Digital Sanskrit Buddhist Canon

१९. सिक्षा संवर समुद्देश प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
१९. सिक्षा संवर समुद्देश प्रकरणम्



तदानन्दः समुत्थाय भगवतः पुरो गतः।

पादाब्जे सांजलिर्नत्वा सम्पश्यन्नेवमब्रवीमब्रवीत्॥

भगवच्छास्तरस्माकं भिक्षूणां ब्रह्मचारिणाम्।

शिक्षासंवरसंवृत्तं समुपादेष्टुमर्हति॥

इति संप्रार्थिते तेन भगवान् स मुनीश्वरः।

आयुष्मन्तं तमानन्दं संपश्यन्नेवमादिशत्॥



२६५

साधु शृणु त्वमानन्द भिक्षूणां ब्रह्मचारिणाम्।

शिक्षासंवरसांवृतं प्रवक्षामि समासतः।

ये शुद्धश्स्यः सत्त्वाः प्रव्रजित्वा जिनाश्रमे।

शिक्षासंवरमिच्छन्ति धर्तुं निर्वृतिसाधनम्॥



प्रथमं ते समालोक्य शुद्धक्षेत्रे मनोरमे।

निषद्य स्वासने ध्यात्वा संतिष्ठेरन् समाहिताः॥

भस्मास्थिकेशजम्बालावस्करामेध्यसंकुले।

क्षेत्रे नैव निवास्तव्यं कदापि ब्रह्मचारिभिः॥

दुःशीलैर्भिक्षुभिः सार्धं कर्तव्या नैव संगतिः।

आलापोऽपि निवासोऽपि कर्तव्या न कदाचन॥

दुःशीलैर्भिक्षुभिः सार्धं भोक्तव्यं नापि किंचन।

न स्थातव्यं न गन्तव्यं क्रीडितव्यं न च क्वचित्॥

उपसंपन्ने दातव्या न च ज्ञप्तिचतुर्थकम्।

सद्धर्मस्साधनोपायं नापि देयं दुरात्मनाम्॥

दुःशीला हि दुरात्मानो बौद्धशासनदूषकाः।

मारचर्यानुसंरक्ताः क्लेशव्यालितेन्द्रियाः॥

तेषां नैवाभिदातव्य आवासः सौगताश्रमे।

दातव्यो दूरतस्तेषामावास आश्रमाद्बहिः॥

संघालापो न दातव्यो दुःशीलानां कदाचन।

न तेषां सांघिकी भूमिर्नैवार्हति कुहापि हि॥

न तेषां विद्यते किंचिदर्हत्संवृत्तिचारणम्।

सर्वसत्त्वहिताधानं कुतः संबोधिसाधनम्॥

इत्यादिष्टं मुनीन्द्रेण निशम्य स जिनात्मजः।

आनन्दस्तं मुनीशानं समालोक्यैवमब्रवीत्॥

भगवन् कतमे काले दुःशीला भिक्षवः शठाः।

दक्षणीया भविष्यन्ति नायकाः सौगताश्रमे॥

इत्यानन्देन संपृष्टे भगवान् सर्वविज्जिनः।

तमानन्दं समालोक्य पुनरेवं समादिशत्॥

२६६

त्रिवर्षशतनिर्याते सुनिर्वृतस्य मे तदा।

दुःशीला भिक्षवो दक्षाः भवेयुः सौगताश्रमे॥

तत्र ते भिक्षवः सर्वे भ्रष्टाचारा दुराशयाः।

विहारे समुपासीनाश्चरेयुर्गृहिचारिकम्॥

भार्यापुत्रसुताभ्रातृज्ञातिबन्धुसमन्विताः।

यथाकामं सुखं भुक्त्वा संचरेरन् प्रमादिताः॥

तेऽनीत्याहृत्य संघानां सर्वोपकरणान्यपि।

सर्वाणि स्वात्मसात्कृत्वा भविष्यन्ति निजालयम्॥

यथेच्छया समादाय भुक्त्वा भोग्यान् यथेप्सितम्।

कुटुम्बसाधनोपाये संचरेरन् प्रगल्भिताः॥

ते सांघिकोपचारेऽपि कुर्युर्विण्मूत्रसर्जनम्।

श्लेष्मलालोद्वमोच्छिष्ठं विसर्जेयुश्च सर्वतः॥

एतत्कर्मविपाकानि न ते ज्ञास्यन्ति दुर्धियः।

उन्मत्ता इव दुर्दान्ताश्चरेयुर्दुरितारताः॥

ये सांघिकोपचारेषु कुर्तुः श्लेष्मादिसर्जनम्।

शालाटव्यां भवेयुस्ते प्रेताः सूचीमुखा किल॥

विण्मूत्रादिपरित्यागं कुर्युर्ये सांघिकाश्रमे।

वाराणस्यां भवेयुस्ते कृमयो गूथमूत्रजाः॥

दन्तकाष्ठादिकं हृत्वा प्रभुं स्फ़ूर्य च सांघिकम्॥

ते स्यू रक्तपशम्बूकमत्स्यादिजलजन्तवः।

व्रीहिद्रव्याणि ये हृत्या भुंज्युर्ये सांघिकानि च।

ते भवेयुर्महाप्रेताः सूचीमुखा नगोदराः॥

येऽन्नपानादिकं कृत्व भुंज्युर्ये चापि सांघिकम्।

ते स्युर्हीनकुले जाता हीनेन्द्रियाश्च पाचकाः॥

ततश्च्युताश्च ते जाता लंगितकुब्जदुर्मुखाः।

कुष्थव्याधिपरीतांगा भवेयुः पूतिवाहिकाः॥

यदा तत्र स्थिता यायुर्यष्टिं धृत्वा शनैर्भुवि।

नियतेयुस्तदा तेषां सर्वाणि पिशितान्यपि॥



