपं धर्माणां प्रजानाति। अर्थप्रतिसंविदा स्कन्धधात्वायतनसत्यप्रतीत्यसमुत्पादकौशल्यानुगममवतरति। निरुक्तिप्रतिसंविदा सर्वजगदभिगमनीयसुमधुरगिरिनिर्घोषाक्षरैर्निर्दिशति। प्रतिभानप्रतिसंविदा भूयो भूयोऽपर्यन्तधर्मावभासतया निर्दिशति॥



पुनरपरं धर्मप्रतिसंविदा एकयानसमवसरणनानात्वं प्रजानाति। अर्थप्रतिसंविदा प्रविभक्तयानविमात्रतां प्रजानाति। निरुक्तिप्रतिसंविदा सर्वयानान्यभेदेन निर्दिशति। प्रतिभानप्रतिसंविदा एकैकं यानमपर्यन्तधर्माभासेन देशयति॥



पुनरपरं धर्मप्रतिसंविदा सर्वबोधिसत्त्वचरिज्ञानचरिधर्मचरिज्ञानानुगममवतरति। अर्थप्रतिसंविदा दशभूमिव्यवस्थाननिर्देशप्रविभक्तिमवतरति। निरुक्तिप्रतिसंविदा यथाभूमिमार्गोपसंहारसंभेदेन निर्दिशति। प्रतिभानप्रतिसंविदा एकैकां भूमिमपर्यन्ताकारेण निर्दिशति॥



पुनरपरं धर्मप्रतिसंविदा सर्वतथागतैकलक्षणानुबोधमवतरति। अर्थप्रतिसंविदा नानाकालवस्तुलक्षणविभङ्गानुगमं प्रजानाति। निरुक्तिप्रतिसंविदा यथाभिसंबोधिं विभक्तिनिर्देशेन निर्दिशति। प्रतिभानप्रतिसंविदा एकैकं धर्मपदमपर्यन्तकल्पाव्यवच्छेदेन निर्दिशति॥



पुनरपरं धर्मप्रतिसंविदा सर्वतथागतवाग्बलवैशराद्यबुद्धधर्ममहाकरुणाप्रतिसंवित्प्रयोगधर्मचक्रानुप्रवर्तमानसर्वज्ञज्ञानानुगमं प्रजानाति। अर्थप्रतिसंविदा चतुरशीतिसत्त्वचरितसहस्राणां यथाशयं यथेन्द्रियं यथाधिमुक्तिविभक्तितस्तथागतघोषं प्रजानति। निरुक्तिप्रतिसंविदा सर्वसत्त्वचर्यासंभेदतस्तथागतघोषानुरवेण निर्दिशति। प्रतिभानप्रतिसंविदा तथागतज्ञानप्रभाचर्यामण्डलाधिमुक्त्त्या धर्मं देशयति॥



स एवं प्रतिसंविदा ज्ञानाभिनिर्हारकुशलो भो जिनपुत्र बोधिसत्त्वो नवमीं बोधिसत्त्वभूमिमनुप्राप्तस्तथागतधर्मकोशप्राप्तो महाधर्मभाणकत्वं च कुर्वाणः अर्थवतीधारणीप्रतिलब्धश्च भवति। धर्मवती...। ज्ञानाभिनिर्हारवती...। अवभासवती...। वसुमतीधारणी...। सुमतिधारणी...। तेजोधारणी...। असङ्गमुखधारणी...। अनन्त...। विचित्रार्थकोश...। स एवमादीनां धारणीपदानां परिपूर्णानि दशधारणीमुखासंख्येयशतसहस्राणि प्रतिलभते। तथा असंख्येयशतसहस्रानुगतेनैव स्वराङ्गकौशल्येन तावदप्रमाणानुगतेनैव प्रतिभानविभक्तिमुखेन धर्मं देशयति। स एवमप्रमाणैर्धारणीमुखासंख्येयशतसहस्रैर्दशसु दिक्षु अप्रमेयाणां बुद्धानां भगवतां सकाशाद्धर्मं शृणोति। श्रुत्वा च न विस्मारयति। यथाश्रुतं च अप्रमाणविभक्तित एवं निर्दिशति॥



