Digital Sanskrit Buddhist Canon

७ दुरंगमा नाम सप्तमी भूमिः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 7 duraṁgamā nāma saptamī bhūmiḥ
७ दुरंगमा नाम सप्तमी भूमिः।



वज्रगर्भ आह - योऽयं भवन्तो जिनपुत्रा बोधिसत्त्वः षष्ट्यां बोधिसत्त्वभूमौ सुपरिपूर्णबोधिसत्त्वमार्गः सप्तमीं बोधिसत्त्वभूमिमाक्रमति, स दशभिरुपायप्रज्ञाज्ञानाभिनिर्हृतैर्मार्गान्तरारम्भविशेषैराक्रमति। कतमैर्दशभिः ? यदुत शून्यतानिमित्ताप्रणिहितसमाधिसुपरिभावितमानसश्च भवति, महापुण्यज्ञानसम्भारोपचयं च संबिभर्ति। नैरात्म्यनिःसत्त्वनिर्जीवनिष्पुद्गलतां च सर्वधर्माणामवतरति, चतुरप्रमाणाभिनिर्हारं च नोत्सृजति। पुण्यधर्मोच्छ्रयपारमिताभिसंस्कारं चाभिसंस्करोति, न च किंचिद्धर्ममभिनिविशते। सर्वत्रैधातुकविवेकप्राप्तश्च भवति, त्रैधातुकविठपनालंकाराभिनिर्हारं चाभिनिर्हरति। अत्यन्तशान्तोपशान्तश्च सर्वक्लेशज्वालापगमाद्भवति, सर्वसत्त्वरागद्वेषक्लेशज्वालाप्रशमाभिनिर्हारं चाभिनिर्हरति। मायामरीचिस्वप्नप्रतिभासप्रतिश्रुत्कोदकचन्द्रप्रतिबिम्बनिर्माणभावाभावस्वभावाद्वयानुगतश्च भवति, कर्मक्रियाविभक्त्यप्रमाणाशयतां चाभिनिर्हरति। आकाशसमक्षेत्रपथसुभावितमनाश्च भवति, बुद्धक्षेत्रविठपनालंकाराभिनिर्हारं चाभिनिर्हरति। प्रकृतिधर्मकायतां च सर्वबुद्धनामवतरति, रूपकायलक्षणानुव्यञ्जनविठपनालंकाराभिनिर्हारं चाभिनिर्हरति।

अनभिलाप्यरुतघोषापगतं च प्रकृतिशान्तं तथागतघोषमधिमुच्यते, सर्वस्वराङ्गविभक्तिविशुद्ध्यलंकाराभिनिर्हारं चाभिनिर्हरति। एकक्षणत्र्यध्वानुबोधं च बुद्धानां भगवतामवतरति, नानालक्षणाकल्पसंख्याविभावनां चानुप्रविशति सत्त्वाशयविभावनाय। एविर्भवन्तो जिनपुत्रा दशभिरुपायप्रज्ञाज्ञानाभिनिर्हृतिभिर्मार्गान्तरारम्भविशेषैर्बोधिसत्त्वः षष्ठ्या बोधिसत्त्वभूमेः सप्तमीं बोधिसत्त्वभूमिमाक्रान्त इत्युच्यते॥



