Digital Sanskrit Buddhist Canon

१ प्रमुदिता नाम प्रथमा भूमिः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

1 pramuditā nāma prathamā bhūmiḥ

॥ दशभूमिकसूत्रम्॥



१ प्रमुदिता नाम प्रथमा भूमिः।



एवं मया श्रुतम्। एकस्मिन् समये भगवान् परनिर्मितवशवर्तिषु देवभुवनेषु विहरति स्म अचिराभिसंबुद्धो द्वितीये सप्ताहे वशवर्तिनो देवराजस्य विमाने मणिरत्नगर्भे प्रभास्वरे प्रासादे महता बोधिसत्त्वगणेन सार्धं सर्वैरवैवर्तिकैरेकजातिप्रतिबद्धैः। यदुत अनुत्तरायां सम्यक्संबोधावन्योन्यलोकधातुसंनिपतितैः। सर्वैः सर्वबोधिसत्त्वज्ञानविषयगोचरप्रतिलब्धविहारिभिः सर्वतथागतज्ञानविषयप्रवेशावताराप्रतिप्रस्रब्धगोचरैः सर्वजगत्परिपाचनविनययथाकालक्षणाधिष्ठानसर्वक्रियासंदर्शनकुशलैः सर्वबोधिसत्त्वप्रणिधानाभिनिर्हाराप्रतिप्रस्रब्धगोचरैः कल्पार्थक्षेत्रचर्यासंवासिभिः सर्वबोधिसत्त्वपुण्यज्ञानर्द्धिसंभारसुपरिपूर्णाक्षयसर्वजगदुपजीव्यताप्रतिपन्नैः सर्वबोधिसत्त्वप्रज्ञोपायपरमपारमिताप्राप्तैः संसारनिर्वाणमुखसंदर्शनकुशलैः बोधिसत्त्वचर्योपादानाव्यवच्छिन्नैः सर्वबोधिसत्त्वध्यानविमोक्षसमाधिसमापत्यभिज्ञाज्ञानविक्रीडिताभिज्ञासर्वक्रियासंदर्शनकुशलैः सर्वबोधिसत्त्वर्द्धिबलवशिताप्राप्तानभिसंस्कारचित्तक्षणसर्वतथागतपर्षन्मण्डलोपसंक्रमणपूर्वंगमकथापुरुषैः सर्वतथागतधर्मचक्रसंधारणविपुलबुद्धपूजोपस्थानाभ्युत्थितैः सर्वबोधिसत्त्वकर्मसमादानसमताप्रयोगसर्वलोकधातुकायप्रतिभासप्राप्तैः सर्वधर्मधात्वसङ्गस्वररुतघोषानुरवितसर्वत्र्यध्वासङ्गचित्तज्ञानविषयस्फरणैः सर्वबोधिसत्त्वगुणप्रतिपत्तिसुपरिपूर्णानभिलाप्यकल्पाधिष्ठानसंप्रकाशनापरिक्षीणगुणवर्णनिर्देशकैः। यदिदम्वज्रगर्भेण च बोधिसत्त्वेन महासत्त्वेन। रत्नगर्भेण च। पद्मगर्भेण च। श्रीगर्भेण च। पद्मश्रीगर्भेण च। आदित्यगर्भेण च। सूर्यगर्भेण च। क्षितिगर्भेण च। शशिविमलगर्भेण च। सर्वव्यूहालंकारप्रतिभाससंदर्शनगर्भेण च। ज्ञानवैरोचनगर्भेण च। रुचिरश्रीगर्भेण च। चन्दनश्रीगर्भेण च। पुष्पश्रीगर्भेण च। कुसुमश्रीगर्भेण च। उत्पलश्रीगर्भेण च। देवश्रीगर्भेण च। पुण्यश्रीगर्भेण च। अनावरणज्ञानविशुद्धिगर्भेण च। गुणश्रीगर्भेण च। नारायणश्रीगर्भेण च। अमलगर्भेण च। विमलगर्भेण च। विचित्रप्रतिभानालंकारगर्भेण च। महारश्मिजालावभासगर्भेण च। विमलप्रभासश्रीतेजोराजगर्भेण च। सर्वलक्षणप्रतिमण्डितविशुद्धिश्रीगर्भेण च। वज्रार्चिःश्रीवत्सालंकारगर्भेण च। ज्योतिर्ज्वलनार्चिःश्रीगर्भेण च। नक्षत्रराजप्रभावभासगर्भेण च। गगनकोशानावरणज्ञानगर्भेण च। अनावरणस्वरमण्डलमधुरनिर्घोषगर्भेण च। धारणीमुखसर्वजगत्प्रणिधिसंधारणगर्भेण च। सागरव्यूहगर्भेण च। मेरुश्रीगर्भेण च। सर्वगुणविशुद्धिगर्भेण च। तथागतश्रीगर्भेण च। बुद्धश्रीगर्भेण च। विमुक्तिचन्द्रेण च बोधिसत्त्वेन महासत्त्वेन। एवंप्रमुखैरपरिमाणाप्रमेयासंख्येयाचिन्त्यातुल्यामाप्यानन्तापर्यन्तासीमाप्राप्तानभिलाप्यानभिलाप्यैर्बोधिसत्त्वैर्महासत्त्वैः सार्धं नानाबुद्धक्षेत्रसंनिपतितैर्वज्रगर्भबोधिसत्त्वपूर्वंगमैः॥



अथ खलु वज्रगर्भो बोधिसत्त्वयां वेलायां बुद्धानुभावेन महायानप्रभासं नाम बोधिसत्त्वसमाधिं समापद्यते स्म। समनन्तरसमापन्नश्च वज्रगर्भो बोधिसत्त्व इमं महायानप्रभासं नाम बोधिसत्त्वसमाधिम्,अथ तावदेव दशसु दिक्षु दशबुद्धक्षेत्रकोटिपरमाणुरजःसमानां लोकधातूनामपरेण दशबुद्धक्षेत्रकोटिपरमाणुरजःसमास्तथागता मुखान्युपर्दषयामासुं यदिदं वज्रगर्भसमनामका एव। ते चैनं बुद्धा भगवन्त एवमूचुः-साधु साधु भो जिनपुत्र, यस्त्वमिमं महायानप्रभासं बोधिसत्त्वसमाधिं समापद्यसे। अपि तु खलु पुनस्त्वं कुलपुत्र, अमी दशसु दिक्षु दशबुद्धक्षेत्रकोटिपरमाणुरजःसमानां लोकधातूनामपरेण दशबुद्धक्षेत्रकोटिपरमाणुरजःसमास्तथागता अधितिष्ठन्ति सर्वे वज्रगर्भसमनामानः अस्यैव भगवतो वैरोचनस्य पूर्वप्रणिधानाधिष्ठानेन तव च पुण्यज्ञानविशेषेण सर्वबोधिसत्त्वानां च अचिन्त्यबुद्धधर्मालोकप्रभावनाज्ञानभूम्यवतारणाय।

सर्वकुशलमूलसंग्रहणाय। सर्वबुद्धधर्मनिर्देशाय। असंभिन्नज्ञानव्यवदानाय। सर्वलोकधर्मानुपलेपाय। लोकोत्तरकुशलमूलपरिशोधनाय। अचिन्त्यज्ञानविषयाधिगमाय। यावत्सर्वज्ञानविषयाधिगमाय। यदिदं दशानां बोधिसत्त्वभूमीनामारम्भप्रतिलम्भाय। यथावद्बोधिसत्त्वभूमिव्यवस्थाननिर्देशाय। सर्वबुद्धधर्माध्यालम्बनाय। अनास्रवधर्मप्रविभागविभावनाय। सुविचितविचयमहाप्रज्ञालोककौशल्याय।