२६७

एवं ते बहुवर्षाणि दुःखानि विविधानि च।

भुक्त्वापायिकं कर्म कृत्वा यायुश्च नारकान्॥

ये चापि सांघिकीं भूमिं परिभोज्यन्ति लोभिनः।

ते दुष्टाः क्लेशितात्मानो यायु रौरवनारके॥

तत्र तेषां मुखे तप्तलौहगुडा निवेशयेत्।

तैस्तेषामभिधक्ष्यन्ते ताल्वौष्ठहृदुदरान्यपि॥

कण्ठहृदुदरान्त्रादीन् धक्ष्यन्ते सर्वविग्रहान्।

तथा मृताः पुनस्तेऽपि जीवेयुः कर्मभोगिनः॥

यमपालैर्गृहीत्वा च क्षेप्स्यन्ते घोरनारके।

तेषां कर्मवशाज्जिह्वा प्रभवेच्च महत्तरी॥

कृष्यन्ते हलशतैस्तत्र जिह्वायां यमकिन्नरैः।

एवं बहूनि वर्षाणि दुःखानि विविधानि ते॥

भुक्त्वा मृताः पुनर्यायुर्नाकेऽग्निघटे खलु।

तत्र तेषां महज्जिह्वा प्रोद्भवेदपि तत्र च॥

सूचीशतसहस्राणि विध्येयर्युमकिन्नराः।

तथापि ते मृता नैव स्थास्यन्ति दुःखिताश्चिरम्॥

ततस्थानग्निखदायां च क्षेप्स्यन्ति यमकिन्नराः।

तत्रापि ते मृता नैव स्थास्यन्ति कर्मभोगिनः।

ततश्चोत्क्षिप्य तान् प्रेतनद्यां क्षेप्स्यन्ति किन्नराः॥

तत्रापि बहुवर्षाणि दुखानि विविधानि ते॥

भुक्त्वा स्थास्यन्ति दुःखार्ताः सुचिरं कर्मभोगिनः॥

एवं त्रिकल्पवर्षाणि भ्रमतां नरके सदा।

ततस्तत्कर्मवैपाकक्षीणं तेषाम् भवेच्चिरात्॥

ततश्च्युत्वा च ते जंबूद्वीपे जातास्सुदुःखिताः।

दरिद्रिताश्च जात्यन्धा भवेयुर्दुरिताशयाः॥

एवं ते बहुदुःखानि प्रभुक्त्वा बहुजन्मसु।

सदा क्लेशाग्निसंतप्ता भ्रमेयुर्भवसागरे॥

तस्मादानन्द संघानां सर्वोपकरणान्यपि।

द्रव्याण्यपि च सर्वाणि रक्षितव्यानि यत्नतः॥

२६८

अनीत्या नैव भोक्तव्यं सांघिकं वस्तु किंचन।

केनापि सांघिकं वस्तु जीर्णीकर्तुं न शक्यते॥

तदभोग्यमनीत्या हि सांघिकं वस्तु किंचन।

अस्पृश्यं वह्निवत्तप्तं दहनं वस्तु सांघिकम्॥

भारोपमं सदाक्रान्तमभेद्यं वज्रसन्निभम्।

अपथ्यविषवद्दुष्टं तीक्ष्णासिधारसन्निभम्॥

वैषं तेजैः समीकर्तुं मन्त्रौषध्यैर्हि शक्यते।

सांघिकिं वस्तु हर्तुं न पापं केनापि शम्यते॥

इति मत्वात्र संसारे सम्बोधिश्रीसुखेप्सुभिः।

सांघिकं वस्तु यत्नेन रक्षितव्यं रक्षितव्यं सदादरात्॥

एवं विज्ञाय संबोधिचित्तं धृत्वा समहितः।

शिक्षासंवरमाधाय सम्पद्रक्षितुमर्हति॥

शिक्षां रक्षितुकामेन चित्तीरक्ष्यं प्रयत्नतः।

न शिक्षा रक्षितुं शक्या चलं चित्तमरक्षता॥

अदान्ता मत्तमातंगा न कुर्वन्तीह तां व्यथाम्।

करोति यामवीच्यादौ मुक्तश्चित्तमतंगजः॥

बद्धश्चेच्चित्तमातंगः स्मृतिरक्षा समन्ततः।

भयमस्तं गतं सर्वं सदा कल्याणमागतम्॥

व्याघ्राः सिंहा गजा ऋक्षा सर्वे च दुष्टशत्रवः।

सर्वे नरकपालाश्च डाकिन्यो राक्षसास्तथा॥

सर्वे बद्धा भवन्त्येते चित्तस्यैकस्य बन्धनात्।

चित्तस्यैकस्य दमनात् सर्वे दान्ता भवन्त्यमी॥

यस्माद्भयानि सर्वाणि दुःखाप्रमितान्यपि।

चित्तादेव समुद्यान्ति सर्वेषां भवचारिणाम्॥

शस्त्राणि नरके केन घटितानि समन्ततः।

तप्तायःकुट्टिमं केन कुतो जाताश्च ताः स्त्रियः॥

पापं चित्तसमुद्भुतं सर्वमेतद्भवालये।

तस्मान्न कश्चित् त्रैलोक्ये चितादन्यो भयानकः॥

२६९

अदरिद्रं जगत् कृत्वा दानपारमिता यदि।

जगद्दरिद्रमद्यापि सा कथं पूर्वतायिनाम्॥

फ़लेन सह सर्वस्वत्यागचित्तं जनेअखिले।

दानपारमिता प्रिक्ता तस्मात् सा चित्तमेव हि॥

मत्स्यादयः क्व नीयन्तां मारयेयुर्यतो रतान्।

लब्धे विरतिचित्ते तु शीलपारमिता मता॥

कियतो मारयिष्यन्ति दुर्जनान् गगनोपमान्।

मारिते क्रोधचित्ते तु मारिताः सर्वशत्रवः॥