स सप्तम्यां बोधिसत्त्वभूमौ स्थितो बोधिसत्त्वोऽप्रमाणासत्त्वधातुमवतरति। अप्रमाणं च बुद्धानां भगवतां सत्त्वपरिपाचनविनयकर्मावतरति। अप्रमाणं लोकधातुमवतरति। अप्रमाणं च बुद्धानां भगवतां क्षेत्रपरिशुद्धिमवतरति। अप्रमाणं च धर्मनानात्वमवतरति। अप्रमाणं च बुद्धानां भगवतां ज्ञानाभिसंबोधिमवतरति। अप्रमाणं च कल्पसंख्याप्रवेशमवतरति। अप्रमाणं च बुद्धानां भगवतां त्र्यध्वानुबोधमवतरति। अप्रमाणं च सत्त्वानामधिमुक्तिनानात्वविशेषमवतरति। अप्रमाणं च बुद्धानां भगवतां रूपकायनानात्वदर्शनमवतरति। अप्रमाणं च सत्त्वानामाशयेन्द्रियनानात्वमवतरति। अप्रमाणं च बुद्धानां भगवतां घोषोदाहारसत्त्वसंतोषणमवतरति। अप्रमाणं सत्त्वानां चित्तचरितनानात्वमवतरति। अप्रमाणं च बुद्धानां भगवतां ज्ञानप्रसरानुगममवतरति। अप्रमाणं श्रावकयाननिर्याणाधिमुक्तिनानात्वमवतरति। अप्रमाणं च बुद्धानां भगवतां मार्गदेशनावतारमवतरति। अप्रमाणं प्रत्येकबुद्धयानसमुदागमनिष्पत्तिमवतरति। अप्रमाणं च बुद्धानां भगवतां ज्ञानमुखप्रवेशनिर्देशमवतरति। बोधिसत्त्वानां बोधिसत्त्वचर्याप्रयोगमवतरति। अप्रमाणं च बुद्धानां भगवतां महायानसमुदयावतारनिर्देशनामवतरति॥



तस्यैवं भवति - एवमप्रमाणः खलु पुनस्तथागतानामर्हतां सम्यक्संबुद्धानां विषयो यस्य न सुकरा संख्या कर्तुं कल्पकोटिशतसहस्रैर्यावदेतावद्भिरपि कल्पकोटिनियुतशतसहस्रैः। सर्व...विषयोऽस्माभिः समुपस्थापयितव्योऽनाभोगतोऽकल्पाविकल्पतश्च परिपूरयितव्य इति। स एवं सुप्रत्यवेक्षितज्ञानाभिज्ञः सततसमितमभियुक्तोपायप्रज्ञापरिभावितेषु मार्गान्तरारम्भविशेषेषु सुप्रतिष्ठितो भवत्यविचाल्ययोगेन॥



स एकक्षणमपि मार्गाभिनिर्हारान्न व्युत्तिष्ठते। स गच्छन्नेव ज्ञानाभिनिर्हारयुक्तो भवति। तिष्ठन्नपि निषण्णोऽपि शयानोऽपि स्वप्नान्तरगतोऽप्यपगतनीवरणः सर्वेर्यापथे स्थितोऽविरहितो भवति एभिरेवंरूपैः संज्ञामनसिकारैः। तस्य सर्वचित्तोत्पादे दशानां बोधिसत्त्वपारमितानां समुदागमपरिपूरिः समुदागच्छति। तत्कस्माद्धेतोः? तथा हि स बोधिसत्त्वः सर्वांश्चित्तोत्पादानुत्पन्नोत्पन्नान् महाकरुणापूर्वकान् बुद्धधर्मसमुदागमाय तथागतज्ञानाय परिणामयति। तत्र यः कुशलमूलस्य सत्त्वेभ्य उत्सर्गो बुद्धज्ञानं पर्येषमाणस्य, इयमस्य दानपारमिता। यः प्रशमः सर्वक्लेशपरिदाहानाम्, इयमस्य शीलपारमिता। या कृपामैत्रीपूर्वगमा सर्वसत्त्वेषु क्षान्तिः, इयमस्य क्षान्तिपारमिता। य उत्तरोत्तरकुशलधर्मातृप्ततयारम्भः पराक्रमः, इयमस्य वीर्यपारमिता। या विप्रतिसार्यविसृतमार्गता सर्वज्ञज्ञानाभिमुखता, इयमस्य ध्यानपारमिता। या सर्वधर्माणां प्रकृत्यनुत्पादाभिमुखी क्षान्तिः, इयमस्य प्रज्ञापारमिता। योऽप्रमाणाज्ञानाभिनिर्हारः, इयमस्योपायकौशलपारमिता। या सर्वपरप्रवादिमारसंघैर्मार्गानाच्छेद्यता, इयमस्य बलपारमिता। यद्यथावत्सर्वधर्मज्ञाननितीरणम्, इयमस्य ज्ञानपारमिता। एवमस्य भवन्तो जिनपुत्रा बोधिसत्त्वस्य दूरंगमायां बोधिसत्त्वभूमौ स्थितस्य इमा दश पारमिताः क्षणे क्षणे परिपूर्यन्ते। एवं चत्वारि संग्रहवस्तूनि परिपूर्यन्ते, चत्वारि च अधिष्ठानानि, सप्तत्रिंशद् बोधिपक्ष्याश्च धर्माः, त्रीणि च विमोक्षमुखानि, समासतः सर्वबोध्यङ्गिका धर्माः क्षणे क्षणे परिपूर्यन्ते॥