सुनिस्तीरितकौशल्यज्ञानमुखावतारणाय। यथार्हस्थानान्तरप्रभावनामन्दप्रतिभानालोकाय। महाप्रतिसंविद्भूमिनिस्तीरणाय। बोधिचित्तस्मृत्यसंप्रमोषाय। सर्वसत्त्वधातुपरिपाचनाय। सर्वत्रानुगतविनिश्चयकौशल्यप्रतिलम्भाय। अपि तु खलु पुनः कुलपुत्र प्रतिभातु तेऽयं धर्मालोकमुखप्रभेदकौशल्यधर्मपर्यायो बुद्धानुभावेन तथागतज्ञानालोकाधिष्ठानेन स्वकुशलमूलपरिशोधनाय धर्मधातुसुपर्यवदापनाय सत्त्वधात्वनुग्रहाय धर्मकायज्ञानशारीराय सर्वबुद्धाभिषेकसंप्रतीच्छनाय सर्वलोकाभ्युद्गतात्मभावसंदर्शनाय सर्वलोकगतिसमतिक्रमाय लोकोत्तधर्मगतिपरिशोधनाय सर्वज्ञज्ञानपरिपूरणाय॥



अथ खलु ते बुद्धा भगवन्तो वज्रगर्भस्य बोधिसत्त्वस्य अनभिभूतात्मभावतां चोपसंहरन्ति स्म। असङ्गप्रतिभाननिर्देशतां च सुविशोभितज्ञानविभक्तिप्रवेशतां च स्मृत्यसंप्रभोषाधिष्ठानतां च सुविनिश्चितमतिकौशल्यतां च सर्वत्रानुगतबुद्ध्यनुत्सर्गतां च सम्यक्संबुद्धबलानवमृद्यतां च तथागतवैशारद्यानवलीनतां च सर्वज्ञज्ञानप्रतिसंविद्विभागधर्मनयनिस्तीरणतां च सर्वतथागतसुविभक्तकायवाक्चित्तालंकाराभिनिर्हारतां चोपसंहरन्ति स्म। तत्कस्माद्धेतोः? यथापि नाम अस्यैव समाधेर्धर्मताप्रतिलम्भेन पूर्वं प्रणिधानाभिर्हारेण च सुपरिशोधिताध्याशयतया च स्ववदातज्ञानमण्डलतया च सुसंभृतसंभारतया च सुकृतपरिकर्मतया च अप्रमाणस्मृतिभाजनतया च प्रभास्वराधिमुक्तिविशोधनतया च सुप्रतिविद्वधारणीमुखासंभेदनतया च धर्मधातुज्ञानमुद्रासुमुद्रिततया च॥



अथ खलु ते बुद्धा भगवन्तस्तत्रस्था एव ऋद्ध्यनुभावेन दक्षिणान् पाणीन् प्रसार्य वज्रगर्भस्य बोधिसत्त्वस्य शीर्षं संप्रमार्जयन्ति स्म। समनन्तरस्पृष्टश्च वज्रगर्भो बोधिसत्त्वस्तैर्बुद्धैर्भगवद्भिः, अथ तावदेव समाधेस्तस्माद् व्युत्थाय तान् बोधिसत्त्वानामन्त्रयते स्म - सुविनिश्चितमिदं भवन्तो जिनपुत्रा बोधिसत्त्वप्रणिधानमसंभिन्नमनवलोक्यं धर्मधातुविपुलं आकाशधातुपर्यवसानमपरान्तकोटिनिष्ठं सर्वसत्त्वधातुपरित्राणम्। यत्र हि नाम भवन्तो जिनपुत्रा बोधिसत्त्वा अतीतानामपि बुद्धानां भगवतां ज्ञानभूमिमवतरन्ति, अनागतानामपि बुद्धानां भगवतां ज्ञानभूमिमवतरन्ति प्रत्युत्पन्नानामपि बुद्धानां भगवतां ज्ञानभूमिमवतरन्ति, तत्र भवन्तो जिनपुत्रा दश बोधिसत्त्वभूमयो बुद्धानां भगवतां ज्ञानभूमिमवतरन्ति, तत्र भवन्तो जिनपुत्राश्च दश बोधिसत्त्वभूमयोऽतीतानागतप्रत्युत्पन्नैर्बुद्धैर्भगद्भिर्भाषिताश्च भाषिष्यन्ते च भाष्यन्ते च, याः संधाय अहं एवं वदामि। कतमा दश ? यदुत प्रमुदिता च नाम बोधिसत्त्वभूमिः। विमला च नाम। प्रभाकरी च नाम। अर्चिष्मती च नाम। सुदुर्जया च नाम। अभिमुखी च नाम। दूरंगमा च नाम। अचला च नाम। साधुमती च नाम। धर्ममेघा च नाम बोधिसत्त्वभूमिः। इमा भवन्तो जिनपुत्रा दश बोधिसत्त्वानां बोधिसत्त्वभूमयः, या अतीतानागतप्रत्युत्पन्नर्बुद्धैर्भगवद्भिर्भाषिताश्च भाषिष्यन्ते च भाष्यन्ते च। नाहं भवन्तो जिनपुत्रास्तं बुद्धक्षेत्रप्रसरं समनुपश्यामि, यत्र तथागता इमा दश बोधिसत्त्वभूमीर्न प्रकाशयन्ति। तत्कस्य हेतोः ? सामुत्कर्षिकोऽयं भवन्तो जिनपुत्रा बोधिसत्त्वानां महासत्त्वानां बोधि(सत्त्व)मार्गपरिशोधनधर्ममुखालोको यदिदं दशभूमिप्रभेदव्यवस्थानम्। अचिन्त्यमिदं भवन्तो जिनपुत्राः स्थानं यदिदं भूमिज्ञानमिति॥



अथ खलु वज्रगर्भो बोधिसत्त्व आसां दशानां बोधिसत्त्वभूमीनां नामधेयमात्रं परिकीर्त्य तूष्णीं बभूव, न भूयः प्रभेदशो निर्दिशति स्म। अथ खलु सा सर्वावती बोधिसत्त्वपर्षत् परितृषिता बभूव आसां दशानां बोधिसत्त्वभूमीनां नामधेयमात्रश्रवणेन भूमिविभागानुदीरणेन च। तस्या एतदभवत्-को नु खल्वत्र हेतुः कश्च प्रत्ययः, यद्वज्रगर्भो बोधिसत्त्व आसां बोधिसत्त्वभूमीनां नामधेयमात्रं परिकीर्त्य तूष्णींभावेन अतिनामयति, न भूयः प्रभेदशो निर्दिशतीति ?



तेन खलु पुनः समयेन तस्मिन्नेव बोधिसत्त्वपर्षत्संनिपाते विमुक्तिचन्द्रो नाम बोधिसत्त्वस्तस्या बोधिसत्त्वपर्षदश्चित्ताशयविचारमाज्ञाय वज्रगर्भं बोधिसत्त्वं गाथाभिगीतेन परिगृच्छति स्म -



