Digital Sanskrit Buddhist Canon

१६. सिंहल सार्थवाहोद्धारण प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 16. siṁhala sārthavāhoddhāraṇa prakaraṇam
१६. सिंहल सार्थवाहोद्धारण प्रकरणम्



अथ सर्वनीवरणविष्कम्भी स जिनात्मजः।

श्रीघनं तं पुनर्नत्वा सांजलिरेवमब्रबीत्॥

भगवन् यदसौ श्रीमदार्यावलोकितेश्वरः।

बोधिसत्त्वो महासत्त्वस्त्रैधातुकाधिपेश्वरः॥

सर्वान् सत्त्वान् स्वयं पश्यन् त्रिधातुभुवनेष्वपि।

समुद्धृत्याभिसंबोध्य प्रेषयति सुखावतीम्॥

पापिनोऽपि समालोक्य स्वयमुद्धृय बोधयन्।

बोधिमार्गे प्रतिष्ठाप्य संचारयते संवरम्॥

तत्कथं स महासत्त्वः समुद्धृत्याभिशोधयन्।

कृत्वा शुद्धेन्द्रियान् सर्वान् प्रेषयति सुखावतीम्॥

१५९

केनोपायेन पापिष्ठान् दुष्टानपि प्रबोधयन्।

बोधिमार्गे नियुज्यापि प्रचारयनि संचरन्॥

कथं सुदुःखिनः सर्वान् करोति सत्सुखान्वितान्।

दरिद्रान् दुर्भगान् दीनान् धनिनः सुभगान् सतः॥

दुर्दान्तान् दानवान् यक्षान् राक्षसान् राक्षसीरपि।

बोधिमार्गे प्रतिष्ठाप्य चारयति कथं व्रतम्॥

तदुपायं समाख्यातुं सत्त्वानां हितसाधनम्।

येनोपायेन स सर्वान् करोति बोधिभागिनः॥

इति संप्रार्थिते तेन विष्कम्भिना सुभाविना।

भगवान् स तमालोक्य सभां चाप्येवमादिशत्॥

कुत्रपुत्र स लोकेशो महोपायविधानवित्।

येन सत्त्वान् समुद्धृत्य करोति बोधिभागिनः॥

समाधिस्तस्य प्राज्ञस्य महोपायो जगद्धिते।

येन स सहसोद्धृत्य योजयति शुभे जगत्॥

इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स विस्मिताशयः।

विस्कम्भी भगवन्तं तं प्रार्थयदेवमादरात्॥

भगवांस्तत्समाधिं मे समुपादेष्टुमर्हति।

येन सहसोद्धृत्य चारयते शुभे जगत्॥

इति संप्रार्थिते तेन भगवान् स मुनीश्वरः।

विष्कम्भिनं तमालोक्य पुनरेवं समादिशत्॥

बहवस्तस्य विद्यन्ते कुलपुत्र समाधयः।

यैः स सत्त्वान् समुद्धृत्य प्रेषयति सुखावतीम्॥

अप्रेमेयैरसंख्येयैः सर्वाकारकरादिभिः।

समाधिभिः समापन्नो भवति स जगत्प्रभुः॥

धारणीनां च विद्यानां परमाणां सहस्रकैः।

अप्रमेयैरसंख्येयैः समापन्नो विराजते॥

एतेषामनुभावैः स समुद्धृत्य भवोदधेः।

बोधिमार्गे प्रतिष्ठाप्य पालयति जगत्त्रयम्॥

१५९

एतत्पुण्यानुभावैः स लोकेश्वरो महर्द्धिमान्।

शोधयित्वा जगत्सत्त्वं चारयति सुसंवरम्॥

एवं तस्य जगत्त्रातुः पुण्यस्कन्धं महत्तरम्।

