Digital Sanskrit Buddhist Canon

१८. सर्व सभालोक सद्धर्म श्रवणोत्साह संप्रमोदित स्वस्वालय प्रतिगमन प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
१८. सर्व सभालोक सद्धर्म श्रवणोत्साह संप्रमोदित स्वस्वालय प्रतिगमन प्रकरणम्



अथ सर्वनीवरणविष्कम्भि स प्रमोदितः।

भगवन्तं तमानम्य सांजलिरेवब्रवीत्॥

भगवन्नद्य स दृष्टो लोकेश्वरोऽधुना मया।

तदस्मि परिशुद्धात्मा सद्धर्मप्राप्तवानपि॥

अद्य मे जन्मसाफ़ल्यं संसिद्धश्च मनोरथः।

२५८

आशा सम्पूर्णसिद्धा च सम्बोधिं प्राप्तवान् भवे॥

भूयोऽपि भगवन्नस्य लोकेशस्य महात्मनः।

गुणविशेषसत्कीर्तिं श्रोतुमिच्छामि साम्प्रतम्॥

तद्भवान् सर्वसत्त्वानां सम्बोधिव्रतचारिणाम्।

मनः प्रोत्साहनं कर्तुं समुपादेष्टुमर्हति॥

इति संप्रार्थिते तेन विष्कम्भिना स सर्ववित्।

भगवांस्तं महासत्त्वं संपश्यन्नेवमादिशत्॥

साधु शृणु महासत्त्व कुलपुत्र समाहितः।

लोकेशगुणसत्कीर्तिं प्रवक्ष्यामि समासतः॥

अप्रमेयसंख्येयं लोकेशस्य महात्मनः।

पुण्यगुणप्रमाणानि कर्तुं न शक्यते मया॥

तद्यथा सर्वलोकेषु सर्वेषामपि भूभृताम्।

पलसंखयाप्रामाणानि कर्तुं मयापि शक्यते॥

सपर्वता मही सर्वा कृत्वायणुरजोमया।

तेषां संख्याप्रमाणानि कर्तुं मया हि शक्यते॥

सर्वेषामपि चाब्धीनां सर्वासां सरितामपि।

जलबिन्दुप्रमाणानि संख्यातुं शक्यते मया॥

सर्वेषामपि वृक्षाणां सर्वत्रापि महीरुहाम्।

पत्रसंख्याप्रमाणानि प्रकर्तुं शक्यते मया॥

न त्वस्य लोकनाथस्य पुण्यसंभारमुत्तमम्।

अप्रेयमसंख्येयं संख्यातुं शक्यते मया॥

सर्वे सत्त्वाश्च संबुद्धान् सर्वानपि ससांघिकान्।

सर्वोपकरणैर्नित्यं संभाजेरन् समादरम्॥

यावत्तेषां महत्पुण्यं बोधिश्रीगुणसाधनम्।

ततोऽप्यधिकमौदार्यं लोकेशभजनोद्भवम्॥

यदसौ त्रिजगन्नाथो बोधिसत्त्वो महर्द्धिमान्।

सर्वसमाधिसपन्नः प्रकरोति जगद्धिते॥

ईदृशस्त्रिजगन्नाथो बोधिसत्त्वो महर्द्धिकः।

२५९

सर्वसमाधिसम्पन्नस्त्रैलोक्ये नास्ति कश्चन॥

तद्यथाहं पुराद्राक्षमस्य त्रैधातुकप्रभोः।

समाधिगुणमाहात्म्यं सर्वजिनात्मजाधिकम्॥

तद्यथाभूत्पुरा शास्ता क्रकुच्छन्दस्तथागतः।

सर्वविद्याधिपो धर्मराजोऽर्हत् सुगतो जिनः।

तदाहं दानशूराख्यो बोधिसत्त्वो हितार्थभृत्॥

तस्य शास्तुर्मुनीन्द्रस्य सद्धर्मशासनारतः॥

तदैकसमयेऽसौऽपि क्रकुच्छन्दो विनायकः।

जेताश्रमे विहारेऽत्र विजहार ससांधिकः॥

तदा तस्य मुनीन्द्रस्य पातुं धर्मामृतं मुदा।

ब्रह्मादिब्राह्मणाः सर्वे शक्रादित्रिदशाधिपाः॥

सर्वे लोकाधिपाश्चापि दैत्येन्द्रा राक्षसाधिपाः।