किमर्थं शुद्धसंकल्पस्मृतिज्ञानगुणान्वित।

समुदीर्योत्तमा भूमीर्न प्रकाशयसे विभो॥ १॥



विनिश्चिता इमे सर्वे बोधिसत्त्वा महायशः।

कस्मादुदीर्य भूमीश्च(स्त्वं) प्रविभागं न भाषसे॥ २॥



श्रोतुकामा इमे सर्वे जिनपुत्रा विशारदाः।

विभज्यार्थगतिं सम्यरग्भूमीनां समुदाहर॥ ३॥



पर्षद्वि विप्रसन्नेयं कौसीद्यापगता शुभा।

शुद्धा प्रतिष्ठिता सारे गुणज्ञानसमन्विता॥ ४॥



निरीक्षमाणा अन्योन्यं स्थिताः सर्वे सगौरवाः।

क्षौद्रं ह्यनेडकं यद्वत्काङ्क्षन्ति त्वमृतोपमम्॥ ५॥



तस्य श्रुत्वा महाप्रज्ञो वज्रगर्भो विशारदः।

पर्षत्संतोषणार्थं हि भाषते स्म जिनात्मजः॥ ६॥



दुष्करं परममेतदद्भुतं

बोधिसत्त्वचरितप्रदर्शनम्।

भूमिकारणविभाग उत्तमो

बुद्धभावसमुदागमो यतः॥ ७॥



सूक्ष्म दुर्दृश विकल्पवर्जित-

श्चित्तभूमिविगतो दुरासदः।

गोचरो हि विदुषामनास्रवो

यत्र मुह्यति जगच्छवे सति॥ ८॥



वज्रोपमं हृदयं स्थापयित्वा

बुद्धज्ञानं परमं चाधिमुच्य।

अनात्मानं चित्तभूमिं विदित्वा

शक्यं श्रोतुं ज्ञानमेतत्सुसूक्ष्मम्॥ ९॥



अन्तरीक्ष इव रङ्गचित्रणा

मारुतः खगपथाश्रितो यथा।

ज्ञानमेवमिह भागशः कृतं

दुर्दृशं भगवतामनास्रवम्॥ १०॥



तस्य मे भवति बुद्धिरीदृशी

दुर्लभो जगति योऽस्य वेदकः।

श्रद्धधीत च य एतदुत्तमं

न प्रकाशयितुमुत्सहे यतः॥ ११॥



एवमुक्ते विमुक्तिचन्द्रो बोधिसत्त्वो वज्रगर्भं बोधिसत्त्वमेतदवोचत् - सुपरिशुद्धो बतायं भो जिनपुत्र पर्षत्संनिपातः सुपरिशोधिताध्याशयानां बोधिसत्त्वानां सुपरिशोधितसंकल्पानां सुचरितचरणानां सुपर्युपासितबहुबुद्धकोटिशतसहस्राणां सुसंभृतसंभाराणामपरिमितगुणज्ञानसमन्वागतानामपगतविमतिसंदेहानामनङ्गणानां सुप्रतिष्ठिताध्याशयाधिमुक्तीनामपरप्रत्ययानामेषु बुद्धधर्मेषु। तत्साधु भो जिनपुत्र, प्रभाषस्व। प्रत्यक्षविहारिणो ह्यते बोधिसत्त्वा अत्र स्थाने॥



वज्रगर्भ आह - किंचापि भो जिनपुत्र अयं बोधिसत्त्वपर्षत्संनिपातः सुपरिशुद्धः। पेयालं। अथ च पुनर्येऽन्ये इमान्येवंरूपाण्यचिन्त्यानि स्थानानि शृणुयुः, श्रुत्वा च विमतिसंदेहमुत्पादयेयुः, तेषां तत्स्याद्दीर्घरात्रमनर्थाय अहिताय दुःखाय। इयं मे कारुण्यचित्तता, येन तूष्णींभावमेवाभिरोचयामि॥



अथ खलु विमुक्तिचन्द्रो बोधिसत्त्वः पुनरेव वज्रगर्भं बोधिसत्त्वमेतमेवार्थमध्येषते स्म - तत्साधु भो जिनपुत्र, प्रभाषस्व। तथागतस्यैवानुभावेन इमान्येवंरूपाण्यचिन्त्यानि स्थानानि स्वारक्षितानि श्रद्धेयानि भविष्यन्ति। तस्कस्य हेतोः? तथा हि भो जिनपुत्र अस्मिन् भूमिनिर्देशे भाष्यमाणे धर्मताप्रतिलम्भ एष यत्सर्वबुद्धसमन्वाहारो भवति। सर्वे बोधिसत्त्वाश्च अस्या एव ज्ञानभूमेरारक्षार्थमौत्सुक्यमापद्यन्ते। तत्कस्य हेतोः? एषा ह्यादिचर्या। एष समुदागमो बुद्धधर्माणाम्। तद्यथापि नाम भो जिनपुत्र सर्वलिप्यक्षरसंख्यानिर्देशो मातृकापूर्वंगमो मातृकापर्यवसानः नास्ति स लिप्यक्षरसंख्यानिर्देशो यो विना मातृकानिर्देशम्, एवमेव भो जिनपुत्र सर्वे बुद्धधर्मा भूमिपूर्वंगमाश्च चर्यापरिनिष्पत्तितो भूमिपर्यवसानाः स्वयंभूज्ञानाधिगमतया। तस्मात्तर्हि भो जिनपुत्र, प्रभाषस्व। तथागता एव अर्हन्तः सम्यक्संबुद्धा आरक्षामधिष्ठास्यन्ति॥



अथ खलु ते सर्वे बोधिसत्त्वा एकस्वरसंगीतेन तस्यां वेलायां वज्रगर्भं बोधिसत्त्वं गाथाभिगीतेनैव तमर्थमध्येषन्ते स्म -



प्रवरवरविमलबुद्धे स्वभिधानानन्तघटितप्रतिभ।

प्रव्याहर मधुरवरां वाचं परमार्थसंयुक्ताम्॥ १२॥



स्मृतिधृतिविशुद्धबुद्धे दशबलबललाभमाशयविशुद्धिम्।

प्रतिसंविद्दशविचयं भाषस्व दशोत्तमा भूमीः॥ १३॥



शमनियमनिभृतसुमनाः प्रहीणमदमानदृष्टिसंक्लेशा।

निष्काङ्क्षा पर्षदियं प्रार्थयते भाषितानि तव॥ १४॥



तृषित इव शीतमुदकं बुभुक्षितोऽन्नं सुभेषजमिवार्तः।

क्षौद्रमिव स मधुकरगणस्तव वाचमुदीक्षते पर्षत्॥ १५॥



तत्साधु विमलबुद्धे भूमिविशेषान् वदस्व विरजस्कान्।

दशबलयुक्तासङ्गां सुगतगतिमुदीरयन्निखिलाम्॥ १६॥



अथ खलु तस्यां वेलायां भगवतः शाक्यमुनेरूर्णाकोशाद् बोधिसत्त्वबलालोको नाम रश्मिर्निश्चचार असंख्येयासंख्येयरश्मिपरिवारा। सा सर्वासु दशसु दिक्षु सर्वलोकधातुप्रसरानवभास्य सर्वापायदुःखानि प्रतिप्रस्रभ्य सर्वमारभवनानि ध्यामीकृत्य अपरिमितानि बुद्धपर्षन्मण्डलान्यवभास्य अचिन्त्यं बुद्धविषयाकारप्रभावं निदर्श्य सर्वासु दशसु दिक्षु सर्वलोकधातुप्रसरेषु सर्वतथागतपर्षन्मण्डलेषु धर्मदेशनाधिष्ठानाधिष्ठितान् बोधिसत्त्वानवभास्य अचिन्त्यं बुद्धविकुर्वणं संदर्श्य उपर्यन्तरीक्षे महारश्मिघनाभ्रजालकूटागारं कृत्वा तस्थौ। तेषामपि बुद्धानां भगवतामूर्णाकोशेभ्य एवमेव बोधिसत्त्वबलालोका नाम रश्मयो निश्चेरुः। निश्चर्य असंख्येयासंख्येयरश्मिपरिवारास्ताः सर्वासु....पे...बुद्धविकुर्वणमादर्श्य इदं भगवतः शाक्यमुनेः पर्षन्मण्डलं वज्रगर्भस्य बोधिसत्त्वस्यात्मभावमवभास्य उपर्यन्तरीक्षे एवमेव महारश्मिघनाभ्रजालकूटागारं कृत्वा तस्थुः। इति हि आभिश्च भगवतः शाक्यमुनेरूर्णाकोशप्रसृताभी रश्मिभिस्ते लोकधातवस्तानि च बुद्धपर्षन्मण्डलानि तेषां च बोधिसत्त्वानां काया आसनानि च स्फुटान्यवभासितानि संदृश्यन्ते स्म। तेषां च अपरिमाणेषु लोकधातुषु बुद्धानां भगवतामूर्णाकोशप्रसृताभी रश्मिभिरयं त्रिसाहस्रमहासाहस्रलोकधातुरिदं च भगवतः शाक्यमुनेः पर्षन्मण्डलं वज्रगर्भस्य च बोधिसत्त्वस्य काय आसनं स्फुटमवभासितं संदृश्यन्ते स्म। अथ खलु ततो महारश्मिघनाभ्रजालकूटागाराद्वुद्धानुभावेन अयमेवंरूपः शब्दो निश्चरति स्म -