अप्रमेयमसंख्येयमित्याख्यातं मुनीश्वरैः॥

तेनासौ त्रिजगच्छास्ता सर्वत्रैधातुकेश्वरः।

सर्वधर्माधिपो नाथो जगत्त्रातेति कथ्यते॥

तेन तस्य भये दुःखे रक्षा न क्रियते क्वचित्।

सर्वत्रापि सदा रक्षा क्रियते सर्वप्राणिनाम्॥

नानोपायविधानेन समुद्धृत्य प्रबोधयन्।

बोधिचर्याव्रतं दत्वा प्रापयति सुखावतीम्॥

एवमसौ महासत्वो बोधिसत्त्वो महर्द्धिमान्।

सर्वसत्त्वहित्तं कृत्वा संचरते समन्ततः॥

अहमपि पुरा तेन संरक्षितो महाभयात्।

यन्ममैतत्पुरावृत्तं शृणुध्वं वक्ष्यतेऽधुना॥

तद्यथा सिंहकल्पायां राजधानां वणिक्प्रभोः।

सिंहस्य सार्थवाहस्य पुत्रोऽभूत् सिंहलाभिधः॥

बाल्येऽपि स महासत्त्वः सर्वसत्त्वहिताशयः।

दिव्यातिसुन्दरः कान्तः सर्वसत्त्वमनोहरः॥

कौमार्येऽपि स सर्वासां विद्यानां पारमागतः।

सर्वसत्त्वहितं कृत्वा रेमे सुहृत्सहायकैः॥

दत्वार्थिभ्यो यथाकामं श्रुत्वा नित्यं सुभाषितम्।

गुरुणां सत्कृतिं कृत्वा कुलधर्माभिसंरतः॥

स्वकुलदेवतादीन् च सर्वान् देवान् समर्चयन्।

मानयन् सकलांल्लोकान् भृत्यान् दासान् च तोषयन्॥

ज्ञातिबन्धुसुहृन्मित्रसचिवान् चाभिनन्दयन्।

यथाकामं सुखं भुक्त्वा रेमे पित्रोरनुज्ञया॥

ततो नूतनयौवन्ये प्रौढः पुष्टांगिकः कृती।

शूरो धीरः समुत्साही व्यवहारविचक्षणः॥



१६१

मेधावी सद्गुणारक्तः सर्वविद्याविशारदः।

यदुपचार आत्मज्ञः सत्यधर्मयशोऽर्थभृत्॥

यथामूल्यं समादाय द्रन्यं दत्वा वणिग्जनान्।

सर्वान्विनीय संस्थाप्य स्ववशेऽभ्यन्वमोदयत्॥

सर्वेषामपि रत्नानां परीक्षासु विचक्षणः।

सार्थवाहान् वणिग्नाथानपि सर्वान् व्यनोदयत्॥

एवं स सकलांल्लोकान् धर्मश्रीगुणविक्रमैः।

जित्वा राजेव सन्नीत्या विहरन्नभ्यराजत॥

तस्यैतद्गुणसंपत्तिं दृष्ट्वेर्ष्यालुर्वणिक्कुधीः।

रहसि तं समागम्य सुहृद्वदेवमब्रवीत्॥

साधो धन्योऽसि सत्पुत्रः सर्वलोकाभिनन्दनः।

तत्कुलर्जितसंवृत्तौ चरन् धर्मार्थमर्जय॥

इति तेनोदितं श्रुत्वा सिंहलः स विचक्षणः।

को कुलार्जितसंवृत्तिस्तद्वक्तुं मे त्वमर्हति॥

इति तेनोदितं श्रुत्वा स ईर्ष्याकुलिताशयः।

सिंहलं तं समालोक्य बोधितुमेवब्रवीत्॥

जनकस्ते महाभाग सार्थवाहो वणिक्पतिः।

सदा रत्नाकरे गत्वा सो धयति सुसंपदे॥

धन्यास्ते एव सत्पुत्रा ये कुलधर्मचारिणः।

अन्ये किंपुरुषास्ते हि भुक्त्वैव गृहचारिणः॥

पितुर्द्रव्यं समादाय दत्वार्थिभ्यो न ते फ़लम्।