गन्धर्वाः किन्नरा यक्षा नागेन्द्रा गरुडाधिपाः॥

सूर्यादयो ग्रहाः सर्वे चन्द्रादयश्च तारकाः।

सिद्धाः साध्याश्च रुद्राश्च सर्वे विद्याधरा अपि॥

राजानः क्षत्रिया वैश्या अमात्या मन्त्रिणो जनाः।

वणिजः सार्थवाहाश्च श्रेष्ठिनश्च महाजनाः॥

पौरजानपदा ग्राम्यास्तथान्ये देशवासिनः।

सर्वेऽपि ते समासृत्य समभ्यर्च्य यथाक्रमम्॥

क्रकुच्छन्दमुनीन्द्रं तं नत्वा तस्थुः सभाश्रिताः।

तदानेकमहासत्त्वा बोधिसत्त्वाः समाहिताः॥

समाधिविग्रहं चक्रुःक्रकुच्छन्दमुनेः पुरः॥

यदा समन्तभद्राख्यो बोधिसत्त्वो महर्द्धिमान्।

समापेदे समाधिं तद्यद्ध्वजोद्गतसंज्ञकम्॥

तदा लोकेश्वरश्चासौ बोधिसत्त्वो महर्द्धिकः।

समापेदे समाधिं तद्यद्विकिरिणसंज्ञकम्॥

यदा समन्तभद्रश्च बोधिसत्त्वो जिनात्मजः।

समापेदे समाधिं तद्यत्पूर्णेन्दुवरलोचनम्॥

२६०

तदा लोकेश्वरश्चासौ महाभिज्ञो जिनात्मजः।

समापेदे समाधिं तद्यत्सुर्यवरलोचनम्॥

यदा समन्तभद्रश्च महाभिज्ञो जिनात्मजः।

समाधिं तत्समापेदे यद्विच्छुरितसंज्ञकम्॥

तदा लोकेश्वरश्चापि महाभिज्ञो जिनात्मजः।

समापेदे समाधिं यद् गगनगंजसंज्ञकम्॥

यदा समन्तभद्रश्च बोधिसत्त्वो महामतिः।

समापेदे समाधिं तत्सर्वाकारकराभिधम्॥

तदा लोकेश्वरश्चापि बोधिसत्त्वो महामतिः।

समापेदेद् समाधिं यदिन्द्रमत्यभिधानकम्॥

यदा समन्तभद्रश्च बोधिसत्त्वो गुणाकरः।

समापेदे समाधिं यदिन्द्रराजोऽभिधानकम्॥

तदा लोकेश्वरश्चासौ बोधिसत्त्वो गुणाकरः।

समापेदे समाधिं यदब्धिगम्भीरसंज्ञकम्॥

यदा समन्तभद्रश्च बोधिसत्त्वः सुवीर्यवान्।

समापेदे समाधिं यत्सिहंविजृम्भिताह्वयम्॥

तदा लोकेश्वरश्चापि बोधिसात्त्वः सुवीर्यवान्।

समापेदे समाधिं यत्सिहविक्रीडिताभिधम्॥

यदा समन्तभद्रश्च बोधिसत्त्वः सुबुद्धिमान्।

समापेदे समाधिं यद्वरदायकसंज्ञकम्॥

तदा लोकेश्चरश्चापि बोधिसत्त्वः सुबुद्धिमान्।

समापेदे समाधिं तद्यदवीच्यभिशोषणम्॥

यदा समन्तभद्रश्च बोधिसत्त्वो विचक्षणः।

उद्घाट्य दर्शयामास सर्वलोमविलान्यपि॥

तदा लोकेश्वरश्चापि बोधिसत्त्वो विचक्षणः।

अपावृणोत् स सर्वाणि लोमरन्ध्राण्यशेषतः॥

तदा समन्तभद्रोऽसौ लोकेशं तं महर्धिकम्।

समीक्ष्य सांजलिर्नत्वा संपश्यन्नेवमब्रवीत्॥

२६१

साधु धन्योऽसि लोकेश यदीदृक्प्रतिभानवान्।

कश्चिन्नैवास्ति लोकेषु त्वादृक्समाधिवित् सुधिः॥

एवमन्यैर्महासत्त्वैर्बोधिसत्त्वैर्महद्धिकैः।

स्माधिविग्रहे सैव लोकेश्वरो विजितवान्॥

तदा सर्वे महाभिज्ञ बोधिसत्त्वाः प्रसादिताः।

लोकेशं तं महाभिज्ञं समानम्यैवमब्रवन्॥

साधु धन्योऽसि लोकेश यदीदृक्प्रतिभानवान्।