असमसमाकाशमैर्दशबलवृषभैरनन्तमुख्यगुणैः।

शाक्यकुलजस्य धर्मैर्देवमनुष्योत्तमैः कृतमधिष्ठानम्॥ १७॥



अनुभावात्सुगतानां कोशं विवृणुष्व धर्मराजानाम्।

चर्यावरामुदारां प्रभेदशो ज्ञानभूमिं च॥ १८॥



अधिष्ठितास्ते सुगतैर्धारिता बोधिसत्त्वैश्च।

येषां श्रोत्रपथागतः श्रेष्ठो यो धर्मपर्यायः॥ १९॥



दश भूमीर्विरजसः पूरयित्वानुपूर्वेण।

बलानि दश च प्राप्य जिनतामर्पयिष्यन्ति॥ २०॥



सागरजले निमग्नाः कल्पोद्दाहेषु प्रक्षिप्ताः।

भव्यास्ते धर्मपर्यायमिमं श्रोतुमसंदिग्धाः॥ २१॥



ये तु विमतिसक्ताः संशयैश्चाभ्युपेताः।

सर्वशो न हि तेषां प्राप्स्यते श्रोत्रमेतत्॥ २२॥



भूमिज्ञानपथं श्रेष्ठं प्रवेशस्थानसंक्रमम्।

अनुपूर्वेण भाषस्व चर्याविषयमेव च॥ २३॥



अथ खलु वज्रगर्भो बोधिसत्त्वो दश दिशो व्यवलोक्य भूयस्या मात्रया तस्याः पर्षदः संप्रसादर्नार्थं तस्यां वेलायामिमा गाथा अभाषत -



सूक्ष्मं दुराज्ञेयपदं महर्षिणा-

मकल्पकल्पापगतं सुदुःस्पृशम्।

अनाविलं पण्डितविज्ञवेदितं

स्वभावशान्तं ह्यनिरोधसंभवम्॥ २४॥



स्वभावशून्यं प्रशमाद्वयक्षयं

गत्या विमुक्तं समताप्तिनिर्वृतम्।

अनन्तमध्यं वचसानुदीरितं

त्रियघ्वविमुक्तं नभसा समानकम्॥ २५॥



शान्तं प्रशान्तं सुगतप्रवेदितं

सर्वैरुदाहारपदैः सुदुर्वचम्।

भूमिश्च चर्यापि च तस्य तादृशी

वक्तुं सुदुःखः कुत एव श्रोतुम्॥ २६॥



तच्चिन्तया चित्तपथैश्च वर्जितं

ज्ञानाभिनिर्हारमुनीन्द्रवेदितम्।

न स्कन्धधात्वायतनप्रभावितं

न चित्तगम्यं न मनोविचिन्तितम्॥ २७॥



यथान्तरीक्षे शकुनेः पदं बुधै-

र्वक्तुं न शक्यं न च दर्शनोपगम्।

तथैव सर्वा जिनपुत्र भूमयो

वक्तुं न शक्याः कुत एव श्रोतुम्॥ २८॥



प्रदेशमात्रं तु ततोऽभिधास्ये

मैत्रीकृपाभ्यां प्रणिधानतश्च।

यथानुपूर्वं न च चित्तगोचरं

ज़्ञानेन ताः पूरयतां यथाशयम्॥ २९॥



एतादृशो गोचर दुर्दृशोऽस्य

वक्तुं न शक्यः स हि स्वाशयस्थः।

किं तु प्रवक्ष्यामि जिनानुभावतः

शृण्वन्तु सर्वे सहिताः सगौरवाः॥ ३०॥



ज्ञानप्रवेशः स हि तादृशोऽस्य

वक्तुं न कल्पैरपि शक्यते यत्।

समासतस्तच्छृणुत ब्रवीम्यहं

धर्मार्थतत्त्वं निखिलं यथास्थितम्॥ ३१॥



सगौरवाः सन्त(ः) सज्जा भवन्तो

वक्ष्याम्यहं साधु जिनानुभावतः।

उदीरयिष्ये वरधर्मघोषं

दृष्टान्तयुक्तं सहितं समाक्षरम्॥ ३२॥



सुदुष्करं तद्वचसापि वक्तुं

यश्चाप्रमेयः सुगतानुभावः।

मयि प्रविष्टः स च रश्मिमूर्ति-

र्यस्यानुभावेन ममास्ति शक्तिः॥ ३३॥



तत्र भवन्तो जिनपुत्राः सूपचितकुशलमूलानां सुचरितचरणानां सुसंभृतसंभाराणां सुपर्युपासितबुद्धोत्पादानां सुपरिपिण्डितशुक्लधर्माणां सुपरिगृहीतकल्याणमित्राणां सुविशुद्धाशयानां विपुलाघ्याशयोपगतानां उदाराधिमुक्तिसमन्वागतानां कृपाकरुणाभिमुखानां (बोधि)सत्त्वानां बोधाय चित्तमुत्पाद्यते। बुद्धज्ञानाभिलाषाय दशबलबलाधिगमाय महावैशारद्याधिगमाय समताबुद्धधर्मप्रतिलम्भाय सर्वजगत्परित्राणाय महाकृपाकरुणाविशोधनाय दशदिगशेषज्ञानाधिगमाय सर्वबुद्धक्षेत्रासङ्गपरिशोधनाय त्र्यध्वैकक्षणविबोधाय महाधर्मचक्रप्रवर्तनवैशारद्याय च तच्चित्तमुत्पद्यते बोधिसत्त्वानां महाकरुणापूर्वंगमं प्रज्ञाज्ञानाधिपतेयमुपायकौशल्यपरिगृहीतमाशयाध्याशयोपस्तब्धं तथागतबलाप्रमेयं सत्त्वबलबुद्धिबलसुविचितविचयमसंभिन्नज्ञानाभिमुखं स्वयंभूज्ञानानुकूलं सर्वबुद्धधर्मप्रज्ञाज्ञानाववादसंप्रत्येषकं धर्मधातुपरममाकाशधातुस्थितकमपरान्तकोटिनिष्ठम्। येन चित्तोत्पादेन सहोत्पन्नेन बोधिसत्त्वोऽतिक्रान्तो भवति, पृथग्ज्ञानभूमीमवक्रान्तो भवति, बोधिसत्त्वनियामं जातो भवति, तथागतकुलेऽनवद्यो भवति, सर्वजातिवादेन व्यावृत्तो भवति, सर्वलोकगतिभ्योऽवक्रान्तो भवति, लोकोत्तरां गतिं स्थितो भवति, बोधिसत्त्वधर्मतायां सुव्यवस्थितो भवति, बोधिसत्त्वावस्थानेन समतानुगतो भवति, त्र्यघ्वतथागतवंशनियतो भवति संबोधिपरायणः। एवंरूपधर्मव्यवस्थितो भवन्तो जिनपुत्रा बोधिसत्त्वः प्रमुदितायां बोधिसत्त्वभूमौ व्यवस्थितो भवत्यचलनयोगेन॥