भूमिं छादयितुं सर्वान् कुतश्चर्म भविष्यति।

उपानच्चर्ममात्रेण छन्ना भवति मेदिनी॥

बाह्या भावाः सदा तद्वच्छक्या वारयितुं न हि।

स्वचित्तमेव निवार्यं तत्किमेवान्यैर्निवारित्रैः॥

सहापि वाक्छरीराभ्यां मन्ददृत्तेर्न तत्फ़लम्।

यत्पटोरेकैकस्यापि चित्तस्य ब्रह्मतादिकम्॥

जपांस्तपांसि सर्वाणि दीर्घकालकृतान्यपि।

अन्यचित्तेन मन्देन वृथैव सिध्यते न हि॥

दुःखं हन्तुं सुखं प्राप्तुं ते भ्रमन्ति मुधाम्बरे॥

यैरेतद्धर्मसर्वस्वं चित्तं गुह्यं न भावितम्।

तस्मात् स्वधिष्ठितं चित्तम् सदा कार्यं सुरक्षितम्॥

चित्तरक्षाव्रतं त्यक्त्वा बहुभिः किं तपोव्रतैः।

यथा चपलमध्यस्था रक्षति व्रणमादरात्॥

एवं दुर्जनमध्यस्था रक्षेच्चित्तं प्रयत्नतः।

व्रणदुःखलवाद्वीता रक्षेत् स्वं व्रणमादरात्॥

संघातपर्वताघाताद्भीतश्चित्तं बलं न किम्।

अनेन हि विहारेन विहरन् दुर्जनेष्वपि॥

प्रमदाजनमध्येऽपि यतिर्धीरो न खण्दते॥

लाभा नश्यन्तु संपत्तिः सत्कारः कायजीवितम्।

नश्यत्वन्यच्च कौशल्यं मा तु चित्तं न कस्यचित्॥

२७०

चित्तमेव सदा रक्ष्यं संबोधिज्ञानसाधनम्।

स्मृतिं च संप्रजन्यं च सर्वयत्नेन रक्षयेत्॥

व्याध्याकुलो नरो यद्वन्न क्षमः सर्वकर्मसु।

तथाभ्यां व्याकुलं चित्तं न क्षमं बोधिसाधने॥

असंप्रजन्यचित्तस्य श्रुतचिन्तितभावितम्।

जलवच्छिद्रिते कुम्भे स्मृतौ नैवाभितिष्ठते॥

अनेके श्रुतवन्तोऽपि श्रद्धायत्नपरा अपि।

असंप्रजन्यदोषेण भवन्त्यापत्तिकश्मलाः॥

असंप्रजन्यचौरेण स्मृतिमोषानुसारिणा।

उपचित्यापि पुण्यानि मुषिता यान्ति दुर्गतिम्॥

क्लेशतस्करसंघोऽयमेव तारणवेषकः।

प्राप्यावतारं मुष्णाति हन्ति सद्गतिं जीवितम्॥

तस्मात् स्मृतिर्मनोद्वारान्नापनेया कदाचन।

गतापि प्रत्युपस्थाप्या संस्मृत्या पापिकीं व्यथाम्॥

उपाध्यायानुशासिन्या भीत्याप्यादरचारिणाम्।

धन्यानां गुरुसंवासात् सुकरं जायते स्मृतिः॥

बुद्धाश्च बोधिसत्त्वाश्च सर्वत्राव्याहतेक्षणाः।

सर्वोऽप्ययं जगल्लोकस्तेषामग्रे सदा स्थितः॥

इति ध्यात्वा सदा तिष्ठेत् त्रपादरभयान्वितः।

बुद्धानुस्मृतिरप्येवं भवेत्तस्य मुहुर्मुहुः॥

संप्रजन्यं तदा याति नैव यात्यागतं पुनः।

स्मृतिर्यदा मनोद्वारे रक्षार्थमवतिष्ठते॥

पूर्वं तावदिदं चित्तं सदोपस्थाप्यमीदृशम्।

सदा निरिन्द्रयेणैव स्थातव्यं काष्ठवत् सदा॥

निष्फ़ला नेत्रविक्षेपा न कर्तव्याः कदाचन।

निध्यायन्तीव सदापि कार्या दृष्टिरधोगता॥

दृष्टिविश्रामहेतोस्तु दिशः पश्येत् कदाचन।

आभासमात्रमालोक्य स्वागतार्थं विलोकयन्॥

२७१

मार्गादौ भयबोधार्थं मुहुः पश्येच्चतुर्दिशम्।

दिशो विश्रम्य विक्षते परावृत्यैव पृष्ठतः॥

सरेदपसरेद्वापि पुरः पश्चान्निरुप्य च।

एवं सर्वास्ववस्थासु कार्यं बुद्ध्वा समाचरेत्॥

कायेनैवमवस्थेयमित्याक्षिप्य क्रियां पुनः।

कथं कायः स्थित इति द्रष्टव्यः पुनरन्तरा॥

निरुप्य सर्वयत्नेन चित्तमत्तद्विपस्तथा।

धर्मचित्तो महास्तम्भे यथा बद्धो न मुच्यते॥

कुत्र मे वर्तत इति प्रत्यवेक्ष्यं तथा मनः।

समाधानधुरं नैव क्षणमप्युत्सृजेद्यथा॥

भयोत्सवादिसम्बन्धे यद्यसक्तो यथासुखम्।

दानकाले तु शीलस्य यस्मादुक्तमुपेक्षणम्॥

यद्बुद्ध्वा कर्तुमारब्धं ततोऽन्यत्र विचिन्तयेत्।

तदेव तावन्निष्पाद्यं तद्गतेनान्तरात्मना॥

एवं हि सुकृतं सर्वमन्यथा नोभयं भवेत्।

असंप्रजन्यक्लेशोऽपि वृद्धिं चैव गमिष्यति॥

नानाविधप्रलापेषु वर्धमानेष्वनेकधा।