स एकस्य तथागतस्य सकाशाद्दशभिर्धारणीमुखासंख्येयशतसहस्रैर्धर्मान् पर्यवाप्नोति। यथा चैकस्य, एवमपर्यन्तानां तथागतानाम्। स प्रणिधानमात्रेण बहुतरं सम्यक्संबुद्धसकाशाद्धर्ममुखालोकं संप्रतीच्छति, न त्वेव महाबाहुश्रुत्यप्राप्तः श्रावकः श्रुतोद्ग्रहणधारणीप्रतिलब्धः कल्पशतसहस्रोद्ग्रहणाधिष्ठानेन। स एवं धारणीप्राप्तश्च भवति प्रतिभानप्राप्तश्च धर्मसांकथ्यं संनिषण्णः सर्वावतीं त्रिसाहस्रमहासाहस्रलोकधातुं स्फरित्वा यथाशयविभक्तितः सत्त्वेभ्यो धर्मं देशयति धर्मासने निषण्णः। धर्मासनं चास्य तथागतानभिषेकभूमिप्राप्तान् बोधिसत्त्वान् स्थापयित्वा सर्वतो विशिष्टमप्रमाणावभासप्राप्तं भवति। स धर्मासने निषण्ण आकाङ्क्षन् एकघोषोदाहारेण सर्वपर्षदं नानाघोषरुतविमात्रतया संज्ञापयति। आकाङ्क्षन् नानाघोषनानास्वराङ्गविभक्तिभिराज्ञापयति। आकाङ्क्षन् रश्मिमुखोपसंहारैर्धर्ममुखानि निश्चारयति। आकाङ्क्षन् सर्वरोमकूपेभ्यो घोषान्निश्चारयति। आकाङ्क्षन् यावत्त्रिसाहस्रमहासाहस्रायां लोकधातौ रूपावभासास्तेभ्यः सर्वरूपावभासेभ्यो धर्मरुतानि निश्चारयति। आकाङ्क्षन् एकस्वररुतेन सर्वधर्मधातुं विज्ञापयति। आकाङ्क्षन् सर्वरुतनिर्घोषेषु धर्मरुतमधितिष्ठति। आकाङ्क्षन् सर्वलोकधातुपर्यापन्नेभ्यो गीतावाद्यतूर्यशब्देभ्यो धर्मरुतं निश्चारयति। आकाङ्क्षन् एकाक्षररुतात्सर्वधर्मपदप्रभेदरुतं निश्चारयति। आकाङ्क्षन् अनभिलाप्यानभिलाप्यलोकधात्वपर्यन्ततः पृथिव्यप्तेजोवायुस्कन्धेभ्यः सूक्ष्मपरमाणुरजःप्रभेदत एकैकपरमाणुरजोनभिलाप्यानि धर्ममुखानि निश्चारयति। सचेत्तं त्रिसाहस्रमहासाहस्रलोकधातुपर्यापन्नः सर्वसत्त्वा उपसंक्रम्य एकक्षणलवमुहूर्तेन प्रश्नान् परिपृच्छेयुः, एकैकश्च तेषामप्रमाणरुतविमात्रतया परिपृच्छेत्, यं चैकः सत्त्वः परिपृच्छेन्न तं द्वितीयः, तं बोधिसत्त्वः सर्वसत्त्वरुतपदव्यञ्जनमुद्गृह्णियात्। उद्गृह्य चैकरुताभिव्याहारेण तेषां सर्वसत्त्वानां चित्ताशयान् परितोषयेत् (यावदनभिलाप्यलोकधातुर्पयापन्ना वा सत्त्वा उपसंक्रम्य एकक्षणलवमुहूर्तेन प्रश्नान् परिपृच्छेयुः, एकैकश्च तेषामप्रमाणरुतविमात्रतया परिपृच्छेत्, यं चैकः परिपृच्छेन्न तं द्वितीयः, तं बोधिसत्त्व एकक्षणलवमुहूर्तेनैव सर्वमुद्गृह्य एकोदाहारेणैव सर्वानाज्ञापयेत्। यावदनभिलाप्यानपि लोकधातून् स्फरित्वा यथाशयेन्द्रियाधिमुक्तितः सत्त्वेभ्यो धर्मं देशयति। धर्मसांकथ्यं निषण्णश्च तथागताधिष्ठानसंप्रत्येषकः सकलेन बुद्धकार्येण सर्वसत्त्वानां प्रत्युपस्थितो भवति। स भूयस्या मात्रया एवं ज्ञानावभासप्रग्रहणमारभते। सचेदेकस्मिन् वालाग्रप्रसरे यावन्त्यनभिलाप्येषु लोकधातुषु परमाणुरजांसि तावन्तस्तथागतास्तावदप्रमाणप्राप्तेष्वेव पर्षन्मण्डलेषु धर्मं देशयेयुः। एकैकश्च तथागतस्तावदप्रमाणप्राप्तेभ्यः सर्वसत्त्वेभ्यो नानात्वतो धर्मं देशयेत्, एकैकस्मिंश्च सत्त्वाशयसंताने तावदप्रमाणमेव धर्मोपसंहारमुपसंहरेत्। यथा चैकस्तथागतः पर्षन्मण्डले तथा ते सर्वे तथागताः। यथा चैकस्मिन् वालाग्रप्रसरे तथा सर्वस्मिन् धर्मधातौ। तत्रास्माभिस्तादृशं स्मृतिवैपुल्यमभिनिर्हर्तव्यं यथैकक्षणेन सर्वतथागतानां सकाशाद्धर्मावभासं प्रत्येषेमहि एकरुताव्यतिरेकात्। यावन्ति च तानि यथापरिकीर्तितानि पर्षन्मण्डलानि नानानिकायधर्मप्रवणैकपरिपूर्णानि, तत्रास्माभिस्तादृशं प्रज्ञावभासविनिश्चयप्रतिभानं परिशोध्यं यदेकक्षणेन सर्वसत्त्वान् परितोषयेत्, किं पुनरियत्सु लोकधातुषु सत्त्वानि॥



