Digital Sanskrit Buddhist Canon

६ अभिमुखी नाम षष्ठी भूमिः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

6 abhimukhī nāma ṣaṣṭhī bhūmiḥ

६ अभिमुखी नाम षष्ठी भूमिः।



वज्रगर्मो बोधिसत्त्व आह - योऽयं भवन्तो जिनपुत्रा बोधिसत्त्वः पञ्चम्यां बोधिसत्त्वभूमौ सुपरिपूर्णमार्गः षष्ठीं बोधिसत्त्वभूमिमवतरति। स दशभिर्धर्मसमताभिरवतरति। कतमाभिर्दशभिः? यदुत सर्वधर्मानिमित्तसमतया च सर्वधर्मालक्षणसमतया च सर्वधर्मानुत्पादसमतया च सर्वधर्माजाततया च सर्वधर्मविविक्तसमतया च सर्वधर्मादिविशुद्धिसमतया च सर्वधर्मनिष्प्रपञ्चसमतया च सर्वधर्मानाव्यूहानिर्व्यूहसमतया च सर्वधर्ममायास्वप्नप्रतिभासप्रतिश्रुत्कोदकचन्द्रप्रतिबिम्बनिर्माणसमतया च सर्वधर्मभावाभावाद्वयसमतया च। आभिर्दशभिर्धर्मसमताभिरवतरति॥



स एवंस्वभावान् सर्वधर्मान् प्रत्यवक्षेमाणोऽनुसृजन् अनुलोमयन् अविलोमयन् श्रद्दधन् अभियन् प्रतियन् अविकल्पयन् अनुसरन् व्यवलोकयन् प्रतिपद्यमानः षष्ठीमभिमुखीं बोधिसत्त्वभूमिमनुप्राप्नोति तीक्ष्णया आनुलोमिक्या क्षान्त्या। न च तावदनुत्पत्तिकधर्मक्षान्तिमुखमनुप्राप्नोति॥



स एवंस्वभावान् सर्वधर्माननुगच्छन् भूयस्या मात्रया महाकरुणापूर्वंगमत्वेन महाकरुणाधिपतेयतया महाकरुणापरिपूर्णार्थं लोकस्य संभवं च विभवं च व्यवलोकयते। तस्य लोकस्य संभवं च विभवं च व्यवलोकयत एवं भवति - यावत्यो लोकसमुदाचारोपपत्तयः सर्वाः, ता आत्माभिनिवेशतो भवन्ति। आत्माभिनिवेशविगमतो न भवन्ति लोकसमुदाचारोपपत्तय इति। तस्यैवं भवति - तेन खलु पुनरिमे बालबुद्ध्य आत्माभिनिविष्टा अज्ञानतिमिरावृता भावाभावाभिलाषिणोऽयोनिशोमनसिकारप्रसृता विपथप्रयाता मिथ्यानुचारिणः पुण्यापुण्यानेञ्ज्यानभिसंस्कारानुपचिन्वन्ति। तेषां तैः संस्कारैरवरोपितं चित्तबीजं सास्रवं सोपादानमायत्यां जातिजरामरणपुनर्भवाभिनिर्वृत्तिसंभवोपगतं भवति। कर्मक्षेत्रालयमविद्यान्धकारं तृष्णास्नेहमस्मिमानपरिष्यन्दनतः। दृष्टिकृतजालप्रवृद्ध्या च नामरूपाङ्कुरः प्रादुर्भवति। प्रादुर्भूतो विवर्धते। विवृद्धे नामरूपे पञ्चानामिन्द्रियाणां प्रवृत्तिर्भवति। प्रवृत्तानामिन्द्रियाणामन्योन्य(सं)निपाततः स्पर्शः। स्पर्शस्य संनिपाततो वेदना प्रादुर्भवति। वेदनायास्तत उत्तरेऽभिनन्दना भवति। तृष्णाभिनन्दनत उपादानं विवर्धते। उपादाने विवृद्धे भवः संभवति। भवे संभूते स्कन्धपञ्चकमुन्मज्जति। उन्मग्नं स्कन्धपञ्चकं गतिपञ्चकेऽनुपूर्वं म्लायति। म्लानं विगच्छति। म्लानविगमाज्ज्वरपरिदाहः। ज्वरपरिदाहनिदानाः सर्वशोकपरिदेवदुःखदौर्मनस्योपायासाः समुदागच्छन्ति। तेषां न कश्चित्समुदानेता। स्वभावानाभोगाभ्यां च विगच्छन्ति। न चैषां कश्चिद्विगमयिता। एवं बोधिसत्त्वोऽनुलोमाकारं प्रतीत्यसमुत्पादं प्रत्यवेक्षते॥