कश्चिन्नैवास्ति लोके यत्त्वादृक्समाधिसद्बली॥

तदा स भगवान् दृष्ट्वा सर्वांस्तान् सुगतात्मजान्।

पुरतः समुपामन्त्र्य संपश्यन्नेवमादिशत्॥

कुलपुत्राल्पमेवैतत् प्रतिभानं जगत्प्रभोः।

लोकेशस्यास्य युष्माभिर्दृश्यतेऽपीह साम्प्रतम्॥

यादृग्लोकेश्वरस्यास्य प्रतिभानं महत्तरम्।

ईदृक्सर्वमुनीन्द्राणामपि नैवास्ति कस्यचित्॥

एवं तस्य जगद्भर्तुः प्रतिभानं महत्तरम्।

क्रकुच्छन्दमुनीन्द्रेण समाख्यातं मया श्रुतम्॥

अथ सर्वनीवरणविष्कम्भी स प्रबोधितः।

भगवन्तं मुनीन्द्रं च समालोक्यैवमब्रवीत्॥

भगवन् यन्महायानसूत्रराजं निगद्यते।

तत्समादिश कारण्डव्यूहसूत्रोद्भवं वृषम्॥

यच्छ्रुत्वापि वयं सर्वे सम्बोधिगुणसाधनैः।

धर्मरसौरभिव्याप्तमानसाः प्रचरेमहि॥

तच्छ्रुत्वा भगवांश्चापि विष्कम्भिनं महामतिम्।

साधु शृणु समाधाय वक्ष्ये तदिति प्रादिशत्॥

येऽपि श्रोष्यन्ति कारण्डव्यूहसूत्रं सुभाषितम्।

तेषां सर्वाणि पापानि क्षिणुयुर्दारुणान्यपि॥

दशाकुशलपापानि पंचातिपातकान्यपि।

निरवशेषनष्टानि क्षिणुयुरिति निश्चयम्॥

२६२

इत्यादिष्टे मुनीन्द्रेण विष्कम्भी संप्रमोदितः।

भगवन्तं समालोक्य पुनरेवमभाषत॥

भगवन् सर्वविच्च्छास्त जानीमहि कथं वयम्।

यत्पापं कुरुते क्षीणं कारण्डन्यूहसूत्रकम्॥

तच्छ्रुत्वा भगवान् भूयो विष्कम्भिनं विबोधितम्।

सभाश्रितान् जनांश्चापि समालोक्यैवमादिशत्॥

विद्यते कुलपुत्रासौ तीर्थो मलसुनिर्मलौ।

सुमेरोर्दक्षिणे पार्श्वे मुनीन्द्रैः परिकल्पितौ॥

मलतीर्थजले क्षिप्तं शुभ्रवासोऽपि नीलितम्।

तथा तज्जलसंस्पृष्टो शुद्धोऽपि नीलितो भवेत्॥

सुनिर्मले जले क्षिप्तं नीलवासोऽपि शुक्लितम्।

तथा तज्जलसंस्पृष्टः पापात्मापि भवेच्छुचिः॥

एवमिदं महायानसूत्राग्रं योऽभिनन्दति।

सद्धर्मलिप्तोऽपि क्लेशैः संक्लिश्यते द्रुतम्॥

श्रुत्वापीदं महायानसूत्राग्रं योऽभिनन्दति।

स महापापलिप्तोऽपि निःक्लेशः स्याच्छुभान्तिकः॥

यथा शतमुखो हीन्द्रो विनिसृत्य निजालयात्।

दहति सर्वभूजातान् तृणगुल्मलताद्रुमान्॥

तथेदं सर्वसूत्राणां कारण्डव्यूहमुत्तमम्।

पातकान्यपि सर्वाणि निःशेषं दहते द्रुतम्॥

ये श्रुत्वेदं महायानसूत्रराजं सुभाषितम्।

अनुमोद्याभिनन्दन्तः संभजन्ते सदादरात्॥

ते सर्वे निर्मलात्मानो निःक्लेशविमलेन्द्रियाः।

बोधिसत्त्वा महासत्त्वा भवेयुर्निवर्तिकाः॥

इदं सर्वमहायानसूत्रराजं महोत्तमम्।

श्रुत्वा नैवानुमोदेयुः पृथग्जना दुराशयाः॥

ये चापीदं महायानसूत्रराजं महोत्तमम्।

निशम्याभ्यनुमोदन्तः प्रभजन्ते सदादरात्॥

२६३

