Digital Sanskrit Buddhist Canon

८ अचला नाम अष्टमी भूमिः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

8 acalā nāma aṣṭamī bhūmiḥ

८ अचला नाम अष्टमी भूमिः।



वज्रगर्भो बोधिसत्त्व आह - योऽयं भवन्तो जिनपुत्रा बोधिसत्त्वः सप्तसु बोधिसत्त्वभूमिषु सुकृतविचयः प्रज्ञोपायाभ्यां सुपरिशोधितमार्गः सुसंभृतसंभारः सुपरिबद्धमहाप्रणिधानः अधिष्ठिततथागताधिष्ठानः स्वकुशलमूलबलाधानप्राप्तः तथागतबलवैशारद्यावेणिकबुद्धधर्मानुगतसंज्ञामनसिकारः सुपरिशोधिताध्याशयसंकल्प पुण्यज्ञानबलाभ्युद्गतः महाकरुणाकृपाभ्यां सर्वसत्त्वानुत्सृष्टप्रयोगः अप्रमाणज्ञानपथानुगतः, स सर्वधर्माणामाद्यनुत्पन्नतां च यथाभूतमवतरति। अजाततां च अलक्षणतां च असंभूततां च अविनाशितां च अनिष्ठिततां च अप्रवृत्तितां च अनभिनिवृत्तितां च अभावस्वभावतां च आदिमध्यपर्यवसानसमतां च तथताविकल्पसर्वज्ञज्ञानप्रवेशतां च सर्वधर्माणां यथाभूतमवतरति। स सर्वशश्चित्तमनोविज्ञानविकल्पसंज्ञापगतोऽनवगृहीताकाशसमोऽभ्यवकाशप्रकृतितोऽवतीर्णोऽनुत्पत्तिकधर्मक्षान्तिप्राप्त इत्युच्यते॥



तत्र भवन्तो जिनपुत्रा एवं क्षान्तिसमन्वागतो बोधिसत्त्वः सहप्रतिलम्भादचलाया बोधिसत्त्वभूमेर्गम्भीरं बोधिसत्त्वविहारमनुप्राप्तो भवति दुराज्ञातमसंभिन्नं सर्वनिमित्तापगतं सर्वसंज्ञाग्रहव्यावृत्तमप्रमाणमसंहार्यं सर्वश्रावकप्रत्येकबुद्धैः सर्वविवेकाभिमुखीभूतम्। तद्यथापि नाम भवन्तो जिनपुत्रा भिक्षुरृद्धिमांश्चेतोवशिपारमिताप्राप्तोऽनुपूर्वेण नवमं निरोधं समापन्नः सर्वेञ्जितमन्यनास्पन्दितविकल्पापगतो भवति, एवमेव भवन्तो जिनपुत्रा बोधिसत्त्वोऽस्या अष्टम्या अचलाया बोधिसत्त्वभूमेः सहप्रतिलम्भात्सर्वाभोगविगतोऽनाभोगधर्मताप्राप्तः कायवाक्चित्तौत्सुक्यापगतः सर्वेञ्जितमन्यनास्पन्दितविकल्पापगतो विपाकधर्मतावस्थितो भवति। तद्यथापि नाम भो जिनपुत्राः पुरुषः सुप्तः स्वप्नान्तरगतो महौघप्राप्तमात्मानं संजानीते। स तत्र महद्व्यायामौत्सुक्यमारभेतोत्तरणाय। स तेनैव महता व्यायामौत्सुक्येन विबुध्येत। समनन्तरविबुद्धश्च व्यायामौत्सुक्यभयापगतो भवेत्। एवमेव भो जिनपुत्रा बोधिसत्त्वश्चतुर्महौघप्राप्तं सत्त्वकायं संजानान उत्तरणाभिप्रायः सर्वज्ञज्ञानाभिसंबोधाय महद्व्यायामौत्सुक्यमारभते। स महावीर्यारम्भप्राप्तः समनन्तरमनुप्राप्त इमामचलां बोधिसत्त्वभूमिं सर्वाभोगविगतो भवति। तस्य सर्वेण सर्वं द्वयसमुदाचारो वा निमित्तसमुदाचारो वा नाभासीभवति। तद्यथापि नाम भो जिनपुत्रा ब्रह्मलोकोपपत्तिस्थितः कामावचरान् क्लेशान् न समुदाचरति, एवमेव भो जिनपुत्रा बोधिसत्त्वोऽचलायां बोधिसत्त्वभूमौ स्थितः सर्वचित्तमनोविज्ञानसमुदाचारान्न समुदाचरति। सर्वबुद्धसमुदाचारमपि...बोधिसमुदाचारमपि...बोधिसत्त्वसमुदाचारमपि...प्रत्येकबुद्धसमुदाचारमपि...श्रावकसमुदाचारमपि...-निर्वाणसमुदाचारमपि...अर्हत्समुदाचारमपि...अनागामिसमुदाचारमपि...निर्वाणसमुदाचारमपि...अर्हत्समुदाचारमपि...-अनागामिसमुदाचारमपि...सकृदागामिसमुदाचारमपि...स्रोतआपन्नसमुदाचारमपि न समुदाचरति। कः पुनर्वादो लौकिकान् समुदाचारान् समुदाचरिष्यतीति॥