अत्र भवन्तो जिनपुत्राः प्रमुदितायां बोधिसत्त्वभूमौ स्थितो बोधिसत्त्वः प्रामोद्यबहुलो भवति प्रसादबहुलः प्रीतिबहुल उत्प्लावनाबहुल उदग्रीबहुल उत्सीबहुल उत्साहबहुलोऽसंरम्भबहुलोऽविहिंसाबहुलोऽक्रोधबहुलो भवति। इति हि भवन्तो जिनपुत्राः प्रमुदितायां बोधिसत्त्वभूमौ स्थितो बोधिसत्त्वन् प्रमुदितो भवति, बुद्धान् भगवतोऽनुस्मरन् बुद्धधर्मान् बोधिसत्त्वान् बोधिसत्त्वचर्याः पारमिताविशुद्धिं बोधिसत्त्वभूमिविशेषान् बोधिसत्त्वासंहार्यतां तथागताववादानुशासनीं सत्त्वार्थसंप्रापणम्। प्रमुदितो भवति सर्वतथागतज्ञानप्रवेशप्रयोगमनुस्मरन्। भूयः प्रामोद्यवान् भवति - व्यावृत्तोऽस्मि सर्वजगद्विषयात्, अवतीर्णोऽस्मि बुद्धभूमिसमीपम्, दूरीभूतोऽस्मि बालपृथग्जनभूमेः, आसन्नोऽस्मि ज्ञानभूमेः, व्यवच्छिन्नोऽस्मि सर्वापायदुर्गतिविनिपातात्, प्रतिशरणभूतोऽस्मि सर्वसत्त्वानाम्, आसन्नदर्शनोऽस्मि सर्वतथागतानाम्, संभूतोऽस्मि सर्वबुद्धविषये, सर्वबोधिसत्त्वसमतामुपगतोऽस्मि। विगतानि मे सर्वभयत्रासच्छम्भितत्वानीति प्रामोद्यमुत्पादयति। तत्कस्य हेतोः ? तथा हि भवन्तो जिनपुत्रा बोधिसत्त्वस्य अस्याः प्रमुदिताया बोधिसत्त्वभूमेः सहप्रतिलम्भेन यानीमानि भयानि भवन्ति - यदिदमाजीविकाभयं वा अश्लोकभयं वा मरणभयं वा दुर्गतिभयं वा पर्षच्छारद्यभयं वा, तानि सर्वाणि व्यपगतानि भवन्ति। तत्कस्य हेतोः ? यथापि इदमात्मसंज्ञापगमादात्मस्नेहोऽस्य न भवति, कुतः पुनः सर्वोपकरणस्नेहः ? अतोऽस्य आजीविकाभयं न भवति। न च कंचित्सत्कारं कस्यचित्सकाशात्प्रतिकाङ्क्षति, अन्यत्र मयैव तेषां सत्त्वानां सर्वोपकरणबाहुल्यमुपनामयितव्यमिति, अतोऽस्य अश्लोकभयं न भवति। आत्मदृष्टिविगमाच्च अस्यात्मसंज्ञा न भवति, अतोऽस्य मरणभयं न भवति। मृतस्यैव मे नियतं बुद्धबोधिसत्त्वैर्न विरहितो भविष्यामीति, अतोऽस्य दुर्गतिभयं न भवति। नास्ति मे कश्चिदाशयेन सर्वलोके समसमः, कुतः पुनरुत्तर इत्यतोऽस्य पर्षच्छारद्यभयं न भवति। एवं सर्वभयत्रासच्छम्भितत्वरोमहर्षापगतः॥



अथ खलु पुनर्भवन्तो जिनपुत्रा बोधिसत्त्वो महाकरुणापुरस्कृतत्वादनुपहतेन अप्राकृतेनाध्याशयेन भूयस्या मात्रया प्रयुज्यते सर्वकुशलमूलमुदागमाय। स श्रद्धाधिपतेयतया प्रसादबहुलतया अधिमुक्तिविशुद्ध्या अवकल्पनाबहुलतया कृपाकरुणाभिनिर्हारतया महामैत्र्युपेततया अपरिखिन्नमानसतया ह्र्यपत्राप्यालंकारतया क्षान्तिसौरत्योपेततया तथागतार्हत्सम्यक्संबुद्धशासनगौरवचित्रीकरणतया रात्रिंदिवातृप्तकुशलमूलोपचयतया कल्याणमित्रनिषेवणतया धर्मारामाभिरततया अतृप्तबाहुश्रुत्यपर्येषणतया यथाश्रुतधर्मयोनिशःप्रत्यवेक्षणतया अनिकेतमानसतया अनध्यवसितलाभसत्कारश्लोकतया अनभिनन्दितोपकरणस्नेहतया रत्नोपमचित्तोत्पादातृप्ताभिनिर्हारतया सर्वज्ञभूम्यभिलाषणतया तथागतबलवैशारद्यावेणिकबुद्धधर्माध्यालम्बनतया पारमितासङ्गपर्येषणतया मायाशाठ्यपरिवर्जनतया यथावादितथाकारितया सततसमितं सत्यवचनानुरक्षणतया तथागतकुलभूषणतया बोधिसत्त्वशिक्षानुत्सर्जनतया महाशैलेन्द्रराजोपमसर्वज्ञताचित्ताप्रकम्पनतया सर्वलोकक्रियानभिलक्षणतया उत्सर्गलोकोत्तरपथोपेततया अतृप्तबोध्यङ्गसंभारोपचयतया सततसमितमुत्तरोत्तरविशेषपरिमार्गणतया। एवंरूपैर्भवन्तो जिनपुत्रा भूमिपरिशोधकैर्धर्मैः समन्वागतो बोधिसत्त्वः सुप्रतिष्ठितो भवति प्रमुदितायां बोधिसत्त्वभूमौ॥



सोऽस्यां प्रमुदितायां बोधिसत्त्वभूमौ स्थितः सन् इमान्येवंरूपाणि महाप्रणिधानानि महाव्यवसायान् महाभिनिर्हारानभिनिर्हरति - यदुत अशेषनिःशेषानवशेषसर्वबुद्धपूजोपस्थापनाय सर्वाकारवरोपेतमुदाराधिमुक्तिविशुद्धं धर्मधातुविपुलमाकाशधातुपर्यवसानमपरान्तकोटिनिष्ठं सर्वकल्पसंख्याबुद्धोत्पादंसंख्याप्रतिप्रस्रब्धं महापूजोपस्थानाय प्रथमं महाप्रणिधानमभिनिर्हरति। यदुत सर्वतथागतभाषितधर्मनेत्रीसंधारणाय सर्वबुद्धबोधिसत्त्वसुपरिग्रहाय सर्वसम्यक्संबुद्धशासनपरिरक्षणाय....बुद्धोत्पादसद्धर्मपरिग्रहाय द्वितीयम्। यदुत सर्वबुद्धोत्पादनिरवशेषसर्वलोकधातुप्रसरेषु तुषितभवनवासमादिं कृत्वा च्यवनासंक्रमणगर्भस्थितिजन्मकुमारक्रीडान्तःपुरवासाभिनिष्क्रमणदुष्करचर्याबोधिमण्डोपसंक्रमणमारघर्षणा-