स्वार्जितमेव तन्दद्याद्यशोधर्मार्थसिद्धये॥

तत्त्वं कुलार्जितां वृत्तिं दधानः श्रीगुणोत्साहः।

अब्धौ रत्नाकरे गत्वा रत्नद्रव्याणि साधय॥

ततो गृहं समागत्य दत्वार्थिभ्यो यथेप्सितम्।

यथाकामं सुखं भुक्त्वा संचरस्व यशोऽन्वितः॥

एवं श्रीगुणसंपत्तियशोधर्मासुखान्वितः।

स्वकुलवृत्तिसंचारमहोत्साहैः सदा रम॥

१६२

एवं तदुक्तमाकर्ण्य सिंहलः स प्रबोधितः।

समुद्रं गन्तुमुत्साहं प्रवर्धयन् मुदाचरत्॥

ततः स सिंहलोऽम्भोधियात्रां गन्तुं समुत्सुकः।

सार्थवाहात्मजान् सर्वान् समामन्त्र्यैवमब्रवीत्॥

भवन्तोऽहं समिच्छामि गन्तुं रत्नाकरेऽधुना।

भवतां यदि वांछास्ति प्रागच्छन्तु मया सह॥

इति तदुक्तमाकर्ण्य सर्वे ते वणिगात्मजाः।

तथेति प्रतिनन्दतः सहर्षमेवमब्रुवन्॥

सार्थवाह समिच्छामो गन्तुं रत्नाकरे वयम्।

यदस्माकं भवान्नेता तदन्वाहर्तुमर्हति॥

इति तैः सह संभाष्य स सिंहलः समुन्मनाः।

पितुः पादाम्बुजे नत्वा सांजलिरेवमब्रवीत्॥

ततोऽहं गन्तुमिच्छामि रत्नाकरे महाम्बुधै।

तद्भवान् सुदृशा मह्यमनुज्ञां दातुमर्हति॥

इति पुत्रोदितं श्रुत्वा सिंहः सः सार्थभृत्पिता।

स्वात्मजं तं समालोक्य सुचिन्तादेवमब्रवीत्॥

पुत्र शृणु हितं वाक्यं मयोदितं त्वयात्मज।

यत्तावत् सुकुमारोऽसि तत्कथमम्बुधौ व्रजेः॥

तावन्मेऽस्ति महासंपन्मया कष्टैरुपार्जिता।

सर्वा एतास्तवाधीना भुक्त्वा रम यथेच्छया॥

यावज्जीवाम्यहं पुत्र तावद्गृहे सुखं रमन्।

यथाकामं प्रभुज्यैवं संचरस्व यथेप्सिते॥

तत्रैव च महाम्भोधौ तावन्मा व्रजथाः क्वचित्।

मृतेऽपि मयि तत्राब्धौ गन्तुं नेह कदाचन॥

यावद्द्रव्ये गृहे पूर्णे तावन्मा गाः कुहापि च।

यदा क्षीणे गृहे द्रव्यं तदापि स्वगृहेऽर्जय॥

सर्वदापि त्वया पुत्र महाम्बुधै सुदुस्तरे।

गन्तुं नैवाभिवाछां ते भवेद्वांछास्ति ते यदि॥

१६३

किमेव बहुभिर्द्रव्यैः क्लेश एव यदुद्भवेत्।

क्लेशिना हि सदा दुःखं संसारे सुखता कुतः॥

बहुद्रव्यवतां नित्यं क्लेशदुःखमहद्भयम्।

तन्निरर्थं बहुद्रव्यं साधने मा समुद्यम॥

यदर्जितं बहुद्रव्यं गृहेऽस्ति तावदात्मज।

एतत्सर्वं तवाधीनं तत्किमर्थत्वमर्जितुम्॥

एततसर्वं त्वमादाय दत्वार्थिभ्यो यथेच्छया।

यथाकामं स्वयं भुक्त्वा यावज्जीवं सुखं चर॥

इति पित्रा समादिष्टं श्रुत्वात्नजस्स सिंहलः।

जनकं तं समालोक्य पुनरेवं न्यवेदयत्॥

सत्यमेव त्वयादिष्टं तथापि श्रूयतां मम।