एवमुक्ते विमुक्तिचन्द्रो बोधिसत्त्वो वज्रगर्भं बोधिसत्त्वमेतदवोचत् - किं पुनर्भो जिनपुत्रा अस्यामेव सप्तम्यां बोधिसत्त्वभूमौ स्थितस्य बोधिसत्त्वस्य सर्वबोध्यङ्गिका धर्माः क्षणे क्षणे परिपूर्यन्ते, आहोस्वित्सर्वासु दशसु बोधिसत्त्वभूमिषु? वज्रगर्भ आह - सर्वासु भो जिनपुत्रा दशसु बोधिसत्त्वभूमिषु बोधिसत्त्वस्य सर्वबोध्यङ्गानि क्षणे क्षणे परिपूर्यन्ते, तदतिरेकेण पुनरस्यामेव सप्तम्यां बोधिसत्त्वभूमौ। तत्कस्य हेतोः? इयं भो जिनपुत्रा बोधिसत्त्वभूमिः प्रायोगिकचर्यापरिपूरणी च ज्ञानाभिज्ञानचर्याक्रमणी च। अपि तु खलु पुनर्भो जिनपुत्राः प्रथमायां बोधिसत्त्वभूमौ सर्वप्रणिधानाध्यालम्बेन बोधिसत्त्वस्य सर्वबोध्यङ्गानि क्षणे क्षणे परिपूर्यन्ते। द्वितीयायां चित्तमलापनयनेन। तृतीयायां प्रणिधानविवर्धनतया धर्मावभासप्रतिलम्भेन च। चतुर्थ्यां मार्गावतारेण। पञ्चम्यां लोकत्रयानुवृत्या। षष्ट्यां गम्भीरधर्ममुखप्रवेशेन। अस्यां तु सप्तम्यां बोधिसत्त्वभूमौ सर्वबुद्धधर्मसमुत्थापनतया क्षणे क्षणे सर्वबोध्याङ्गानि परिपूर्यन्ते। तत्कस्य हेतोः? यानि बोधिसत्त्वेन प्रथमां बोधिसत्त्वभूमिमुपादाय यावत्सप्तमी बोधिसत्त्वभूमिरित्यभिनिर्हृतानि ज्ञानाभिनिर्हारप्रयोगाङ्गानि, इमान्यष्टमी बोधिसत्त्वभूमिमारभ्य यावदत्यन्तपर्यवसानमित्यनाभोगेन परिनिष्पद्यन्ते। तद्यथापि नाम भो जिनपुत्रा द्वयोर्लोकधात्वोः संक्लिष्टविशुद्धाशयश्च लोकधातोरेकान्तपरिशुद्धाशयश्च लोकधातोर्लोकान्तरिका दुरतिक्रमा न शक्या यथातथातिक्रमितुमन्यत्र महाभिज्ञाबलाधानात्, एवमेव भो जिनपुत्र व्यामिश्रपरिशुद्धा बोधिसत्त्वचर्यान्तरिका दुरतिक्रमा न शक्या यथातथातिक्रमितुमन्यत्र महाप्रणिधानोपायप्रज्ञाभिज्ञाबलाधानात्। विमुक्तिचन्द्र आह - किं पुनर्भो जिनपुत्र सप्तसु बोधिसत्त्वभूमिषु क्लेशचर्यासंक्लिष्टा बोधिसत्त्वचर्या प्रत्येतव्या ? वज्रगर्भ आह - प्रथमामेव भो जिनपुत्र बोधिसत्त्वभूमिमुपादाय सर्वाबोधिसत्त्वचर्यापगतक्लेशकल्माषा बोधिपरिणामनाधिपत्येन प्रत्येतव्या। यथाभागिमार्गसमतया, (न च) तावत्सप्तसु बोधिसत्त्वभूमिषु समतिक्रान्ता क्लेशचर्येत्यवाचनीया। तद्यथापि नाम भो जिनपुत्र राजा चक्रवर्ती दिव्यं हस्तिरत्नमभिरूढश्चतुरो द्वीपानाक्रमति, मनुष्यदुःखदारिद्र्यसंक्लेशदोषांश्च प्रजानाति, न च तैर्दोषैर्लिप्यते। न च तावत्समतिक्रान्तो मनुष्यभावं भवति। यदा पुनर्मनुष्याश्रयं हित्वा ब्रह्मलोकोपपन्नो भवति ब्राह्म्यविमानमभिरूढः, सहस्रलोकधातुमल्पकृच्छ्रेण पश्यत्यनुविचरति, ब्रह्मप्रतिभासं चादर्शयति, न च मनुष्य इति प्रभाव्यते, एवमेव भोः प्रथमां भूमिमुपादाय बोधिसत्त्वः पारमितायानाभिरूढः सर्वजगदनुविचरन् संक्लेशदोषान् प्रजानाति, न च तैर्दोषैर्लिप्यते सम्यग्मार्गाभिरूढत्वात्। न च तावत्समतिक्रान्तः सर्वजगत्संक्लेशदोषान् वक्तव्यः। सप्तसु भूमिषु सर्वप्रायोगिकचर्यां विहाय सप्तम्या भूमेरष्टमीं बोधिसत्त्वभूमिमवक्रान्तो भवति, तदा परिशुद्धं बोधिसत्त्वयानमभिरूढः सर्वजगदनुविचरन् सर्वजगत्संक्लेशदोषान् प्रजानाति, न च तैर्दोषैर्लिप्यते समतिक्रान्तत्वाद् लोकत्रियाभ्यः। अस्यां पुनर्भो जिनपुत्र सप्यम्यां बोधिसत्त्वभूमौ स्थितो बोधिसत्त्वो भूयस्त्वेन रागादिप्रमुखं सर्वक्लेशगणं समतिक्रान्तो भवति। सोऽस्यां दूरंगमायां बोधिसत्त्वभूमौ चरन् बोधिसत्त्वोऽसंक्लेशानिष्क्लेश इति वक्तव्यः। तत्कस्मात्? असमुदाचारात्सर्वक्लेशानां न संक्लेश इति वक्तव्यः। तथागतज्ञानाभिलाषादपरिपूर्णाभिप्रायत्वाच्च न निष्क्लेश इति वक्तव्यः॥



