Digital Sanskrit Buddhist Canon

१७. सर्वसत्त्वोद्धारण संबोधिमार्ग स्थापन महेश्वरोमादेवी संबोधि व्याकरणोपदेश प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
१७. सर्वसत्त्वोद्धारण संबोधिमार्ग स्थापन महेश्वरोमादेवी संबोधि व्याकरणोपदेश प्रकरणम्



अथ सर्वनीवरणविष्कम्भी स जिनात्मजः।

सांजलिर्भगवन्तं तं पुनर्नत्वैवमब्रवीत्॥

भगवंस्त्रिजगद्धर्तुस्ते लोकाधिपतेः प्रभोः।

काये धर्माः कियन्तोऽपि विद्यन्ते तान् समादिश॥

इति संप्रार्थितं तेन विष्कम्भिना निशम्य सः।

भगवांस्तं महासत्त्वं समलोक्यैवमादिशत्॥

कुलपुत्रास्य नाथस्य त्रैधातुकनिवासिनाम्।

काये सर्वेऽपि सद्धर्माः संविद्यन्ते व्यवस्थिताः॥

तद्यथास्य तनौ लोम्नां विवरेषु सन्ति ये वृषाः।

तान् संक्षेपेण वक्ष्यामि शृणुध्वं यूयमादरात्॥

तद्यथैकविले लोम्नः सुवर्णानि बहून्यपि।

गन्धर्वाणाम् सहस्त्राणि निवसन्ति महासुखम्॥

बाध्यन्ते न च ते क्लेशैर्दुःखैः संसारिकैरपि।

विरक्ता दुरिताचारोपविशुद्धेन्द्रियोत्तमाः॥

सद्धर्माचारसंरक्ताश्चतुर्ब्रह्मविहारिणः।

शुद्धशीलाः सदाष्टांगपोषधव्रतधारिणः॥

तत्र श्रीमन्महारत्नं चिन्तामणिसमुज्ज्वलः।

सर्वसत्त्वहितार्थाय स्वयमुत्पद्य संस्थितः॥

यदा ते मणीमभ्यर्च्य गन्धर्वास्ते समीप्सितम्।

प्रार्थयन्ति तदा तेषां सर्वं संसिध्यते तथा॥

एवं भद्रसुखं भुक्त्वा गन्धर्वास्ते प्रमोदिताः।

त्रिरत्नभजनं कृत्वा प्रचरन्तः शुभे स्थिताः॥

एतदपि महद्धर्ममस्य लोमविले स्थितम्।

तेनासौ त्रिजगन्नाथो धर्मकायो विराजते॥

ततोऽन्यस्मिंश्च कृष्णाख्ये लोमविले जगत्प्रभोः।

शतकोटिसहस्राणि महर्षीणां वसन्त्यपि॥

एकोऽभिज्ञा द्वयभिज्ञाश्च त्र्यभिज्ञाश्चापि केचन।

२०४

केचिच्चतुरभिज्ञाश्च पंचाभिज्ञाश्च केचन।

सर्वे ते ऋषयो धीराः स्वस्वकुलव्रतंधराः।

सुवर्णमयशैलानां पार्श्वेषु कुट्टिमाश्रिताः॥

केचिद्रूपमयानां च पार्श्वेषु भूभृतां स्थिताः।

पद्मरागमयानां च केचित्पार्श्र्वेषु भूभृताम्॥

केचिन्नीलमयानां च पार्श्वेषु कुट्टिमाश्रिताः।

केचिद्वज्रमये पार्श्वे केचिन्मणिमये स्थिताः॥

वैडूर्यकुट्टिमे केचिदश्मगर्भमयेऽपरे।

केचिद्भीष्ममये पार्श्वे सप्तरत्नमयेष्वपि॥

सर्वेषामपि रत्नानां पार्श्वेषु सरसीष्वपि।

उद्यानेषु तथा केचिदारामेषु वनेषु च॥

सर्वेर्तुफ़लपुष्पाद्यैर्वृक्षैः संशोभितेष्वपि।

केचिच्चन्दनवृक्षाणां केचिदगुरुर्भूरुहाम्॥

केचित्तमालवृक्षाणां केचिच्चम्पकभूरुहाम्।

अश्वत्थानां वटाणां च तथान्येषां च भूरुहाम्॥

तथान्ये कल्पवृक्षाणां वांछितार्थप्रदायिनाम्।

तलेषूटजमाश्रित्य संतिष्ठन्ते समाहिताः॥

केचिदष्टांगशुद्धाम्बुसम्पूर्णेषु सरस्स्वपि।

दिव्यपद्मोत्पलाद्येषु समाश्रित्य समाहिताः॥

शुद्धशीला विशुद्धांगाः शुद्धाशय जितेन्द्रियाः।

नानातपोव्रतं धृत्वा संतिष्ठन्ते समाहिताः॥

अनेककल्पवृक्षाश्च सुवर्णरुप्यपत्रकाः।

सन्ति लोहितदण्डाश्च सर्वालंकारलम्बिताः॥

तत्रेदृक्कल्पवृक्षाणामेकैकस्य तले स्थितम्।

गन्धर्वाणां शतं स्मृत्वा त्रिरत्नं भजने सदा॥

यदा ते भवसंचारदुखानि विविधान्यपि।

विचिन्त्य खेदितात्मानः एवमुदीरयन्त्यपि॥

अहो जन्मजराव्याधिक्लेशव्याकुलदुःखता।

२०५

सर्वेषामपि जन्तूनाम् संसारभ्रमतां सदा॥

जाम्बूद्वीपमनुष्यास्ते क्लेशाग्निनितापिताशयाः।

दुःखानि विविधान्येव भुक्त्वा चरन्तिं दुर्वृतौ॥

कथं ते मानवा दृष्ट्वा जीवीतं भंगुरोपमम्।

त्रिरत्नभजनं कृत्वा न चरन्ति जगद्धिते॥

त्रिरत्नभजनं कृत्वा ये चरन्ति जगद्धिते॥

तेषां सर्वमभिप्रायमिहापि सिध्यते खलु॥

परत्र ते सुखावत्यां लोकधातौ समीरिताः।

जिनेन्द्रस्यामिताभस्य शरणे समुपस्थिताः॥

सर्वदा भजनं कृत्वा पीत्वा धर्मामृतं मुदा।

बोधिचर्याव्रतं धृत्वा संचरेरन् जगद्धिते॥

ततस्ते विमलात्मानो बोधिसत्त्वा जिनात्मजाः।

त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयुः॥

इत्येवं तैः समाख्यातं श्रुत्वा पक्षिमृगादयः।

पशवोऽपि समुद्विग्ना मनसैवं व्यचिन्तयन्॥

अहो दुःखं मनुष्याणां अपि संसारचारिनाम्।

तिरश्चां पशुजातीनामस्माकं किं कथ्यते॥

कदा वयमिमं पापकायम् त्यक्त्वा पुनर्भवे।

मानुष्यजन्म आसाद्य चरेमहि सदा वृषे॥

धन्यास्ते मनुजा लोके त्रिरत्नशरणं गताः।

स्मृत्वा ध्यात्वा भजन्तोऽयं संचरन्ते जगद्धिते॥

इत्येवं तेऽनुसंचिन्त्य सर्वे पक्षिमृगादयः।

त्रिरत्नमनुसंस्मृत्वा ध्यात्वा भजन्त आदरात्॥

तदा तेषामभिप्रायं सर्वेषामपि सिध्यते।

दिव्यभोग्यादिवस्तूनि सर्वाण्यपि भवन्ति च॥

तद् दृष्ट्वा सुप्रसन्नास्ते सर्वे पक्षिमृगादयः।

त्रिरत्नभजनं कृत्वा भजन्तः प्रचरन्त्यपि॥

एवं ते ऋषिगन्धर्वाः पक्षिमृगादिजन्तवः।

२०६

अपि सर्वे शुभोत्साहैः संतिष्ठन्ते प्रमोदिताः॥

एवं कृष्णाभिधे लोमे विवरे काये जगत्प्रभोः।

ऋष्यादयो महासत्वाः महर्द्धिधर्मचारिणः॥

एवं तस्य जगद्धर्तुः काये सर्वे वृषाः स्थिताः।

तेनायं त्रिजगन्नाथः सर्वधर्माधिपः प्रभुः॥

इति मत्वास्य सर्वेऽपि श्रद्धया शरणं गताः।

नामाप्युच्चार्य स्मृत्वापि भजन्तु वोधिवांछिनः॥

येऽप्यस्य शरणे स्थित्वा नामाप्युच्चार्य सर्वदा।

ध्यात्वा स्मृत्वापि सद्भक्त्वा भजन्ति संप्रसादिताः॥

दुर्गतिं ते न गच्छन्ति संयास्यन्ति सुखावतीम्।

तत्रामिताभनाथस्य शरणे समुपस्थिताः॥

सदा धर्मामृतं पीत्वा परिशुद्धत्रिमण्डलाः।

त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयुः॥

इत्यादिष्टं मुनीन्द्रेण निशम्य ते सभाश्रिताः।

विष्कम्भिप्रमुखाः सर्वे प्राभ्यनन्दन् प्रबोधिताः॥

ततः स भगवांस्तं च विष्कम्भिनं जिनात्मजम्।

सादरं समुपामन्त्र्य संपश्यन्नेवमादरात्॥

कुलपुत्र ततोऽन्यत्र तस्य त्रैधातुकप्रभोः।

लोकेशस्य तनौ लोमविवरे रत्नकुण्डले॥

तत्रानेकानि गन्धर्वकन्यानां नियुतानि च।

शतकोटिसहस्राणि निवसन्ति सदा मुदा॥

ताः सर्वा देवकन्याभा दिव्यारुपा मनोहराः।

सौम्यातिसुन्दराः कान्ता भद्रपोष्टेन्द्रियाशयाः॥

बाध्यन्ते नैव ताः क्लेशैः दुःखैर्मानुष्यकैरपि।

सद्धर्मश्रीगुणसंपत्तिसुखासंपन्ननन्दिताः॥

तास्सर्वास्तस्य नाथस्य चतुःसंध्यं समाहिताः।

ध्यात्वा नाम समुच्चार्य स्मृत्वा भजन्ति सादरम्॥

तासां सर्वाणि वस्तूनि द्रव्याणि भूषणानि च।

२०७

प्रादुर्भूतानि सिध्यन्ते यथाभिवांछितान्यपि॥

एवं ताः सुखसंपन्नाश्चतुर्ब्रह्मविहारिणः।

बोधिचर्याव्रतं धृत्वा प्रचरन्तो जगद्धिते॥

त्रिरत्नभजनं कृत्वा संबोधिनिहिताशयाः।

सत्यधर्मानुसंरक्तास्तिष्ठन्ति संप्रमोदिताः॥

एवं तस्य जगन्नाथशरीरं सुकृतालयम्।

तेनासौ त्रिजगन्नाथो धर्मराजो विराजते।

ततोऽन्यस्मिन् विले लोम्नस्तस्य च त्रिजगत्प्रभोः।

कोटिशतसहस्राणि निवसन्त्यमृतान्धसाम्॥

ते सर्वेऽप्यमरा धीराः संबोधिनिहिताशयाः।

बोधिसत्त्वा महासत्त्वाश्चतुर्ब्रह्मविहारिणः॥

एकभूमिस्थितः केचित् केचिद्द्वितीयभूमिकाः।

तृतीयभूमिकाः केचित् केचिच्चतुर्थभूमिकाः॥

पंचमभूमिकाः केचित् केचिच्च षष्ठभूमिकाः।

सप्तमभूमिकाः केचित् केचिदष्टमभूमिकाः॥

नवमभूमिकाः केचित् केचिद्दशमभूमिकाः॥

सर्वे सत्त्वहिताधानसंबोधिव्रतचारिणः।

त्रिरत्नभजनं कृत्वा संचरन्ते जगद्धिते॥

तस्मिंश्च विवरे सन्ति हेमरुप्यमया नगाः।

षष्टियोजनसाहस्रसमुच्छ्रिता महत्तराः॥

सर्वेऽपि शतशृंगास्ते सप्तरत्नमयोज्ज्वलाः।

तेषां पार्श्वेषु सर्वेषु ते एकभूमिकादयः।

बोद्धिसत्वा महासत्वा ध्यात्वा तिष्ठन्ति योगिनः।

गन्धर्वाणां च साहस्रकोटिलक्षशतान्यपि॥

रत्नमयविमानेषु संरमन्ते महोत्सवैः।

संगीतितूर्यसंवाद्यैर्महायानव्रतोत्सवैः॥

त्रिरत्नभजनं कृत्वा संचरन्ते जगद्धिते॥

ततो विश्रम्य सर्वे ते विमानेषु समाश्रिताः।

२०८

कृत्वा सद्धर्मसांकथ्यं संवसन्ते प्रमोदिताः॥

ततस्ते चंक्रमस्थाने पुष्करिण्यो वै शुभाम्बुभिः।

अष्टांगगुणसम्पन्नैः पूर्णायाश्च सरोरुहैः॥

पद्मोत्पलादिपुष्पैश्च छन्नायास्तटमन्दिरे।

मण्डितहेमरुप्यादिरत्नालंकारभूषणैः॥

भूषिते कल्पवृक्षैश्च सुवर्णरुप्यपत्रकैः।

प्रवाललोहितस्तम्बैः सर्वालंकारलम्वितैः।

चंक्रम्य तत्र ते रात्रो सर्वे ध्यात्वा समाहिताः।

षड्गतिभवसंचारनिःस्पृहा निर्वृतीच्छिकाः॥

निःक्लेशा विमलात्मानश्चतुर्ब्रह्मविहारिणः।

महायानव्रतोत्साहः सुखं भुक्त्वा समाश्रिताः।

एवं ते सकला नित्यं चतुस्संध्यं समाहिताः॥

त्रिरत्नाराधनं कृत्वा भजन्तो निवसन्त्यपि॥

एवमस्य जगद्भर्तुः कायो धर्मगुणाश्रयः।

ततोऽसौ त्रिजगन्नाथो धर्मकायो विराजते॥

ततोऽन्यत्र विले लोम्ना वज्रमुखाभिधे पुनः।

अनेके पर्वताः सन्ति लक्षकोटीसहस्रकाः॥

केचिद्धेममया केचिद्रौप्यवज्रमया अपि।

केचिन्नीलमयाः केचित्पद्मरागमया अपि॥

केचिन्मणिन्मयाः केचिदश्मगर्भमयास्तथा।

वैडूर्याः स्फ़ाटिकाश्चापि सप्तरत्नमया अपि॥

तेषु सर्वेषु भूभृत्सु कल्पवृक्षा महोच्छ्रयाः।

विद्रुमपादपाश्चापि चन्दनतरवोऽपि च॥

सर्वे सौगन्धिवृक्षाश्च सर्वे पुष्पमहीरुहाः।

सर्वर्तुफ़लवृक्षाश्च विद्यते परिशोभिताः॥

पुष्करिणीसहस्रानि दिव्यामृतभराण्यपि।

पद्मोत्पलादिसौगन्धिपुष्पपूर्णानि सन्ति च॥

विमानान्यपि चानेकसाहस्राणि हि सन्त्यपि।

२०९

सुवर्णरुप्यदिव्यादिरत्नमयानि सन्ति च॥

तेषु दिव्यविमानेषु किन्नराणां सुधर्मिणाम्।

लक्षशतसहस्राणि वसन्ति सुरसोत्सवैः॥

ते सर्वे किन्नरा दिव्यारत्नलंकारभूषिताः।

भवचारभयोद्विग्नाश्चतुर्ब्रह्मविहारिणः॥

प्रदातारः शुभाचाराः दयात्मनो महाशयाः।

योगधानसमाधानाः शुद्धप्रज्ञाविचक्षणाः॥

सर्वे तेषु विमानेषु विश्रान्ता विजितेन्द्रियाः।

त्रिरत्नभजनं कृत्वा संचरन्ते जगद्धिते॥

ततः सर्वेऽपि ते तेषु विमानेषु समाश्रिताः।

सर्वपारमिताधर्मसांकथ्यं संप्रकुर्वते॥

ततस्ते चंक्रमस्थाने कूटागारमनोरमे।

अधस्तात् कल्पवृक्षाणां हेमरुप्यपलाशिनाम्॥

प्रवाररक्षदण्डानां सर्वालंकारलम्बिनाम्।

चंक्रम्य तत्र ते सर्वे विश्रम्य समुपाश्रिताः॥

षड्गतिभवसंचारनानादुःखानुभाविनः।

भवचारनिरुत्साहाः सद्धर्माभिरताशयाः॥

त्रिरत्नस्मृतिमाधाय संतिष्ठन्ते समाहिताः।

तद तेषां च सर्वेषां प्रादुर्भूतानि सर्वतः॥

सरत्नद्रव्यभोग्यानि सर्वोपकरणान्यपि॥