अभिप्रायं प्रवक्ष्यामि श्रुत्वानुबुध्यतां पितः॥

विधिना प्रेरितो यत्र जातस्तद्वृत्तिसाधितैः।

धर्मविद्यागुणद्रव्यसंपद्भिरेव शोभते॥

तदन्यथार्जितैरेतैर्धर्मविद्यागुणादिभिः।

सर्वद्रव्यैः समापन्नः पुमानपि न शोभते॥

यदहं कर्मणा जातः सार्थवाहकुले तथा।

तत्कुलवृत्तिविभ्राणः संचरितुं समुत्सहे॥

तदहं स्वकुलाचारवीर्योत्साहाभिमानभृत्।

गत्वा रत्नाकरेऽप्यब्धौ रत्नायर्जितुमुत्सहे॥

स्वयमेवार्जितं द्रव्यं दत्वार्थिभ्यो यथेप्सितम्।

भुक्त्वैव स्वजनान् बन्धूनपि संभर्तुमुत्सहे॥

इत्येवं स कुलाचारवृत्तिधर्मार्थसाधिनम्।

स्वात्मजं मां समालोक्य प्राभिनन्दितुमर्हसि॥

निवारणा न कार्यात्र मम धर्मार्थसाधने।

त्वयानुज्ञाप्रदानेन नन्दनीयोऽहमात्मजः॥

यदि दैवाद्विपत्तिः स्यात् सर्वतीर्थाधिपेऽम्बुधौ।

पतित्वा सर्वमुत्सृज्य संप्रयायां सुरालयम्॥



१६४

तथापि मां महत्पुण्यकीर्त्तिः संशोधयेत् कुलम्।

इति विज्ञाय मे तात ह्यनुज्ञां दातुमर्हति॥

गृहेऽपि नो भवेदेव विपित्तिर्दैवयोगतः।

अवश्यंभाविनो वा भवेयुरेव सर्वतः॥

इति शंकाविषं हित्वा सद्धर्मस्मृतिमानसः।

धर्मार्थसाधने नित्यं महोत्साही समाचरेत्॥

अथाहं क्षमकौशल्यं संपन्नो निरुपद्रवः।

रत्नश्रीसुखसंयुक्तं संप्रायां स्वगृहे मुदा॥

तदा किमुच्यते सौख्यं यशोधर्मोत्सवान्वितम्।

दत्वार्थिभ्यो यथाकामं भुक्त्वा शुभे चरेमहि॥

ततोऽस्मत्कुलजाश्चापि धर्माचारसमन्विताः।

दत्वार्थिभ्यो यथाकामं भुक्त्वा यायुः सुरालयम्॥

एतत्सत्यमिति ज्ञात्वा यदीच्छसि हितं मम।

सुदृशानुग्रहं कृत्वा तदनुज्ञां प्रदेहि मे॥

यद्यनुज्ञां ददासि न वियोगो नौ भवेद्ध्रुवम्।

मृत्युर्हि सर्वजन्तूनां सर्वत्रापि पुरः सदा॥

इति पुत्रोदितं श्रुत्वा सिंहः पिता स बोधितः।

आत्मजं तं समालोक्य सिंहमेवमब्रवीत्॥

यद्येवं निश्चयं पुत्र समुद्रे गन्तुमिच्छसि।

तव निर्बन्धितं चितां वारयितुं न शक्यते॥

तद्गच्छ ससहायस्त्वं मार्गेऽरण्ये वनेऽम्बुधौ।

महाभयानि विद्यन्ते तत्समीक्ष्य समन्ततः॥

शीतवातातपादीनि दुःखानि दुःसहान्यपि।

सहित्वा धैर्यमालम्ब्य शनैर्व्रजाभिलोकयन्॥

सिध्यतु ते विसंयात्रा भूयात् सर्वत्र मंगलम्।

यथा हि वांछितं द्रव्यं गृहीत्वायाह्यविघ्नतः॥

इति पित्राभ्यनुज्ञाते सिंहलः संप्रमोदितः।

पित्रोः पादान् प्रणत्वैव सहसा गन्तुमारभेत्॥

१६५

तदा माता समालिंग्य सिंहलं तं प्रियात्मजम्।