तस्यैवं भवति - सत्येष्वनभिज्ञानं परमार्थतोऽविद्या। अविद्याप्रकृतस्य कर्मणो विपाकः संस्काराः। संस्कारसंनिश्रितं प्रथमं चित्तं विज्ञानम्। विज्ञानसहजाश्चत्वार उपादानस्कन्धा नामरूपम्। नामरूपविवृद्धिः षडायतनम्। इन्द्रियविषयविज्ञागत्रयसमवधानं सास्रवं स्पर्शः। स्पर्शसहजा वेदना। वेदनाध्यवसानं तृष्णा। तृष्णाविवृद्धिरुपादानम्। उपादानप्रसृतं सास्रवं कर्म भवः। कर्मनिष्यन्दो जातिः स्कन्धोन्मज्जनम्। स्कन्धपरिपाको जरा। जीर्णस्य स्कन्धभेदो मरणम्। म्रियमाणस्य विगच्छतः संमूढस्य साभिष्वङ्गस्य हृदयसंतापः शोकः। शोकसमुत्थिता वाक्प्रलापाः परिदेवः। पञ्चेन्द्रियनिपातो दुःखम्। मनोदृष्टिनिपातो दौर्मनस्यम्। दुःखदौर्मनस्यबहुलत्वसंभूता उपायासाः। एवमयं केवलो दुःखस्कन्धो दुःखवृक्षोऽभिनिर्वर्तते कारकवेदकविरहित इति॥



तस्यैवं भवति - कारकाभिनिवेशतः क्रियाः प्रज्ञायन्ते। यत्र कारको नास्ति, क्रियापि तत्र परमार्थतो नोपलभ्यते। तस्यैवं भवति - चित्तमात्रमिदं यदिदं त्रैधातुकम्। यान्यपीमानि द्वादश भवाङ्गानि तथागतेन प्रभेदशो व्याख्यातानि, अपि सर्वाण्येव तानि चित्तसमाश्रितानि। तत्कस्य हेतोः? यस्मिन् वस्तुनि हि रागसंयुक्तं चित्तमुत्पद्यते तद्विज्ञानम्। वस्तुसंस्कारेऽस्मिमोहोऽविद्या। अविद्याचित्तसहजं नामरूपम्। नामरूपविवृद्धिः षडायतनम्। षडायतनभागीयः स्पर्शः। स्पर्शसहजा वेदना। वेदयतोऽवितृप्तिस्तृष्णा। तृष्णार्तस्य संग्रहोऽपरित्याग उपादानम्। एषां भवाङ्गानां संभवो भवः। भवोन्मज्जनं जातिः। जातिपरिपाको जरा। जरापगमो मरणमिति॥



तत्र अविद्या द्विविधकार्यप्रत्युपस्थाना भवति। आलम्बनतः सत्त्वान् संमोहयति, हेतुं च ददाति संस्काराभिनिर्वृत्तये। संस्कारा अपि द्विविधकार्यप्रत्युपस्थाना भवन्ति। अनागतविपाकाभिनिर्वृत्ति च कुर्वन्ति, हेतुं च ददति विज्ञानाभिनिर्वृत्तये। विज्ञानमपि द्विविधकार्यप्रत्युपस्थानं भवति। भवप्रतिसंधिं च करोति, हेतुं च ददाति नामरूपाभिनिर्वृत्तये। नामरूपमपि द्विविधकार्यप्रत्युपस्थानं भवति। अन्योन्योपस्तम्भनं च करोति, हेतुं च ददाति षडायतनाभिनिर्वृत्तये।



षडायतनमपि द्विविधकार्यप्रत्युपस्थानं भवति। स्वविषयविभक्तितां चादर्शयति, हेतुं च ददाति स्पर्शाभिनिर्वृत्तये। स्पर्शोऽपि द्विविधकार्यप्रत्युपस्थानो भवति। आलम्बनस्पर्शनं च करोति, हेतुं च ददाति वेदनाभिनिर्वृत्तये। वेदनापि द्विविधकार्यप्रत्युपस्थाना भवति। इष्टानिष्टोभयविमुक्तानुभवनं च करोति, हेतुं च ददाति तृष्णाभिनिर्वृत्तये। तृष्णापि द्विविधकार्यप्रत्युपस्थाना भवति। संरजनीयवस्तुसंरागं च करोति, हेतुं च ददात्युपादानाभिनिर्वृत्तये। उपादानमपि द्विविधकार्यप्रत्युपस्थानं भवति। संक्लेशबन्धनं च करोति, हेतुं च ददाति भवाभिनिर्वृत्तये।