सोऽस्यां सप्तम्यां बोधिसत्त्वभूमौ स्थितो बोधिसत्त्वोऽध्याशयपरिशुद्धेन कायकर्मणा समन्वागतो भवति। अध्याशयपरिशुद्धेन वाक्कर्मणा अध्याशयपरिशुद्धेन मनस्कर्मणा समन्वागतो भवति। ये चेमे दशाकुशलाः कर्मपथास्तथागतविवर्णिताः, तान् सर्वेण सर्वं समतिक्रान्तो भवति। ये चेमे दश कुशलाः कर्मपथाः सम्यक्संबुद्धानुभाविताः, तान् सततसमितमनुवर्तते। यानि लौकिकानि शिल्पस्थानकर्मस्थानानि यान्यभिनिर्हृतानि पञ्चम्यां बोधिसत्त्वभूमौ, तान्यस्य सर्वाण्यनाभोगत एवं प्रवर्तन्ते। स आचार्यः संमतो भवति त्रिसाहस्र महासाहस्रलोकधातौ, स्थापयित्वा तथागतानर्हतः सम्यक्सम्बुद्धान्, अष्टमीं भूमिमुपादाय च बोधिसत्त्वान्। नास्य कश्चित्समो भवत्याशयेन वा प्रयोगेण वा। यानि चेमानि ध्यानानि समाधयः समपत्तयोऽभिज्ञा विमोक्षाश्च, तान्यस्य सर्वेण सर्वमामुखीभवन्ति भावनाभिनिर्हाराकारेण। न च तावद्विपाकतः परिनिष्पन्नानि भवन्ति तद्यथापि नाम अष्टम्यां बोधिसत्त्वभूमौ स्थितस्य बोधिसत्त्वस्य। अस्यां सप्तम्यां बोधिसत्त्वभूमौ स्थितस्य बोधिसत्त्वस्य सर्वचित्तोत्पादेषु प्रज्ञोपायभावनाबलं परिपूर्यते। भूयस्या मात्रया सर्वबोध्यङ्गपरिपूरिं प्रतिलभते॥