तस्य खलु भो जिनपुत्र बोधिसत्त्वस्य एवमिमामचलां बोधिसत्त्वभूमिमनुगतस्य पूर्वप्रणिधानबलाधानस्थितस्य बुद्धा भगवन्तस्तस्मिन् धर्ममुखस्रोतसि तथागतज्ञानोपसंहारं कुर्वन्ति। एवं चैनं ब्रुवन्ति - साधु साधु कुलपुत्र। एषा परमार्थक्षान्तिर्बुद्धधर्मानुगमाय। अपि तु खलु पुनः कुलपुत्र या अस्माकं दशबलचतुर्वैशारद्यबुद्धधर्मसमृद्धिः, सा तव नास्ति। तस्या बुद्धधर्मसमृद्धेः पर्येषणाय अभियोगं कुरु, वीर्यमारभस्व। एतदेव क्षान्तिमुखं मोन्मोक्षीः। अपि तु खलु पुनः कुलपुत्र किंचापि त्वयैवं शान्तविमोक्षविहारोऽनुप्राप्तः, इमान् पुनरशान्तानप्रशान्तान् बालपृथग्जनान् नानाक्लेशसमुदाचारप्राप्तान् विविधवितर्कोपहतमानसान् समन्वाहर, अपेक्षस्व। अपि तु खलु पुनः कुलपुत्र पूर्वप्रणिधानमनुस्मर सत्त्वार्थसंप्रापणं ज्ञानमुखाचिन्त्यतां च। अपि तु खलु पुनः कुलपुत्र एषा सर्वधर्माणां धर्मता। उत्पादाद्वा तथागतानामनुत्पादाद्वा स्थितैवैषा धर्मता धर्मधातुस्थितिः यदिदं सर्वधर्मशून्यता सर्वधर्मानुपलब्धिः। नैतया तथागता एव केवलं प्रभाव्यन्ते, सर्वश्रावकप्रत्येकबुद्धा अपि ह्येतामविकल्पधर्मतामनुप्राप्नुवन्ति। अपि तु खलु पुनः कुलपुत्र प्रेक्षस्व तावत् त्वमस्माकं कायाप्रमाणतां च ज्ञानाप्रमाणतां च बुद्धक्षेत्राप्रमाणतां च ज्ञानाभिनिर्हाराप्रमाणतां च प्रभामण्डलाप्रमाणतां च स्वराङ्गविशुद्ध्यप्रमाणतां च। तथैव त्वमप्यभिनिर्हारमुत्पादय। अपि तु खलु पुनः कुलपुत्र एकस्त्वेष आलोको योऽयं सर्वधर्मनिर्विकल्पालोकः। ईदृशास्तु कुलपुत्र धर्मालोकास्तथागतानामपर्यन्तगता अपर्यन्तकृता अपर्यन्तबद्धाः, येषां संख्या नास्ति, गणना प्रमाणमुपनिषदौपम्यं नास्ति, तेषामधिगमाय अभिनिर्हारमुत्पादय। अपि तु खलु पुनः कुलपुत्र प्रेक्षस्व तावद्दशसु दिक्षु अप्रमाणक्षेत्रतां च अप्रमाणसत्त्वतां च अप्रमाणधर्मविभक्तितां च। तत्सर्वमनुगणय। यथावत्तया अभिनिर्हारमुत्पादय। इति हि भो जिनपुत्र ते बुद्धा भगवन्त एवंभूम्यनुगतस्य बोधिसत्त्वस्य एवं प्रमुखान्यप्रमेयाण्यसंख्येयानि ज्ञानाभिनिर्हारमुखान्युपसंहरन्ति, यैर्ज्ञानाभिनिर्हारमुखैर्बोधिसत्त्वोऽप्रमाणज्ञानविभक्तितोऽभिनिर्हारकर्माभिनिष्पादयति॥