कौतूहलेषु सर्वेषु हन्यादौत्सुक्यमागतम्॥

मृण्मर्दनतृणच्छेदने खाद्यफ़लमागतम्।

स्मृत्वा तथागतीं शिक्षां तत्क्षणाद्भीत उत्सृजेत्॥

यदा चलितुकामः स्याद्वक्तुकामोऽपि वा भवेत्।

स्वचित्तं प्रत्यवेक्ष्यादौ कुर्याद्धैर्यं युक्तिमत्॥

अनुनीतं प्रतिहतं यदा पश्येत् स्वकं मनः।

न कर्तव्यं न वक्तव्यं स्थातव्यं काष्ठवत्तदा॥

उद्धतं सोपहासं वा यदा मानमदान्वितम्।

सोत्प्रसातिशयं वक्त्रं वंचकं च मनो भवेत्॥

यदात्मोत्कर्षणाभासं परपंशनमेव च।

साधिक्षेपं ससंरम्भं स्थातव्यं काष्ठवत्तदा॥

२७२

लाभसत्कारकीर्त्यर्थि परिकारार्थि वा यदा।

उपस्थानार्थि वा चित्तं तदा तिष्ठेच्च काष्ठवत्॥

परार्थरुक्षं स्वार्थार्थि परिसत्काममेव वा।

वक्तुमिच्छति सक्रोधं तदा तिष्ठेच्च काष्ठवत्॥

असहिष्णुलसंभीतं प्रगल्भं मुखरं यदा।

स्वपक्षाभिनिविष्टं वा तदा तिष्ठेच्च काष्ठवत्॥

एवं संक्लिष्टमालोक्य निष्फ़लारम्भि वा मनः।

निगृह्णीयाद्दृधं शूरः प्रतिपक्षेण तत्सदा॥

सुनिश्चितं सुप्रसन्नं धीरं सादरगौरवम्।

सलज्जं सभयं शान्तं पराराधनतत्परम्॥

परस्परविरुद्धाभिर्बालेच्छाभिरखण्डितम्।

क्लेशोत्पादादिकं ह्येतदेषामिति दयान्वितम्॥

आत्मसत्त्ववशं नित्यमनवद्येषु च वस्तुषु।

निर्माणमिव निर्माणं धारयेन्मानसं सदा॥

चिरात् क्षणवरं प्राप्तं स्मृत्वा स्मृत्वा मुहुर्मुहुः।

धारयेदीदृशं चित्तमप्रकम्प्यं सुमेरुवत्॥

गृद्धैरामिषसंगृद्धैः कर्ष्यमाण इतस्ततः।

न करोत्यन्यथा कायः कस्मादत्र प्रतिक्रियाम्॥

कायनौ बुद्धिमाधाय गत्यागमननिश्रयात्।

यथाकामं गमं कार्यं कुर्यात् सर्वार्थसिद्धये॥

एवं वशीकृतस्वात्मा नित्यं स्मितमुखो भवेत्।

त्यजेद् भृकुटिसंकोचं पूर्वाभाषी जगत्सुहत्॥

स शब्दपातं सहसा न पिठादीन् विक्षिपेत्।

नास्फ़ालयेत् कपाटं च स्यान्निःशब्दरुचिः सदा॥

बको विडालश्चौरश्च निःशब्दो निभृतश्चरन्।

प्राप्तो ह्यभिमतं कार्यमेवं नित्यं यतिश्चरन्॥

परचोदनदक्षाणामनधीष्टोपकारिणाम्।

प्रतीच्छेच्छिरसा बाह्यं सर्वशिष्यः सदा भवेत्॥

२७३

सुभाषितेषु सर्वेषु साधुकारमुदीरयेत्।

पुण्यकारिणमालोक्य स्तुतिभिः संप्रहर्षयेत्॥

परोक्षे च गुणान् श्रूयादनुश्रूयाच्च तोषतः।

स्ववर्णभाष्यमाणे च भावयेत्तद्गुणज्ञताम्॥

सर्वारम्भा हि तुष्ट्यर्थाः स चित्तैरपि दुर्लभा।

भुंज्यात्तुष्टिसुखं तस्मात् परश्रमकृतैर्गुणैः॥

न चात्रापि व्ययः कश्चित् परत्र च महत्सुखम्।

द्वेषैरप्रीतिदुःखं तु महद्दुखं परत्र च॥

विश्वस्तविन्यस्तपदं विस्पष्टार्थं मनोरमम्।

श्रुतिसौख्यं कृपामूलं मृदुमन्दस्वरं वदेत्॥

ऋजु पश्येत् सदा सत्त्वांश्चक्षणा संपिबन्निव।

यस्मादेतान् समाश्रितान् संबुद्धत्वमवाप्नुयात्॥

सातत्याभिनिशोत्थं प्रतिपक्षोत्थमेव च।

गुणोपकारिक्षित्रे च दुःखिते च महच्छुभम्॥

दक्ष उत्थानसम्पन्नः स्वयंकारी सदा भवेत्।

नावकाशः प्रदातव्यः कस्यचित् सर्वकर्मसु॥

उतरोत्तरतः श्रेष्ठा दानपारमितादयः।

नैतरार्थं त्यजेच्छ्रेष्ठामन्यत्राचारसेतुतः॥

एवं बुद्ध्वा परार्थेषु भवेत् सततमुत्थितः।

निषिद्धमप्यज्ञातं कृपालोरर्थदर्शिनः॥

विनिपातगतानाथान् व्रतस्थान् संविभज्य च।

भुंजीत मध्यमां मात्रां त्रिचीवरबहिस्त्यजेत्॥

सद्धर्मसेवकं कायमितरार्थं न पीडयेत्।

एवमेव हि सत्त्वानामाशामाशु प्रपूरयेत्॥

त्यजेन्न जीवितं तस्मादशुद्धेऽकरुणाशये।

तुल्याशये तु तत्त्याज्यमित्थं न परिहीयते॥

धर्मं निगौरवेऽस्वस्थे न शिरोवेष्ठिते वदेत्।