भिसंबोध्यध्येषणमहाधर्मचक्रप्रवर्तनमहापरिनिर्वाणोपसंक्रमणाय पूजाधर्मसंग्रहप्रयोगपूर्वंगमं कृत्वा सर्वत्रैककालविवर्तनाय...बुद्धोत्पाद....यावन्महापरिनिर्वाणोपसंक्रमणाय तृतीयम्। यदुत सर्वबोधिसत्त्वचर्याविपुलमहद्गताप्रमाणासंभिन्नसर्वपारमितासंगृहीतसर्वभूमिपरिशोधनं साङ्गोपाङ्गनिर्हारसलक्षणसंवर्तविवर्तसर्वबोधिसत्त्वचर्याभूतयथावद्भूमिपथोपदेशपारमितापरिकर्माववादानुशासन्यनु-प्रदानोपस्तब्धचित्तोत्पादाभिनिर्हाराय...चर्या...चित्तोत्पादाभिनिर्हाराय चतुर्थम्। यदुत निरवशेषसर्वसत्त्वधातुरूप्यरूपिसंज्ञासंज्ञिनैवसंज्ञिनासंज्ञाण्डजजरायुजसंस्वेदजौपपादुक-... त्रैधातुकपर्यापन्नषड्गतिसमवसृतसर्वोपपत्तिपर्यापन्ननामरूपसंगृहीताशेषसर्वसत्त्वधातुपरिपाचनाय सर्वबुद्धधर्मावतारणाय सर्वगतिसंख्याव्यवच्छेदनाय सर्वज्ञज्ञानप्रतिष्ठापनाय...सत्त्वधातु...सर्वसत्त्वधातुपरिपाचनाय पञ्चमम्। यदुत निरवशेषसर्वलोकधातुविपुलसंक्षिप्तमहद्गताप्रमाणसूक्ष्मौदारिकव्यत्यस्तावमूर्धसमतलप्रवेशसमवरसरणानुगतेन्द्र-जालविभागदशदिगशेषविमात्रताविभागप्रवेशज्ञानानुगमप्रत्यक्षतायै...लोकधातु...लोकधातुवैमात्र्यावतारणाय षष्ठम्। यदुत सर्वक्षेत्रैकक्षेत्रैकक्षेत्रसर्वक्षेत्रसमवसरणपरिशोधनमप्रमाणबुद्धक्षेत्रप्रभाव्यूहालंकारप्रतिमण्डितं सर्वक्लेशापनयनपरिशुद्धपथोपेतमप्रमाणज्ञानाकरसत्त्वपरिपूर्णमुदारबुद्धविषयसमवसरणं यथाशयसर्वसत्त्वसंदर्शनसंतोषणाय...बुद्धक्षेत्र...सर्वबुद्धक्षेत्रपरिशोधनाय सप्तमम्। यदुत सर्वबोधिसत्त्वैकाशयप्रयोगतायै निःसपत्नकुशलमूलोपचयाय एकालम्बनसर्वबोधिसत्त्वसमतायै अविरहितसततसमितबुद्धबोधिसत्त्वसमवधानाय यथेष्टबुद्धोत्पादसंदर्शनाय स्वचित्तोत्पादतथागतप्रभावज्ञानानुगमाय अच्युतानुगामिन्यभिज्ञाप्रतिलम्भाय सर्वलोकधात्वनुविचरणाय सर्वबुद्धपर्षन्मण्डलप्रतिभासप्राप्तये सर्वोपपत्तिस्वशरीरानुगमाय अचिन्त्यमहायानोपेततायै बोधिसत्त्वचर्याचरणाव्यवच्छेदाय...चर्या...महायानावतारणाय अष्टमम्। यदुत अविवर्त्यचक्रसमारूढबोधिसत्त्वचर्याचरणाय अमोघकायवाङ्मनस्कर्मणे सहदर्शननियतबुद्धधर्मत्वाय सहघोषोदाहारज्ञानानुगमाय सहप्रसादक्लेशविनिवर्तनाय महाभैषज्यराजोपमाश्रयप्रतिलम्भाय चिन्तामणिवत्कायप्रतिलम्भाय सर्वबोधिसत्त्वचर्याचरणाय...चर्या...अमोघसर्वचेष्टतायै नवमम्। यदुत सर्वलोकधातुष्वनुत्तरसम्यक्संबोध्यभिसंबोधाय एकवालपथाव्यतिवृत्तसर्वबालपृथग्जनजन्मोपपत्यभिनिष्क्रमणविकुर्वणबोधिमण्डधर्मचक्रप्रवर्तनमहापरिनिर्वाणोपदर्शनाय महाबुद्धविषयप्रभावज्ञानानुगमाय सर्वसत्त्वधातुयथाशयबुद्धोत्पादक्षणक्षणविभङ्गविबोधप्रशमप्रापणसंदर्शनाय एकाभिसंबोधिसर्वधर्मनिर्माणस्फरणाय एकघोषोदाहारसर्वसत्त्वचित्ताशयसंतोषणाय महापरिनिर्वाणोपदर्शनचर्याबलाव्यवच्छेदाय महाज्ञानभूमिसर्वधर्मव्यवस्थापनसंदर्शनाय धर्मज्ञानर्द्धिमायाभिज्ञासर्वलोकधातुस्फरणाय अभिसंबोधिमहाज्ञानाभिज्ञाभिनिर्हाराय दशमम्। इति हि भवन्तो जिनपुत्रा इमान्येवंरूपाणि महाप्रणिधानानि महाव्यवसायान् महाभिनिर्हारान् दश प्रणिधानमुखानि प्रमुखं कृत्वा परिपूर्णानि दशप्रणिधानासंख्येयशतसहस्राणि यानि बोधिसत्त्वः प्रमुदितायां बोधिसत्त्वभूमौ स्थितोऽभिनिर्हरति प्रतिलभते च॥



तानि च महाप्रणिधानानि दशभिर्निष्ठापदैरभिनिर्हरति। कतमैर्दशभिः ? यदुत सत्त्वधातुनिष्ठया च लोकधातुनिष्ठया च आकाशधातुनिष्ठया च धर्मधातुनिष्ठया च निर्वाणधातुनिष्ठया च बुद्धोत्पादधातुनिष्ठया च तथागतज्ञानधातुनिष्ठया च चित्तालम्बनधातुनिष्ठया च बुद्धविषयज्ञानप्रवेशधातुनिष्ठयाः च लोकवर्तनीधर्मवर्तनीज्ञानवर्तनीधातुनिष्ठया च। इति हि या निष्ठा सत्त्वधातुनिष्ठायाः, सा मे निष्ठा एषां महाप्रणिधानानां भवतु। या निष्ठा यावज्ज्ञानवर्तनीधातुनिष्ठायाः, सा मे निष्ठा एषां महाप्रणिधानानां भवतु। इति ह्यनिष्ठा सत्त्वधातुनिष्ठा। अनिष्ठानीमानि मे कुशलमूलानि भवन्तु। अनिष्ठा यावज्ज्ञानवर्तनीधातुनिष्ठा। अनिष्ठानीमानि मे कुशलमूलानि भवन्त्विति॥



स एवं स्वभिनिहृर्तप्रणिधानः कर्मण्यचित्तो मृदुचित्तोऽसंहार्यश्रद्धो भवति। सोऽभिश्रद्दधाति तथागतानामर्हतां सम्यक्संबुद्धानां पूर्वान्तचर्याभिनिर्हारप्रवेशं पारमितासमुदागमं भूमिपरिनिष्पत्तिं वैशेषिकतां बलपरिनिष्पत्तिं वैशारद्यपरिपूरिमावेणिकबुद्धधर्मासंहार्यतामचिन्त्यां बुद्धधर्मतामनन्तमध्यं तथागतविषयाभिनिर्हारमपरिमाणज्ञानानुगतं तथागतगोचरानुप्रवेशं फलपरिनिष्पत्तिमभिश्रद्दधाति। समासतः सर्वबोधिसत्त्वचर्यां यावत्तथागतभूमिज्ञाननिर्देशाधिष्ठानमभिश्रद्दधाति॥