आरोचयामि ते भो जिनपुत्र, प्रतिवेदयामि। ते चेद्बुद्धा भगवन्तस्तं बोधिसत्त्वमेवं सर्वज्ञज्ञानाभिनिर्हारमुखेषु नावतारयेयुः, तदेवास्य परिनिर्वाणं भवेत्सर्वसत्त्वकार्यप्रतिप्रस्रब्धिश्च। तेन खलु पुनर्बुद्धा भगवन्तस्तस्य बोधिसत्त्वस्य तावदप्रमाणं ज्ञानाभिनिर्हारकर्मोपसंहरन्ति, यस्यैकक्षणाभिनिर्हृतस्य ज्ञानाभिनिर्हारकर्मणः स पूर्वकः प्रथमचित्तोत्पादमुपादाय यावत्सप्तमीं भूमिप्रतिष्ठामुपागत आरम्भः शततमीमपि कलां नोपेति, सहस्रतमीमपि, शतसहस्रतमीमपि...पेयालं...कोटीनियुतशतसहस्रतमीमपि कलां नोपेति, संख्यामपि, गणनामपि, उपमामपि, उपनिसामपि, यावदौपम्यमपि न क्षमते। तत्कस्य हेतोः? तथा हि भो जिनपुत्र पूर्वमेककायाभिनिर्हारतया चर्याभिनिर्हारोऽभूत्। इमां पुनर्भूमिं समारूढस्य बोधिसत्त्वस्य अप्रमाणकायविभक्तितो बोधिसत्त्वचर्याबलं समुदागच्छति। अप्रमाणघोषाभिनिर्हारतः अप्रमाणज्ञानाभिनिर्हारतः अप्रमाणोपपत्त्यभिनिर्हारतः अप्रमाणक्षेत्रपरिशोधनतः अप्रमाणसत्त्वपरिपाचनतः अप्रमाणबुद्धपूजोपस्थानतः अप्रमाणधर्मकायानुबोधतः अप्रमाणाभिज्ञाबलाधानाभिनिर्हारतः अप्रमाणपर्षन्मण्डलविभक्त्यभिनिर्हारतश्च अप्रमाणानुगतेन कायवाङ्मनस्कर्माभिनिर्हारेण सर्वबोधिसत्त्वचर्याबलं समुदागच्छत्यविचाल्ययोगेन। तद्यथापि नाम भो जिनपुत्र महासमुद्रगामी पोतोऽप्राप्तो महासमुद्रं साभोगवाहनो भवति। स एव समनन्तरमनुप्राप्तो महासमुद्रमनाभोगवाहनो वातमण्डलीप्रणीतो यदेकदिवसेन महासमुद्रे क्रमते, तत्सर्वसाभोगवाहनतया न शक्यं वर्षशतेनापि तावदप्रमेयमनुप्राप्तुम्। एवमेव भो जिनपुत्र बोधिसत्त्वः सुसंभृतमहाकुशलमूलसंभारो महायानसमुदागमाभिरूढो महाबोधिसत्त्वचर्यासागरमनुप्राप्तो यदेकमुहूर्तेन ज्ञानानाभोगतया सर्वज्ञज्ञानेनाक्रमति, तन्न शक्यं पूर्वकेण साभोगकर्मणा कल्पशतसहस्रेणापि तावदप्रमेयमनुप्राप्तुम्॥