भवोऽपि द्विविधकार्यप्रत्युपस्थानो भवति। अन्यभवगतिप्रत्यधिष्ठानं च करोति, हेतुं च ददाति जात्यभिनिर्वृत्तये। जातिरपि द्विविधकार्यप्रत्युपस्थाना भवति। स्कन्धोन्मज्जनं च करोति, हेतुं च ददाति जराभिनिंवृत्तये। जरापि द्विविधकार्यप्रत्युपस्थाना भवति। इन्द्रियपरिणामं च करोति, हेतुं च ददाति मरणसमवधानाभिनिर्वृत्तये। मरणमपि द्विविधकार्यप्रत्युपस्थानं भवति - संस्कारविध्वंसनं च करोति, अपरिज्ञानानुच्छेदं चेति॥



तत्र अविद्याप्रत्ययाः संस्कारा इत्यविद्याप्रत्ययता संस्काराणामनुच्छेदोऽनुपस्तम्भश्च। संस्कारप्रत्ययं विज्ञानमिति संस्कारप्रत्ययता विज्ञानानामनुच्छेदोऽनुपस्तम्भश्च। पेयालं...जातिप्रत्ययता जरामरणस्यानुच्छेदोऽनुपस्तम्भश्च। अविद्यानिरोधात्संस्कारनिरोध इत्यविद्याप्रत्ययताभावात्संस्काराणां व्युपशमोऽनुपस्तम्भश्च। पेयालं...जातिप्रत्ययताभावाज्जरामरणस्य व्युपशमोऽनुपस्तम्भश्च॥



तत्र अविद्या तृष्णोपादानं च क्लेशवर्त्मनोऽव्यवच्छेदः। संस्कारा भवश्च कर्मवर्त्मनोऽव्यवच्छेदः। परिशेषं दुःखवर्त्मनोऽव्यवच्छेदः। प्रविभागतः पूर्वान्तापरान्तनिरोधवर्त्मनो व्यवच्छेदः। एवमेव त्रिवर्त्म निरात्मकमात्मात्मीयरहितं संभवति च असंभवयोगेन, विभवति च अविभवयोगेन स्वभावतो नडकलापसदृशम्॥



अपि तु खलु पुनर्यदुच्यते - अविद्याप्रत्ययाः संस्कारा इत्येषा पौर्वान्तिक्यपेक्षा। विज्ञानं यावद्वेदनेत्येषा प्रत्युत्पन्नापेक्षा। तृष्ण यावद्भव इत्येषा अपरान्तिक्यपेक्षा। अत उर्ध्वमस्य प्रवृत्तिरिति। अविद्यानिरोधात्संस्कारनिरोध इत्यपेक्षाव्यवच्छेद एषः॥



अपि तु खलु पुनस्त्रिदुःखता द्वादश भवाङ्गान्युपादाय। तत्र अविद्या संस्कारा यावत्षडायतनमित्येषा संस्कारदुःखता। स्पर्शो वेदना चैषा दुःखदुःखता। परिशेषाणि भवाङ्गान्येषा परिणामदुःखता। अविद्यानिरोधात्संस्कारनिरोध इति त्रिदुःखताव्यवच्छेद एषः॥



अविद्याप्रत्ययाः संस्कारा इति हेतुप्रत्ययप्रभवत्वं संस्काराणाम्। एवं परिशेषाणाम्। अविद्यानिरोधात्संस्कारनिरोध इत्यभावः संस्काराणाम्। एवं परिशेषाणाम्॥



अविद्याप्रत्याः संस्कारा इत्युत्पादविनिबन्ध एषः। एवं परिशेषाणाम्। अविद्यानिरोधात्संस्कारनिरोध इति व्ययविनिबन्ध एषः। एवं परिशेषाणाम्॥



अविद्याप्रत्ययाः संस्कारा इति भावानुलोमपरीक्षा। एवं परिशेषाणाम्। अविद्यानिरोधात्संस्कारनिरोध इति क्षयव्ययाविनिवन्ध एषः। एवं परिशेषाणाम्॥