तस्यैवं भवति - एवं गम्भीराः खलु पुनरिमे बुद्धधर्माः एवं विविक्ताः एवं शान्ताः एवं शून्याः एवमानिमित्ताः एवमप्रणिहिताः एवं निरुपलेपाः एवं विपुलाः एवमपरिमाणाः एवमुदाराः एवं दुरासदाश्चेमे बुद्धधर्माः। अथ च पुनरिमे बालपृथग्जनाः कुदृष्टिपतितया संतत्या अविद्यान्धकारपयर्वनद्धमानसेन मानध्वजसमुच्छ्रित्तैः संकल्पैस्तृष्णाजालाभिलषितैर्मनसिकारैर्मायाशाठ्यगहनानुचरितैश्चित्ताशयैरीर्ष्यामात्सर्यसंप्रयुक्तैर्गत्युपपत्तिप्रयोगै रागद्वेषमोहपरिचित्तैः कर्मोपचयैः क्रोधोपनाहसंधुक्षिताभिश्चित्तज्वालाभिर्विपर्याससंप्रयुक्तैः कर्मक्रियाभिनिर्हारैः कामभवाविद्यास्रवानुबद्धैश्चित्तमनोविज्ञानबीजैस्त्रैधातुके पुनर्भवाङ्कुरमभिनिर्वर्तयन्ति यदिदं नामरूपसहजाविनिर्भागगतम्। तेनैव च नामरूपेण विवर्धितेन एषां षडायतनग्रामः संभवति। संभूतेष्वायतनेष्वन्योन्यस्पर्शनिपाततो वेदना संभवति। तामेव वेदनां भूयो भूयोऽभिनन्दतां तृष्णोपादानं विवर्धते। विवृद्धे तृष्णोपादाने भवः संभवति। संभूते च भवे जातिजरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः प्रादुर्भवन्ति। एवमेतेषां सत्त्वानां दुःखस्कन्धोऽभिनिर्वर्तते आत्मात्मीयविगतो रिक्तस्तुच्छः शून्यो निरीहो निश्चेष्टो जडस्तृणकाष्ठकुड्यवर्त्मप्रतिभासोपमः। न चैवमवबुध्यन्त इति। तेषामेवंरूपेण सत्त्वानां दुःखस्कन्धाविप्रमोक्षं दृष्ट्वा सत्त्वेषु महाकरुणोन्मिञ्जः संभवति - एतेऽस्माभिः सत्त्वाः परित्रातव्याः परिमोचयितव्या अतो महासंमोहात्, अत्यन्तसुखे च निर्वाणे प्रतिष्ठापयितव्याः इति। अतोऽस्य महामैत्र्युन्मिञ्जः संभवति॥



एवं कृपामैत्र्यनुगतेन खलु पुनर्भवन्तो जिनपुत्रा बोधिसत्त्वोऽध्याशयेन प्रथमायां बोधिसत्त्वभूमौ वर्तमानः सर्ववस्तुषु सापेक्षचित्तं परिवर्ज्य बुद्धज्ञाने च उदारस्पृहाभिलाषबुद्धिर्महात्यागेषु प्रयुञ्जते। स य इमे त्यागाः - यदुत धनधान्यकोशकोष्ठागारपरित्यागो वा हिरण्यसुवर्णमणिमुक्तावैडूर्यशङ्खशिलाप्रवालजातरूपरजतपरित्यागो वा रत्नाभरणविभूषणपरित्यागो वा हयरथगजपतिवाहनपरित्यागो वा उद्यानतपोवनविहारपरित्यागो वा दासीदासकर्मकरपौरुषेयपरित्यागो वा ग्रामनगरनिगमजनपदराष्ट्रराजधानीपरित्यागो वा भार्यापुत्रदुहितृपरित्यागो वा सर्वप्रियमनापवस्तुपरित्यागो वा शिरःकर्णनासाकरचरणनयनस्वमांसशोणितास्थिमज्जामेदश्छविचर्महृदयसर्वात्मभावपरित्यागो वा, तेष्वनपेक्षो भूत्वा सर्ववस्तुषु बुद्धज्ञाने च उदारस्पृहाभिलाषबुद्धिः परित्यजति। एवं ह्यस्य प्रथमायां बोधिसत्त्वभूमौ स्थितस्य महात्यागः संभवति॥



स एवं करुणामैत्रीत्यागाशयो भूत्वा सर्वसत्त्वपरित्राणार्थं भूयो भूयो लौकिकलोकोत्तरानर्थान् परिमार्गते परिगवेषते। परिमार्गमाणः परिगवेषमाणश्च अपरिखेदचित्तमुत्पादयति। एवमस्यापरिखेदः संभवति। अपरिखिन्नश्च सर्वशास्त्रविशारदो भवति। अतोऽस्य शास्त्रज्ञता संभवति। स एवं शास्त्रोपेतः क्रियाक्रियाविचारितया बुद्ध्या हीनमध्यप्रणीतेषु सत्त्वेषु तथत्वाय प्रतिपद्यते यथाबलं यथाभजमानम्। अतोऽस्य लोकज्ञता संभवति। लोकज्ञश्च कालवेलामात्रचारी ह्र्यपत्राप्यविभूषितया संतत्या आत्मार्थपरार्थेषु प्रयुज्यते। अतोऽस्य ह्र्यपत्राप्यं संभवति। तेषु च प्रयोगेषु नैष्क्रम्यचारी अविवर्त्याप्रत्युदावर्त्यबलाधानप्राप्तो भवति। एवमस्य धृतिबलाधानमाजतं भवति। धृतिबलाधानप्राप्तश्च तथागतपूजोपस्थानेषु प्रयुज्यते, शासने च प्रतिपद्यते। एवं ह्यस्येमे दश भूमिपरिशोधका धर्मा आजाता भवन्ति। तद्यथा - श्रद्धा करुणा मैत्री त्यागः खेदसहिष्णुता शास्त्रज्ञता लोकज्ञता ह्र्यपत्राप्यं धृतिबलाधानं तथागतपूजोपस्थानमिति॥



तस्य अस्यां प्रमुदितायां बोधिसत्त्वभूमौ स्थितस्य बोधिसत्त्वस्य बहवो बुद्धा आभासमागच्छन्ति औदारिकदर्शनेन प्रणिधानबलेन च। बहूनि बुद्धशतानि बहूनि बुद्धसहस्राणि बहूनि बुद्धशतसहस्राणि बहूनि बुद्धनयुतशतसहस्राणि बहवो बुद्धकोट्यो बहूनि बुद्धकोटीशतानि बहूनि बुद्धकोटीसहस्राणि बहूनि बुद्धकोटीशतसहस्राणि बहूनि बुद्धकोटीनयुतशतसहस्राण्याभासमागच्छन्ति औदारिकदर्शनेन प्रणिधानबलेन च। स तांस्तथागतानर्हतः सम्यक्संबुद्धान् दृष्ट्वा उदाराध्याशयेन सत्करोति गुरुकरोति मानयति पूजयति, चीवरपिण्डपात्रशयानासनग्लानप्रत्ययभैषज्यपरिष्कारैश्च प्रतिपादयति। बोधिसत्त्वसुखोपधानं चोपसंहरति। संघगणसंमानतां च करोति। तानि च कुशलमूलान्यनुत्तरायां सम्यक्संबोधौ परिणामयति। तांश्च अस्य बुद्धान् भगवतः पूजयतः सत्त्वपरिपाक आजातो भवति। स सत्त्वांश्च परिपाचयति दानेन प्रियवद्येन च अधिमुक्तिबलेन च। अस्योपरि द्वे अर्थसंग्रहवस्तून्याजायेते न तु खल्वशेषज्ञानप्रतिवेधप्रतिलम्भेन। तस्य दशभ्यः पारमिताभ्यो दानपारमिता अतिरिक्ततमा भवति, न च परिशेषासु न समुदागच्छति यथाबलं यथाभजमानम्। स यथा यथा बुद्धांश्च भगवतः पूजयति, सत्त्वपरिपाकाय च प्रयुज्य तानिमान् दश भूमिपरिशोधकान् धर्मान् समादाय वर्तते, तथा तथास्य तानि कुशलमूलानि सर्वज्ञतापरिणामितानि भूयस्या मात्रयोत्तप्यन्ते, परिशुद्ध्यन्ति, कर्मण्यानि च भवन्ति यथाकामतया। तद्यथापि नाम भवन्तो जिनपुत्रा जातरूपं कुशलेन कर्मारेण यथा यथाग्नौ प्रक्षिप्यते, तथा तथा परिशुद्ध्यति कर्मण्यं च भवति विभूषणालंकारविधिषु यथाकामतया, एवमेव भवन्तो जिनपुत्रा यथा यथा बोधिसत्त्वो...पेयालं...यथाकामतया॥