तत्र भो जिनपुत्र बोधिसत्त्वोऽष्टमीं बोधिसत्त्वभूमिमनुप्राप्तो महत्या उपायकौशल्यज्ञानाभिनिर्हारानाभोगप्रसृतया बोधिसत्त्वबुद्ध्या सर्वज्ञज्ञानं विचारयन् लोकधातुसंभवं च विचारयति, लोकधातुविभवं च विचारयति। स यथा च लोकः संवर्तते, तं च प्रजानाति। यथा च लोको विवर्तते,...। येन च कर्मोपचयेन लोकः संवर्तते,...। येन च कर्मक्षयेण लोको विवर्तते,...। यावत्कालं च लोकः संवर्तते, ...। यावत्कालं च लोको विवर्तते, ...। यावत्कालं च लोकं संवृत्तस्तिष्ठति,...। यावत्कालं च लोको विवृत्तस्तिष्ठति, तं च प्रजानाति सर्वत्र चानवशेषतः। स पृथिवीधातुपरीत्ततां च प्रजानाति महद्गततां च...अप्रमाणतां च...विभक्तितां च प्रजानाति। अब्धातु...। तेजोधातु...। वायुधातु...। स परमाणुरजःसूक्ष्मतां च प्रजानाति, महद्गततां च अप्रमाणतां च विभक्तितां च प्रजानाति।

अप्रमाणपरमाणुरजोविभक्तिकौशल्यं च प्रजानाति। अस्यां च लोकधातौ यावन्ति पृथिवीधातोः परमाणुरजांसि तानि प्रजानाति। यावन्ति अब्धातोः...। तेजोधातोः...। वायुधातोः...। यावन्त्यो रत्नविभक्तयो यावन्ति च रत्नपरमाणुरजांसि तानि प्रजानाति। सत्त्वकाय...। क्षेत्रकाय...। स सत्त्वानां कायौदारिकतां च कायसूक्ष्मतां च कायविभक्तितां च प्रजानाति। यावन्ति परमाणुरजांसि संभूतानि नैरयिककायाश्रयतस्तानि प्रजानाति। तिर्यग्योनिकायाश्रयतः...। ...यमलोककायाश्रयतः...। ...असुरलोककायाश्रयतः....। देवलोककायाश्रयतः ....। मनुष्यलोककायाश्रयतः....। स एवं परमाणुरजःप्रभेदज्ञानावतीर्णः कामधातुसंवर्तं च प्रजानाति। रूपधातुविवर्तं...। आरूप्यधातुविवर्तं च प्रजानाति। रूपधातुपरीत्ततां.... आरूप्यधातुपरीत्ततां...। ख़ामधातुपरीत्ततां च महद्गततां च अप्रमाणतां च विभक्तितां च प्रजानाति। रूपधातुपरीत्ततां... आरूप्यधातुपरीत्ततं...। कामधातुपरीत्ततां च महद्गततां च अप्रमाणतां च विभक्तितां च प्रजानाति। रूपधात्वारूप्यधातुपरीत्ततां...। त्रैधातुकविचारज्ञानानुगमे स्वभिनिर्हृतज्ञानालोकः सत्त्वकायप्रभेदज्ञानकुशलः क्षेत्रकायविभागज्ञानकुशलश्च सत्त्वोपपत्त्यायतनाभिनिर्हारे बुद्धिं चारयति। स यादृशी सत्त्वानामुपपत्तिश्च कायसमुदागमश्च, तादृशमेव स्वकायमधितिष्ठति सत्त्वपरिपाचनाय। स एकामपि त्रिसाहस्रमहासाहस्रां लोकधातुं स्फरित्वा सत्त्वानां स्वकायं विभक्त्यधिमुक्तिषु तथत्वायोपपत्तयेऽभिनिर्हरति प्रतिभासज्ञानानुगमनतया (यथा सत्त्वाः परिपाकं गच्छन्त्यनुत्तरसम्यक्संबोधिविमुक्तये)। एवं द्वे वा तिस्रो वा चतस्रो वा पञ्च वा दश वा विंशतिर्वा त्रिंशद्वा चत्वारिंशद्वा पञ्चाशद्वा शतं वा यावदनभिलाप्या अपि त्रिसाहस्रमहासाहस्रा लोकधातूः स्फरित्वा सत्त्वानां स्वकायं...पेयालं...प्रतिभासज्ञानानुगमनतया। स एवंज्ञानसमन्वागतोऽस्यां भूमौ सुप्रतिष्ठित एकबुद्धक्षेत्राच्च न चलति, अनभिलाप्येषु बुद्धक्षेत्रेषु तथागतपर्षन्मण्डलेषु च प्रतिभासप्राप्तो भवति॥