सछत्रदण्डशस्त्रं च नावगुण्ठितमस्तके॥

२७४

गम्भीरोदारमल्पेषु न स्त्रीषु पुरुषं विना।

हीनोत्कृष्टेषु धर्मेषु समं गौरवमाचरेत्॥

नोदारधर्मपात्रं च हीनधर्मे नियोजयेत्।

न चाचारं परित्यज्य सूत्रमन्त्रैः प्रलोभयेत्॥

दन्तकाष्ठस्य खेटस्य विसर्जनमपावृतम्।

नेष्टं जले स्थले भोग्ये मूत्रादेशचापि गर्हितम्॥

मुखपूरं न भुंजीत सशब्दं प्रसृताननम्।

प्रलम्बपादं नासीत न बाहू मर्दयेत् समम्॥

नैकयान्या स्त्रिया कुर्याद्यानं शयनमासनम्।

लोकाप्रसादितं सर्वं दृट्वा पृट्वा स वर्जयेत्॥

नांगुल्या कारयेत् किंचिद्दक्षिणेन तु सादरम्।

समस्तेनैव हस्तेन मार्गमप्येवमादिशेत्॥

नवाह्नक्षेपकं किंचिच्छब्दयेदल्पसंभ्रमे।

अच्छतादिं तु कर्तुव्यन्यथा स्यादसंहृतः॥

नाथनिर्वाणशय्यावच्छयीतेप्सितया दिशा।

संप्रजानन् लघूत्थानं प्रागवश्यं नियोगतः॥

आचारो बोधिसत्त्वानामप्रमेयमुदाहृतम्।

चित्तशोधनमाचारं नियतम् तावदाचरेच्॥

रात्रिं दिवं च त्रिस्कन्धं त्रिकालं च प्रवर्तयेत्।

शेषापत्तिसमस्तेन बोधिचित्तजिनाशयान्॥

यो अवस्थाः प्रपद्यते स्वयं परवशोऽपि वा।

तास्ववस्थासु याः शिक्षाः शिक्षेत्ता एव यत्नतः।

न हि तद्विद्यते किंचिद्यन्न शिक्ष्यं जिनात्मजैः॥

न तदस्ति न यत्पुण्यमेव विहरतः सतः।

पारंपर्येण साक्षाद्वा सत्त्वार्थान्नान्यदा चरेत्॥

सत्त्वानामेव चार्थाय सर्वं बोधाय नामयेत्।

सदा कल्याणमित्रं च जीवीतार्थेऽपि न त्यजेत्॥

बोधिसत्त्वव्रतधरं महायानार्थकोविदम्।

एतदेव समासेन संप्रजन्यस्य लक्षणम्॥

२७५

यत्कायचित्तवस्थायाः प्रत्यवेक्ष्य मुहुर्मुहुः।

यतो निवार्यते यत्र यदेव च नियुज्यते॥

तल्लोकचित्तरक्षार्थं शिक्षाम् दृष्ट्वा समाचरेत्।

सर्वमेतत् सुचरितं दानं सुगतपूजनम्।

कृतं कल्पसहस्त्रैर्यत्प्रतिघ प्रतिहन्ति तत्॥

न च द्वेषसमं पापं न च क्षान्तिसमं तपः।

तस्मात्क्षान्तिं प्रयत्नेन भावयेद्विविधैर्नयैः॥

मनः शमं न गृह्णाति न प्रीतिसुखमश्नुते।

न निद्रां न धृतिं याति द्वेषशस्ये हृदि स्थिते॥

पूजयत्यर्थमानैर्यान् येऽपि चैनं समाश्रिताः।

तेऽप्येनं हन्तुमिच्छन्ति स्वामिनं द्वेषदुर्भगम्॥

सुहृदोऽप्युद्विजन्तेऽस्माद्ददाति न च सेव्यते।

संक्षेपान्नास्ति तत्किंचित् क्रोधनो येन सुस्थितः॥

एवमादीनि दुःखानि करोतीत्यरिसंज्ञया।

यः क्रोधं हन्ति निर्बन्धात् स सुखीह परत्र च॥

तस्मात् क्रोधबलं हत्वा रत्नत्रयप्रभावतः।

बुद्ध्वा क्षान्तिं प्रयत्नेन भावयेद्विविधैर्नयैः॥

नैवं द्विषः क्षयं यान्ति यावज्जीवमपि घ्नतः।

क्रोधमेकं तु यो हन्यात्तेन सर्वद्विषो हताः॥

[अल्पनिष्ठागमेनापि नतोत्पामुदिता सदा।

दौर्मनस्येऽपि नास्तीष्टं कुशलं त्ववहीयते॥

यद्येव प्रतीकारोऽस्ति दौर्मनस्येन तत्र किम्।

अथ नास्ति प्रतीकारो दौर्मनस्येन तत्र किम्॥

दुःखापकारपारुष्यमयशश्चेत्यनीप्सितम्।

प्रियानामात्मना वापि शत्रोश्चैतद्विपर्ययात्॥

कथंचिल्लभ्यते सौख्यं दुःखं स्थितमयत्नतः।

दुःखेन बहिः निःसारस्तत्कार्यं मनो दृढम्।

सत्त्वक्षेत्रं जिनक्षेत्रमित्याख्यातं मुनीश्वरैः।

एता आराध्य संबुद्धाः सर्वे निर्वृतिमागताः॥]

२७६

[सत्त्वेभ्यश्च जिनेभ्यश्च बुद्धधर्मागमे सः।

जिनेषु गौरवं यद्वन्नष्विति कः क्रमः॥

आत्मीकृतं सर्वमिदं जगत्तैः कृपात्मभिः नैव हि संशयोऽस्ति।

दृश्यन्त एते ननु सत्त्वरुपास्त एव नाथाः किमनादनात्र॥

तथागताराधनमेतदेव लोकस्य दुःखापहमेतदेव।

स्वार्थस्य संसाधनमेतदेव तत् साचरध्वं तमेवेदम्॥]