एवं ते किन्नराः सर्वे सद्धर्मश्रीसुखान्विताः।

त्रिरत्नभजनं कृत्वा तिष्ठन्ते बोधिमानसाः॥।

एवं तस्य जगद्भर्तुः कायो महद्वॄषाश्रयः।

तेनासौ त्रिजगन्नाथो धर्मकायेऽभिराजते॥

ततोऽन्यस्मिन् विले लोम्नः सूर्यप्रभात्किधे पुनः।

कनकपर्वताः सन्ति द्वादशशतलक्षकाः॥

तदैकैकस्य शृंगानि दशशतशतानि च॥

तत्रैकैकस्य पार्श्वानि दशलक्षशतानि च।

२१०

तत्रैकैकत्र पार्श्वाणि सप्तरत्नमयोज्ज्वलः॥

उद्यानानि विचित्राणि मण्डितानि सुरद्रुमैः॥

पुष्करिण्योऽप्यनेकाश्च स्वष्टांगगुणसंयुतैः।

जलैः पद्मादिपुष्पैश्च परिपूर्णाः सुगन्धिभिः॥

कूटागाराणि लक्षाणि हेमरत्नमयानि च।

विचित्रदिव्यरत्नादिमण्डनालंकृतान्यपि॥

तेषां मध्ये महारत्नं सारदकोसिधो महान्।

चिन्तामणिर्जगद्भद्रवांच्चितार्थाभिपूरकः॥

तेषु सर्वेष्वसंख्येया बोधिसत्त्वा समाश्रिताः।

त्रिरत्नभजनं कृत्वा निवसन्ति समाहिताः॥

यदा ते बोधिसत्त्वास्तं चिन्तामणिमुपस्थिताः।

सम्भ्यर्च्य यथाकामं प्रार्थयन्ति जगद्धिते॥

तदा तेषां स सर्वार्थं पूरयति यथेप्सितम्॥

एवं श्रीसुखसंपन्नाः संतिष्ठन्ते जिनात्मजाः॥

यदा तत्र प्रतिष्ठास्ते बोधिसत्त्वाः शुभाशयाः।

प्रजल्पन्ते महाविद्यामनुस्मृत्वा षडक्षरीम्॥

तदा पश्यन्ति ते सर्वे सुखावत्यां समाश्रितम्।

अमिताभं जिनं तं च सर्वलोकाधिपं प्रभुम्॥

सर्वान् बुद्धांश्च पश्यन्ति सर्वक्षत्रसमाश्रितान्।

बोधिसत्त्वान् समासत्त्वान् सर्वांश्च सद्गुणाकरान्॥

एवं सर्वान् जिनान् तृप्तान् बोधिसत्वांश्च ते मुदा।

सर्वे तेनापि निष्क्रम्य चंक्रमन्ते यथेप्सिते॥

केचिद्रत्नमयोद्याने पुष्करिणीतटेष्वपि।

केचित्पर्वतपार्श्वेषु कल्पवृक्षतलेष्वपि॥

तत्र पर्यंकमाभुज्य परिशुद्धत्रिमण्डलाः।

ऋजुकायाः स्मृतिमन्तो ध्यात्वा तिष्ठन्ति योगिनः॥

एवं तस्य जगद्भर्तुः काय सर्ववृषाश्रयः।

तेनायं त्रिजगन्नाथो धर्मकायो विराजते॥

२११

ततोऽन्यस्मिन् विले लोम्न इन्द्रराजाभिधे पुनः।

नगाशीतिसहस्राणि हेमरत्नमयानि च॥

तेष्ववैवर्त्तिका धीर बोधिसत्त्वाः समाश्रिताः॥

महासत्त्वा महाभिज्ञा कोटिलक्षसहस्रकाः॥

तत्र मध्ये समुद्भूतं चिन्तामणिं महत्तरम्।

तं ते सर्वे समभ्यर्च्य प्रार्थयन्ति प्रार्थयन्ति यदेप्सितम्॥

तदा तेषामभिप्रायं सर्वेषामपि वांछितम्।

असौ चिन्तामणिः सर्वं संपूरयति सर्वदा॥

तेषां न विद्यते किंचिद्दुःखं कदापि भाविकम्।

बाध्यन्ते नापि ते सर्वे क्लेशै रोगादिभिः सदा॥

सदापि ते महासत्त्वाश्चतुर्ब्रह्मविहारिणः।

त्रिरत्नाराधनं कृत्वा संचरन्ते जगद्धिते॥

एवं तत्र महाभिज्ञाः बोधिचर्याविवर्तिकाः।

संबोधिनिहितात्मानः संतिष्ठन्ते समाहिताः॥

ततोऽन्यस्मिन् विले लोम्नो महौषध्यभिधे च पुनः।

नवनवेतिसाहस्रपर्वतास्तत्र सन्त्यपि॥

केचिद्धेममया रुप्यमया वज्रमया अपि।

इन्द्रनीलमयाश्चापि पद्मरागमया अपि॥

मरकतमयाश्चापि केचिच्च स्फ़टिका अपि।

सर्वरत्नमयाश्चापि विद्यम्ते तत्र भूधराः॥

तत्रानेकसहास्राणि प्रथमबोधिचारिणाम्।

त्रिरत्नभजनं कृत्वा संचरन्ते जगद्धिते॥

ते सर्वेऽपि न बाध्यन्ते क्लेशैर्दुःखैः कदाचन।

भद्रश्रीगुणसंपत्तिसमन्विता निराधयः॥

सुशीला विमलात्मानश्चतुर्ब्रह्मविहारिणः।

संबोधिप्रणिधिं कृत्वा संचरन्ते सुसंवरे॥

तेषु पर्वतशृंगेषु पार्श्वेषु च समन्ततः।

गन्धर्वाणां सहस्राणि निवसन्ति बहूनि च॥

२१२

सर्वेऽपि ते महायानचर्याव्रतसमाहिताः।

परिशुद्धाशया धीराः संबोधिनिहिताशयाः॥

सततं धर्मसंगीतिसंप्रवृत्तिमहोत्सवैः।

लोकेशस्मृतिमाधाय प्रवर्तन्ते सदा शुभे॥

एतद्धर्ममहोत्साहं सर्वे ते बोधिचारिणः।

त्रिविधमोक्षाणि संचिन्त्य भावयन्ति सुनिर्वृतिम्॥

ततस्ते भवसंचारे सुखदुःखादिभाविनः।

संबोधिप्रणिधिं कृत्वा संतिष्ठन्ते समाधिषु॥

ततोऽन्यस्मिन् विले लोम्नश्चित्रराजोऽभिधे पुनः।

प्रत्येकबुद्धकोटीनां नियुतानि शतानि च॥

सप्तरत्नमयोगानां पार्श्वेषु गह्वरेष्वपि।

ध्यात्वा स्मृतिमुपस्थाप्य संतिष्ठन्ते समाधिषु॥

सर्वेऽपि ते महाभिज्ञा महर्द्धिका विचक्षणाः।

विविधप्रातिहार्याणि दर्शयन्ति वियद्गताः॥

ततस्ते सप्तरत्नांगसानुषु समुपाश्रिताः।

विविधधर्मसांकथ्यं कृत्वा तिष्ठन्ति मोदिताः॥

ततस्ते कल्पवृक्षाणां छायासु समुपाश्रिताः।

समाधिनिहितात्मानः संतिष्ठन्ते समाहिताः॥

ततस्ते कल्पवृक्षेभ्यः प्रार्थयित्वा समादरात्।

सरत्नद्रव्यभोग्यानि भुक्त्वार्थिभ्यो ददन्ति च॥

एवं तत्र महाभिज्ञाः प्रत्येकसुगताः स्थिताः॥

ध्यात्वा सत्त्वहितं कृत्वा संचरन्ते समन्ततः॥

एवमन्येषु सर्वेषु लोम्नां च विवरेष्वपि।

ब्रह्मादयो मुनीन्द्राश्च शक्रादयोऽपि चामराः॥

गन्धर्वाः किन्नराः सिद्धाः साध्या रुद्रा गणाधिपाः।

भैरवा मातृकाः सर्वा महाकालगणा अपि॥

भूताः प्रेताः पिशाचाश्च कुम्भाण्डा राक्षसादयः।

नागाश्च गरुडा दैत्याः स्वस्वधर्मानुचारिणः॥

२१३

ब्रह्मणा वैष्णवाः शैवा योगिनो ब्रह्मचारिणः।

निर्ग्रन्थास्तीर्थिकाश्चापि यतयश्च तपस्विनः॥

राजानः क्षत्रिया वैश्याः शूद्राः सर्वे च मानवाः।

एवं च प्राणिनः सर्वे यावन्तो भवचारिणः॥

स्वस्वकुलव्रताचारसंरता धर्मचारिणः।

सर्वे तस्य जगद्भर्तुः सर्वलोमविलाश्रिताः॥

यदा ते तं जगन्नाथं ध्यात्वा स्मृत्वा समादरत्।

त्रिरत्नं प्रणयन्तोऽपि संभजन्ते समाहिताः॥

तदा तेषामभिप्रायधर्मश्रीगुणसाधनम्।

सर्वेषामपि तत्सर्वं संसिध्यते यथेप्सितम्॥

एवं तस्य जगच्छास्तुः कायस्सर्ववृषालयः।

तेनासौ त्रिजगन्नाथो धर्मराजो विरजते॥

तदग्रे विवरे लोम्नां ध्वजाग्रे सर्वेपश्चिमे।

अशीत्यगसहस्राणि सन्ति रत्नमयान्यपि॥

विद्यन्ते कल्पवृक्षाणां कोटिलक्षशतानि च।

चन्दनागुरुसौगन्धिपुष्पफ़लद्रुमा अपि॥

सर्वा वज्रमयी भूमीश्चन्द्रकान्तिप्रभासमाः।

कूटागारसहस्रानां कोटीनियुतशतानि च॥

तेषु सर्वेषु सौवर्णसप्तरत्नमयेषु च।

सोपानादीनि सौवर्णसप्तरत्नमयान्यपि॥

कूटागारेषु सर्वेषु तेषु तथागताः स्थिताः।

संबोधिसाधनं धर्मं निर्दिशन्ति जगद्धिते॥

एवं ते सुगताः सर्वे जम्बूद्वीपे नृणामपि।

सर्वाः पारमिताश्चापि निर्दिशन्ति सदापि च॥

एवं ते सर्वदा काले विविधां धर्मदेशनाम्।

कृत्वा सत्त्वहितार्थेन संतिष्ठन्ते समाहिताः॥

एवं तस्य जगच्छास्तुः कायः सर्ववृषाश्रयः।

तेनासौ त्रिजगच्छास्ता धर्मकायो विराजते॥

२१४

अथ सर्वनीवरणविष्कम्भी स जिनात्मजः।

भगवन्तं मुनीन्द्रं तं समालोक्यैवमब्रवीत्।

भगवन् पुनरन्यानि लोमविवराणि सन्त्यपि।

तानि सर्वाणि मे शास्तः समुपदेष्टुमर्हसि॥

इति तदुक्तमाकर्ण्य भगवान् स मुनीश्वरः॥

विष्कम्भिनं तमालोक्य पुनरेवं समादिशत्॥

कुलपुत्र न विद्यन्ते ततोऽतिक्रम्य दक्षिणे।

पादांगुष्ठे जगद्भर्तुर्भ्रमन्ति चतुरब्धयः॥

तदंगुष्ठाद्विनिष्क्रम्य यदा पतति वाडवे।

तदा तदुदकं सर्वं भस्मत्वमधियास्यति॥

एवं तस्य जगद्भर्तुः सर्वधर्मालया तनुः।

तेनायं त्रिजगद्भर्ता धर्माराजोऽभिराजते॥

अथ सर्वनीवरणविष्कम्भी स जिनात्मजः।

भगवन्तं मुनीन्द्रं तं समालोक्यैवमब्रवीत्॥

भगवन् भगतादिष्टं महात्म्यं त्रिजगत्प्रभोः।

श्रुत्वाहं परमाश्चर्यं प्राप्तोऽस्मि खलु साम्प्रतम्॥

तच्छ्रुत्वा भगवांच्छास्ता शाक्यसिंहो जगद्गुरुः।

विष्कम्भिनं तमालोक्य पप्रच्छैवं समादरात्॥

कुलपुत्र किमर्थं त्वम् परमाश्चर्यं प्राप्तवान्।

एतत्सत्यं ममाग्रेऽत्र वक्तुमर्हति सर्वथा॥

इत्यादिष्टं मुनीन्द्रेण निशम्य स जिनात्मजः।

विष्कम्भी भगवन्तं समालोक्यैवमब्रवीत्॥

यदसौ भगवान्नाथः सर्वधर्मसमाश्रयः।

त्रैधातुकोऽधिपालेन्द्रो धर्मराजोऽभिराजते॥

यदस्य शरणं गत्वा श्रद्धया समुपस्थिताः।

ध्यात्वा स्मृत्वापि नामापि समुच्चार्य भजन्ति ये॥

तदा तेषामभिप्रायं सद्धर्मगुणसाधने।

भद्रश्रीसुखसंपत्तिरपि सर्वैव सिध्यते॥

२१५

धन्यास्ते सुखिताः सर्वे यस्य त्रैधतुकप्रभोः।

सद्धर्मगुणासांकथ्यं शृण्वन्ति श्रद्धया मुदा॥

ये चाप्यस्य गुणाशंसाकारण्डव्यूहसूत्रकम्।

लिखेल्लिखापयेद्वापि पठेच्च पाठयेदपि॥

श्रुत्वा च मनसा नित्यं भावयेत् सर्वदादरात्।

विस्तरेण तदर्थं च परेभ्यः समुपादिशेत्॥

सोऽपि धन्यो महासत्त्वो बोधिसत्त्वः गुणाशयः।

निष्पापः परिशुद्धात्मा परिशुद्धेन्द्रियो भवेत्॥

नापि स बाध्यते क्लेशैर्दुःखैश्च भवचारिकैः।

न वापि जायते हीनकुलेषु दुर्गतिष्वपि॥

तस्य काये ज्वराश्चाष्टौ रोगाः कुष्ठादयोऽपि च।

विविधा व्याधयः सर्वे जायेरन्न कदाचन॥

न च हीनेन्द्रियश्चासौ नापि दुःस्थो दुराशयः।

बलवान् परिपुष्टांगः शुद्धेन्द्रियः सुखी सुधीः॥

सद्धर्मसाधनोत्साही संबुद्धगुणलालसः।

त्रिरत्नभजनं कृत्वा संचरेत जगद्धिते॥

एतत्पुण्यविशुद्धात्मा परिशुद्धेन्द्रियः कृती।

त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयुः॥

इति तेन समाख्यातं श्रुत्वा स भगवान् मुदा।

विषम्भिनं तमालोक्य पुनरेवं समादिशत्॥

साधु साधु महासत्त्व त्वमीदृक्प्रतीभानवान्।

यल्लोकेशगुणोद्भावमाहात्यमनुभाषसे॥

इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स सुगतात्मजः।

प्रमोदितो मुनीन्द्रं तं समालोक्यैवमब्रवीत्॥

भगवन् यदहं भाषे लोकेशगुणसत्कथाम्।

एतल्लोकसभामध्ये तद्भवतोऽनुभावतः॥

यदाहं भगवन्नत्र लोकेशसुकृतोत्कथाम्।

भाषामीमे तदा सर्वे लोकाः श्रद्धार्पिताशयाः॥

२१६

तदनुशंसनं श्रुत्वा सर्बेऽपीमे सभाश्रिताः।

ब्रह्मेन्द्रासुरनागेन्द्रप्रमुखा अनुमोदिताः॥

अस्य त्रैलोकनाथस्य सदा शरण आस्थिताः।

ध्यात्वाप्याराधितुं नित्यं समभीच्छन्ति साम्प्रतम्॥

इति तेन समाख्याते भगवान् स मुनीश्वरः।

विष्कम्भिनं तं समालोक्य पुनरेव समादिशत्॥

साधु साधु सुधिरोऽसि यत्त्वमत्र पुनः पुनः।

प्रोत्साहयन्निमांल्लोकान् सर्वान् करोषि बोधितान्॥

तदहं ते प्रसन्नोऽस्मि यत्स्वयं मे सभाश्रिताः।

सर्वेऽस्य त्रिजगद्भर्तुः धर्मं प्रोत्साह्य नन्दिताः॥

इत्यादिष्टं मुनीन्द्रेण विष्कम्भी सोऽभिनन्दितः।

भगवन्तं तमानम्य प्रार्थयदेवमादरात्॥

भगवंस्त्रिजगद्भर्तुस्तानि लोमविलान्म्यहम्।

द्रष्टुमिच्छमि तच्छास्तः सन्दर्शयितुमर्हति॥

इति संप्रार्थिते तेन विष्कम्भिना स सर्ववित्।

भगवांस्तं महासत्त्वं समालोक्यैवमादिशत्॥