यादृशी सत्त्वानां कायविभक्तिश्च वर्णलिङ्गसंस्थानारोहपरिणाहाधिमुक्त्यध्याशयश्च तेषु बुद्धक्षेत्रेषु तेषु च पर्षन्मण्डलेषु तत्र तत्र तथा तथा स्वकायमादर्शयति। स श्रमणपर्षन्मण्डलेषु श्रमणवर्णरूपमादर्शयति। ब्राह्मणपर्षन्मण्डलेषु ब्राह्मणवर्णरूपमादर्शयति। क्षत्रिय...। वैश्य...। शूद्र...। गृहपति...। चातुर्महाराजिक...। त्रायस्त्रिंश...। एवं याम...। तुषित...। निर्माणरति...। परनिर्मितवशवर्ति...। मार...। ब्रह्म...। यावदकनिष्ठ...। श्रावकवैनेयिकानां सत्त्वानां श्रावककायवर्णरूपमादर्शयति। प्रत्येकबुद्धवैनेयिकानां सत्त्वानां प्रत्येकबुद्धकायवर्णरूपमादर्शयति। बोधिसत्त्व...। तथागत...। इति हि भो जिनपुत्र यावन्तोऽनभिलाप्येषु बुद्धक्षेत्रेषु सत्त्वानामुपपत्त्यायतनाधिमुक्तिप्रसरास्तेषु तथत्वाय स्वकायविभक्तिमादर्शयति॥



स सर्वकायविकल्पापगतः कायसमताप्राप्तः (तच्चास्य कायसंदर्शनमक्षूणमवन्ध्यं च सत्त्वपरिपाकविनयाय) स सत्त्वकायं च प्रजानाति। क्षेत्रकायं च...। कर्मविपाककायं च...। श्रावककायं च...। प्रत्येकबुद्धकायं च ...। बोधिसत्त्वकायं च...। तथागतकायं च...। ज्ञानकायं च...। धर्मकायं च...। आकाशकायं च प्रजानाति। स सत्त्वानां चित्ताशयाभिनिर्हारमाज्ञाय यथाकालपरिपाकविनयानतिक्रमादाकाङ्क्षन् सत्त्वकायं स्वकायमधितिष्ठति। एवं क्षेत्रकायं कर्मविपाककायं...आत्मकायमधितिष्ठति। स सत्त्वानां चित्ताशयाभिनिर्हारमाज्ञाय यं यमेव कायं यस्मिन् यस्मिन् काये आकाङ्क्षति, तं तमेव कायं तस्मिन् तस्मिन् काये (स्वकायं) अधितिष्ठति। स सत्त्वकायानां कर्मकायतां च प्रजानाति। विपाककायतां च...। क्लेशकायतां च...। रूपकायतां च...। आरूप्यकायतां च प्रजानाति। क्षेत्रकायानां परीत्ततां च प्रजानाति, महद्गततां च अप्रमाणतां च संक्लिष्टतां च विशुद्धतां च व्यत्यस्ततां च अधोमूर्धतां च समतलतां च समवसरणतां च दिग्जालविभागतां च प्रजानाति। कर्मविपाककायानां विभक्तिसंकेतं प्रजानाति। एवं श्रावकाकायानां प्रत्येकबुद्धकायानां बोधिसत्त्वकायानां विभक्तिसंकेतं प्रजानाति। तथागतकायानामभिसंबोधिकायतां च प्रजानाति। प्रणिधानकायतां च...। निर्माणकायतां च। अधिष्ठानकायतां च। रूपलक्षणानुव्यञ्जनविचित्रालंकारकायतां च। प्रभाकायतां च। मनोमयकायतां च। पुण्यकायतां च। ज्ञानकायतां च। धर्मकायतां च प्रजानाति। ज्ञानकायानां सुविचारिततां च प्रजानाति। यथावन्निस्तीरणतां च फलप्रयोगसंगृहीततां च लौकिकलोकोत्तरविभागतां च त्रियाणव्यवस्थानतां च साधारणासाधारणतां च नैर्याणिकानैर्याणिकतां च शैक्षाशैक्षतां च प्रजानाति। धर्मकायानां समतां च प्रजानाति। अविकोपनतां च अवस्थानसंकेतसंवृत्तिव्यवस्थानतां च सत्त्वासत्त्वधर्मव्यवस्थानतां च बुद्धधर्मार्यसंघव्यवस्थानतां च प्रजानाति। आकाशकायानामप्रमाणतां च सर्वत्रानुगततां च अशरीरतां च अवितथानन्ततां च रूपकायाभिव्यक्तितां च प्रजानाति॥