स एवं द्वादशाकारं प्रतीत्यसमुत्पादं प्रत्यवेक्षतेऽनुलोमप्रतिलोमं यदुत भवाङ्गानुसंधितश्च एकचित्तसमवसरणतश्च स्वकर्मासंभेदतश्च अविनिर्भागतश्च त्रिवर्त्मानुवर्तनतश्च पूर्वान्तप्रत्युत्पन्नापरान्तावेक्षणतश्च त्रिदुःखतासमुदयतश्च हेतुप्रत्ययप्रभवतश्च उत्पादव्ययविनिबन्धनतश्च अभावाक्षयताप्रत्यवेक्षणतश्च॥



तस्यैवं द्वादशाकारं प्रतीत्यसमुत्पादं प्रत्यवेक्षमाणस्य निरात्मतो निःसत्त्वतो निर्जीवतो निष्पुद्गलतः कारकवेदकरहिततोऽस्वामिकतो हेतुप्रत्ययाधीनतः स्वभावशून्यतो विविक्ततोऽस्वभावतश्च प्रकृत्या प्रत्यवेक्षमाणस्य शून्यताविमोक्षमुखमाजातं भवति॥



तस्यैवं भवाङ्गानां स्वभावनिरोधात्यन्तविमोक्षप्रत्युपस्थानतो न किंचिद्धर्मनिमित्तमुत्पद्यते। अतोऽस्य आनिमित्तविमोक्षमुखमाजातं भवति॥



तस्यैवं शून्यतानिमित्तमवतीर्णस्य न कश्चिदभिलाष उत्पद्यते अन्यत्र महाकरुणापूर्वकात्सत्त्वपरिपाचनात्। एवमस्य अप्रणिहितविमोक्षमुखमाजातं भवति॥



य इमानि त्रीणि विमोक्षमुखानि भावयन् आत्मपरसंज्ञापगतो कारकवेदकसंज्ञापगतो भावाभावसंज्ञापगतो भूयस्या मात्रया महाकरुणापुरस्कृतः प्रयुज्यतेऽपरिनिष्पन्नानां बोध्यङ्गानां परिनिष्पत्तये, तस्यैवं भवति - संयोगात्संस्कृतं प्रवर्तते। विसंयोगान्न प्रवर्तते। सामग्र्या संस्कृतं प्रवर्तते। विसामग्र्या न प्रवर्तते। हन्त वयमेवं बहुदोषदुष्टं संस्कृतं विदित्वा अस्य संयोगस्य अस्याः सामग्र्या व्यवच्छेदं करिष्यामः, न चात्यन्तोपशमं सर्वसंस्काराणामविरागयिष्यामः सत्त्वपरिपाचनतायै॥



एवमस्य भवन्तो जिनपुत्राः संस्कारगतं बहुदोषदुष्टं स्वभावरहितमनुत्पन्नानिरुद्धं प्रकृत्या प्रत्यवेक्षमाणस्य महाकरुणाभिनिर्हारतश्च सत्त्वकार्यानुत्सर्गतश्च सङ्गज्ञानाभिमुखो नाम प्रज्ञापारमिताविहारोऽभिमुखीभवत्यवभासयोगेन। स एवं ज्ञानसमन्वागतः प्रज्ञापारमिताविहारावभासितो बोध्यङ्गाहारकांश्च प्रत्ययानुपसंहरति। न च संस्कृतसंवासेन संवसति। स्वभावोपशमं च संस्काराणां प्रत्यवेक्षते। न च तत्रावतिष्ठते बोध्यङ्गापरित्यक्तत्वात्॥



तस्य अस्यामभिमुख्यां बोधिसत्त्वभूमौ स्थितस्य बोधिसत्त्वस्य अवतारशून्यता च नाम समाधिराजायते। स्वभावशून्यता...परमार्थशून्यता...परमशून्यता...महाशून्यता...संप्रयोगशून्यता...अभिनिर्हारशून्यता यथावदविकल्पशून्यता सापेक्षशून्यता विनिर्भागाविनिर्भागशून्यता नाम समाधिराजायते। तस्यैवंप्रमुखानि दश शून्यतासमाधिमुखशतसहस्राण्यामुखीभवन्ति। एवमानिमित्तसमाधिमुखशतशहस्राणि अप्रणिहितसमाधिमुखशतसहस्राण्यामुखीभवन्ति। तस्य भूयस्या मात्रया अस्यामभिमुख्यां बोधिसत्त्वभूमौ स्थितस्य बोधिसत्त्वस्यभेद्याशयता च परिपूर्यते। नियताशयता...कल्याणाशयता...गम्भीराशयता...अप्रत्युदावर्त्याशयता...अप्रतिप्रस्त्रब्धाशयता...विमलाशयता-...अनन्ताशयता...ज्ञानाभिलाषाशयता...उपायप्रज्ञासंप्रयोगाशयता च परिपूर्यते॥