अग्राह्या कुलपुत्रस्त्रे लोमविला जगत्प्रभोः।

असंस्पृश्या असंदृश्या यथाकाशस्तथा किल॥

तेषु समन्तभद्राद्या बोधिसत्त्वा जिनात्मजाः।

सर्वे द्वादश वर्षाणि संभ्रमन्ते समन्ततः॥

सर्वं तेनैव दृष्टानि तानि लोमविलानि हि।

बुद्धैरपि न दृश्यन्ते तेष्वेव संस्थितैरपि॥

किमन्यैर्बोधिसत्त्वैस्तौरर्हद्भिर्ब्रह्मचारिभिः।

योगिभिरृषिभिश्चापि दृश्यन्ते नैव केनचित्॥

इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स सुगतात्मजः।

विष्कम्भी भगवन्तं च समालोक्यैवमब्रवीत्॥

ये च समन्तभद्रेण दृश्यन्ते भ्रमतापि न।

यानि बुद्धैर्न दृश्यन्ते तत्रैव संस्थितैरपि॥

२१७

भगवंस्तानि संद्रष्टुं शक्नुयां कथमेव हि।

हा मे जन्म निःसारं यन्न दृष्टो स जगत्प्रभुः॥

इति तेनोदितं श्रुत्वा भगवान् स मुनीश्वरः।

विष्कम्भिनं समालोक्य पुनरेवं समादिशत्॥

मयापि कुलपुत्रास्य लोमविलानि यत्नतः।

चिरात् संवीक्षमाणेन दृश्यन्ते तानि सर्वतः॥

कुलपुत्र स लोकेशो मायावी सूक्ष्मरुपकः।

अरुप्यदृश्यमाण्येऽपि निराकारो निरंजनः॥

अथ रुपी महरुपो विश्वरुपो महाकृतिः।

एकादशशिरस्कंश्च शतसहस्रहस्तकः॥

कोटिशतसहस्राक्षो दिव्यरुपः सुरुपकः।

महायोगी महाप्राज्ञः परमार्थयोगपालकः॥

सुचेतनो महाभिज्ञो बोधिसत्त्वो जगत्प्रभुः।

कुलीनस्त्रिजगद्भर्ता सर्वधर्माधिपेश्वरः॥

सर्वसत्त्वसमुद्धर्ता संसारोदधितारकः।

महासत्त्वो महायानधर्मशास्ता जगद्गुरुः॥

त्रैधातुकजगन्नाथो धर्मधातुस्वरुपद्धृक्।

सर्वज्ञस्त्रिगुनाधारो निःक्लेशो विमलेन्द्रियः॥

अर्हन् संबोधिमार्गस्थः सर्वसत्त्वहितार्थभृत्॥

सर्वेषु भद्रधर्मेषु छायाभूतो निराकुलः।

संबोधिधर्मसंभारपूरकः श्रीगुणाकरः॥

ब्रह्मचारी विशुद्धात्मा सर्वलोकशुभंकरः।

सर्वपारमिताधर्ता सर्वसंघाधिपेश्चरः॥

एवं श्रीमान्महासत्त्व आर्यावलोकितेश्वरः।

बोधिसत्त्व महाभिज्ञः सर्वसमाधिभृद्वरः॥

केनापि दृश्यते नासौ सर्वधर्ममयाश्रयः।

अचिन्त्यो ह्यसमीक्षोऽपि सर्वनिर्माणरुपधृक्॥

सर्वसत्त्वान् समालोक्य दुर्गतितः प्रयत्नतः।

२१८

समुद्धृत्य शुभे धर्मे योजयति प्रबोधयन्॥

दुर्दान्तानपि संपश्यन् प्रातिहार्याणि दर्शयन्।

बोधयित्वा प्रयत्नेन योजयति सुसंवरे॥

बोधिसत्त्वान् महासत्त्वांश्च परिपाचयन्।

बोधिमार्गे प्रतिष्ठाप्य पालयत्यात्मजानिव॥

एवं स त्रिजगन्नाथो जगत्सर्वं प्रबोधयन्।

बोधिमार्गे प्रतिष्ठाप्य संप्रयायात् सुखावतीम्॥

सुखावत्यां मुनीन्द्रस्य शरणे समुपस्थितः।

सदानुशासनम् धृत्वा संचरन्ते जगद्धिते॥

तस्यामिताभनाथस्य पीत्पा धर्मामृतं सदा।

सर्वसत्त्वहिताधानं व्रतं धृत्वाधितिष्ठति॥

इत्यादिष्टं मुनीन्द्रेण निशम्य स जिनात्मजः।

विष्कम्भी भगवन्तं च समालोकयैवमब्रवीत्॥

भगवंस्तं जगन्नाथमार्यावलोकितेश्वरम्।

केनोपायेन पश्येयमहं कुत्र कदा कथम्॥

भगवन् स जगन्नाथो येनोपायेन दीक्ष्यते।

तदुपायं समादेष्टुमर्हति मे भवान् गुरुः॥

इति संप्रार्थिते तेन भगवान् सर्वविज्जिनः।

विष्कम्भिनं समालोक्य पुनरेवं समादिशत्॥

कुलपुत्र स लोकेशः सत्त्वानुद्धृत्य सर्वतः।

प्रथममत्र समागच्छेत सभायां मम दर्शने॥

इति शास्त्रा समादिष्टं श्रुत्वा स सुगतात्मजः।

विष्कम्भी भगवन्तं च समालोक्यैवब्रवीत्॥

अनुजानाम्यहं शास्त यत्स नाथ इहाव्रजेत्।

कदेहासौ जगन्नाथ आगच्छेत्तत समादिश॥

इति तदुक्तमाकर्ण्य भगवांस्तं जिनात्मजम्।

विष्कम्भिनं समालोक्य पुनरेवं समादिशत्॥

कुलपुत्र समालोक्य पुनरेवं समादिशत्॥

कुलपुत्र यदा सर्वसत्त्वो बोधिपथास्थितः।

२१९

भवति स महासत्त्वः प्रथममासरेदिह॥

इति शास्त्रोदितं श्रुत्वा विष्कम्भी स विषादितः।

कपोलं स्वकले धृत्वा मनसैवं व्यचिन्तयत्॥

हा मया किं कृतं पापं यदस्य त्रिभवप्रभोः।

सर्वधर्माधिनाथस्य दर्शनं प्राप्स्यते न हि॥

किं ममानेन कायेन सुचिरं जीवितेन च।

विना सन्दर्शनेनात्र लोकेश्स्य जगद्गुरोः॥

कदाहं तस्य नाथस्य दृष्ट्वा मुखसुधाकरम्॥

क्लेशतापहतं लप्स्ये प्रह्लादनं महत्सुखम्॥

कदास्य चरणाम्भोजे शरणे समुपस्थितः।

प्रणत्वा श्रीगुणं लप्स्ये सर्वसत्त्वहितार्थदम्॥

कदास्य भजनं कृत्वा पीत्वा धर्मामृतं सदा।

महानन्दसुखोत्साहैः संचरेयं जगद्धिते॥

कदास्य शासनं धृत्वा कृत्वा सर्वहितं सदा।

संबोधिश्रीसुखं प्राप्तुं संगच्छेयं सुखावतीम्॥

कदा गत्वा सुखावत्याममिताभं मुनीश्वरम्।

समीक्ष्य समुपाश्रित्य भजेयं सर्वदा मुदा॥

तत्सद्धर्मामृतं पीत्वा कृत्वा धर्ममयं जगत्।

संबुद्धपदमासाद्य यास्यामि निर्वृतिं कदा॥

इत्येवं मनसा ध्यात्वा विष्कम्भी स पुरो गतः।

भगवन्तं पुनर्नत्वा प्रार्थयदेवामादरात्॥

भगवन् स जगद्भर्ता कदेह समुपासरेत्।

द्रष्टुमिच्छामि तं नाथं सर्वथाहं कुहापि हि॥

येनोपायेन नाथोऽसौ यथा संद्रक्ष्यते मया।

तदुपायं तथा मह्यं समुपादेष्टुमर्हत्ति॥

इति तत्प्रार्थितं श्रुत्वा भगवान् विहसन्नपि।

विष्कम्भिनं समालोक्य पुनरेव समादिशत्॥

कुलपुत्रागतः कालो लोकेशस्य न साम्प्रतम्।

२२०

समयेऽसौ महाभिज्ञो ह्यवश्यमाचरेदिह॥

दुर्लभं कुलपुत्रास्य दर्शनं त्रिभवे प्रभोः।

कदाचित्केनचित्काले कथंचिल्लभते खलु॥

यदसौ सर्वलोकेशः सार्वधर्माधिपः प्रभुः।

सद्धर्मगुणसंभर्ताभद्रश्रिसंपदाश्रयः॥

सर्वेषामपि सत्त्वानां षड्गतिभवचारिणाम्।

त्राता भर्ता पिता माता सन्मित्रं सद्गुरुर्गतिः॥

शरण्यं परायणं द्वीपः सुहृद्बन्धुर्हितार्थदः।

भवोदधिसमुद्धर्ता क्लेशाग्निशमनामृतः॥

सर्वमारनिहन्तापि सर्वदुष्टभयापहा।

संबोधिमार्गसंदेष्टा निर्वृतिपददेशकः॥

एवमसौ महेशाख्यः सर्वलोकाधिपेश्वरः।

बोधिसत्त्वाधिपः शास्ता सर्वसंघविनायकः॥

संसारे तस्य सद्धर्मश्रवणं चापि दुर्लभम्।

नामापि ग्रहणं चापि स्मरणं चापि दुर्लभम्॥

ये तस्य शरणे स्थित्वा ध्यात्वा स्मृत्वापि सर्वदा।

अभिधानं समुच्चार्य संभजन्ते समाहिताः॥

एतत्पुण्यानुभोवेन सर्वे ते विमलेन्द्रियाः।

निःक्लेशा विमलात्मानो भवन्ति बोधिचारिणः॥

ततस्ते भद्रिताचाराश्चतुर्ह्मविहारिणः।

पोषधं संवरं धृत्वा संचरम समाहिताः॥

एतत्पुण्यानुभावेन परिशुद्धत्रिमण्डलाः।

त्रिरत्नभजनोत्साहैः संचरेरन् जगद्धिते॥

ततस्ते स्युर्महासत्त्वा बोधिसत्त्वा जिनात्मजाः।

षडक्षरीं महाविद्यां विद्याराज्ञीं समाप्नुयुः॥

यदा षडक्षरी विद्यां संप्राप्य ये जिनात्मजाः।

ध्यात्वा स्मृत्वा समुच्चार्य जपन्ति श्रद्धया सदा॥

तदा तस्य जगद्भर्तुः सर्वधर्ममयाश्रये।

२२१

लोमविलेषु जायेरन् सर्वे ते सुगतात्मजाः॥

ततस्तेनैव संसारे संसरेयुः कदाचन।

तस्यैव लोमरन्ध्रेषु जाता भ्रमेयुराभवम्॥

तत्रैव संभवन्तस्ते संबोधिज्ञानसाधनम्।

बोधिचर्याव्रतं धृत्वा संतिष्ठेरन् समाहिताः॥

तत्रैव संस्थितातेऽपि विना दुष्करचर्यया।

सुखेन प्राप्य संबोधिं निर्वृतिपदमाप्नुयुः॥

इति शास्त्र समादिष्टं श्रुत्वा स सुगतात्मजः।

विष्कम्भी मुनीराजं तं समालोक्यैवमब्रवीत्॥

भगवन् प्राप्तुमिच्छामि विद्यां षडक्षरीम्।

तद्भवान् म इमां विद्यक़ं समर्चयितुमर्हति॥

इति तत्प्रार्थितं श्रुत्वा भगवान् स मुनीश्वरः।

विष्कम्भिनं तमालोक्य पुनरेवं समादिशत्॥

दुर्लभां कुलपुत्रेमां विद्याराज्ञीं षडक्षरीम्।

बुद्धा अपि न जानन्ति प्रागेवान्ये जिनात्मजाः॥

इत्यादिष्टं मुनीन्द्रेण विष्कम्भी स विषादितः।

भगवन्तं समालोक्य पुनरेवं न्यवेदयत्॥

यद्भगवन्न जानन्ति सर्वे बुद्धा जिनात्मजाः।

तत्कुतोऽहमिमां विद्यां प्राप्स्यामि तदुपादिश॥

इति तदुक्तमाकर्ण्य भगवान् सर्वविज्जिनः।

विष्कम्भिनं समालोक्य पुनरेवं समादिशत्॥

विद्येयं कुलपुत्रास्य लोकेशस्य जगत्प्रभोः।

परमहृदयं हीति सर्वबुद्धैर्निगद्यते॥

तदियं दुर्लभा विद्या सर्वविद्याविनायकाः।

जानाति य इमां विद्यां परमार्थं स वेत्ति हि॥

इत्यादिष्टे मुनीन्द्रेण विष्कम्भी च जिनात्मजः।

भगवन्तं समालोक्य पप्रच्छैवं समादरात्॥

भगवन् स महासत्त्वो विद्यतेऽपि भवालये।

२२२

जानीत य इमां विद्यां तं दर्शयितुमर्हति॥

इति संप्रार्थिते तेन भगवांस्तं महामतिम्।

विष्कम्भिनं समालोक्य पुनरेवं समादिशत्॥

जानीते कुलपुत्रात्र कश्चित्तेषां षडक्षरीम्।

महाविद्यां महेशाख्यां सर्वत्रैधातुकेष्वपि॥

एषा महत्तरी विद्या सर्वयोगास्तमोधला।

यन्नापि ज्ञायते बुद्धैः सर्वैरपि जिनात्मजैः॥

एनां विद्यां समिच्छन्तः सर्वबुद्धा जिना अपि।

भ्रमन्ति बोधिसत्त्वाश्च दशदिक्षु समन्ततः॥

कुतश्चिल्लभ्यते नैव बुद्धैस्तैस्तु गतैरपि।

बोधिसत्त्वैश्च तैः सर्वैरेवमेषा सुदुर्लभा॥

केनचिल्लभ्यतेऽप्येषा भ्रमता सुचिरादिह।

बहुपुण्यानुभावेन लोकेश्वरप्रसादतः॥

धन्यास्ते बहुपुण्योघा बोधिश्रीगुणलाभिनः।

सततं ये जपन्त्येनं लोकेशहृदयं मुदा॥

जपति यो यदा यत्र विद्यामेनां षडक्षरीम्।

तदा तस्यान्तिके बुद्धाः सर्वेऽप्युरुपाश्रिताः॥

बोधिसत्त्वाश्च सर्वेऽपि महासत्त्वा महर्द्धिकाः।

रक्षेयुस्तं महासत्त्वं समेत्य समुपस्थिताः॥

षड्वपारमिताः सर्वाः तस्य द्वारसमाश्रिताः।

संबोधिसाधनोपायसिद्धिं दद्युर्जगद्धिते॥

द्वात्रिंशदेव पुत्राश्च सर्वे सपरिवारकाः।

जल्पकं तं समालोक्य रक्षेयुर्विपदाश्रिताः॥

चत्वारश्च महाराजाः ससैन्यसचिवानुताः।

तस्य रक्षां प्रकुर्युस्ते दशदिक्षु व्यवस्थिताः॥

सर्वे नागाधिपाश्चापि धरणीसमुपाश्रिताः।

तस्य रक्षाविधानार्थं दृष्ट्वा दद्युर्महामणिम्॥

भौमा यक्षाश्च सर्वेऽपि आश्रिताः संप्रसादिताः।

२२३

तस्य रक्षा प्रकुर्वन्ति संचरेरन् समन्ततः॥

बुद्धाश्च बहवस्तस्य कायलोमविलाश्रिताः।

साधुकारं प्रदत्वैवं वर्णयेयुः प्रसादिताः॥

धन्यस्त्वं कुलपुत्रासि यदीदृग्च्छ्रीगुणाकरम्।

चिन्तामणिं महारत्नं प्राप्तवान् साधु सन्मते॥

सप्तवंशाश्च ते सर्वे परिशुद्धत्रिमण्डलाः।

निःक्लेशा विमलात्मानो लभेयुर्निर्वृतेः पदम्॥

तव कुक्षि स्थिताश्चापि सर्वे प्राणिगणाः खलु।

बोधिसत्त्वा महासत्वा भवेयुश्च निर्वर्तिकाः॥

एवं तस्याः षडक्षर्या विद्यायाः पुण्यमुत्तमम्।

अप्रमेयमसंख्येयमिति प्राहुर्मुनीश्वराः॥

यश्चादारादिमां विद्यामहाराज्ञीं षदक्षरीम्।

मूर्ध्नि कण्ठे भुजे वापि बध्वा दध्यात् समाहितः॥

स सर्वपापनिर्मुक्तः परिशुद्धत्रिमण्डलः।