यस्मान्नरकपालाश्च कृपावन्तश्च तद्बलम्।

तस्मादाराधरेत् सत्त्वान् भृत्यश्चण्डनृपं यथा॥

कुपितः किं नृपः कुर्याद्येन स्यान्नरकव्यथा।

यत्सत्त्वदौर्मनस्येन कृतेन ह्यनुभूयते॥

तुष्टः किं नृपतिर्दद्याद्यद्बुद्धत्वं समं भवेत्।

यत्सत्त्वसौमनस्येन कृतेन ह्यनुभूयते।

आस्तां भविष्यबुद्धत्वं सत्त्वाराधनसंभवम्।

इहापि सौभाग्ययशःसौस्थित्यं लभते क्षमी॥

प्रासादिकत्वप्रामोद्यमारोग्यं चिरजीवितम्।

चक्रवर्तिसुखस्थानं क्षमी प्राप्नोति संसरन्॥

एवं क्षमो भवेद्वीर्यं वीर्ये बोद्धिर्यतः स्थितः।

न हि वीर्यं विना पुण्यं यथा वायु विना गतिः॥

किं विर्यं कुशलोत्साहस्तद्विपक्षः क उच्यते।

आलस्यकुत्सिता शक्तिर्विषादात्मावमन्यता॥

अव्यापारसुखास्वादनिद्रयाश्रयतृष्णया।

संसारदुःखानुद्वेगादालस्यमुपजायते॥

तस्मादालस्यमुत्सृत्ज धृत्वा वीर्यं समाहितः।

सर्वसत्त्वहिताधानं बोधिचर्याव्रतं चरेत्॥

वीर्यं हि सर्वगुणरत्ननिधानभूतं सर्वापदस्तरति वीर्यमहाप्लवेन।

नैवास्ति तज्जगति विचिन्त्यमानं नावाप्नुयाद्यदिह वीर्यस्थाधिरुढः॥

यद्धेषु यत्करितुरंगपदातिमत्सु नाराचतोमरश्वधसंकुलेषु।

हत्वा रिपून् जयमनुत्तममाप्नुवन्ति विस्फ़ुर्जितं तदिह वीर्यं महाभटस्य॥

२७७

अम्भोनिधीन् मकरवृन्दविघट्टिताम्बुतुंगोकुलाकुलतरंगविभंगभीमान्।

वीर्येण गोष्पदमिव प्रविलंघ्य शूराः कुर्वन्त्यनर्घगुणरत्नधनार्जनानि॥

रागादीनुरगानिवोग्रवपुषो विष्कम्भवीर्यान्विताः

शीलं सज्जनचित्तनिर्मलतरं समादाय यन्मर्त्याः।

कान्ततरे सुमेरुशिखरोपान्ते वीर्यान्वितास्तिष्ठन्ते

सुरसिद्धसंघसहिताः संबोधिसत्त्वाः सुखम्॥

यद्देवा वियति विमानवासिनोऽन्ये निर्द्वन्द्वाः समनुभवन्ति सौमनस्यम्।

अत्यन्तविपुलफ़लप्रसूतिहेतोर्वीर्यस्थिरविहितस्य सा विभूतिः॥

इति मत्वा सदोत्साहं धृत्वा संबोधिसाधने।

सर्वसत्त्वहिताधाने बोधिचर्याव्रते चरेत्॥

लघु कुर्यात्तथात्मानमप्रमादकथां स्मरन्।

कर्मागमाद्यथा पूर्वं सज्जः सर्वत्र च तु ते॥

यथैव तूलिकं वायोर्गमनागमने वशम्।

तथोत्साहवशं यायादृद्धिश्चैवं समृध्यति॥

वर्धयित्वैवमुत्साहं समाधौ स्थापयेन्मनः।

विक्षिप्तचित्तस्तु नरः क्लेशं दंष्ट्रान्तरे स्थितः॥

कायचित्तविवेकेन विक्षेपस्य न संभवः।

तस्माल्लोकान् परित्यज्य वितर्कान् परिवर्जयेत्॥

स्नेहान्न त्यज्यते लोको लाभादिषु च तृष्णया।

तस्मादेतत्परित्यागे विद्वानेवं विचारयेत्॥

शमथेन विपश्यनया सुयुक्तः कुरुते क्लेशविनाशमित्यवेत्य।

शमथः प्रथमं गवेषणीयः स च लोके निरपेक्षयभिरत्या॥

कस्यानित्येष्वनित्यस्य स्नेहो भवितुमर्हति।

येन जन्मसहस्त्राणि द्रष्टव्यो न पुनः प्रियः॥

अपश्यन्नरतिं याति समाधौ न च तिष्ठति।

न च तृप्यति दृष्ट्वापि पूर्ववद्बाधते तृषा॥

न पश्यति यथाभुतं संवेगादवहीयते।

दह्यते तेन शोकेन प्रियसंगमकांक्षया॥

२७८

तच्चिन्तया मुधा याति ह्रस्वमायुमुहुर्मुहुः।

अशाश्वतेन मित्रेण धर्मो भ्रश्यति शाश्वतः॥

बालैः सभागचरितो नियतं याति दुर्गतिम्।

