Digital Sanskrit Buddhist Canon

चतुष्परिषत् सूत्रम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Catuṣpariṣat sūtram

चतुष्परिषत् सूत्रम्

१। बोधिसत्त्वो भगवान् उरुबिल्वायां विहारं नद्या नैरञ्जनायास्तीरे बोधिमूले सातत्यकारी निपको बोधिपाक्षिकेषु धर्मेषु भावनायोगम् अनुयुक्तोविहरति।
२। स रात्र्याः प्रथमे यामे ऋद्धिविषयज्ञानसाक्षीक्रियाया अभिज्ञायां चित्तं अभिनिर्नामयत्यनेकविधम् ऋद्धिविषयं प्रत्यनुभवति।
३। तद्यथा एको भूत्वा बहुधा भवति।बहुधा भूत्वा एको भवति।आविर्भवति तिरोभावं ज्ञानदर्शनेन प्रत्यनुभवति। तिरस्कुड्यं तिरःशैलं तिरःप्राकारम् असज्यमानः कायेन गच्छति तद्यथा आकाशे।पृथिव्याम् उन्मज्जननिमज्जनं करोति तद्यथा उदके। उदके असज्यमानः कायेन गच्छति तद्यथा पृथिव्याम्।
आकाशे पर्यंगेन विक्रमते तद्यथा पक्षि शकुनिः। इमावपि चन्द्रसूर्यौ एवं महर्धिकौ एवं महानुभावौ पाणिना आमार्जति परिमार्जयति यावद् ब्रह्मलोकादपि कायेन वशे वर्तयति।

४। इति बोधिसत्त्वो भगवान् उरुविल्वायां विहरं नद्या नैरञ्जनायास्तीरे बोधिमूले सातत्यकारी निपको बोधिपाक्षिकेषू धर्मेषु भावनायोगम् अनुयुक्तो विहरं रात्र्याः प्रथमे यामे अनेकविधम् ऋद्धिविषयं प्रत्यनुभवति।

५। अथ बोधिसत्त्वो भगवान् उरुविल्वायां विहरं पूर्ववद् यावद् अनुयुक्तो विहरति।

६। स रात्र्याः प्रथमे यामे पूर्वेनिवासानुस्मृतिज्ञानसाक्षीक्रियाया अभिज्ञायां चित्तम् अभिनिर्नामयति सोऽनेकविधं पूर्वेनिवासंसमनुस्मरति।

७। तद्यथैकां जातिं द्वे तिस्रश्चतस्रः यावद् अनेकानपि संवर्तकल्पान् समनुस्मरति।

८। इति बोधिसत्त्वो भगवां उरुविल्वायां विहरं नद्या नैरञ्जनायास्तीरे बोधिमूले सातत्यकारी निपको बोधिपाक्षिकेषु धर्मेषु भावनायोगम् अनुयुक्तो विहरं रात्र्याः प्रथमे यामे पूर्वेनिवासं समनुस्मरति।

९। अथ बोधिसत्त्वो भगवान् उरुविल्वायां विहरं पूर्ववद् यावद् अनुयुक्तो विहरति।

१०। स रात्र्या मध्यमे यामे दिव्यश्रोत्रज्ञानसाक्षीक्रियाया अभिज्ञायां चित्तम् अभिनिर्नामयति दिव्येन श्रोत्रेण विशुद्धेनातिक्रांतमानुषेणौभयाम् शृणोति मानुषांश्च ये वा दूरे ये वान्तिके।

११। इति बोधिसत्त्वो भगवान् उरुविल्वायां विहरं नद्या नैरञ्जनायास्तीरे बोधिमूले सातत्यकारी निपको बोधिपाक्षिकेषु धर्मेषु भावनायोगम् अनुयुक्तो विहरं रात्र्या मध्यमे यामे दिव्यश्रोत्रज्ञानं प्रत्यनुभवति।

१२। अथ बोधिसत्त्वो भगवान् उरुविल्वायां विहरं पूर्ववद् यावद् अनुयुक्तो विहरति।

१३। स रात्र्या मध्यमे यामे दिव्यचक्षुर्ज्ञानसाक्षीक्रियाया विद्यायां चित्तम् अभिनिर्नामयति।