निःक्लेशं परिशुद्धात्मा वज्रकायो भवेद् ध्रुवम्॥

बुद्धधातुमणिस्तूप इव धर्ममयाश्रयः।

संबोधिज्ञानसद्रत्नराशिश्रीसद्गुणाश्रयः॥

तथागतगुणधारः सद्धर्मगुणसागरः।

बोद्धिसत्वो महासत्त्वो महासमृद्धिमान्॥

यश्चापीमां महाविद्यां गृहीत्वा विधितो मुदा।

श्रीमल्लोकेश्वरं ध्यात्वा जपेन्नित्यं समाहितः॥

स सर्वपातकैर्मुक्तः परिशुद्धत्रिमण्डलः।

भवेत् सद्धर्मदिग्धीमानक्षयप्रतिभानवान्॥

सर्वधर्माधिपः शास्ता ज्ञानराशिसमृद्धिमान्।

भवेद्भद्रसमाचारी चतुर्ब्रह्मविहारिकः॥

सर्वविद्याधिराजेन्द्रश्चक्रवर्ती गुणाकरः।

षट्कपारमितां नित्यं संपूरयेद्दिने दिने॥

ये च तस्य समुच्छ्वासैः स्पृश्यन्ते तेऽपि निर्मलाः।

२२४

बोधिसत्त्वा महासत्त्वा भवेयुरविवर्तिकाः॥

ये चापि तस्य वस्त्राणि स्पृशन्ति तेऽपि निर्मलाः।

बोधिसत्त्वाः सुधीराः स्युश्चरमभविकाः खलु॥

ये चापि जपमानं तं पश्यन्ति तेऽपि निर्मलाः।

चरमभविकाः सर्वे भवेयुः सुगतात्मजाः॥

पक्षिणः पशवो वापि सर्वेऽपि प्राणिनश्च ये।

पश्यन्ति जपमानं तं ते स्युस्सर्वे जिनात्मजाः॥

एवमेतन्महाविद्याजपमानस्य सन्मतेः।

पुण्यश्रीगुणसंपत्तिसंचोदनादिता जिनैः॥

इति शास्त्रा स्मादिष्टं निशम्य स जिनात्मजः।

विष्कम्भी भगवन्तं च समालोक्यैवमब्रवीत्॥

भगवन् प्राप्तुमिच्छामि महाविद्यां षडक्षरीम्।

तत्कुतः कथमाप्स्यामि भवानदेष्टुमर्हति॥

यो मे दद्यादिमां विद्यां सर्वाविद्याधिपेश्वरीम्।

सर्वयोगगुश्रेणीं सर्वध्यानगुणार्थदाम्॥

संबोधिज्ञानसंभर्त्रीं निर्वाणमार्गदर्सनीम्।

क्लेशविद्यायतनीं भद्रां सद्धर्मविराजतीम्॥

षड्गतिभवसंचारक्लेशसुखाग्निशामिनीम्।

बोधिसंभारसंभर्त्रीं सर्वज्ञज्ञानदायिनीम्॥

तस्मादहं चतुर्द्वीपान् सप्तरत्नाभिपूरितान्।

संप्रदातुं समिच्छामि सत्यमेतन्मयोदितम्॥

स हि माताधिमाता मे पिता संसारदर्शकः।

मित्राणामपि सन्मित्रं गुरुणामपि सद्गुरुः॥

तस्याहं शासनं धृत्वा शरणे सर्वदाश्रितः।

निर्विकल्पः समाधानः संचरेयं मुदा सर्वतः॥

इति मे भगवन् वक्यं सत्यमेवान्यथा न हि।

तत्र मां प्रेषयित्वाशु यत्रासौ सद्गुरुः स्थितः॥

दशदिक्ष्वपि सर्वत्र त्रैधातुभुवनेष्वपि।

२२५

यत्रासौ संस्थितः शास्ता तत्रापि गन्तुमुत्सहे॥

इति मे खेदता चित्ते कायेऽपि विद्यते न हि।

सर्वं भवान् विजानीते तदर्थे मे प्रसीदतु॥

भवानेव जगच्छास्त सर्वधर्महितार्थभृत्।

तन्मेऽनुग्रहं कृत्वा पूरयतु मनोरथम्॥

एतत्तेनोदितं श्रुत्वा भगवान् सर्वसार्थदिक्।

विष्कम्भिनं समालोक्य पुनरेवं समादिशत्॥

कुलपुत्राहमप्यस्या विद्यायाः करणे पुरा।

लोकधातुषु सर्वत्र पर्यभ्रमन् समुत्सुकः॥

बुद्धक्षेत्रेषु सर्वेषु सुचिरं भ्रमता मया।

न लब्धेयं महाविद्या सकाशात् कस्यचिन्मुनेः॥

ततो रत्नोत्तमाख्यायां लोकधातौ मुदा चरन्॥

तत्ररत्नोत्तमाख्यस्य संबुद्धस्य पुरो व्रजन्।

तस्य रत्नोत्तमस्याग्रे सांजलिः समुपाचरन्॥

पादौ नत्वाश्रुलिप्तास्यः संवीक्ष्यैवं न्यवेदयन्॥

भगवन्नहमायामि भवतां शरणेऽधुना।

तन्मेऽर्हति भवान् दातुं महाविद्यां षडक्षरीम्॥

इति मयोदितं श्रुत्वा रत्नोत्तमः स सर्ववित्।

संबुद्धोऽश्रुविलिप्तास्यं मां पश्न्नेवमादिशत्॥

कुलपुत्राश्रु मा मुंच यदर्थे त्वमिहागतः।

नैतन्मे विद्यते नूनं तदन्ये प्रार्थयेर्हि तं॥

यदि तेऽस्ति समीच्छा हि प्राप्तुं विद्यां षडक्षरीम्।

गच्छ पद्मोत्तमाख्यायां लोकधातौ महामते॥

तत्र पद्मोत्तमो नाम तथागतो मुनीश्वरः।

सद्धर्मं समुपादिश्य विहरति जगद्धिते॥

स एवेमां विजानीते महाविद्यां षडक्षरीम्॥

तदेनां तं समाराध्य प्रार्थयस्व मुनीश्वरम्।

स ते शास्ता महाभिज्ञः सर्वधर्माधिपो जिनः।

२२६

दद्यादेनां महाविद्यां षडक्षरीं जगद्धिते॥

इति तेन समादिष्टं निशम्याहं प्रसादितः।

ततः पद्मोत्तमाख्यायां लोक्धातौ मुदाचरम्॥

तत्र पद्मोत्तमं नाम संबुद्ध तं सभाश्रितम्।

दूरतोऽहं समालोक्य सहसा समुपाचरम्॥

तत्र गत्वा पुरस्तस्य पद्मोत्तमस्य सद्गुरोः।

पादाब्जे सांजलिर्न्नत्वा प्रार्थयमेवमादरात्॥

भगवन् सर्वलोकेषु बुद्धक्षेत्रेष्वहं भ्रमन्।

षडक्षरीं महाविद्यां प्राप्तुकाम इहाचरे॥

यस्याः स्मृतिमात्रेन परिशुद्धत्रिमण्डलाः।

लभेयुर्दुर्लभां बोधिं तस्या अर्थेऽहमाव्रजे॥

यदर्थेऽहमसंख्येयालोकधातुर्भ्रमन्निह।

भवच्छरणमायामि तत्साफ़ल्यं करोतु मे॥

इति तेनोदितं श्रुत्वा पद्मोत्तमः स सर्ववित्।

सुबुद्धो मां परिक्लिष्टं समालोक्यैवमादिशत्॥

धन्योऽसि कुलपुत्रस्त्वं यदर्थेऽखिन्नमानसः।

बुद्धक्षेत्रेषु सर्वेषु भ्रमन्निह समागतः॥

तदर्थं ते महासत्व पूरयामि जगद्धिते।

तत्पुण्यगुणमाहात्म्यं वक्ष्ये शृणु समाहितम्॥

तद्यथा कुलपुत्रास्या विद्यायाः पुण्यमुत्तमम्।

अप्रेयमसंख्येयमित्याख्यातं मुनीश्वरैः॥

सर्वस्थाणुरजःकृत्वा तत्संख्यातुं प्रशक्यते।

षडक्षरीमहामन्त्रजपपुण्यं न शक्यते॥

सर्वाब्धिबालुकानां च संख्याकर्तुं प्रशक्यते।

सर्वभूतलसंजातव्रीहिसंख्या च विद्यते॥

सर्वसमुद्रतोयानां बिन्दुसंख्या च विद्यते।

सर्वनदीजलानां च बिन्दुसंख्यापि विद्यते॥

सर्वभूतृणवृक्षाणां पत्रसंख्या च विद्यते।

२२७

सर्वेषामपि जन्तूनां लोमसंख्या च विद्यते।

सदावृष्टिजलानां च बिन्दुसंख्यापि विद्यते॥

सर्वसत्त्वा भवेयुश्च दशभूमिप्रतिष्ठिताः।

यावत्तेषां महत्पुण्यं ततोऽप्येतन्महत्तरम्॥

सर्वेषु पुण्यतीर्थेषु सर्वेष्वपि च पर्वसु।

स्नानदानजपुण्यानामेतज्जावद्वृषं महत्॥

सर्वे सत्वा भवेयुश्च ये तपोब्रह्मचारिणः।

तान् सर्वान् समभ्यर्च्य भोजयेयुर्थाविधि॥

यावत्तेषां महत्पुण्यं भद्रश्रीगुणसंपदम्।

ततोऽप्यभ्यधिकं पुण्यं षडक्षरीजपोद्भवम्॥

सर्वे सत्त्वा भवेयुश्च प्रत्येकसुगता अपि।

यश्चैतान् सुगतान् सर्वान् सत्कारैर्विधिनार्चयेत्॥

तस्य यावन्महत्पुण्यं सद्धर्मश्रीगुणार्थदम्।

ततोऽप्यभ्यधिकं पुण्यं षडक्षरीजपोद्भवम्॥

यश्चापि सुगतान् सत्कारैर्विधिनार्चयेत्।

ततोऽप्यभ्यधिकं पुण्यं षडक्षरीजपोद्भवम्॥

एवं महत्तरं पुण्यं षडक्षरीजपोत्थितम्।

सर्वैरपि हि सर्वज्ञैः प्रमातुं नैव शक्यते॥

कथमप्रमेयैकेन प्रमातुं शक्यतेऽखिलम्।

एवं महत्तरं पुण्यं षडक्षरीजपोद्भवम्॥

इति सर्वैर्जिनैः ख्यातं निशम्याहं प्रमोदितः।

एतां षडक्षरीं विद्यां प्राप्तुमैच्छन् जगद्धिते॥

एषो हि परमो धर्मः संबोधिधर्मसाधनः।

सूक्ष्मोऽनागतोऽव्यक्तो लोकेशहृदयं वरम्॥

सर्वाः पारमिताः सर्वतीर्थस्नानव्रतादिकम्।

सर्वमेतन्महाविद्यामन्त्रसंप्राप्तिकारणम्॥

यदा ह्येतन्महाविद्यामन्त्रसिद्धिरवाप्यते।

तदा सर्वमहाविद्यासिद्धिश्रीगुणमाप्नुयात्॥

२२८

एवमेतन्महोपायकुशालं त्रिजगद्धिते।

लोकेशस्य जगद्भर्तुर्हृदयमन्त्रमुत्तमम्॥

एवमेतन्महाविद्यामन्त्रं संबोधिसाधनम्।

असंख्येयं महत्पुण्यमित्याख्यातं मुनीश्चरैः॥

एतां षडक्षरी महाविद्यां संप्राप्तिकारणे।

अहमपि पुरा सर्वबुद्धक्षेत्रेष्वपि भ्रमन्।

सर्वेषामपि बुद्धानां शरणे समुपाश्रितः॥

सत्कारैर्विधानाभ्यर्च्य संप्रार्थयमिमां वराम्॥

कुत्राप्येतां महाविद्यां संबोधिज्ञानसाधनीम्।

कस्यचित् सुगतस्यापि नाध्यगच्छन् सकाशतः॥

ततोऽप्यहमिमाः विद्यां समधिगन्तुमुत्सुकः।

लोकधातौ सुखावत्यां प्रागच्छन् संप्रमोदितः॥

तत्रामिताभमालोक्य दूरतोऽहं सभाश्रितम्।

सांजलिः प्रणतिं कृत्वा दूरतः समुपाचरन्॥

तस्य शास्तुर्मुनीन्द्रस्य नत्वा पादाम्बुजे पुरे।

गलदश्रुविलिप्तास्यः संपश्यन्समुपाश्रयम्॥

तद्दृष्ट्वा स भगवांच्छास्ता सर्वज्ञो मामुपाश्रितम्।

जानन् मनोऽभिलाषं मे समालोक्यैवमदिशत्॥

कुत्रपुत्र षदक्षरीं विद्यामिच्छन्निहागतः।

त्वं किमेतन्ममाग्रेऽत्र प्रवदैनां यदीच्छसि।

इत्यादिष्टं जिनेन्द्रेण निशम्याहं प्रसादितः॥

भूयः पादाम्बुजे तस्य प्रणत्वैवं न्यवेदयम्॥

भगवन्नेमिच्छामि महाविद्यां षडक्षरीम्।

तद्भवान्मे मनोवांछां संपूरयितुमर्हति॥

भगवन् यदहं सर्वलोकाधातुषु सर्वतः॥

भ्रमन्निह समागच्छे प्राप्तुं विद्यां षडक्षरीम्॥

सर्वेषामपि बुद्धानां बुद्धक्षेत्रेषु सर्वतः।

भ्रमितोऽहमिमां विद्यां समन्वेषसमुत्सुकः॥

२२९

सर्वेषामपि वुद्धानां शरणे समुपाश्रितः।

सत्कारैर्विधिनाराध्य प्राभजन् श्रद्धया मुदा॥

एकस्यापि मुनीन्द्रस्य सकाशात् कस्यचिन्मया।

लब्धा नेयं महाविद्या षडक्षरी श्रुतापि न॥

भगवन्स्तद्भवंच्छास्ता मां शरणं समागतम्।

संपश्यन् पुत्रवद्धर्मे नियोजयितुमर्हति॥

भगवन् भव मे त्राता भर्ता गतिः परायणः।

बन्धुर्मित्र सुहृच्छास्ता गुरुर्नाथो हितार्थभृत्॥

देहि मे भगवन् धर्मदृष्टिं सर्वार्थदर्शनीम्।

शमय मे महत्क्लेशं वह्नितापं सुधांशुवत्॥

दर्शय बोधिमार्गं मे सम्बुद्धपुरचारणम्।

देहि धर्मनिधानं मे सद्धर्मश्रीसुखार्थदम्॥

स्थापय मां शुभे धर्मे संप्रेरय सुनिर्वृतिम्॥

इत्येवं बहुधासौ संपार्थ्यमानो मया मुहुः।

अमिताभो जिनेन्द्रोऽपि लोकेश्वरं व्यलोकयत्॥

तद्दृष्ट्वासौ माहसत्त्वो लोकेश्वरः समुत्थितः।

सांजलिः धर्मराजं तं प्रनत्वैवमभासत॥

भगवन् किमभिप्रायं भगतां यत्समादिश।

भवदाज्ञां वहन् मूर्ध्नि कुर्यामेव समादिश॥

इत्युक्ते लोकनाथेन भगवान् सोऽमितप्रभः।

लोकेश्वरं महाभिज्ञं समालोक्यैवमादिशत्॥

पस्य त्वं कुलपुत्रेमं पद्मोत्तमं मुनीश्वरम्।

षडक्षरीं महाविद्यां प्राप्तुमिह समागतम्॥

योऽयं शास्ता मुनीन्द्रोऽपि संबुद्धोऽपि तथागतः।

जगत्सत्त्वहिताधानीं विद्यामिच्छन्निहागतः॥

तद्देहि कुलपुत्रास्मै सर्वसत्त्वशुभार्थिने।

श्रद्धाभक्तिप्रसन्नाय महाराज्ञीं जगद्धिते॥

इत्यादिष्टे मुनीन्द्रेण लोकेश्वरो जगत्प्रभुः।

अभिताभं जिनेन्द्रं तं समलोक्यैवमब्रवीत्॥

२३०

भगवन् कथमत्रास्मै विना मण्डलदर्शनम्।

अनभिषिच्य दास्यामि विद्यामिमां षडक्षरीम्॥

देया नेयं महाविद्या ह्यनभिषिक्ताय भिक्षवे।

वीतरागाय दुष्टाय तीर्थिकाय दुरात्मने॥

देया हीयं महाविद्या भद्रश्रीगुणसाधनी।

सुसत्त्वाय प्रसन्नाय महायानव्रतार्थिने॥

बोधिसत्त्वाय विज्ञाय सर्वसत्त्वहितेप्सवे।

श्रद्धाभक्तिप्रसन्नाय सद्धर्मगुणसाधने॥

सर्वसत्त्वहिताधाने बोधिचर्याव्रतोद्यते।

अस्थाने भगवन्नस्मै सुगतायार्हतेऽपि हि॥