सोऽस्यां सप्तम्यां बोधिसत्त्वभूमौ स्थितः सन् सुविचितविचयं च नाम बोधिसत्त्वसमाधि समापद्यते। सुविचिन्तितार्थं च नाम...। विशेषमतिं च नाम...। प्रभेदार्थकोशं च...। सर्वार्थविचयं च...। सुप्रतिष्ठितदृढमूलं च...। ज्ञानाभिज्ञामुखं च...। धर्मधातु(परि)कर्मं च...। तथागतानुशंसं च...। विचित्रार्थकोशसंसारनिर्वाणमुखं च बोधिसत्त्वसमाधिं समापद्यते। स एवंप्रमुखानि महाभिज्ञाज्ञानमुखानि परिपूर्णानि दश समाधिशतसहस्राणि भूमिपरिशोधिकानि समापद्यते॥



स एषां समाधीनामुपायप्रज्ञासुपरिशोधितानां प्रतिलम्भान्महाकरुणाबलेन चातिक्रान्तो भवति श्रावकप्रत्येकबुद्धभूमिम्, अभिमुखश्च भवति प्रज्ञाज्ञानविचारणाभूमेः॥



तस्य अस्यां सप्तम्यां बोधिसत्त्वभूमौ स्थितस्य बोधिसत्त्वस्य अप्रमाणं कायकर्म निमित्तापगतं प्रवर्तते। अप्रमाणं वाक्कर्म...मनस्कर्म निमित्तापगतं प्रवर्तते सुविशोधितमनुत्पत्तिकधर्मक्षान्त्यवभासितम्। विमुक्तिचन्द्र आह - ननु भो जिनपुत्र, प्रथमायामेव बोधिसत्त्वभूमौ स्थितस्य बोधिसत्त्वस्य अप्रमाणं कायवाङ्मनस्कर्म सर्वश्रावकप्रत्येकबुद्धचर्यां समतिक्रान्तं भवति? वज्रगर्भ आह - भवति भो जिनपुत्र। तत्पुनर्बुद्धधर्माध्यालम्बनमाहात्म्येन, न पुनः स्वबुद्धिविचारेण। अस्यां तु पुनः सप्तम्यां बोधिसत्त्वभूमौ स्वबुद्धिगोचरविचारप्रतिलम्भादसंहार्यं श्रावकप्रत्येकबुद्धैर्भवति। तद्यथापि नाम भवन्तो जिनपुत्रा राजकुलप्रसूतो राजपुत्रो राजलक्षणसमन्वागतो जातमात्र एव सर्वामात्यगणमभिभवति राजाधिपत्येन, न पुनः स्वबुद्धिविचारेण। यदा पुनः स संवृद्धो भवति तदा स्वबुद्धिबलाधानतः सर्वामात्यक्रियासमतिक्रान्तो भवति, एवमेव भो जिनपुत्रा बोधिसत्त्वः सहचित्तोत्पादेन सर्वश्रावकप्रत्येकबुद्धानभिभवत्यध्याशयमाहात्म्येन, न पुनः स्वबुद्धिविचारेण। अस्यां तु सप्तम्यां बोधिसत्त्वभूमौ स्थितो बोधिसत्त्वः स्वविषयज्ञानविशेषमाहात्म्यावस्थितत्वात्सर्वश्रावकप्रत्येकबुद्धक्रियामतिक्रान्तो भवति॥