रुदन्त्यश्रुभिर्लिप्तास्या विलपन्त्यैवमब्रवीत्॥

हा पुत्र मां परित्यज्य कथं गन्तुं त्वमिच्छसि।

नान्यो मे विद्यते कश्चिदेक एव त्वमात्मजः॥

हा जिवननन्दनो मेऽसि वल्लभो हि न चापरः।

हा प्राण मातारि स्नेहः कथं ते विद्यते न हि॥

यदा गर्भप्रविष्टो मे तदारम्भ समादरात्।

मया सदाभिनन्दन्त्या संपाल्यसे प्रयत्नतः॥

जायमानोऽपि संदृष्ट्वा मया संपालितो मुदा।

बाल्येऽपि च सदालोक्य संपाल्य परिपुष्यसे॥

कौमार्येऽपि समाराध्य सहानन्देन वर्द्धितः।

मया संपालितः प्रौढभूतोऽसि नवयौवनः॥

इदानीं त्वं युवा भूत्वा कथं मां त्यक्तुमिच्छसि।

पुत्रः स्वां मातरं वृद्धां रक्षदेव त्यजेन्न तु॥

इदानीं कथमेवं त्वं निःस्नेहश्चरसे मयि।

हा पुत्र कथं मे को मां जीर्णितां त्यक्तुमर्हति॥

यावज्जीवाम्यहं पुत्र कुत्रापि मा व्रजोऽन्यतः।

यथाकामं सुखं भुक्त्वा संचरस्व गृहे रमन्॥

मृतायां मयि ते पुत्र यत्रेच्छा वर्तते तदा।

तत्र गत्वा यथाकामं कुरु धर्मार्थसाधनम्॥

इति मात्रोदितं श्रुत्वा सिंहलः स विनोदितः।

मातरं तां विलपन्तीं समाश्वस्यैवमब्रतीत्॥

मा रौत्सीः किं विषादं ते धैर्यमालम्ब्य मा शुचः।

विधिना प्रेरितो यत्र तत्रावश्यं गतिर्भवे॥

यदभावि भवेत्तत्र सर्वत्रापि भवे सदा।

भावि चेदृग्भवेदेव नैवान्यथा क्वचिद् भवेत्।

अवश्यंभाविनो भावा भवन्त्येव हि नान्यथा।

सर्वेषामपि जन्तूनां षड्गतिभवचारिणाम्॥

१६६

सर्वेषांश्चापि जन्तूनां सर्वत्र मृत्युरग्रतः।

संपत्तिश्च विपत्तिश्च स्वस्वदैवानुयोगतः॥

इति विज्ञाय किं मातविर्योगदुःखशंकया।

अवश्यमेव सर्वेषां वियोगं भवचारिणाम्॥

इति मेऽत्र महत्कार्ये कुलधर्मार्थसाधने।

रुदित्वैवं निवारन्ती विघ्नं कर्तुं न चार्हसि॥

यदि तेऽस्ति मयि स्नेहो पश्यन्ती सुदृशैव माम्।

दत्वा भद्राशिषं मह्यमनुज्ञां दातुमर्हसि॥

ममार्थे देवतां स्मृत्वा प्रार्थयन्ती सुमंगलम्।

पित्रा सह सुखं भुक्त्वा पालयन्ती गृहे वस॥

अचिरेणागमिष्यामि तन्मे स्मृत्वापि मा शुचः।

विमुचं मा विषादं च प्रसीदाहं व्रजानि हि॥

इत्युक्त्वा स महासत्त्वो मातरं संविनोदयन्।

गाढाभिलिंगनान्मुक्तः प्रणत्वैव ततोऽचरत्॥

ततः स नगरे तत्र घण्टाघोषमचारयत्।

सिंहलः सार्थवाहोऽब्धौ रत्नाकरे व्रजेदिति॥

तद्घण्टाघोष्णं श्रुत्वा पंचवणिक्श्तान्यपि।

तथा रत्नाकरे तेन सह गन्तुं समीच्छिरे॥