नेष्यते विषभागश्च किं प्राप्तं बालसंगमात्॥

क्षणाद्भवन्ति सुहदो भवन्ति रिपवः क्षणात्।

तोषस्थाने प्रकुप्यन्ति दुराराध्याः पृथग्जनाः॥

अथ न श्रूयते तेषां कुपिता यान्ति दुर्गतिम्।

ईर्ष्योत्कृष्टात्समाद्वन्द्वा हीनात्मानः स्तुतेर्मदः॥

अवर्णात्प्रतिघश्चेति कदा बालाद्धितं भवेत्॥

आत्मोत्कर्षः परावर्णः संसाररतिसंकथा।

इत्याद्यमवश्यमशुभं किंचिद्बालस्य बालता॥

एवं मत्वा यतिर्धीमान्विहाय बालसंगमम्।

बालाद्दूरं पलायेत् प्राप्तमाराधयेत्प्रियैः॥

न संस्तवानुबन्धेत किंभूदासीनसाधुवत्।

एकाकी विहरेन्नित्यम् सुखमक्लिष्टमानसः॥

धर्मार्थमात्रादाय भृंगवत् कुसुमान् मधुः।

अपूर्व इव सर्वत्र विहरेदप्यसंस्तुतः॥

एवं यतिर्महासत्त्वः संसाररतिनिःपृहः।

समाधिसत्सुखासक्तो विहरेद्बोधिमानसः॥

क्लेशारिवर्गानभिभूय वीराः संबोधिलक्ष्मीपदमाप्नुवन्ति।

बोध्यंगदानं प्रदिशन्तिं सद्भ्यो ध्यानं हि तत्र प्रवदन्ति हेतुम्॥

जन्मप्रबन्धकर्णैकनिमित्तभूतान् रागादिदोषनिचयान् प्रविदार्य सर्वान्।

आकाशतुल्यमनसः समलोष्टहेमाध्यानाद्भवन्ति मनुजा गुणहेतुभूताः॥

जित्वा क्लेशारिवृन्दं शुभबलमथनं सर्वथा लब्धलक्षम्।

प्राप्तः संबोधिलक्ष्मीं प्रवरगुणमयीं दुर्लभामन्यभूतैः॥

सत्त्वे ज्ञानाधिपत्यं विगतरिपुभयाः कुर्वते यन्नरेन्द्राः।

ध्यानं तत्रैकहेतुं सकलगुणनिधिं प्राहुः सर्वे नरेन्द्राः॥

मोहान्धकारं प्रविदार्यं शश्वज्ज्ञानावभासम् कुरेते समन्तात्।

संबुद्धसुर्यस्सूरमानुषाणां हेतुः स तत्र प्रवरस्समाधिः॥

२७९

इति मत्वा समाधाय क्लेशावरणहानये।

विमार्गाच्चित्तमाकृष्य समाधौ स्थाप्य प्राचरेत्॥

इमं परिकरं समाधौ स्थाप्य प्राचरेत्॥

इमं परिकरं सर्वं प्रज्ञार्थं हि जगद्धिते।

तस्मादुत्पादयेत् प्रज्ञां दुःखनिर्वृतिकांक्षया॥

संवृत्तिः परमार्थश्च सत्यद्वयमिदं मतम्।

बुद्धेरगोचरं तत्त्वं बुद्धिसंस्मृतिरुच्यते॥

तत्र लोको द्विधादृष्टो योगी प्राकृतकस्तथा।

तत्र प्राकृतको लोको यगिलोकेन बाध्यते॥

बाध्यन्ते धीविशेषेण योगिनोऽप्यत्तरोत्तरैः।

दृष्टान्तेनोभयेष्टेन कार्यार्थमविचारतः॥

लोकेन भावा दृश्यन्ते कल्प्यन्ते चापि तत्त्वतः।

न तु मायावदित्यत्र विवादो योगिलोकयोः॥

इति मत्वा यतिर्धिमान् सर्वं मायाभिर्निर्मितम्।

प्रज्ञारत्नं समासाद्य संचरेत जगद्धिते॥

प्रज्ञाधनेन विकुलं तु नरस्य रुपमालेख्य रुपमिव सारविहीनमन्तः।

बुद्धयान्वितस्य फ़लमिष्टमुदेति वीर्याद्वीर्यं हि बुद्धिरहितं स्ववधाय शत्रुः॥

योऽनेकजन्मान्तरितं स्वजन्मभूतंभविष्यत्कुलनामगोत्रैः।

मध्यान्तमाद्यपि जनः प्रवेत्ति प्रज्ञाबलं तत्कथयन्ति तज्ज्ञाः॥

यद्बुद्धो मर्त्यलोके मलतिमिरगणं दारयित्वा महान्तम्।

ज्ञानालोकं करोति प्रहरति च सदादोषवृन्दं नराणाम्॥

आदेष्टा चेन्द्रियाणां परमनुजमनो वेत्ति सर्वैः प्रकारैः।

प्रज्ञां तत्रापि नित्यं शुभवरजननीं हेतुमुत्कीर्तयन्ति॥

कार्यार्णवेऽपि दृढं निमग्नाः संग्राममध्ये मनुजाः प्रधानाः।