स खलु पुनर्भो बोधिसत्त्वोऽस्यां सप्तम्यां बोधिसत्त्वभूमौ स्थितो गम्भीरस्य विवित्तस्याप्रचारस्य कायवाङ्मनस्कर्मणो लाभी भवति। न चोत्तरं विशेषपरिमार्गणाभियोगमवसृजति। [येन परिमार्गणाभियोगेन निरोधप्राप्तश्च भवति, न च निरोधं साक्षात्करोति॥ ]



विमुक्तिचन्द्र आह - कतमां भूमिमुपादाय बोधिसत्त्वो निरोधं समापद्यते? वज्रगर्भ आह - षष्ठीं भो जिनपुत्र बोधिसत्त्वभूमिमुपादाय बोधिसत्त्वो निरोधं समापद्यते। अस्यां पुनः सप्तम्यां बोधिसत्त्वभूमौ प्रतिष्ठितो बोधिसत्त्वश्चित्तक्षणे चित्तक्षणे निरोधं समापद्यते च व्युत्तिष्ठते च। न च निरोधः साक्षात्कृत इति वक्तव्यः। तेन सोऽचिन्त्येन कायवाङ्मन स्कर्मणा समन्वागत इत्युच्यते। आश्चर्यं भो यत्र हि नाम बोधिसत्त्वो भूतकोटिविहारेण च विहरति, न च निरोधं साक्षात्करोति। तद्यथापि नाम भो जिनपुत्र पुरुषः कुशलो महासागरे वारिलक्षणाभिज्ञः पण्डितो व्यक्तो मेधावी तत्रोपगतया मीमांसया समन्वागतो महासागरे महायानपात्राभिरूढो वहनकुशलश्च भवति, वारिकुशलश्च भवति, न च महासमुद्रे वारिदोषैर्लिप्यते, एवमेव भो जिनपुत्र अस्यां सप्तम्यां बोधिसत्त्वभूमौ प्रतिष्ठितो बोधिसत्त्वः सर्वज्ञज्ञानमहासागरावतीर्णः पारमितामहायानपात्राभिरूढो भूतकोटिविहारेण च विहरति, न च निरोधं साक्षात्करोति, (न च सस्ंकृतात्यन्तव्युपशमवितर्कदोषैर्लिप्यते)॥



स एवं ज्ञानबलाधानप्राप्तः समाधिज्ञानबलभावनाभिनिर्हृतया बुद्ध्या महतोपायप्रज्ञाबलाधानेन संसारमुखं चादर्शयति। निर्वाणसतताशयश्च भवति। महापरिवारपरिवृतश्च भवति। सततसमितं च चित्तविवेकप्रतिलब्धो भवति। त्रैधातुकोपपत्तिं च प्रणिधानवशेनाभिनिर्हरति सत्त्वपरिपाचनार्थम्। न च लोकदोषैर्लिप्यते। शान्तप्रशान्तोपशान्तश्च भवति। उपायेन च ज्वलति। ज्वलंश्च न दहते। संवर्तते च बुद्धज्ञानेन। विवर्तते च श्रावकप्रत्येकबुद्धभूमिभ्याम्। बुद्धज्ञानविषयकोशप्राप्तश्च भवति। मारविषयगतश्च दृश्यते। चतुर्मारपथसमतिक्रान्तश्च भवति। मारविषयगोचरं चादर्शयति। सर्वतीर्थ्यायतनोपगतश्च दृश्यते। बुद्धतीर्थ्यायतनानुत्सृष्टाशयश्च भवति। सर्वलोकक्रियानुगतश्च दृश्यते। लोकोत्तरधर्मगतिसमवसरणश्च भवति। सर्वदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यशक्रब्रह्मलोकपालातिरेकव्यूहालंकारविठपनाप्राप्तश्च भवति। सर्वबुद्धधर्मतिमनसिकारं च न विजहाति॥