धन्यास्ते पुरुषाः सर्वे परिशुद्धत्रिमण्डलाः।

निःक्लेशा निर्मलात्मानो भवेयुः सुगतात्मजाः॥

मृत्युकालेऽपि तेषां च द्वादश सुगता जिनाः।

समुपेत्याभिपश्यन्तो दद्युरेवं वरोत्तमम्॥

मा भैषीः कुलपुत्र त्वं यत्कारण्डव्यूहसूत्रकम्।

श्रुत्वानुमोद्य सत्कारैर्भजसे श्रद्धयादरात्॥

एतत्पुण्यानुलिप्तात्मा भूयो न संसरेर्भवे।

नैव क्लेशाग्निसंतापैः संधक्ष्यसे कदाचन॥

यावज्जीवं महत्सौख्यं भुक्ता श्रीसद्गुणान्वितम्।

भूयो धर्मामृतं भोक्तुं संप्रयायाः सुखावतीम्॥

तत्र त्वममिताभस्य जिनस्य शरणे स्थितः।

सदा धर्मामृतं पीत्वा संचरेथाः सुसंवरे॥

ततो निर्मलशुद्धात्मा परिशुद्धत्रिमण्डलः।

सर्वसत्त्वहिताधनबोधिचर्याव्रतं चरेः॥

ततः पारमिताः सर्वाः पूरयित्वा यथाक्रमम्।

निःक्लेशोऽर्हन्महाभिज्ञश्चतुर्ब्रह्मविहारिकः॥

जित्वा मारगणान् सर्वान् सम्बोधिनिश्चलाशयः।

त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयाः॥

इति तैः सुगतैः सर्वैः समादिष्टं निशम्य ते।

सर्वेऽप्युभ्यनुमोदन्तो नमेयुस्तान् जिनान् मुहुः॥

ततस्ते तान् जिनान् स्मृत्वा प्राणं त्यक्त्वा समाहिताः।

तैरेव सुगतैः सार्धं संप्रयायुः सुखावतीम्॥

तत्रोपेत्यामिताभस्य शरणे समुपाश्रिताः।

सदा धर्मामृतं पीत्वा संचरेयुर्जद्धिते॥

ततः सम्बोधिसंभारं पूरयित्वा यथाक्रमम्।

निःक्लेशा निर्मलात्मानः परिशुद्धत्रिमण्डलाः॥

जित्वा मारगणान् सर्वांश्चतुर्ब्रह्मविहारिणः।

त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयुः॥

२६४

एवं महत्तरं पुण्यं कारण्डव्यूहसूत्रजम्।

अप्रमेयमसंख्येयं संबोधिज्ञानसाधनम्॥

यूयं सर्वेऽपि विज्ञाय संबोधिं यदि वांच्छथ।

शृणुतेदं महायानसूत्रराजं सुभाषितम्॥

अनुमोदत सत्कृत्य भजन सर्वदादरात्।

इत्यादिष्टं मुनीन्द्रेण निशम्य ते सभाश्रिताः।

सर्वे लोकास्तथेत्युक्त्वा प्राभ्यनन्दन् प्रबोधिताः॥

ततस्ते सर्वे सभालोका ब्रह्मादयो महर्षयः।

शक्रादयः सुरेन्द्राश्च सर्वलोकाधिपा अपि॥

गन्धर्वकिंनरा रक्षाः सिद्धाः साध्याः सुरांगनाः।

विद्याधराश्च दैत्येन्द्रा नागेन्द्रा गरुडा अपि॥

महोरगाश्च दैत्येन्द्र नागेन्द्रा गरुडा अपि॥

महोरगाश्च नैरृत्या भूतेशाश्च शुभाशयाः।

योगिनो यतिनश्चापि तीर्थिकाश्च तपस्विनः॥

विप्रराजादयः सर्वे मनुष्याश्च प्रसादिताः।

त्रिधा प्रदक्षिणीकृय कृतांजलिपुटो मुदा॥

भगवन्तं ससंघं तं नत्वा स्वस्वालयं ययुः॥



॥इति सर्वसभालोकसद्धर्मश्रवणोत्साहसंप्रमोदितस्वस्वालयप्रतिगमनप्रकरणं समाप्तम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project