स इमां साधुमतीं बोधिसत्त्वभूमिमनुप्राप्तो बोधिसत्त्वो भूयस्या मात्रया रात्रिंदिवमनन्यमनसिकारप्रयुक्तो भूत्वा बुद्धगोचरानुप्रविष्टस्तथागतसमवधानप्राप्तो गम्भीरबोधिसत्त्वविमोक्षानुप्राप्तो भवति। स एवंज्ञानानुगतो बोधिसत्त्वः समाहितस्तथागतदर्शनं न विजहाति। एकैकास्मिंश्च कल्पेऽनेकान् बुद्धान्, अनेकानि बुद्धशतानि...अनेकानि बुद्धकोटिनयुतशतसहस्राणि...। दृष्ट्वा च सत्करोति गुरुकरोति मानयति पूजयति। औदारिकेन बुद्धदर्शनेन पूजोपस्थानं नोत्सृजति। तांश्च तथागतान् प्रश्नान् परिपृच्छति। स धर्मधरणीनिर्देशाभिनिर्जातो भवति। तस्य भूयस्या मात्रया तानि कुशलमूलान्युत्तप्ततमान्यसंहार्याणि भवन्ति। तद्यथापि नाम भो जिनपुत्रास्तदेव जातरूपमाभरणीकृतं सुपरिनिष्ठितं कुशलेन कर्मारेण राज्ञश्चक्रवर्तिन उत्तमाङ्गे कण्ठे वा आबद्धमसंहार्य भवति सर्वकोट्टराजानां चातुर्द्विपकानां च सत्त्वानामाभरणविकृतैः, एवमेव भो जिनपुत्रा बोधिसत्त्वस्य अस्यां साधुमत्यां बोधिसत्त्वभूमौ स्थितस्य तानि कुशलमूलानि महाज्ञानालोक सुविभक्तान्युत्तप्यन्ते, असंहार्याणि भवन्ति सर्वश्रावकप्रत्येकबुद्धैरधरभूमिस्थितैश्च बोधिसत्त्वैः। तस्य सा कुशलमूलाभा सत्त्वानां क्लेशचित्तगहनान्यवभास्य तत एव व्यावर्तते। तद्यथापि नाम भो जिनपुत्रा द्विसाहस्रिको महाब्रह्मा सर्वस्मिन् द्विसाहस्रिके लोकधातौ गहननिम्नोपचारानवभासयति, एवमेव भो जिनपुत्रा बोधिसत्त्वस्य अस्यां साधुमत्यां बोधिसत्त्वभूमौ स्थितस्य सा कुशलमूलाभा सत्त्वानां क्लेशचित्तगहनान्यवभास्य तत एव व्यावर्तते। तस्य दशभ्यः पारमिताभ्यो बलपारमिता अतिरिक्ततमा भवति, न च परिशेषासु न समुदाचरति यथाबलं यथाभजमानम्। इयं भवन्तो जिनपुत्रा बोधिसत्त्वस्य साधुमती नाम नवमी बोधिसत्त्वभूमिः...महाब्रह्मा भवति महाबलस्थामप्राप्तो द्विसाहस्राधिपतिरभिभूः...पारमितोपदेशेष्वसंहार्यः सत्त्वाशयपरिपृच्छानिर्देशैः। यच्च किंचित्...॥



साधुमती नाम नवमी भूमिः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project