दया चेदभिषिंचैनं दर्शयित्वापि मण्डलम्।

ततोऽस्मै सुप्रसन्नाय दास्यामि भवदाज्ञया॥

इति निवेदितं तेन लोकेशेन निशम्य सः।

अमिताभो मुनीन्द्रस्तं लोकेशमेवमब्रवीत्॥

कुलपुत्र मयाख्यातं विद्यादानविधानं तम्।

नानाविधिं समाख्यातं सर्वैरपि मुनीश्वरैः॥

नैलचूर्णैः पद्मरागचूर्णैर्मारकतैरपि।

सौवर्णै रुप्यकैश्चूर्णैर्वर्तन्मण्डलं गुरुः॥

तथा शक्तौ पुष्पचूर्णैर्गन्धचूर्णैः सुरंगकैः।

विधाय मण्डलं तीर्थें वाभिषेकं प्रदापयेत्॥

यद्येतानि न विद्यन्ते देशभ्रमणचारिणः।

स्थानपदान्वितस्यापि दरिद्रस्यापि सन्मतेः॥

आचार्यो मनसा ध्यात्वा मुद्रालक्षणमण्डलम्।

तीर्थशंखाभिषेकं वा दत्वा विद्यां समर्पयेत्॥

इत्यनेन विधानेन कुलपुत्र सुभाविने।

अस्मै श्रद्धालवे देया महाविद्या षडक्षरी॥

इति शास्त्रमिताभेन समादिष्टं निशम्य सः।

मुदितोऽहं समुत्थाय लोकेशस्य पुरोगतः॥

२३१

पादाब्जे प्रणतिं कृत्वा कृतांजलिपुतो मुदा।

लोकेश्वरं तमालोक्य प्रार्थयमेवमादरात्॥

भगवन् भगतामत्र शरणेऽहं समागतः।

ददस्व मे महाविद्यां षडक्षरीं जगद्धिते॥

ययाहं सकलान् सत्त्वान् समुद्धृत्य भवोदधेः।

बोधिमार्गे समायुज्य प्रापयेयं सुनिर्वृतिम्॥

तन्मे भवान् जगत्सर्वं सत्त्वं संबुद्धपदवांछिने।

संबोधिसाधिनीं सर्वविद्येशां दातुमर्हति॥

मयैवं प्रार्थ्यमाणोऽसौ लोकेश्वरो विनोदितः।

संप्रादान्मे महाविद्यां षडक्षरीमुदाहरन्॥

अग्रे प्रणवमस्यान्ते मणिरस्य सरोरुहम्।

हद्बीजमिति सिद्धेयं षडक्षरीति विश्रुता॥

संप्रदत्तां समादाय महाविद्यामहं मुदा।

प्रादात्तस्मै जगच्छास्त्रे मुक्तामालां स दक्षिणाम्॥

गृहीत्वा तां जगद्भर्ता मुक्तामालां स दक्षिणाम्।

संबुद्धायामिताभाय समुपानामयत्तत्पुरः॥

अमिताभो मुनीन्द्रोऽपि तां मालां प्रतिगृह्य च।

मम पुरं उपस्थाप्य प्रादाद्भक्तिप्रसादितः॥

तत्प्रदत्तां समादाय तां च मालां प्रबोधितः।

तत्र श्रावकसंघेभ्य उपहृत्य समर्पयन्॥

तत्र एतन्महन्मन्त्रं शास्त्रा दिष्टं यथा तथा।

सश्रीलोकेश्वरं ध्यात्वा प्रजपन्ति समाहिताः॥

तदा विघ्नगणाः सर्वे दुष्टा मारगणा अपि।

संत्रासविह्वलात्मानः पलायन्ते दिगन्ततः॥

चचाल वसुधा साब्धि षडविधा सशिलातोयाः।

पपात पुष्पवृष्टिश्च सर्वत्राभूच्छुभोत्सवम्॥

ततोऽहं श्रीमतः शास्तुर्लोकेशस्य जगत्प्रभोः।

लब्धानुज्ञः प्रणत्वांघ्रीं मुदितः स्वाश्रमं ययौ॥

२३२

इत्थं मयातिकष्टेन भ्रमता सर्वभूमिषु।

अमिताभानुभावेन प्राप्ता लोकेश्वरादियम्॥

दुर्लभा कुलपुत्रेयं महाविद्या षडक्षरी।

न लब्धा सुगतैस्सर्वैः कैश्चिल्लब्धा जिनैरपि॥

इत्यादिष्टं मुनीन्द्रेण पद्मोत्तमेन मत्पुरः।

श्रुत्तमेव मयाप्येतन्महोपायं जगद्धिते॥

इत्यादिष्टं मुनीन्द्रेण निशम्य स जिनात्मजः।

विष्कम्भी भगवन्तं च संपश्यन्नेवमब्रवीत्॥

भगवन् कुत्र लप्स्येऽहं कथं कस्यान्तिकादिमाम्।

जगद्भद्रकरीं विद्यां तन्मे आदेष्टुमर्हति॥

धन्यास्ते विमलात्मानः पुण्यवन्तः सुभागिनः।

जपन्ति य इमां विद्यां शृण्वन्ति भावयन्त्यपि॥

दधत ये च भासन्ति मनसा चिन्तयन्त्यपि।

तेऽपि सर्वे महासत्त्वा भद्रश्रीसद्गुणाश्रयाः॥

अथासौ भगवान् पश्यन् विष्कम्भिनं महामतिम्॥

एवमेते महासत्वा भवेयुर्हीति प्रादिशत्॥

यश्चापि कुलपुत्रेमां विद्यां संबोधिसाधनीम्।

लिखापयेल्लिखेच्चापि लिखितां धारयेदपि॥

चतुरशीतिसाहस्रधर्मस्कम्धानि तेन हि।

लिखापितानि भवन्त्येव लिखितानि धृतानि च॥

सर्वेषां यश्च बुद्धानां धातुरत्नाभिगर्भितान्।

हेमरत्नमयान् स्तूपान् कृत्वा नित्यं भजन्मुदा॥

यावत्तेषां महत्पुण्यं बहुतरतोऽधिकम्।

विद्याराज्ञाः षडक्षर्या एकाक्षरस्य यत्फ़लम्॥

यो मुदा श्रद्धया नित्यं जपेदिमां षदक्षरीम्।

संबोधिसाधनीं विद्यां भद्रश्रीसद्गुणाकरीम्॥

सोऽचिन्त्यश्रीर्महाभिज्ञः सर्वपारमिताप्रभुः।

सर्वाश्च धारणीः सर्वान् समाधींश्च लभेदपि॥

२३३

सर्वविद्याधिपः शास्ता सर्वधर्माधिपः प्रभुः।

अर्हन्मारविजेता च भवेत् सर्वहितार्थभृत्॥

इत्यादिष्टं मुनीन्द्रेण निशम्य स प्रमोदितः।

विष्कम्भी बोधिसत्त्वस्तं निशम्य स प्रमोदितः।

विष्कम्भी बोधिसत्त्वस्तं मुनीन्द्रमेवमब्रवीत्॥

भगवन् कुत्र गच्छेयं यत्रास्तीयं षडक्षरी।

तत्राहं भवता शास्त्रा प्रेषणीयो हि सर्वथा॥

एवं तदुक्तमाकर्ण्य भगवान् स मुनीश्वरः।

विष्कम्भिनं तमालोक्य पुनरेवं समादिशत्॥

कुलपुत्रैक एवास्ति जानाति यः षडक्षरीम्।

वाराणस्यां नगर्यां स संतिष्ठते जपन् सदा॥

स्वयं धृत्वा परेभ्योऽपि समुपादिश्य सादरम्।

ध्यानसमाधिमुक्तात्मा विहरति जगद्धिते॥

एतच्छास्त्रा समादिष्टं निशम्य स प्रमोधितः।

विष्कम्भी बोधिसत्त्वस्तं शास्तारमेवमब्रवीत्॥

भगवन्स्तत्र यास्यामि यत्र शास्ता स तिष्ठते।

वाराणस्यां महापुर्यामपि तं द्रष्टुमुत्सहे॥

तं समुत्सुकमालोक्य भगवान् स मुनीश्वरः।

विष्कम्भिनं महासत्त्वं पश्यन्नेवं समादिशत्॥

गच्छ त्वं कुलपुत्रेमां महाविद्यां यदीच्छसि।

वाराणस्यां महापुर्यां स्थितं तं सद्गुरुं भजे॥

स शास्ता सुविशुद्धात्मा धर्मभाणक आत्मवित्।

संबुद्धवन्महाभिज्ञः पुण्यराशिश्चरन्निव॥

धर्मधातुमयस्तूपश्चरन्निव शुभाश्रयः।

भूतवादी शुभाचारी सर्वसत्त्वहितार्थभृत्॥

चिन्तामणिरिव श्रीमान् सर्वार्थसिद्धसंप्रदः।

धर्मराजो जगद्भर्ता जगदुद्धारणप्रभुः॥

यदि दृष्ट्वा तमात्मज्ञं निन्दंस्त्वविचारतः।

गंगेव सर्वतीर्थानां क्षेत्राणां बोधिमण्डवत्॥

२३४

द्रष्टव्यः स त्वया नैव कुलपुत्र तदन्यथा।

विचिकित्सा न कर्तव्या दृष्ट्वा तं धर्मभाणकम्।

योगाचारं महात्मानं परिशुद्धत्रिमण्डलम्॥

यदि दृष्ट्वा तमात्मज्ञं निन्दस्त्वमविचारतः।

च्युत्वा हि बुद्धभूमेस्त्वमपायेषु पतेदपि॥

स हि योगविशुद्धात्मा निर्विकल्पो जितेन्द्रियः।

अनाचारो मलालिप्तो ह्यशुचिचीवरावृतः॥

अनीर्यापथसंवृत्तो गृहाश्रमसमाश्रयः।

शक्तिभार्यासमापन्ना दुहितृपुत्रावानपि॥

तथापि स महाभिज्ञः षडक्षरीविशुद्धवित्।

समन्तभद्रवद्योगी वन्दनीयस्वयादरात्॥

इति भगवतादिष्टं निशम्य स प्रबोधितः।

विष्कम्भी भगवन्तं च समालोक्यैवमब्रवीत्॥

भगवन् भवता शास्त्रा यथाज्ञप्तं तथा खलु।

कृत्वा तच्छरणे स्थित्वा भजेयं तं समादरात्॥

भगवन्स्तत्र गच्छामि प्राप्तुं विद्यां षडक्षरीम्।

तदनुज्ञां भवान् मह्यं साम्प्रतं दातुमर्हति॥

ततः स भगवान्सतस्मै बोधिसत्त्वाय सद्धिये।

गच्छ सिध्यत्वभिप्रायमित्यनुज्ञाशिषं ददौ॥

प्राप्तानुज्ञा मुनीन्द्रस्य विष्कम्भी स प्रमोदितः।

पादाब्जे सांजलिर्नत्वा ततः संप्रस्थितोऽचरत्॥

अनेकैर्बोधिसत्त्वैस्स यतिर्ब्रह्मविहारिभिः।

भिक्षुभिः श्रावकैः सद्भिचैलकैचाप्युपासकैः॥

गृहस्थैर्व्रतिभिर्विप्रप्रमुखैः पौरिकैर्जनैः।

वणिग्भिः सार्थवाहैश्च श्रेष्ठिभिश्च महाजनैः॥

सार्धं पूजोपहारादिपुष्पाणि विविधान्यपि।

सर्वर्तुजानि सर्वाणि जलजस्थलजान्यपि॥

सुगन्धद्रव्याणि सर्वाणि धूपानि सुरभीनि च।

२३५

सर्वालंकारवस्तूनि वस्त्राणि विविधानि च॥

ध्वजच्छत्रवितानानि पताकाव्यंजनानि च।

चामराणि समुद्दीप्तरत्नदीपान्मुरुणि च॥

धातुद्रव्याणि सर्वाणि रत्नानि सकलानि च।

औषधादीनि सर्वाणि भोग्यानि सुरसानि च॥

एवमन्यानि वस्तूनि सर्वोपकरणान्यपि।

समादाय महोत्साहैः वाराणसिं ययौ॥

तत्र प्राप्तः स विष्कम्भी दृष्ट्वा तं धर्मभाणकम्।

दूरतः सांजलिर्नत्वा मुदितः समुपासरत्॥

तत्र स मुदितो धर्मभाणकस्य पुरो गतः।

पादाब्जे सांजलिर्नत्वा समालोक्यैवमब्रवीत्॥

भदन्त कौशल कश्चिद्भवतामिन्द्रियेष्वपि।

सर्वपरिग्रहाणां च सबन्धुसुहृदामपि॥

यदर्थे भवतां शास्त शरणेऽहमिहाव्रजम्।

तद्भवानपि जानीयात् तदर्थे मे प्रसीदतु॥

इति विज्ञप्य तस्याग्रे शास्तुः स सुगतात्मजः।

विष्कम्भी सुप्रन्नात्मा पूजां चक्रे यथाक्रमम्॥

यथाविधि समभ्यर्च्य सर्वपूजोपहारदूष्यादिशुद्धरुचिरचीवरैः।

ध्वजच्छत्रवितानैश्च पताकाव्यंजनादिभिः।

अलंकृत्य महोत्साहं चक्रे सगीतवादनैः॥

ततस्तस्य पुरः सर्वद्रव्योपकरणान्यपि।

सधातुरत्नजातानि भोग्यानि चौषधीरपि॥

सर्वाण्येतान्युपस्थाप्य पुरतः समकल्पयेत्।

ततोऽष्टांगैः प्रणामानि प्रदक्षिणानि चाकरोत्॥

ततः स प्रांजलिर्भूत्वा शास्तारं धर्मभाणकम्।

समीक्ष्य सुप्रसन्नास्यः प्रार्थयदेवमादरात्॥

भदन्त सद्गुरो शास्ता धर्मश्रीगुणसागराः।

तद्भवान् मे मनोवांछां संपूरयितुमर्हति॥

२३५

शृण्वन्ति ये सदा धर्मं भवतः समुपाश्रिताः।

देवा अप्यसुराश्चापि यक्षगन्धर्वकिन्नराः॥

गरुडा अपि नागाश्च विद्याधरादयोऽपि च।

कुम्भाण्डा राक्षसाश्चापि भूतप्रेतपिशाचकाः॥

सिद्धाः साध्या ग्रहास्ताराः सर्वाश्चाप्यप्सरोगणाः।

सर्वलोकाधिपाश्चापि ब्राह्मणाश्च महर्षयः॥

यतिनो योगिनश्चापि भिक्षवो ब्रह्मचारिणः॥

भिक्षुण्यश्चैलकाश्चापि व्रतिनश्चाप्युपासकाः॥

तीर्थिकाश्चापि शैवाश्च वैष्णवाश्च तपस्विनः।

राजानः क्षत्रिया वैश्याः श्रेष्ठिनोऽपि महाजनाः॥

पौरिकाः सार्थवाहाश्च वणिजः शिल्पिनोऽपि च।

एवमन्येऽपि लोकाश्च सर्वे ते विमलाशयाः॥

पुण्यवन्तो महासत्त्वा भद्रश्रीसद्गुणाश्रयाः।

बोधिसत्त्वा महाभिज्ञा भवेयुर्बोधिलाभिनः॥

भजन्ति भवतां ये च शरणे समुपस्थिताः।

ते सर्वे विमलात्मानः भवेतुर्बोधिलाभिनः॥

भवद्दर्शनमात्रेण सर्वाणि पातकान्यपि।

निरवशेषे विनष्टानि क्षिणुयुर्दारुणान्यपि॥

जानन्ते तव संबुद्धाः सर्वेऽपि दशदिक् स्थिताः।

बोधिसत्त्वाश्च सर्वेऽपि सर्वेऽर्हन्तोऽपि योगिनः॥

ब्रह्मशक्रादयो देवाः सर्वलोकाधिपा अपि।

महत्पुण्याभिवांछन्तो भजन्ति सर्वतः सदा॥

धन्यास्ते पुरुषाः सर्वे सद्धर्मश्रीगुणलाभिनः।

ये ते धर्मामृतं पीत्वा भजन्ति समुपस्थिताः॥

पुण्यक्षेत्रमहाभूमिरियं वाराणसी भुवि॥

भवत्पादरजोलिप्ता भवत्यतिपवित्रिता॥

तद्भदन्त भवांच्छास्ता कृपया मां विलोकयन्।

पुण्यामृतेन संसिचं संविभृतां स्वपुत्रवत्॥

२३७

इति तेनोदितं श्रुत्वा स सुधीर्धर्मभाणकः।

विष्कम्भिनं महासत्त्वं तं पश्चन्नेवमब्रवीत्॥

कौकृत्यं कुलपुत्रात्र मोत्पादय ममाग्रतः।

किमिच्छसि भवे क्लेशं सद्धर्मसुखसाधनम्॥

कति मार्षाः किल क्लेशाः संसार औपभागिकाः।।

नैमित्तिकाः प्रजोत्पत्तेः सद्धर्मगुणसाधनाः॥