प्रज्ञावशात्ते विजयं लभन्ते प्रज्ञा ह्यतः सा शुभहेतुभूताः॥

प्रज्ञाबलेनैव जिनाः जयन्ति घोरं सुदुष्टं च मारसैन्यम्।

प्रज्ञाविशेषेण जना विभान्ति प्रज्ञा हि ख्याता जननी जिनानाम्॥

तस्मात् सर्वगुणार्थसाधनकरी प्रज्ञैव संवर्ध्यताम्।

यत्प्रज्ञाविकला विभान्ति पुरुषाः प्रातःप्रदीपा इति॥

२८०

स्वर्गापवर्गगुणरत्ननिधनभूता एताः षडेव भुवि पारमिता नराणाम्।

ज्ञात्वा नरः स्वहितसाधनतत्परः स्यात्कुर्यादतः सततमाशु दृढं प्रयत्नम्॥

एतद्धि परमं शिक्षासंवरं बोधिचारिणाम्।

मया प्रज्ञप्तमानन्द धातव्यं बोधिप्राप्तये॥

य एतत्परमाचारं धृत्वा सम्बोधिमानसाः।

त्रिरत्नशरणे स्थित्वा संचरन्ते जगद्धिते॥

ते भद्रश्रीगुणाधाराः शीलवन्तः शुभेन्द्रियाः।

क्षान्तिसौरभ्यसंवासाः सदोत्साहा हिताशयाः॥

निःक्लेशा निर्मलात्मानो महासत्त्वा विचक्षणाः।

प्रज्ञावन्तो महाभिज्ञा अर्हन्तो ब्रह्मचारिणः॥

त्रिविधां बोधिमासाद्य संबुद्धालयमाप्नुयुः।

एतच्छास्त्रा समादिष्टं श्रुत्वानन्दोऽभिबोधितः॥

भगवन्तं मुनीन्द्रं च समालोक्यैवमब्रवीत्।

भगवन् भवताज्ञप्तं संबुद्धपदसाधनम्।

शिक्षासंवरमाधाय ये चरन्ति सदा शुभे॥

त एव सुभगा धन्याः शिक्षासंवृतिकौशलाः।

विनयाभिमुखाः सन्तः सद्धर्मकोशधारिणः॥

जिनात्मजा महाभिज्ञाः अर्हन्तो निर्मलेन्द्रियाः।

बोधिसत्त्वा महासत्त्वा भवन्ति बोधिलाभिनः॥

तेषामेव सदा भद्रं सर्वत्रापि भवेद् ध्रुवम्।

सद्धर्मसाधनोत्साहं निरुत्पातं निराकुलम्॥

तेषां भूयात् सदा भद्रं बोधुश्रीग़ुणसाधनम्।

त्रिरत्नशरणे स्थित्वा ये चरन्ति जगद्धिते॥

इत्यानन्दसमाख्यातं श्रुत्वा स भगवन् मुदा।

आयुष्मन्तं तमानन्दं समालोक्यैवमादिशत्॥

एवमेव सदा तेषाम् भद्रम् संबोधिसाधनम्।

धर्मश्रीगुणसम्पन्न भवेन्नुनं भवालये॥

इति सत्यं परिज्ञाय यूयं सर्वेऽभिबोधिताः।

त्रिरत्नभजनं कृत्वा संचरध्वं जगद्धिते॥

२८१

एवं मयोक्तमादाय चरध्वे यदि सर्वदा।

नूनं सम्बोधिमासाद्य संबुद्धपदमाप्स्यथ॥

इत्यादिष्टं मुनीन्द्रेण श्रुत्वा सर्वेऽपि सांघिकाः।

तथेति प्रतिविज्ञप्य प्राभ्यनन्दन् प्रबोधिताः॥

अथ ते सांघिकाः सर्वे आनन्दप्रमुखाः मुदा।

नत्वा पादौ मुनीन्द्रस्य स्वस्वध्यानालयं ययुः॥

भगवानपि तान् वीक्ष्य सर्वान् ध्यानालयाश्रीतान्।

गत्वा ध्यानालयासीनस्तस्थौ ध्यानसमाहितः॥

इत्येवं मे समाख्यातं गुरुणा शाणवासिना।

श्रुतं मया तथाख्यातं श्रुत्वानुमोद भूपते॥

प्रजा अपि महाराज श्रावयित्वा प्रबोधयन्।

त्रिरत्नभजनोत्साहे चारयित्वानुपालय॥

तथा चेत्ते सदा राजन् धर्मश्रीगुणसंयुतम्।

शुभोत्साहं निरातंकं भवेद् ध्रुवं समन्ततः॥

त्वमपि बोधिसंभारं पुरयित्वा यथाक्रमम्।

जित्वा मारगणानर्हन् बोधिं प्राप्य जिनो भवेः॥

इति शास्त्रा समादिष्टं श्रुत्वाशोकः स भूपतिः।

तथेति प्रतिविज्ञप्य प्राभ्यनन्दत् सपार्षदः॥



॥इति शिक्षासंवरसमुद्देशप्रकरणं समाप्तम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project