१४। दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुषेण सत्त्वान् पश्यति च्यवमानानप्युपपद्यमानानपि सुवर्णानपि दुर्वर्णानपि हीनानपि प्रणीतानपि सुगतिमपि गच्छतो दुर्गतिमपि यथाकर्मोपगान् सत्त्वान् यथाभूतं प्रजानाति।

१५। इतीमे भवन्तः सत्त्वाः कायदुश्चरितेन समन्वागता वाङ्मनोदुश्चरितेन समन्वागता आर्याणाम् अपवादका मिथ्यादृष्टयो मिथ्यादृष्टिकर्मधर्मसमादानहेतोस्तद्धेतोस्तत्प्रत्ययं कायस्य भेदात् परं मरणाद् अपायदुर्गतिविनिपातम् नरकेषूपपद्यन्ते।

१६। इमे वा पुनर्भवन्तः सत्त्वाः कायसुचरितेन समन्वागता वाङ्मनःसुचरितेन समन्वागता आर्याणाम् अनपवादकाः सम्यग्दृष्टयः सम्यग्दृष्टिकर्मधर्मसमादानहेतोस्तद्धेतोस्तत्प्रत्ययं कायस्य भेदात् सुगतौ स्वर्गलोके देवेषूपपद्यन्ते।

१७। इति बोधिसत्त्वो भगवान् उरुबिल्वायां विहरं नद्या नैरंजनायास्तिरे बोधिमूले सातत्यकारी निपको बोधिपक्षिकेषु धर्मेषु भावनायोगम अनुयुक्तो विहरं रात्र्या मध्यमे यामे दिव्यचक्षुर्ज्ञानं प्रत्यनुभवति।

१८। अथ बोधिसत्त्वो भगवान् उरुबिल्वायां विहरं पूर्ववद् यवद् अनुयुक्तो विहरति।
१९। स रात्र्या पश्चिमे यामे चेतःपर्यायज्ञसाक्षिक्रियाय अभिज्ञायम् चित्तम् अभिनिर्नामयति।
२०। परसत्त्वानां परपुद्गलानं वितर्कितं विचरितं मनसा मानसं यथाभूतं प्रजानाति।सरागचित्तं सरागं चित्तम् इति यथाभूतं प्रजानाति।
विगतरागं विगतरागं इति यथाभूतं प्रजानाति।सद्वेषं विगतद्वेषं समोहम् विगतमोहं विक्षिप्तं संक्षिप्तं लीनं प्रगृहितम्
उद्धतं अनुद्धतं अव्युपशान्तं व्युपशन्तं समाहितं असमाहितम् अभावितं भावितं अविमुक्तं चित्तम् अविमुक्तं चित्तं इति यथाभूतं प्रजानाति।

२१। इति बोधिसत्त्वो भगवान् उरुबिल्वायां विहरं नद्या नैरंजनायास्तिरे बोधिमूले सातत्यकारी निपको बोधिपक्षिकेषु धर्मेषु भावनायोगम् अनुयुक्तो विहरं रात्र्याः पश्चिमे यामेचेतःपर्यायज्ञानं प्रत्यनुभवति।

२२। अथ बोधिसत्त्वो भगवान् उरुबिल्वायां विहरं पूर्ववद् यावद् अनुयुक्तो विहरति।

२३। स रात्र्याः पश्चिमे यामे आस्रवक्षयज्ञानसाक्षिक्रियाया अभिज्ञायां चित्तम् अभिनिर्नामयति।

२४। इदं दुःखम् आर्यसत्यम् इति यथाभूतं प्रजानाति। अयं दुःखसमुदयः। अयं दुःखनिरोधः। इयं दुःखन्निरोधगामिनी प्रतिपद् आर्यसत्यम् इति यथाभूतं प्रजानाति। तस्यैवं जानत एवं पश्यतः कामास्रवाच्चित्तं विमुच्यते।भवास्रवाद् अविद्यास्रवाच्चित्तं विमुच्यते। विमुक्तस्य विमुक्तोऽस्मिति ज्ञानदर्शनं भवति।
क्षीणा मे जातिरुषितं ब्रह्मचर्यं कृतं करणीयं नापरम् अस्माद् भवं प्रजानामीति।

२५।इति भगवान् उरुबिल्वयां विहरं नद्या नैरंजनायास्तीरे बोधिमूले कृतकृत्यः कृतकरणीयः संबुद्धबोधिस् तेजोधातुं समपन्नः।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project