पुनरपरं भवन्तो जिनपुत्र बोधिसत्त्वेन अस्यां प्रथमायां बोधिसत्त्वभूमौ स्थितेन अस्या एव प्रथमाया बोधिसत्त्वभूमेराकारप्रतिलम्भनिष्यन्दाः परिमार्गितव्याः परिगवेषितव्याः परिप्रष्टव्याः। बुद्धबोधिसत्त्वानां कल्याणमित्राणां च सकाशादतृप्तेन च भवितव्यं भूम्यङ्गपरिनिष्पादनाय। एवं यावद्दशम्या बोधिसत्त्वभूमेरङ्गपरिनिष्पादनाय। तेन भूमिपक्षप्रतिपक्षकुशलेन च भवितव्यं भूमिसंवर्तविवर्तकुशलेन च भूम्याकारनिष्यन्दकुशलेन च भूमिप्रतिलम्भविभावनाकुशलेन च भूम्यङ्गपरिशोधनकुशलेन च भूमेर्भूमिसंक्रमणकुशलेन च भूमिभूमिव्यवस्थानकुशलेन च भूमिभूमिविशेषज्ञानकुशलेन च भूमिभूमिप्रतिलम्भाप्रत्युदावर्त्यकुशलेन च सर्वबोधिसत्त्वभूमिपरिशोधनतया तथागतज्ञानभूम्याक्रमणकुशलेन च भवितव्यम्। एवं भूम्याकाराभिनिर्हारकुशलस्य हि भवन्तो जिनपुत्रा बोधिसत्त्वस्य प्रथमाया बोधिसत्त्वभूमेरुच्छलितस्य निष्ठानं न संभवति यावद्दशभूमिभूम्याक्रमणमिति। मार्गाधिष्ठानागमेन च भूमेज्ञानालोकेन च बुद्धज्ञानालोकं प्राप्नोति। तद्यथापि नाम भवन्तो जिनपुत्राः कुशलः सार्थवाहो महासार्थपरिकर्षणाभिप्रायो महानगरमनुप्रापयितुकामः आदावेव मार्गगुणांश्च मार्गविवर्तदोषांश्च मार्गस्थानान्तरविशेषांश्च मार्गस्थानान्तरविवर्तदोषांश्च मार्गक्रियापथ्योदनकार्यतां च परिमार्गयति परिगवेषयते। स यावन्महानगरानुप्राप्तये कुशलो भवत्यनुच्चलित एव प्रथमान्मार्गान्तरस्थानात्। स एवं ज्ञानविचारितया बुद्ध्या महापथ्योदनसमृद्ध्या अनुपूर्वेण महासार्थेन सार्धं यावन्महानगरमनुप्राप्नोति, न चाटवीकान्तारदोषैः सार्थस्य वा आत्मनो वास्योपघातः संपद्यते। एवमेव भवन्तो जिनपुत्रा बोधिसत्त्वः कुशलो महासार्थवाहो यदा प्रथमायां बोधिसत्त्वभूमौ स्थितो भवति, तदा भूमिपक्षप्रतिपक्षकुशलो भवति, भूमिसंवर्तविवर्तकुशलो भवति, भूम्याकारनिष्यन्दकुशलो भवति, भूमिप्रतिलम्भविभावनाकुशलो भवति, भूम्यङ्गपरिशोधनकुशलो भवति, भूमेर्भूमिसंक्रमणकुशलो भवति, भूमिभूमिव्यवस्थानकुशलो भवति, भूमिभूमिविशेषज्ञानकुशलो भवति, भूमिभूमिप्रतिलम्भाप्रत्युदावर्त्यकुशलो भवति, सर्वबोधिसत्त्वभूमिपरिशोधनतया तथागतज्ञानभूम्याक्रमणकुशलश्च भवति। तदा बोधिसत्त्वो महापुण्यसंभारपथ्योदनसुसंगृहितो ज्ञानसंभारसुकृतविचयो महासत्त्वसार्थपरिकर्षणाभिप्रायः सर्वज्ञतामहानगरमनुप्रापयितुकामः आदावेव भूमिमार्गगुणांश्च भूमिमार्गविवर्तदोषांश्च भूमिमार्गस्थानान्तरविशेषांश्च भूमिमार्गस्थानान्तरविवर्तदोषांश्च महापुण्यज्ञानसंभारपथ्यदनक्रियाकार्यतां च परिमार्गते परिगवेषते बुद्धानां भगवतां बोधिसत्त्वानां कल्याणमित्राणां च सकाशात्। स यावत्सर्वज्ञतामहानगरानुप्राप्तिकुशलो भवत्यनुच्चलित एव प्रथमान्मार्गान्तरस्थानात्। स एवं ज्ञानविचारितया बुद्ध्या महापुण्यज्ञानसंभारपथ्यदनसंरुद्धया महान्तं सत्त्वसार्थं यथापरिपाचितं संसाराटवीकान्तारदुर्गादतिक्रम्य यावत्सर्वज्ञतामहानगरमनुप्रापयति। न संसारटवीकान्तारदोषैः सत्त्वसार्थस्य वा आत्मनो वा अस्योपघातः संपद्यते। तस्मात्तर्हि भवन्तो जिनपुत्रा बोधिसत्त्वेन अपरिखिन्नेन भूमिपरिकर्मपरिकर्मविशेषाभियुक्तेन भवितव्यम्। अयं भवन्तो जिनपुत्रा बोधिसत्त्वस्य प्रथमायाः प्रमुदिताया बोधिसत्त्वभूमेर्मुखप्रवेशः समासतो निर्दिश्यते॥



योऽस्यां प्रतिष्ठितो बोधिसत्त्वो भूयस्त्वेन जम्बूद्वीपेश्वरो भवति महैश्वर्याधिपत्यप्रतिलब्धो धर्मानुरक्षी कृती प्रभुः सत्त्वान् महात्यागेन संग्रहीतुकुशलः सत्त्वानां मात्सर्यमलविनिवृत्तयेऽपर्यन्तो महात्यागारम्भैः। यच्च किंचित्कर्मारभते दानेन वा प्रियवद्यतया वा अर्थक्रियया वा समानार्थतया वा, तत्सर्वमविरहितं बुद्धमनसिकारैर्धर्ममनसिकारैः संघमनसिकारैर्बोधिसत्त्वमनसिकारैर्बोधिसत्त्वचर्यामनसिकारैः पारमितामनसिकारैर्भूमिमनसिकारैर्बलमनसिकारैर्वैशारद्यमनसिकारैरावेणिकबुद्धधर्ममनसिकारैर्यावत्सर्वाकारवरोपेतसर्वज्ञज्ञानमनसिकरैः। किमिति ? सर्वसत्त्वानामग्र्यो भवेयं श्रेष्ठो ज्येष्ठो वरः प्रवर उत्तमोऽनुत्तमो नायको विनायकः परिणायको यावत्सर्वज्ञज्ञानप्रतिशरणो भवेयम् इति। आकाङ्क्षंश्च तथारूपं वीर्यमारभते यथारूपेण वीर्यारम्भेण सर्वगृहकलत्रभोगानुत्सृज्य तथागतशासने प्रव्रजति। प्रव्रजितश्च सन् एकक्षणलवमुहूर्तेन समाधिशतं च प्रतिलभते समापद्यते च। बुद्धशतं च पश्यति, तेषां चाधिष्ठानं संजानीते। लोकधातुशतं च कम्पयति। क्षेत्रशतं चाक्रमति। लोकधातुशतं चावभासयति। सत्त्वशतं च परिपाचयति। कल्पशतं च तिष्ठति। कल्पशतं च पूर्वान्तापरान्ततः प्रविशति। धर्ममुखशतं च प्रविचिनोति। कायशतं चादर्शयति। कायं कायं च बोधिसत्त्वशतपरिवारमादर्शयति। तथा उत्तरे प्रणिधानबलिका बोधिसत्त्वाः प्रणिधानविशेषिकतया विकुर्वन्ति येषां न सुकरा संख्या कुर्तुं कायस्य वा प्रभाया वा ऋद्वेर्वा चक्षुषो वा गोचरस्य वा स्वरस्य वा चर्याया वा व्यूहस्य वा अधिष्ठानस्य वा अधिमुक्तेर्वा अभिसंस्कारणां वा यावदेवतावद्भिरपि कल्पकोटिनियुतशतसहस्रैरिति॥



प्रमुदिता नाम प्रथमा भूमिः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project