स एवं कायज्ञानाभिनिर्हारप्राप्तो वशवर्ती भवति सर्वसत्त्वेषु। आयुर्वशितां च प्रतिलभतेऽनभिलाप्यानभिलाप्यकल्पायुःप्रमाणाधिष्ठानतया। चेतोवशितां च प्रतिलभतेऽप्रमाणासंख्येयसमाधिनिध्यप्तिज्ञानप्रवेशतया। परिष्कारवशितां च सर्वलोकधात्वनेकव्यूहालंकारप्रतिमण्डिताधिष्ठानसंदर्शनतया। कर्मवशितां च यथाकालं कर्मविपाकाधिष्ठानसंदर्शनतया। उपपत्तिवशितां च सर्वलोकधातूपपत्तिसंदर्शनतया अधिमुक्तिसंदर्शनतया सर्वलोकधातुबुद्धप्रतिपूर्णसंदर्शनतया प्रणिधानसंदर्शनतया यथेष्टबुद्धक्षेत्रकालाभिसंबोधिसंदर्शनतया ऋद्धिसंदर्शनतया सर्वबुद्धक्षेत्रऋद्धिविकुर्वणसंदर्शनतया धर्मसंदर्शनतया अनन्तमध्यधर्ममुखालोकसंदर्शनतया ज्ञानसंदर्शनतया तथागतबलवैशारद्यावेणिकबुद्धधर्मलक्षणानुव्यञ्जनाभिसंबोधिसंदर्शनतया॥