ततस्ते वणिजस्सर्वे समील्य सहसा मुद्रा।

सिंहलस्य पुरो गत्वा प्रार्थयन्नेवमानताः॥

सार्थवाह वयं सर्वे सार्थवाहात्मजा अपि।

रत्नाकरे त्वया सार्धं गन्तुमिच्छामहे खलु॥

यत्सर्वणिजां नेता सार्थवाहात्मजा भवान्।

तन्नानुग्रहमाधाय समन्वाहर्तुमर्हति॥

इति तैः प्रार्थिते सर्वैः स सिंहलो महामतिः।

सर्वांस्तान् समुपामन्त्र्य संपश्यन्नेवमब्रवीत्॥

भो भवन्तः समिच्छन्ति यद्यागन्तुं मया सह।

तत्सर्वं पण्यमादाय समायान्तु व्रजामहे॥

१६७

इति तेनोदितं श्रुत्वा सर्वे ते संप्रहर्षिताः।

सहसा स्वस्वगृहं गत्वा ज्ञातीन् सर्वान् विनोदयन्॥

लब्धानुज्ञाः पितुर्मातुर्धृत्वा स्वस्त्ययनं मुदा।

सर्वे ते पण्यमादाय संप्रस्थिताः समाचरन्॥

सोऽपि महासत्त्वः धृवा स्वस्त्ययनं मुदा।

पित्रोः पादान् प्रणत्वा च पण्यमादाय प्रस्थितः॥

तत्र तान् वणिजः सर्वान् दृष्टवा स समुपाचरन्।

संमील्य संमतं कृत्वा संप्रस्थितो मुदाचरत्॥

तत्र सोऽनुगतान् सर्वान् बन्धुमित्रसुहृज्जनान्।

संबोधयन् समालोक्य संनिर्वार्य न्यवर्तयत्॥

ततः संसंचरन् पंचवणिक्शतैः समन्वितः।

अनेकैर्गर्दभैर्गोभिरुष्ट्रैश्च भारवाहकैः॥

सामुद्रपण्यभारात्तैः शनैः संप्रस्थितः क्रमात्।

ग्रामारण्यवनोद्याननिगमपत्तनानि च॥

नगरराज्यसौराष्ट्रराजधानीप्युरादिषु।

चंचूर्यमाण आलोक्य समुत्साहैः समाचरत्॥

ततो देशान्तरेऽरण्यकान्तारशैलपर्वतान्।

शनैश्चरन् विलंघ्यापि सुदूरविपिने ययौ॥

तत्र प्राप्ता विषण्णास्ते सर्वे त्रासविषादिताः।

भग्नोत्साहाः शनैर्गत्वा ददृशुर्दूरतोऽम्बुधिम्॥

दृत्वा सर्वेऽपि तेऽम्बोधिं दुरभिसंप्रहर्षिताः।

प्रोत्साहवीर्यसंकान्तास्तीरं प्रापुर्महोदधेः॥

तत्र ते समुपासृत्य सर्वे सहंर्षिताशयाः।

प्रणत्वा तं महाम्बोधिं पश्यन्तः समुपाश्रयन्॥

अथ ते वणिजः सर्वे समीक्ष्य तं महाम्बुधिम्।

प्राणस्नेहनिरुत्साहास्तस्थुः संत्रसिताश्याः॥

तदा स सिंहलो दृष्ट्वा सर्वांस्तांस्त्रासिताशयान्।

कर्णधारं समामन्त्र्य पुर एवं न्यवेदयत्॥



१६८

कर्णधार महाभाग यद्वयमागता इह।

सर्वसंपत्तिमिच्छन्तो गन्तुम् रत्नाकरेऽम्बुधौ॥

तद्भवानत्र सन्मित्रं नेतास्माकं हितार्थदिक्।

समीक्ष्यानुग्रहं कृत्वा संतारयितुमर्हति॥

इत्येवं प्रार्थितं सर्वैः कर्णधारो निशम्य सः।

सर्वांस्तान् वणिजः पश्यन् समामन्त्र्यैवमब्रवीत्॥

भवन्तो यदि वांछन्ति गन्तुं रत्नाशयाम्बुधौ।