ये चापीयं महाविद्यां संजानन्ते षडक्षरीम्।

संलिप्यन्ते न ते क्लेशैः संसारधर्मचारिणः॥

यथा जाम्बुनदं हेम मलैर्नासन्ध्यते क्वचित्।

यस्य कायगता चेयं महाविद्या षडक्षरी॥

संसारे सरतोऽप्यस्य काये क्लेशैर्न लिप्यते।

इति तेन समादिष्टं निशम्य स विनोदितः।

विष्कम्भी प्रार्थयदेवं नत्वैनं धर्मभाणकम्॥

ददस्व धर्मचक्षुर्मे नष्टमार्गस्य सद्गुरो।

संतर्पय जगद्भर्त धर्मामृतरसेन माम्॥

संबोधिकल्पवृक्षस्य बीजं रोपय मे तरौ।

सद्धर्मगुणरत्नानां कुरु मे कार्यमालयम्॥

भद्रश्रीसुखसंपत्तिवसतिं कुरु मे तनौ।

अभेद्यकुशलाधारं सुप्रतिष्ठ वृषाश्रयम्॥

कुरु मां निर्मलात्मानं परिशुद्धत्रिमण्डलम्।

ददस्व मे महाविद्यां संबोधिज्ञानसाधनीम्॥

सद्धर्मश्रीगुणाधारीं षडक्षरीं जगद्धिते॥

ययाहं क्षिप्रमासाद्य संबोधिज्ञानसन्मणिम्।

उद्धरेयं जगल्लोकं सांसारमहदम्बुधेः॥

प्रवर्तयेयमालोकं धर्मचक्रं भवालये।

मोचयेयं जगत्सर्वं षड्गतिक्लेशबन्धनात्॥

श्रावयेयं जगत्सर्वं संबुद्धानां सुभाषितान्।

चारयेयं जगल्लोके महायानं व्रतोत्तमम्॥

२३८

स्थापयेयं जगत्सर्वं बोधिमार्गेऽभिबोधयन्।

तद्भवान्मे कृपासिन्धो महाविद्यां षडक्षरीम्॥

संबोधिज्ञानसंभर्ता प्रयच्छतु जगद्धिते।

दत्वा मे श्रीमतीमेनां महाविद्यां षडक्षरीम्॥

त्राता नाथो गुरुः शास्ता सन्मित्रं सद्गुणार्थभृत्।

गतिर्बन्धुः सुहृत्स्वामि प्रभुः पिता परायणः॥

द्वीपपरायणो भर्ता शरण्यं भवतां मम॥

इति संप्रार्थिते तेन श्रुत्वा स धर्मभाणकः।

विष्कम्भिनं महासत्वं तमालोक्यैवमब्रवीत्॥

दुर्लभं कुलपुत्रेदं सर्वविद्यामहत्पदम्।

अभेद्यं सर्वमाराणां वज्रसारमनुत्तरम्॥

सर्वक्लेशाग्निसंतापप्रशान्तिकरणं महत्।

भद्रश्रीगुणसद्धर्मसमृद्धिसुखसाधनम्॥

सर्वसत्त्वहिताधानं बोधिसंभारपूरणम्।

सर्वधर्मोत्तमोदारं सर्वापायविशोधनम्॥

अक्षयज्ञानसम्पत्तिविमुक्तिपदसाधनम्।

दशपारमिताधर्मसारसंबोधिसाधनम्॥

सर्वदेवादिलोकैश्च समभिकांक्षितं पदम्।

सर्वधर्मपदस्थानं प्रवेशनपदं महत्॥

ये च स्वस्वकुलेस्थानां देवतानां यथाविधि।

अभिषेकं समादाय चरन्ति सद्व्रतं सदा॥

केचित्तीर्थे समाश्रित्य सद्धर्ममोक्षवांछिनः।

ध्यात्वा मन्त्राणि जल्पन्तो भक्त्याराधयन्ति तान्॥

केचिद् गिराशरण्येऽपि गुहायां निर्जने वने।

पुण्यक्षेत्रे गृहे रन्मे पीठे प्रेतालयेऽपि च॥

केचिच्चैत्यविहारे च सभागारे च मण्डपे।

उद्याने वॄक्षमूले च शिवादिसुरमन्दिरे॥

केचिन्महोदधेस्तीरे नदीतिरे सरस्तटे।

एवमन्यत्र सत्क्षेत्रे समाश्रिताः समाहिताः॥

२३९

स्वस्वकुलेष्टदेवानां शरणे समुपस्थिताः।

ध्यात्वाराध्य समभ्यर्च प्रार्थयन्ति सुनिर्वृतिम्॥

सुनिर्वृतिं न ते यान्ति कृत्वापि दुष्करं तपः।

स्वस्वकुलेष्टेवानामालयमेव यान्ति ते॥

ये च सन्तो महासत्त्वा बोधिसत्त्वाः शुभार्थिनः।

त्रिरत्नभजनं कृत्वा ददत दानमादरात्॥

एतत्पुण्याभिलिप्तास्ते भवेयुर्विलाशयाः।

शुद्धशीलसमाचाराः संचरेरन् सुसंवरम्॥

एतत्पुण्यानुलिप्तास्ते परिशुद्धत्रिमण्डलाः

क्षान्तिव्रतं समाधाय संचरेरन् जगद्धिते॥

एतत्पुण्याभियुक्तास्ते सद्धर्मसाधनोद्यताः।

महावीर्ये समुत्साहं कुर्युर्भवार्थसाधनम्॥

एतत्पुण्यविमुक्तास्ते निःक्लेशा विजितेन्द्रियाः।

योगध्यानसमाधानाः संतिष्ठेरन् समाहिताः॥

एतत्पुण्यामृतव्याप्ता अर्हन्तस्ते निरंजनाः।

संबोधिप्रणिधिं धृत्वा वरेयुर्बौद्धसंवरम्॥

एतत्पुण्यांशुदीप्तास्ते चतुर्ब्रविहारिणः।

प्रज्ञारत्नं समासाद्य संचरेरन् सुसंवृतौ॥

एतत्पुण्यानुभावैस्ते सर्वोपायविचक्षणाः।

सर्वसत्त्वहिताधानीं चरेयुर्भद्रचारिकाम्॥

एतत्पुण्यसमृद्धास्ते यथेच्छारुपचारिणः।

सर्वहितार्थसंभारं पूरयेयुर्जगद्धिते॥

एतत्पुण्यसमुद्दीप्ता महाभिज्ञा गुणाकराः।

बोधिमार्गे जगत्सर्वं स्थापयेयुः प्रयत्नतः॥

एतत्पुण्यमयांगास्ते परमार्थज्ञानमुत्तमम्।

प्राप्य मारान् विनिर्जित्य संबोधिं समवाप्नुयुः॥

ततस्ते सुगता बुद्धां जगत्सत्वं सुसंवृतौ।

बोधयित्वा प्रतिष्ठाप्य संप्रयायुः सुनिर्वृतिम्॥

२४०

एवं चिरेण बुद्धास्ते चरन्तो बोधिचारिकाः।

दशपारमिताः सर्वाः पूरयित्वा यथाक्रमम्॥

जित्वा मारगणान् सर्वांश्चतुर्ब्रह्मविहारिणः।

परमज्ञानमासाद्य संबोधिं प्राप्य निर्वृताः॥

एवं दुष्करमर्माणि कृत्वा सर्वजिना अपि।

चिरात् संबोधिमासाद्य संप्रायाताः सुनिर्वृतिम्॥

य इमां श्रीमहत्सर्वविद्येश्वरीं षडक्षरीम्।

ध्यात्वा लोकेश्वरं नित्यं जपति बोधिमानसः॥

स तत्क्षणाद्विशुद्धात्मा परिशुद्धत्रिमण्डलः।

भद्रश्रीसुखसंपन्नः संप्रयायात् सुखावतीम्॥

तत्र प्राप्तोऽमिताभस्य मुनेः शरणनिश्रितः।

बोधिधर्मामृतं पीत्वा बोधिसत्त्वव्रतं चरेत्॥

ततः संवृतिशुद्धात्मा सर्वसत्त्वहितोत्सुकः।

कृती पारमिताः सर्वाः संपूरयन् यथाक्रमम्॥

संवृतिधर्मसंभारं पूरयन्ति जितेन्द्रियाः।

समाधिसद्गुणाधारा जित्वा मारगणानपि॥

परमार्थं समासाद्य संबोधिं समवाप्नुयात्।

ततो बुद्धपदं प्राप्य कृत्वा धर्ममयं जगत्॥

निर्विकल्पो विशुद्धात्मा संप्रयायात् सुनिर्वृतिम्।

सर्वयोगा महाविद्याः परमार्थाप्तिकारणाः॥

एषा विद्या महाधर्मसंबोधिज्ञामसाधनी।

यथा हि तण्डुलसिद्धं संसारधर्मपालनम्॥

एवमेषा महाविद्या सर्वसद्धर्मपालिनी।

सर्वलोका सुमेदिन्यामुर्वरायां प्रयत्नतः॥

कृषित्वा धान्यमारोप्य संपालयन्ति सादरम्।

तदंकुरे समुद्भूते नदीभिन्नरहाम्बुभिः॥

मेघधाराम्बुभिः सम्यक् स्फ़ाल्यमानं प्रवर्धिते।

ततस्तत्परिनिष्पन्नं छिवा खले महीतले॥

२४१

मर्दयित्वा गृहे नीत्वा संशोष्य भास्वदातपैः।

ततस्तं मुशलेनापि भेदयित्वा समादरात्॥

तद्बुषाणि परित्यज्य समालोन्त्येव तण्डुलम्।

तदेव तण्डुलं सिद्धं सर्वसंसारपालनम्॥

सद्धर्मप्राप्तिसंभारपुरणं बोधिसाधनम्।

तथा सर्वमहायोगाः सर्वाः पारमिता अपि॥

सर्वा विद्याश्च मन्त्राणि सद्धर्मप्राप्तिसिद्धये।

सर्वेषां योगविद्यानां मन्त्राणामपि सत्तमम्॥

सिद्धमेतन्महाविद्यामन्त्रं सम्बोधिसाधनम्।

एवमेव महाविद्या सर्वधर्मार्थसाधनी॥

महत्पुण्यैर्विना नैव लभ्या केनापि सद्दिया।

सुक्षेत्रे व्यारुहेन्नेव तण्डुलं वितुषं क्वचित्॥

निष्पुण्यैः लभ्यते नैषा महाविद्या कथंचन।

यावन्न लभ्यते ह्येषा विद्या सर्वार्थसाधनी॥

तावत् पुण्यानि सर्वाणि संसाधयेत् प्रयत्नतः।

यदैषा लभ्यते विद्यां तदा पुण्यनिरादरः॥

एतामेव महाविद्यां ध्यात्वा लोकेश्वरं जपेत्।

यदेयं सिध्यते विद्या सर्वसंभारसाधनी॥

तदा सद्धर्मकार्याणि साधयेत् स्वेच्छयानया।

एषा हि तण्डुलाकारा संसारधर्मसाधनी॥

सर्वधर्मास्तुषाकारा एतद्विद्याप्तिकारणाः।

एवं महत्तरीमेनां विद्याराज्ञां षडक्षरीम्॥

ध्यात्वा पारमिताः सर्वाः प्रणमन्ते सदादरात्।

संबुद्धां अपि सर्वेऽथ बोधिसत्त्वा जिनात्मजाः॥

अर्हन्तो वीतक्लेशाश्च ध्यात्वेमां प्रणमन्त्यपि।

सर्वेऽपीन्द्रादयो देवाः ब्रह्मादयो महर्षयः॥

सूर्यादयो ग्रहाः सर्वे चन्द्रादितारका अपि।

सर्वसिद्धाश्च साध्याश्च वसवश्चाप्सरोगणाः॥

२४२

सर्वेऽपि त्रिदशेन्द्राश्च सर्वविद्याधरा अपि।

विष्णुब्रह्मादिलोकेन्द्राः कुम्भाण्डाश्च यमादयः॥

सर्वेऽपि राक्षसेन्द्राश्च वरुणादयोऽप्यहीश्वराः।

सर्वेऽपि गरुडेन्द्राश्च सर्वेऽपि पवनाधिपाः॥

सर्वे श्रीदादियक्षेन्द्राः सर्वेऽपीशादियोगिणः॥

गन्धर्वकिन्नरेन्द्राश्च सर्वलोकाधिपा अपि॥

सदा नित्यामिमां विद्यां विद्याराज्ञीं षडक्षरीम्।

ध्यात्वा स्मृत्वा प्रणत्वापि संभजन्ते समादरात्॥

ये येप्यस्याः सुसिद्धायाः विद्याराज्ञां समादरात्।

ध्यात्वा स्मृत्वा प्रणत्वापी प्रभजन्ते सदानिशम्॥

ते ते सर्वे विशुद्धांगाः विमुक्तसर्वपातकाः।

निःक्लेशा विमलात्मानः संप्रयायुः सुखावतीम्॥

तत्रामितरुचेः शास्तुः शरणे समुपाश्रिताः।

सदा धर्मामृतं पीत्वा संचरेरन् जगद्धिते॥

एवं ते च जगल्लोकं हितं कृत्वा प्रमोदिताः।

बोधिसत्त्वा महाभिज्ञा भवेयुर्धर्मराजिकाः॥

ततस्ते विमलात्मानः परिशुद्धत्रिमण्डलाः।

अर्हन्तो बोधिमासाद्य सम्बुद्धपदमाप्नुयुः॥

एवं महत्तरी विद्या प्रसिद्धेयं षडक्षरी।

यस्या अनुस्मृतिमात्रेण सर्वे नष्टा हि पापकाः॥

य एनां जपते नित्यं तस्य यः चीवरं स्पृशेत्।

सोऽपि भवेन्महासत्त्वो बोधिसत्त्वो विवर्तिकः॥

यश्चैनं पूजयेद्भक्त्या तेन सर्वेऽर्चिता जिनाः।

ससंघा अपि सत्कारैर्भवन्ति पूजिताः सदा॥

एवं महत्तरी सर्वभद्रश्रीसद्गुणार्थदा।

षदक्षरीति विख्याता सर्वत्र भुवनेष्वपि॥

बुद्धानां जननी माता प्रज्ञापारमितापि सा।

सांजलिं प्रणतिं धृत्वा भजत्येनां शुभंकरीम्॥

२४३

अत एषा महाविद्या संसारधर्मसाधनी।

मुनीन्द्रैर्बोधिसत्त्वैश्च सर्वदेवैश्च वन्दिता॥

अस्या नामसंभारं ग्रहणमपि दुर्लभम्।

स्मरणं श्रवणं चापि विना पुण्यैर्न लभ्यते॥

इति तेन समादिष्टं श्रुत्वा स संप्रमोदितः।

विष्कम्भी सांजलिः प्रार्थ्य नत्वैवं धर्मभाणकम्॥

भदन्त सद्गुरो शास्तः शरणे तेऽहमागतः।

तद्भवान् मे महाविद्यां प्रददातु जगद्धिते॥।

इति संप्रार्थितस्तेन पश्यन् स धर्मभाणकः।

स्मृत्वा लोकेश्वरं ध्यात्वा तस्थौ तद्दानचिन्तया॥

तदाकाशान्महच्छब्दो निश्चचार मनोहरः।

ददस्वास्मै जगल्लोकहितार्थपुण्यवांछिनः॥

योऽयं धीरो महासत्त्वो बोधिसत्त्वो जिनात्मजः।

सर्वसत्त्वहितानि विद्यामिच्छन् समागतः॥

श्रद्धाभक्तिप्रसन्नात्मा सं बोधिज्ञानलालसः।

तत्प्रसिद्धा महाविद्या देयास्मै दीयतामिति॥

तन्निश्चरन् महाशब्दं श्रुत्वा स धर्मभाणकः।

कुतोऽयं चरते शब्द इति ध्यात्वा व्यवस्थितः॥

भूयोऽप्येयं महाशब्दो निश्चचार विहायसः।

देयास्मै सुप्रसन्नाय संबोधिज्ञानसाधिने॥

सर्वसत्त्वहितार्थाय सद्धर्मश्रीगुणार्थिने।

बोधिसत्त्वाय धीराय श्रद्धया दीयतामिति॥

निश्चरन्तं सुशब्दं तं श्रुत्वा स धर्मभाणकः।

कुतोऽयं चरते शब्द इति ध्यात्वा व्यलोकयेत्॥

समीक्ष्य सर्वतो दिक्षु धिमान् स संविलोकयन्।

विस्मयापन्नचित्तः खे संपश्यन् संददर्श तम्॥

शरत्पूर्णेन्दुदीप्ताभं जटामिताभशोभितम्।

पद्महस्तं महासत्त्वमार्वलोकितेश्वरम्॥

२४४

दृष्ट्वा तं खे कजालीनं बोधिसत्त्वं जिनात्मजम्।

भद्रश्रीसद्गुणाधारं संबोधिधर्मभास्करम्॥