तस्यैवं ज्ञानसमन्वागतस्य अस्यां सप्तस्यां दूरंगमायां बोधिसत्त्वभूमौ स्थितस्य बोधिसत्त्वस्य बहवो बुद्धा आभासमागच्छन्ति...। तांश्च तथागतानर्हतः सम्यक्संबुद्धान् पर्युपासते। तेषां च सकाशाद्गौरवचित्रीकारेण सत्कृत्य धर्मदेशनां शृणोति, उद्गृह्णाति धारयति। श्रुत्वा च यथावत्समापत्तिप्रज्ञाज्ञानालोकेन प्रयुज्यते। प्रतिपत्तितश्चाधारयति। शासनसंधारकश्च भवति तेषां बुद्धानां महात्मनाम्। असंहार्यश्च सर्वश्रावकप्रत्येकबुद्धाभिसमयपरिपृच्छासु। तस्य भूयस्या मात्रया सत्त्वानुग्रहाय गम्भीरधर्मक्षान्तिर्विशुद्ध्यति। तस्य...अनेकान् कल्पांस्तानि कुशलमूलान्युत्तप्यन्ते, परिशुद्ध्यन्ति, कर्मण्यानि च भवन्ति, पर्यवदानं चागच्छन्ति। अनेकानि कल्पशतानि...अनेकानि कल्पकोटिनियुतशतसहस्राणि तानि कुशलमूलान्युत्तप्यन्ते, परिशुद्ध्यन्ति, कर्मण्यानि च भवन्ति, पर्यवदानं चागच्छन्ति। तद्यथापि नाम भो जिनपुत्राः तदेव जातरूपं सर्वरत्नप्रत्युप्तं भूयस्या मात्रयोत्तप्ततरं भवति, प्रभास्वरतरं भवति, असंहार्यतरं च भवत्यन्याभ्यो भूषणविकृतिभ्यः, एवमेव भो जिनपुत्राः...तानि कुशलमूलान्युपायप्रज्ञाज्ञानाभिनिर्हृतानि भूयस्या मात्रयोत्तप्ततराणि भवन्ति प्रभास्वरतराणि, पर्यवदाततराणि असंहार्यतराणि च भवन्ति सर्वश्रावकप्रत्येकबुद्धैः। तद्यथापि नाम भो जिनपुत्राः सूर्याभा असंहार्या भवन्ति सर्वज्योतिर्गणचन्द्राभाभिश्चतुर्षु महाद्वीपेषु, सर्वस्नेहगतानि भूयस्त्वेन परिशोषयन्ति, सर्वशस्यानि परिपाचयन्ति, एवमेव भो जिनपुत्रा...तानि कुशलमूलान्यसंहार्याणि भवन्ति सर्वश्रावकप्रत्येकबुद्धैः, चतुर्विपर्यासगतानि च सर्वक्लेशस्नेहगतानि भूयस्त्वेन परिशोषयन्ति। क्लेषाविलानि च सर्वसंतानानि परिपाचयन्ति। तस्य दशभ्यः पारमिताभ्य उपायकौशल्यपारमिता अतिरिक्ततमा भवति, न च परिशेषा न समुदागच्छति यथाबलं यथाभजमानम्। इयं भो जिनपुत्रा बोधिसत्त्वस्य दूरंगमा नाम सप्तमी बोधिसत्त्वभूमिः समासनिर्देशतः, यस्यां प्रतिष्ठितो बोधिसत्त्वो भूयस्त्वेन वशवर्ती भवति देवराजः कृती प्रभुः सत्त्वानामभिसमयज्ञानोपसंहारेष्वपर्यन्तः सर्वश्रावकप्रत्येकबुद्धपरिपृच्छासु कुशलः सत्त्वान्नियाममवक्रामयितुम्। यच्च किचित्...॥



दूरंगमा नाम सप्तमी भूमिः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project