तद्धैर्यदेवतां स्मृत्वा तिष्ठन्तु नौसमाश्रिताः॥

इति तेनोदितं श्रुत्वा सर्वेऽपि ते वणिग्जनाः।

नत्वा नावं समारुह्य संतस्थिरे समाहिताः॥

ततः स कर्णधारोरोऽपि संस्मृत्वा कुलदेवताम्।

सांजलिः प्रणतिं कृत्वा प्रार्थयदेवमम्बुधिम्॥

महोदधे जगद्भर्ता भवान् रत्नामृताकरः।

तदिमे वणिजः सर्वे भवच्छरण आश्रिताः॥

तद्भवान् कृपया धृत्वा सर्वानिमान् धनार्थिनः।

रत्नाकरे सुभद्रेण संप्रापयितुमर्हसि॥

इति संप्रार्थ्य नत्वा तमम्भोधिं तरणिं च ताम्।

नाविकः स समारुह्य प्राचारयन् शनैः क्रमात्॥

ततः संचारिता सा नौ सदा गतिसमीरिता।

क्रमेण संवहन्त्यब्धेर्मध्यद्वीपमुपाययौ॥

तत्र नौका भ्रमन्त्येव तस्थै वाताभिताडिता।

तद्दृष्ट्वा कर्णधारस्तं सिंहलमेवमब्रवीत्॥

सार्थवाह विजानीयाद्भवानत्र महद्भयम्।

यदियं नौर्महावातैराहता भ्रमते मुहुः॥

कुत्र गन्तुं समीहा वो वाता वान्ति महाजवाः।

स्वकुलदेवताः स्मृत्वा संप्रार्थ्य त्राणमम्बुधिम्॥

धैर्यमालम्ब्य सर्वत्र संतिष्ठध्वं समाहिताः॥

इति तेनोदितं श्रुत्वा सर्वे ते त्रसिताशयाः।

स्वस्वेष्टदेवताः स्मृत्वा प्रार्थयदेवमम्बुधिम्॥

१६९

महोदधे जगद्भर्तर्वयं ते शरणे स्थिताः।

तदस्मान् कृपया धृत्वा संतारयितुमर्हसि॥

इत्येवं प्रार्थयन्तस्ते सर्वे स्मृत्वा स्वदेवताम्।

धैर्यमालम्ब्य संत्रस्तास्तस्थुर्जीवराशिताः॥

ततः स कर्णधारोऽपि संप्रार्थ्य तं महोदधिम्।

स्वकुलदेवतां स्मृत्वा तस्थौ जीवनिराशितः।

सिंहलः सार्थवाहोऽपि संप्रार्थ्य त्राणमम्बुधिम्।

त्रिरत्नस्मरणं कृत्वा तस्थै धैर्यसमाहितः॥

ततस्ते वायवः शान्ता नौका संचरिता क्रमात्।

तद्दृष्ट्वा वणिज़ः सर्वे तस्थुः संहर्षिताशयाः॥

तत्र तां समुपायातां नावं वणिक्समाश्रिताम्।

ताम्रद्वीपनिवासिन्यो राक्षस्योयोऽद्राक्षुरम्बुधौ॥

ततस्ताभिः समेत्याशु राक्षसीभिः प्रभंजनाः।

उत्सृष्टाः कालिका वातास्तन्नौकाभिमुखा ववुः॥

तैराशु प्रहता सा नौ भ्राम्यमाना प्रलोलिता।

तीव्रातिवेगकल्लोलोऽभिहताभूद्विभिन्निता।

तदा ते वणिजः सर्वे संत्रासाभिहताशयाः।

हा दैवेति विलपन्तस्तस्थुः प्राणनिराशिताः॥

तदा स सिहंलो दृष्ट्वा तरणिं तां विभिन्निताम्।

सर्वांस्तान् सुहृदो भीतान् समालोक्यैवब्रवीत्॥

भवन्तः किं विषादेन दैव एव गतिर्भवेत्।

तत्त्रिरत्नस्मृतिं धृत्वा धैर्यमालम्ब्य तिष्ठत॥

यदि दैवाद्विपत्तिः स्यादत्र तीर्थाधिपेऽम्बुधौ।