स आसां दशानां बोधिसत्त्ववशितानां सहप्रतिलम्भेन अचिन्त्यज्ञानी च भवति अतुल्यज्ञानी च अप्रमेयज्ञानी च विपुलज्ञानी च असंहार्यज्ञानी च भवति। तस्यैवंभूम्यनुगतस्य एवं ज्ञानसमन्वागतस्य अत्यन्तागवद्यः कायकर्मसमुदाचारः प्रवर्तते, अत्यन्तानवद्यश्च वाक्...। अत्यन्तानवद्यश्च मनःसमुदाचारः प्रवर्तते। ज्ञानपूर्वंगमो ज्ञानानुपरिवर्ती प्रज्ञापारमिताधिपतेयो महाकरुणापूर्वक उपायकौशल्यसुविभक्तः प्रणिधानस्वभिनिर्हृतस्तथागताधिष्ठानस्वधिष्ठितोऽप्रतिप्रस्रब्धसत्त्वार्थप्रयोगोऽपर्यन्तलोकधातुविभक्तिगतः। समासतो भो जिनपुत्र बोधिसत्त्वस्य इमामचलां बोधिसत्त्वभूमिमनुप्राप्तस्य सर्वबुद्धधर्मसमुदानयनाय कायवाङ्मनस्कर्मसमुदाचारः प्रवर्तते। स एवमिमामचलां बोधिसत्त्वभूमिमनुप्राप्तः सुप्रतिष्ठिताशयबलश्च भवति सर्वक्लेशसमुदाचारापगतत्वात्। सुप्रतिष्ठिताध्याशयबलश्च भवति मार्गाविप्रवासितत्वात्। महाकरुणाबलसुप्रतिष्ठितश्च भवति सत्त्वार्थानुत्सर्गत्वात्। महामैत्रीबल...सर्वजगत्परित्राणत्वात्। धारणीबल...असंप्रमोषधर्मत्वात्। प्रतिभानबल...सर्वबुद्धधर्मप्रविचयविभागकुशलत्वात्। अभिज्ञाबल...अपर्यन्तलोकधातुचर्याविभागकुशलत्वात्। प्रणिधानबल...सर्वबोधिसत्त्वक्रियानुत्सर्गत्वात्। पारमिताबल...सर्वबुद्धधर्मसमुदानयनत्वात्। तथागताधिष्ठानबल...सर्वाकारसर्वज्ञानाभिमुखत्वात्। स एवंबलाधानप्राप्तः सर्वक्रियाश्च संदर्शयति, सर्वक्रियासु च अनवद्यो भवत्यनुपलिप्तश्च॥



इयं भो जिनपुत्र बोधिसत्त्वस्य अष्टमी ज्ञानभूमिरचलेत्युच्यतेऽसंहार्यत्वात्। अविवर्त्यभूमिरित्युच्यते ज्ञानाविवर्त्यत्वात्। दुरासदभूमिरित्युच्यते सर्वजगद्दुर्ज्ञानत्वात्। कुमारभूमिरित्युच्यते अनवद्यत्वात्। जन्मभूमिरित्युच्यते यथाभिप्रायवशवर्तित्वात्। परिनिष्पन्नभूमिरित्युच्यते अपुनःकार्यत्वात्। परिनिष्ठितभूमिरित्युच्यते। सुकृतज्ञानविचयत्वात्। निर्माणभूमिरित्युच्यते स्वभिनिर्हृतप्रणिधानत्वात्। अधिष्ठानभूमिरित्युच्यते। पराविकोपनत्वात्। अनाभोगभूमिरित्युच्यते पूर्वान्ताभिनिर्हृतत्वात्॥



एवं ज्ञानस्वभिनिर्हृतः खलु पुनर्भो जिनपुत्र बोधिसत्त्वो बुद्धगोत्रानुगतो बुद्धगुणप्रभावभासितस्तथागतेर्यापथचर्याचारित्रानुगतो बुद्धविषयाभिमुखः सततसमितं स्वधिष्ठिततथागताधिष्ठानश्च भवति शक्रब्रह्मलोकपालप्रत्युद्गतश्च वज्रपाणिसततानुबद्धश्च समाधिबलानुत्सृष्टश्च च अप्रमाणकायविभक्त्यभिनिर्हृतश्च सर्वकायचर्याबलोपगतश्च महाभिज्ञाविपाकपरिनिष्पन्नश्च अनन्तसमाधिवशवर्ती च अप्रमाणव्याकरणप्रत्येषकश्च यथापरिपवक्कजगदभिसंबोधिनिदर्शकश्च भवति। स एवं ज्ञानभूम्यनुगतो महायानमण्डलानुप्रविष्टः सुविचारितमहाज्ञानाभिज्ञः सततसमितं प्रमुक्तप्रज्ञालोकरश्मिरसङ्गधर्मधातुपथावतीर्णो लोकधातुपथविभक्तिकोविदः सर्वाकारगुणसंदर्शकः स्वचित्तोत्पादवशवर्ती पूर्वान्तापरान्तसुविचितज्ञानः सर्वमारपथावर्तनविवर्तनज्ञानानुगतः सर्वतथागतविषयगोचरानुप्रविष्टोऽपर्यन्तलोकधातुप्रसरेषु बोधिसत्त्वचर्यां चरत्यप्रत्युदावर्त्ययोगेन। तत उच्यते बोधिसत्त्वोऽचलां बोधिसत्त्वभूमिमनुप्राप्त इति॥