तस्यैते दश बोधिसत्त्वाशयाः स्वनुगता भवन्ति तथागतबोधौ। अप्रत्युदावर्तनीयवीर्यश्च भवति सर्वपरप्रवादिभिः। समवसृतश्च भवति ज्ञानभूमौ। विनिवृत्तश्च भवति श्रावकप्रत्येकबुद्धभूमिभ्यः। एकान्तिकश्च भवति बुद्धज्ञानाभिमुखतायाम्। असंहार्यश्च भवति सर्वमारक्लेशसमुदाचारैः। सुप्रतिष्ठितश्च भवति बोधिसत्त्वज्ञानालोकतायाम्। सुपरिभावितश्च भवति शून्यतानिमित्ताप्रणिहितधर्मसमुदाचारैः। संप्रयुक्तश्च भवत्युपायप्रज्ञाविचारैः। व्यवकीर्णश्च भवति बोधिपाक्षिकधर्माभिनिर्हारैः। तस्य अस्यामभिमुख्यां बोधिसत्त्वभूमौ स्थितस्य प्रज्ञापारमिताविहारोऽतिरिक्ततर आजातो भवति, तीक्ष्णा चानुलोमिकी तृतीया क्षान्तिरेषां धर्माणां यथावदनुलोमतया न विलोमतया॥



तस्य अस्यामभिमुख्यां बोधिसत्त्वभूमौ स्थितस्य बोधिसत्त्वस्य यथावत्समापत्तिप्रज्ञाज्ञानालोकतया प्रयुज्यते, प्रतिपत्तितश्चाधारयति। स भूयस्या मात्रया तथागतधर्मकोशप्राप्तो भवति। तस्य अस्यामभिमुख्यां बोधिसत्त्वभूमौ स्थितस्य अनेकान् कल्पांस्तानि कुशलमूलानि भूयस्या मात्रया उत्तप्तप्रभास्वरतराणि भवन्ति। अनेकानि कल्पशतानि....। तानि कुशलमूलानि भूयस्या मात्रयोत्तप्तप्रभास्वरतराणि भवन्ति। तद्यथापि नाम भवन्तो जिनपुत्रास्तदेव जातरूपं वैडूर्यपरिसृष्टं भूयस्या मात्रयोत्तप्तप्रभास्वरतरं भवति, एवमेव भवन्तो जिनपुत्रा बोधिसत्त्वस्य अस्यामभिमुख्यां बोधिसत्त्वभूमौ स्थितस्य तानि कुशलमूलान्युपायप्रज्ञाज्ञानविचारितानि भूयस्या मात्रयोत्तप्तप्रभास्वरतराणि भवन्ति, भूयो भूयश्च प्रशमासंहार्यतां गच्छन्ति। तद्यथापि नाम भवन्तो जिनपुत्राश्चन्द्राभा सत्त्वाश्रयांश्च प्रह्लादयति असंहार्या च भवति चतसृभिर्वातमण्डलीभिः, एवमेव भवन्तो जिनपुत्र बोधिसत्त्वस्य अस्यामभिमुख्यां बोधिसत्त्वभूमौ स्थितस्य तानि कुशलमूलान्यनेकेषां सत्त्वकोटिनयुतशतसहस्राणां क्लेशज्वालाः प्रशमयन्ति, प्रह्लादयन्ति, असंहार्याणि च भवन्ति चतुर्भिर्मारावचरैः। तस्य दशभ्यः पारमिताभ्यः प्रज्ञापारमिता अतिरिक्ततमा भवति, न च परिशेषा न समुदागच्छति यथाबलं यथाभजमानम्। इयं भवन्तो जिनपुत्रा बोधिसत्त्वस्य अभिमुखी नाम षष्ठी बोधिसत्त्वभूमिः समासनिर्देशतः, यस्यां प्रतिष्ठितो बोधिसत्त्वो भूयस्त्वेन सुनिर्मितो भवति देवराजं कृती प्रभुः सत्त्वानामभिमानप्रतिप्रस्रब्धये कुशलः सत्त्वान्याभिमानिकधर्मेभ्यो विनिवर्तयितुम्। असंहार्यश्च भवति सर्वश्रावकपरिपृच्छायां कुशलः सत्त्वान् प्रतीत्यसमुत्पादेऽवतारयितुम्। यच्च किंचित्....॥



अभिमुखी नाम षष्टी भूमिः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project