संपश्यन् समुत्थाय सानन्दविस्मिताशयः।

अष्टांगैः प्रणतिं कृत्वा तस्थौ ध्यात्वा कृतांजलिः॥

तमेवं संस्थितं धर्मभाणकं निश्चरेन्द्रियम्।

स त्रैलोकेश्वरः पश्यन् समामन्त्र्यैवमादिशत्॥

कुलपुत्रायमुद्योगी संबोधिज्ञानसाधने।

अस्मै दैया महाविद्या प्रदियतां षडक्षरी॥

इति तेन जगच्छास्त्रा समादिष्टं निशम्य सः।

धर्मभाणकः आलोक्य नत्वैनमब्रवीत्॥

भगवन्नाथ धर्मेन्द्र भवदाज्ञां शिरो वहन्॥

ददात्वस्मै महाविद्यां तद्भवान् संप्रसीदतु॥

इति विज्ञप्य लोकेशं ततः स धर्मभाणकः।

विष्कम्भिनं समामन्त्र्य संपश्न्नेवमब्रवीत्॥

कुलपुत्र जगच्छास्ता दत्ताज्ञा मे प्रसीदतः।

दद्यामहं महाविद्यां गृहाणेमां षडक्षरीम्॥

इत्यादिश्य स धर्मिष्ठो विधिनास्मै महात्मने।

सविशुद्धिमुदाहृत्य प्रादाद्विद्यां षडक्षरीम्॥

प्रणवमणिकजहृद्बीजमिति षडक्षरम्।

सिद्धमेतन्महाविद्या षदक्षरीति विश्रुता॥

तत्प्रदत्तामिमां विद्यां विद्याधीणां षडक्षरी।

विष्कम्भी सांजलिर्नत्वा संप्राग्रहीत्प्रमोदितः॥

तत्क्षणे साचला साब्धिश्चचाल षड् विधा मही।

पपात पुष्पवृष्टिश्च सर्वतोऽप्यचरच्छुभम्॥

तद्विद्या दत्तमात्रेऽपि विष्कम्भी स समृद्धिमान्।

अनेकधर्मसंभारसमाधिप्राप्तवानभूत्।

ततः स सुप्रसन्नात्मा शत्रे तस्मै सदक्षिणाम्।

चतुर्द्वीपां सप्तरत्नपरिपूर्णां ददौ मुदा॥

२४५

तां दृष्ट्वा स महाभिज्ञो धर्मिष्ठो धर्मभाणकः।

विष्कम्भिनं महासत्त्वं तं समालोक्यैवमब्रवीत्॥

कुलपुत्र त्वमार्योऽसि नानार्यः सुगतात्मजः।

वैनेयो बोधिसत्त्वस्तत् गृह्णीयां दक्षिणां न ते॥

एता एकाक्षरस्यापि पर्याप्ता न तु दक्षिणा।

प्रागेव षडक्षराणां गृह्णियां ते तथापि न॥

तच्छ्रुत्वा स महाभिज्ञो विष्कम्भी तस्य सद्गुरोः।

महार्घ्यमूल्यशुद्धाभं मुक्ताहारमुपाहरत्॥

तमुपनामितं पश्यन् गृहीत्वा धर्मभाणकः।

तस्मै प्रत्यर्पयित्वा स पश्यंस्तं चैवमब्रवीत्॥

कुलपुत्र मुनीन्द्रस्य शाक्यमुनेर्जगद्गुरोः।

एनं पुन उपास्थाप्य मद्वचसा वदेर्नमः॥

इति शास्त्रा समादिष्टं निशम्य स विनोदितः।

विष्कम्भिनं सुप्रसन्नं समालोक्यैवमब्रवीत्॥

भवता यद्यथादिष्टं तत्तथाहं करोमि हि।

इति विज्ञप्य तं मुक्ताहारं नत्वा समाददे॥

ततः स सुप्रसन्नात्मा विष्कम्भी तस्य सद्गुरोः।

पादाब्जे सांजलिर्नत्वा संप्रस्थितोऽचरन्मुदा॥

सार्धं सर्वैः सदा यैस्तैः प्रतिलब्धमनेप्सितः।

सुमंगलमहोत्साहं जेतोद्यानमुपाचरत्॥

तत्र स दूरतः पश्यन् भगवन्तं सभाश्रितम्।

सांजलिः प्रणतिं कृत्वा सहसा समुपासरत्॥

तत्र समुपासृत्य शास्तुस्तस्य जगद्गुरोः।

पादाब्जं सांजलिर्नत्वा संपश्यन् समुपाश्रयत्।

तत्र स भगवान् पश्यन् विष्कम्भिनं समागतम्।

सुप्रसन्नमुखाम्भोजं समालोक्यैवमादिशत्॥

स्वागतं कुलपुत्रैहि कश्चित्ते कौशलं तनौ।

वांछितार्थं समासाद्य समायासि प्रसीदतः॥

२४६

इत्यादिष्टे मुनीन्द्रेण विष्कम्भी संप्रसादितः।

भगवन्तं जगन्नाथं पश्यन्नेवं न्यवेदयत्॥

भगवन् लब्धवानस्मि भवत्कृपानुभावतः।

संबोधिसाधनीं विद्यां भद्रश्रीसद्गुणार्थदाम्॥

अद्य मे सफ़लं जन्म बुद्धपुत्रोऽस्मि साम्प्रतम्।

प्राक्संबोधिसन्मार्गो भद्रश्रीमान् जगद्धिते॥

भगवन् यद्भवांच्छास्ता सर्वर्महितार्थभृत्।

यथाशु बोधिमाप्नुयाम् तथा मां प्रोत्तुमर्हति॥

इति तेनोदितम् श्रुत्वा भगवान् स मुनीश्वरः।

विष्कम्भिनं समालोक्य पुनरेवं समादिशत्॥

धन्यस्त्वं कुलपुत्रोऽसि बोधिसत्त्वो जिनात्मजः।

सर्वसत्त्वहिताधानी महविद्यासमाप्तवान्॥

भूयोऽप्यहं महाविद्यां सप्तसप्ततिकोटिभिः।

संबुद्धैर्भाषिता या तां दास्यामि ते जगद्धिते॥

य एतां धारणीं विद्यां सर्वपातकनाशनीम्।

भद्रश्रीसद्गुणाधारां संबोद्धपदसाधनीम्॥

समादाय सुचित्तेन स्मृत्वा ध्यात्वा समाहितः।

संबोधिप्रणिधिं धृत्वा पठति सर्वदादरात्॥

स सर्वपापनिर्मुक्तः परिशुद्धेन्द्रियः सुधीः॥

निःक्लेपरिशुद्धात्मा बोधिसत्त्वो भवेत् कृती॥

सर्वैरपि मुनीन्द्रैस्स समालोक्य सदानिशम्।

दुष्टमारभ्येभ्योऽपि संरक्ष्यते स्वपुत्रवत्॥

सर्वविघ्नगणानां स्यात् प्रधृष्यः स वीर्यवान्।

महासत्त्वो महोत्साही सद्धर्मगुणसाधने॥

संबुद्धजननी देवी प्रग़्यापारमितापि तम्।

बोद्धिसत्त्वं महासत्त्वं पश्यन्ती समवत् सदा॥

लोकेश्वरोऽपि संपश्यन्स्तं श्रीभद्रगुणाश्रयम्।

सर्वत्र सर्वदा रक्षेद्योजयन् बोधिसंवरे॥

२४७

ततः स त्रिगुणाभिज्ञो बोधिचर्याव्रतं दधन्।

सर्वं संबोधिसंभारं संपूरयन् यथाक्रमम्॥

ततः स सुविशुद्धात्मा निःक्लेशो विमलेन्द्रियः।

अर्हन् मारान् विनिर्जित्य त्रिविधां बोधिमाप्नुयात्॥

ततः स त्रिजगच्छास्ता कृत्वा धर्ममयं जगत्।

सर्वं बोधिव्रते युज्य समाप्नुयात् सुनिर्वृतिम्॥

एवं महत्तरी विद्यां संबुद्धपदसाधनी।

एषा त्वया सदा धार्या पठनीया जगद्धिते॥

ये चाप्येतन्महाविद्यापाठभाषणसुस्वरम्।

श्रुत्वानुमोदमानास्तं नत्वा भजन्ति सादरम्॥

तेऽपि सर्वे विकल्माषाः परिशुद्धत्रिमण्डलाः।

त्रिरत्नभजनोद्युक्त्ता भजेयुः सुगतात्माजाः॥

ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमम्।

त्रिविधां बोधिमासाद्य संबुद्धापदमाप्नुयुः॥

एवं सर्वैर्जगन्नाथैरियं विद्यां महत्तरी।

धृत्वा संपाठिता नित्यं देशिता च जगद्धिते॥

इति मत्वा त्वयाप्येषा विद्या संबोधिसाधनी।

भद्रश्रीधर्मसंभर्त्री पठितव्या जगद्धिते॥

इत्यादिश्य मुनीन्द्रोऽसौ भगवांस्त्रिजगद्गुरुः।

विष्कम्भिने सुधीराय बोधिसत्त्वाय सद्धिये॥

आ ओं चले चूले चुन्दे स्वाहेत्येतन्नवाक्षरम्।

धारणीं परमां विद्यां प्रादात् स्वयमुदाहरन्॥

शास्त्रा स्वयं प्रदत्तं तां महाविद्यां नवाक्षरीम्।

विष्कम्भी सांजलिर्नत्वा समादायापठन्मुदा॥

धृत्वा विष्कम्भिना शास्तुः पाठेमाना गुरोः पुरः।

संसिद्धा सा महाविद्या बभूव त्रिजगद्धिते॥

एतद्विद्यानुभावेन विष्कम्भी स विशुद्धदृक्।

लोकेश्वरस्य प्राद्राक्षीत् सर्वलोमविलान्यपि॥

२४८

तानि दृष्ट्वा स विष्कम्भी सहर्षविस्मयान्वितः।

अहो चित्रं महामाया संदृश्यते मयाधुना॥

धर्मकाये जगद्भर्तुः सर्वाणि भुवनान्यपि।

इति ध्यात्वा समाधाय संतस्थे निश्चलेन्द्रियः॥

ततः स सुप्रसन्नात्मा विष्कम्भी संप्रबोधितः।

भगवन्तं प्रणत्वा च सांजलिरेवमब्रवीत्॥

भगवंस्त्रिजगद्भर्तुः सर्वधर्माश्रयेऽधुना।।

लोमविलेषु पश्यामि सर्वाणि भुवनात्मनि॥

कति सन्ति तनौ तस्य सर्वधर्माधिपस्स्य हि।

लोमविलेषु लोकास्तान् सर्वान् दर्शयितुमर्हति॥

इति संप्रार्थिते ते विष्कम्भिना स सर्ववित्।

भगवान्स्तं महासत्त्वं संपश्यन्नेवमादिशत्॥

कुलपुत्रे विजानीहि सर्वत्रैधातुकान्यपि।

भुवनानि जगद्भर्तुः सन्ति धर्ममयाश्रये॥

तेनासौ त्रिजगन्नाथो सर्वधर्ममयाश्रयः।

सर्वधर्माधिपः शास्ता सर्वलोकाधिपेश्वरः॥

एवमसौ महेशाख्यो धर्मश्रीसद्गुणाश्रयः।

बोधिसत्त्वो महाभिज्ञो धर्मराजोऽभिराजते॥

तत्तस्य शरणे स्थित्वा ध्यात्वा स्मृत्वा समाहितः।

नामापि समुदाहृत्य भजितुमर्हति सर्वदा॥

ये तस्य शरणे स्थित्वा ध्यात्वा स्मृत्वापि सर्वदा।

नामापि च समुच्चार्य प्रभजन्ते समाहिताः॥

दुर्गतिं ते न गच्छन्ति यान्ति सद्गतिमेव हि।

भद्रश्रीगुणसंपन्नाश्चरेयुः पोषधं सदा॥

तत्पुण्यपरिशुद्धास्ते निःक्लेविमलेन्द्रियाः।

बोधिचर्याव्रतं धृत्वा संचरेरन् जगद्धिते॥

ततस्ते सद्गुणाधाराः कृत्वा सर्वसुभद्रकम्।

त्रिरत्नस्मृतिमाधाय प्रान्ते प्रेयुः सुखावतीम्॥

२४९

तत्र गत्वामिताभस्य शरणे समुपाश्रिताः।

सदा धर्मामृतं पीत्वा संचरेरन् महाव्रतम्॥

ततः ते स्युर्महासत्त्व बोधिसत्त्वा गुणाकराः।

सर्वं संबोधिसंभारं पूरयित्वा यथाक्रमम्॥

सर्वसत्त्वहिताधानसंबोधिसाधनोद्यताः।

अर्हन्तो विमलात्मानश्चतुर्ब्रह्मविहारिणः॥

जित्वा मारगणान् दुष्टान् महाभिज्ञाः सुभद्रिकाः।

त्रिविधाम्बोधिमासाद्य सम्बुद्धपदमाप्नुयुः॥

इत्यादिष्टं मुनीन्द्रेण श्रुत्वा ते तत्सभाश्रिताः।

सर्वे देवादयो लोकाः प्राभ्यनन्दन् प्रबोधिताः॥

ततः सर्वनीवरणविष्कम्भी संप्रसादितः।

भगवन्तं समालोक्य पुनरेवमभाषत॥

भगवन्स्त्रिजगन्नाथो लोकेश्वरो जिनात्मजः।

नाद्यापीह समायाति कदागच्छेत्तदादिश॥

इति तेनोदितं श्रुत्वा भगवान् स मुनीश्वरः।

विष्कम्भिनं महासत्त्वं समालोक्यैवमादिशत्॥

कुलपुत्र स लोकेशो बोधिसत्त्वो जगत्प्रभुः।

व्याकरणं महेशाय दातुमिहाधुना चरेत्॥

ममापि दर्शनं कर्तुं दर्शयितुमिमाः सभाः।

सर्वांच्छुभे प्रतिष्ठाप्य प्रथममिह प्राव्रजेत्॥

इत्यादिष्टं मुनीन्द्रेण निशम्य स प्रबोधितः।

विष्कम्भी स समालोक्य तस्थौ संहर्षिताशयः॥

तस्मिन्नवसरे तत्र विहारे जेतकाश्रमे।

नानावर्णाः सुपुण्याभा अवभास्यात्यरोचयन्॥

तत्रोद्याने महाकल्पवृक्षाः समीहितार्थदाः।

सर्वर्तुपुष्पवृक्षाश्च सर्वफ़लद्रुमा अपि॥

अष्टांगगुणशुद्धाम्बुपरिपूर्णाः सरोवराः।

पद्मादिकजपुष्पाद्याः प्रादुर्भूता मनोरमाः॥

२५०

तद्रश्मिसंपरिस्पृष्टाः सर्वलोकाः सभाश्रिताः।

महाद्भुतसुखापन्नो बभूवुर्नन्दिताशयाः॥

तत्सुभद्रनिमित्तानि प्रादुर्भूतानि सर्वतः।

सरोवरद्रुमादीनि दृष्ट्वा तस्थुः सविस्मयाः॥

तान् समीक्ष्य स विष्कम्भी सहर्षविस्मयान्वितः।

भगवन्तं प्रणम्यैवं पप्रच्छ सांजलिः पुनः॥

भगवन् कुत आयाता इमे पुण्यसुरश्मयः।

नानावर्णाः सुभद्राभा एतदादेष्टुमर्हती॥

इति संप्रार्थिते तेन विष्कम्भिना स सर्ववित्।

भगवान्स्तं सभां चापि समालोक्यैवमादिशत्॥

योऽसौ त्रैधातुकाधिश आर्यावलोकितेश्वरः।

बोधिसत्त्वो समासत्त्व इहागन्तुं समीहते॥

तेनमास्य सुपुण्याभा समुत्सृज्य समन्ततः।

भासयित्वा विहारेऽत्र शोभयितुं समीरिताः॥

इदानीं स जगन्नाथः सर्वान् सत्त्वान् भवोदधेः।

उद्धृत्य बोधिसन्मार्गे प्रतिष्ठाप्येह प्राचरेत्॥

तस्मिन्नवसरे तत्र विहारे संप्रभासयन्।

समागत्य स लोकेशः प्रविवेशावलोकयन्॥

तं समागतमालोक्य भगवन् संप्रसादितः।

स्वागतमेहि भद्रं ते कच्चिदित्यभ्यपृच्छत॥

इति पृष्टे मुनीन्द्रेण दृष्ट्वावलोकितेश्वरः।

भगवन्नागतोऽस्मीति निवेद्य समुपासरत्॥

तत्र तस्य मुनीन्द्रस्य दिव्यसुवर्णवारिजम्।

पुरतः समुपस्थाप्य पादाब्जे प्रणतिं व्यधात्॥

ततः स त्रिजगन्नाथस्तस्य शास्तुर्जगद्गुरोः।