तत्र भो जिनपुत्र अचलां बोधिसत्त्वभूमिमनुप्राप्तो बोधिसत्त्वः सततसमितमपर्यन्ततथागतदर्शनाविरहितो भवति समाधिबलस्वभिनिर्हृतत्वात्। औदारिकं बुद्धदर्शनपूजोपस्थानं नोत्सृजति। स एकैकस्मिन् कल्पे एकैकस्मिन् लोकधातुप्रसरे अनेकान् बुद्धान्, अनेकानि बुद्धशतानि...पेयालं...अनेकानि बुद्धकोटीनयुतशतसहस्राणि सत्करोति गुरुकरोति मानयति पूजयति सर्वाकारपूजाभिनिर्हारं चोपसंहरति। तांश्च तथागतान् पर्युपास्ते, लोकधातुविभक्तिपूर्वकं च धर्मालोकोपसंहारं प्रतीच्छति। स भूयस्या मात्रया तथागतधर्मकोशप्राप्तोऽसंहार्यो भवति लोकधातुपरिपृच्छानिर्देशेषु। तानि चास्य कुशलमूलान्यनेकान् कल्पानुत्तप्यन्ते...। तद्यथापि नाम भो जिनपुत्र तदेव जातरूपं सुपरिनिष्ठितं कुशलेन कर्मारेण सुपरिकर्मकृतं जम्बूद्वीपस्वामिनः कण्ठे शिरसि वा आबद्धमसंहार्यं भवति सर्वजम्बूद्वीपकानां सत्त्वानामाभरणविकृतैः, एवमेव भो जिनपुत्र अस्यामचलायां बोधिसत्त्वभूमौ स्थितस्य बोधिसत्त्वस्य तानि कुशलमूलान्यसंहार्याणि भवन्ति सर्वश्रावकप्रत्येकबुद्धैर्यावत्सप्तमीभूमिस्थितैश्च बोधिसत्त्वैः। इमां च भूमिमनुगतस्य बोधिसत्त्वस्य महती प्रज्ञाज्ञानप्रभा सत्त्वानां क्लेशतमांसि प्रशमयति सुविभक्तज्ञानमुखाभिनिर्हारतया। तद्यथापि नाम भो जिनपुत्र साहस्रिको महाब्रह्मा साहस्र लोकधातुं मैत्र्या स्फरित्वा प्रभयावभासयति, एवमेव भो जिनपुत्र बोधिसत्त्वोऽस्यामचलायां बोधिसत्त्वभूमौ स्थितो यावद्दशबुद्धक्षेत्रशतसहस्रपरमाणुरजःसमान् लोकधातून् महता मैत्र्यवभासेन स्फरित्वा सत्त्वानां क्लेशपरिदाहाननुपूर्वेण प्रशमयति, आश्रयांश्च प्रह्लादयति। तस्य दशभ्यः पारमिताभ्यः प्रणिधानपारमिता अतिरिक्ततमा भवति, न च परिशेषासु न समुदागच्छति यथाबलं यथाभजमानम्। इयं भवन्तो जिनपुत्रा बोधिसत्त्वस्य अचला नाम अष्टमी बोधिसत्त्वभूमिः समासनिर्देशतः। विस्तरशः पुनरपर्यन्तकल्पनिर्देशनिष्ठातोऽनुगन्तव्या। यस्यां प्रतिष्ठितो बोधिसत्त्वो भूयस्त्वेन महाब्रह्मा भवति साहस्राधिपतिः। अभिभूरनभिभूतोऽन्वर्थदर्शी वशिप्राप्तः कृती प्रभुः सत्त्वानां सर्वश्रावकप्रत्येकबुद्धबोधिसत्त्वपारमितोपदेशोपसंहारेषु असंहार्यो लोकधातुविभक्तिपरिपृच्छानिर्देशेषु। यच्च किंचित्...॥



अचला नाम अष्टमी भूमिः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project