वामपार्श्वे समाश्रित्य पश्यन्नेवं न्यवेदयन्॥

भगवन्नमिताभेन भगवतेममम्बुजम्।

प्रहितं भवताम् सर्वकौशल्यं चापि पृच्छति॥

२५१

तत्सौवर्णांगमालोक्य भगवान् संप्रमोदितः।

गृहीत्वा वामपार्श्वे संनिधायैवं समादिशत्॥

धन्यस्त्वं कुलपुत्रासि समुद्धृत्य भवोदधेः।

बोधिमार्गे त्वया सत्त्वाः कियन्तः संनियोजिताः॥

इति पृष्टे मुनीन्द्रेण लोकश्वरो जिनात्मजः।

भगवन्तं सभां चापि पश्यन्नेवं न्यवेदयत्॥

भगवन्स्तत्प्रजानीते भवान् सर्वं भवालये।

यत्सत्त्वाः समुद्धृत्य संवृतौ योजिता मया॥

एतत्तदुक्तमाकर्ण्य भगवान् संप्रमोदितः।

लोकेश्वरं महाभिज्ञं संपश्यन्न्वेवमादिशत्॥

साधु साधु महासत्त्व सर्वत्रैधातुकाधिपः।

त्वमेव सर्वसत्त्वानां त्राता नाथो हितार्थभृत्॥

यत्त्वया सर्वलोकेषु व्यवलोक्य भवोदधेः।

सर्वसत्त्वाः समुद्धृत्य बोद्धिमार्गे नियोजिताः॥

तेनासि त्वं महासत्त्वः सर्वत्रैधातुकाधिपः।

लोकेश्वरो जगद्गर्ता लोकनाथो जगत्प्रभुः॥

सिद्धानि सर्वकार्याणि यथाभिवांछितान्यपि।

जयतु ते सदा सर्वसत्त्वोद्धारणसंवरम्॥

सर्वेऽपि दुष्टमारास्ते प्रभास्पृटाः शुभाशयाः।

शरणे समुपासृत्य भवन्तु बोधिचारिणः॥

सर्वेषामपि सत्त्वानां त्वन्नामस्मृतिभाविनाम्।

सर्वत्रापि सदा भद्रं भवन्तु निरुपद्रवम्॥

इत्येवं बहुधा तस्मै लोकेशाय महात्मने।

सिद्धाशिषं प्रदत्वासौ भगवान् मौनमादधे॥

तस्मिन्नवसरे तत्र महेश्वरः समागतः।

भगवन्तं समालोक्य पुरस्तात् समुपाचरत्॥

भगवतो मुनीन्द्रक्य पुस्तात् समुपाचरत्॥

भगवतो मुनीन्द्रस्य शरणे समुपाश्रितः।

पादाब्जे प्रणतिं कृत्वा संपार्थ्यैवं कृतांजलिः॥

२५२

भगवन् सर्वविच्छास्तर्भवच्छरनमाव्रजे।

तद्भवान्मे महायानसंवरं दातुमर्हति॥

एतत्संप्रार्थितं तेन महेश्वरेण सादरम्।

श्रुत्वा स भगवानेनम् महेशमेवमादिशत्॥

गच्छ त्वं कुलपुत्रेशं प्राथर्येमं जगत्प्रभुम्।

अयं लोकेश्वरो दद्याद्व्रतं ते बोधिसाधनम्॥

इत्यादिष्टं स मुनीन्द्रेण श्रुत्वा महेश्वरो मुदा।

लोकेशस्य पुरो गत्वा पादाब्जे प्रणतिं व्यधात्॥

ततो महेश्वरस्तस्य लोकेशस्य पुरः स्थितः।

सद्गुणतथ्यसंवादैस्तुष्य चैवम् कृतांजलिः॥

नमेऽहं भगवंच्छास्त्रेऽवलोकितेश्वराय ते।

पद्मभृते महेशाय सुप्रह्लादनकराय च॥

पद्मासनाय पद्मश्रीपरिवृतसुमूर्तये।

संशुभपद्महस्ताय जगदाश्वासदायिने॥

पृथिवीवरनेत्राय संशुद्धपंचचक्षुषे।

जिनरत्नकिरीटाय चिन्तामणिविभूषिते॥

इत्येवं स महेशानं स्थुत्वा तं श्रीगुणाकरम्।

तत्पादाब्जे पुनर्नत्वा पश्यन्नेव समाश्रयत्॥

तमेवं संस्थितं दृष्ट्वा आर्यावलोकितेश्वरः।

सुप्रसन्नमुखाम्भोजं संपश्यन्नेवमादिशत्॥

महेश किमभिप्रायं तव चित्तेऽभिरोचते।

तदहम् पूरयेयं हि तद्वदस्व ममाग्रतः॥

इत्यादिष्टं जगद्भर्त्रा निशम्य स महेश्वरः।

संहर्षितः पुनर्नत्वा संप्राथ्यैवं कृतांजलिः॥

भगवन् सर्वविच्छास्तर्बोधिं मे वांछते मनः।

तन्मे ददस्व सम्बोधिव्याकरणं जगद्धिते।

इति तत्प्रार्थितं श्रुत्वा लोकेश्वरो जगत्प्रभुः।

तमीशानं समामन्त्र्य संपश्यन्नेवमादिशत्॥

२५३

धन्योऽसि त्वं महेशान यत्संबोधिमभीच्छसि।

तदहं ते प्रदास्यामि संबोधिसाधनं व्रतम्॥

तदादौ श्रद्धया नित्यं संबोधिनिहिताशयः।

त्रिरत्नभजनं कृत्वा दद्या अर्थिं समीप्सितम्॥

ततः शुद्धसमाचारः परिशुद्धत्रिमण्डलः।

अष्टांगाचारसंपन्नं पोषधं व्रतमाचरे॥

ततो धैर्यं समालम्ब्य चतुर्ब्रह्मविहारिकः।

स्वपरात्मसमाधानं क्षान्तिव्रतं समाचरेः॥

ततः पुण्यमहोत्साहं धृत्वा सद्धर्मसाधनम्।

सर्वान् दुष्टगणाम् जित्वा संवृतिव्रतमाचरेः॥

ततः क्लेशान् विनिर्जित्य संसारे रतिनिःस्पृहः।

ध्यात्वादिश्वरसंबुद्धं ध्यानव्रतं समाचरेः॥

ततः सद्धर्मशास्त्राब्धाववगाह्य जगद्धिते।

प्रज्ञारत्नं समासाद्य महायानव्रतं चरेः॥

ततः समाधिगुणापायं सर्वसत्त्वाभिबोधनम्।

सद्धर्मसाधनं रत्नं धृत्वा कुर्याज्जगद्धितम्॥

ततः श्रीधारणीद्यासिद्धिसाधनतत्परः।

सम्बोधिप्रणिधिं धृत्वा संचरेथा जगद्धिते॥

ततः श्रीगुणसंपन्नो भद्रचर्यासमाहितः।

सर्वसत्त्वान् वशे स्थाप्य धर्मराजो बली भवेः॥

ततो मारगणान् जित्वा निःक्लेशो विमलेन्द्रियः।

अर्हन्सम्बोधिमासाद्य दशभूमिश्वरो भवेः॥

ततस्त्वं स्या महाभिज्ञस्तथागतो मुनीश्वरः।

सर्वविद्यधिपः शास्ता जगन्नाथो विनायकः॥

भस्मेश्वर इति ख्यातः सर्वत्रैधातुकेश्वरः।

सर्वधर्माधिराजेन्द्रः संबुद्धः सुगतो भवेः॥

लोकधातौ विवृतायां बुद्धक्षेत्रम् भवेत्तव।

ततस्त्वं भगवान् सर्वं कृत्वा धर्ममयं जगत्॥

२५४

संप्राप्य सौगतं कार्यं सम्बुद्धालयमाप्नुयाः॥

इत्यादिष्टं जगद्भर्त्रा निशमु स महेश्वरः।

मुदितस्तं जगन्नाथं नत्वा चैकान्तमाश्रयत्॥

अथोमापि महादेवी लोकेशस्य पुरो गता।

पादाब्जे प्रांजलिर्नत्वा स्तोत्रमेवं व्यधान्मुदा॥

नमेऽहं भगवंच्छास्त्रेऽवलोकितेश्वराय ते।

महेशाय जगद्भर्त्रे प्राणदाय महात्मने॥

पृथिवीधरनेत्राय शुभपद्मधराय च।

पद्मश्रीपरिवृताय सुचेतनकराय च॥

धर्मधराय नाथाय दशभूमीश्वराय च।

सुनिर्वृतिमयानसंप्रस्थिताय् सर्वदा॥

इत्युमा सा महादेवी संतुष्टा तं जिनात्मजम्।

लोकेश्वरं पुनर्नत्वा संप्रार्थ्यैवं कृतांजलिः॥

भगवन् मां समालोक्य स्त्रीभावात् परिमोचय।

कलिमलाधिवासाच्च गर्भावासाच्च मोचय॥

क्लेशपरिग्रहोद्वीचेः समुद्धृत्य भवोदधेः।

बोधिमार्गे प्रतिष्ठाप्य प्रापय सौगतीं गतिम्॥

इति तया महादेव्या संप्रार्थितं निशम्य सः।

लोकेश्वर उमादेवीं समालोक्यैवमादिशत्॥

भगिनि त्वं महादेवि निर्वृतिं यदि वांछसि।

त्रिरत्नभजनं कृत्वा प्रचेरेः पोषधं व्रतम्॥

ततस्संशुद्धपुण्याप्ता परिशुद्धत्रिमण्डला।

भद्रश्रीगुणसम्पन्ना प्रान्ते यायाः सुखावतीम्॥

तत्रामिताभनाथस्य शरणे समुपाश्रिता।

सदा धर्मामृतं पीत्पा समुपाश्रिता।

सदा धर्मामृतं पीत्पा संबोधिव्रतमाप्नुयाः॥

ततः पारमिताः सर्वाः पुरयित्वा यथाक्रमम्।

जगद्भर्ता जगनाथो दशभूमीश्वरो भवेः॥

ततः संबोधिमासाद्य तथागतो मुनीश्वरः।

२५५

उमेश्वर इति ख्यातः संबुद्धो भगवान् जिनः।

सर्वविद्याधिपः शास्ता सर्वधर्माधिपेश्वरः॥

धर्मराजो जगन्नाथः सद्धर्मश्रीगुणाकरः।

सर्वसत्त्वाधिराजोऽर्हन्सर्वत्रैधातुके प्रभुः॥

मारजेता महाभिज्ञो विनायको भविष्यसि।

हिमवद्दक्षिणे पार्श्वे बुद्धक्षेत्रं भवेत्तव॥

एतेऽपि तीर्थिकाः सर्वे भवेयुः श्रावकास्तव।

इत्यादिष्टो जगच्छास्त्रा लोकेशेन निशम्य सा।

उमा देवी प्रहर्षन्ती तत्रैकान्ते समाश्रयत्॥

अथ स भगवान् सर्वान् सभालोकान् समीक्ष्य तम्।

विष्कम्भिनं च संपश्यन् समामन्त्रैवमादिशत्॥

दृष्यतां कुलपुत्रोमा देवी संबोधिकामिनी।

संबोधौ व्याकृतानेन लोकेशेन जगद्धिते॥

यूयमप्यस्य सच्छास्तुः शरणे समुपाश्रिताः।

संबोधिप्रणिधिं धृत्वा भजध्वं सर्वदादरात्॥

एतत्पुण्यानुभावेन परिशुद्धत्रिमण्डलाः।

बोद्धिसत्त्वा महासत्त्वा भवेत श्रीगुणाकरा॥

ततः सर्वत्र सत्त्वानां कृत्वा भद्रवृषोत्सवम्।

धर्मश्रीसुखसंपन्नाः प्रान्ते प्रेध्वं सुखावतीम्॥

तत्र गत्वामिताभस्य मुनेः शरणमाश्रिताः।

सदा धर्मामृतं पीत्वा संचरध्वं जगद्धिते॥

ततः बोधिसंभारं पूरयित्वा यथाक्रमम्।

त्रिविधां बोधिमासाद्य संबुद्धपदमेष्यथ॥

एतद्भगवतादिष्टं निशम्य ते सभाश्रिताः।

विष्कम्भिप्रमुखाः सर्वे लोकाः संमोदिताशयाः॥

उत्पाय समुपासृत्य लोकेशस्य जगत्प्रभोः।

पादाब्जे प्रांजलिं कृत्वा प्रणेमिरे यथाक्रमम्॥

सर्वेषामपि तेषाः स लोकनाथः शिरः स्पृशन्।

२५६

बोधिसिद्धाशिषं दत्वा चेतांसि प्राभ्यनन्दयत्॥

ततः श्रीजगन्नाथ आर्यावलोकितेश्वरः।

भगवन्तं मुनीन्द्रं तं समालोक्यैवमब्रवीत्॥

भगवन् गन्तुमिच्छमि सुखावत्यां निजाश्रमे।

तदनुज्ञां प्रदत्वा मेऽभिनन्दयतु मानसम्॥

इति संप्रार्थिते तेन लोकेशेन स सर्ववित्।

दिव्यरत्नाम्बुजं तस्मै दत्वैवं च समादिशत्॥

गच्छ त्वं कुलपुत्रेमं पद्मं शास्तुर्महामुनेः।

उपहृत्य पुरः पृच्छः कौशल्यं मद्गिरा नमेः॥

तथेति प्रतिविज्ञप्य लोकेश्वरो जिनात्मजः।

भगवन्तं प्रणत्वा च सभां समीक्ष्य प्राचरत्॥

ततः संप्रस्थितो लोकनाथः स पुण्यरश्मिभिः।

संभासयन् जगल्लोकं सरत् सुखावतीं ययौ॥

ततः स समुपासृत्य शास्तुरमितरोचिषः।

पादाब्जे सांजलिर्नत्वा तत्पद्मं समुपाहरत्॥

समीक्ष्य तं समायातं लोकेश्वरं स सर्ववित्।

अमिताभो जगच्छास्ता सम्पश्यन्नेवमादिशत्॥

एहि समागतोऽसि त्वम् कुलपुत्रेह संश्रय।

सिद्धानि सर्वकार्याणि कच्चित्तवापि कौशलम्॥

कियन्तो हि त्वया सत्त्वा समुद्धृताः कुतः कुतः।

दर्शितो भगवांच्छास्ता शाक्यसिंहः मुनीश्वरः॥

इति पृष्तेऽमिताभेन लोकेश्वरः स सांजलिः।

शास्तुरग्रे स्ववृत्तान्तं सर्वमेवं न्यवेदयत्॥



भगवन् सर्वलोकेषु सर्वेषु नरकेष्वपि।

निमग्नान् प्राणिनः सर्वान् समालोक्य प्रयत्नतः॥

समुद्धृत्य प्रसन्नांस्तान् बोधयित्वा विनोदतन्।

बोधिमार्गे प्रतिष्ठाप्य प्राचारयन् जगद्धिते॥

एवं तान् सकलान् सत्त्वान् कृत्वा संबोधिसाधिनः।

२५७

जेतोद्याने विहारस्थं संबुद्धं द्रष्टुमाचरम्॥

तत्राविष्टोऽहमालोक्य तं मुनीन्द्रसभाश्रितम्।

सर्वावतीं सभां तान् च सश्रावकजिनात्मजान्॥

पुरतः समुपासृत्य शाक्यमुनेर्जद्गुरोः।

पद्मं पुर उपस्थाप्य वन्दित्वा समुपाश्रयम्॥

तत्र भगवतामग्रे संप्रेषितो महेश्वरः।

स मया व्याकृतो बोधौ सोमापि व्याकृता तथा॥

तथा सर्वेऽपि लोकाश्च तत्सभासमुपाश्रिताः।

विनोद्य बोधिसंभारव्रते नियोजिता मया॥

ततस्तस्य मुनीन्द्रस्य प्राप्यानुज्ञां प्रमोदितः।

भवतां दर्शनं कर्तुं समुत्सुकोऽहमाव्रजे॥

भवतां प्रहितं तेन भगवता सवन्दनम्।

इदं रत्मयं पद्मं कौशल्यं चापि पृच्छ्यते॥

एत्यन्निवेदितं तेन लोकेशेन निशम्य सः।

अमितभो जगच्छास्ता प्राभ्यनन्दत् प्रमोदितः॥

ततः सोऽमितप्रभस्तं लोकेश्वरं समीक्ष्य च।

साधु धन्योऽसि सत्पुत्र इत्याराध्याभ्यनन्दयेत्॥

इत्येवं स जगन्नाथो महाभिज्ञो जिनात्मजः।

सर्वसत्त्वहिताधानं व्रतं धृत्वा समाचरेत्॥

॥इति सर्वसत्त्वोद्धरणसंबोधिमार्गस्थापनमहेश्वरोमादेवी-संबोधिव्याकरणोपदेशप्रकरणं समाप्तम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project