द्रव्यैः सार्धं वयं सर्वे पतिता निधनं गताः॥

सर्वपातकनिर्मुक्ताः परिशुद्धत्रिमण्डलाः।

सद्गतौ सुकुले जाता भवेम श्रीगुणाश्रयाः॥

इत्युक्ता तेन ते सर्वे तीर्थिकानामुपासकाः।

त्रिरत्नस्मरणं धातुं श्रद्दधुर्न कथंचन॥

१७०

स एव सिंहलः स्मृत्वा त्रिरत्नं शरणं गताः।

ध्यात्वा नाम समुच्चार्य तस्थै संबोधिमानसः॥

तदापि दैवतस्तेषां कालिकावातघातिता।

कल्लोलभ्रमणाक्रान्ता नौकाभूच्छतखण्डिता॥

सर्वे ते वणिजश्चापि विभग्नाशा विमोहिताः।

पतितास्तत्र महाम्भोधौ सह द्रव्यैर्निमज्जिताः॥

तत्र ते वणिजः सर्वे निमग्नान्यपि दैवतः।

स्वस्वबाहुबलेनैव समुतेरुस्तटान्तिकम्॥

दृष्ट्वा तान् वणिजः सर्वांस्तीरान्तिकसमागतान्।

ताम्रद्वीपनिवासिन्यो राक्षस्यः संप्रमोदिताः॥

दिव्यकौमारिकारुपं धृत्वा सर्वाः समागताः।

तीरे स्थित्वा समुत्तार्य सर्वान्स्तानेवमब्रुवन्॥

मा भैष्ट धैर्यमालम्ब्य समागम्य तरोरधः।

छायामाश्रित्य सर्वत्र विश्रान्तुं तिष्ठत क्षणम्॥

इत्येवं कथितं ताभिः श्रुत्वा ते वणिजस्ततः।

गत्वा चम्पकवृक्षस्य छायायां समुपाश्रयन्॥

तत्र विश्रम्य ते सर्वे संनिरीक्ष्य परस्परम्।

ज्ञातीन् स्मृत्वानुशोचन्तो निश्वस्यैवं बभाषिरे॥

हा दैव कथमस्माकं विपत्तिर्भवतीदृशी।

क इह साम्प्रतं त्राता हितार्थी सद्गतिर्भवेत्॥

इति तैः कथितं श्रुत्वा सार्थवाहः स सिंहलः।

सर्वान्स्तान् त्रासभिन्नात्मान् समाश्वास्यैवमब्रवीत्॥

नास्त्यस्माकमिह त्राता को हितार्थी सुहृद्गतिः।

धर्म एव भवेत् त्राता सर्वत्रापि सुहृद्गतिः॥

अवश्यंभाविनो भावा भवन्ति महतामपि।

सर्वेषामपि जन्तूनां सर्वत्रापि न चान्यथा॥

तदत्र श्रद्धया सर्वे त्रिरत्नस्य समाहिताः।

स्मृत्वा नाम समुच्चार्य ध्यात्वापि भजतानताः॥

१७१

एतदेव हि संसारे धर्ममूलं निगद्यते।

धर्म एव हि सर्वत्र त्राता भर्ता सुहृद्गतिः॥

एवं विज्ञाय सर्वेऽपि त्रिरत्नस्य समाहिताः।

स्मृत्वा नाम समुच्चार्य ध्यात्वापि भजतानताः॥

इति तेनोदितं श्रुत्वा सर्वे ते परिबोधिताः।

तीर्थिका श्रावका नैव त्रिरत्नं स्मर्तुमीच्छिरे॥

स एव सिंहलः स्मृत्वा त्रिरत्नस्य समाहितः।

ध्यात्वा नाम समुच्चार्य तस्थौ संबोधिमानसः॥

ततस्ताः प्रमदाः कान्ताः कुमारिका मनोरमाः।

सर्वान्स्तान् वणिजान् दृष्ट्वा पुरस्था एवमब्रुवन्॥

वैषाद्यं वः किमत्रापि नैव चिन्त्यो हि दुःखता।

यथेप्सितं सुखं भुक्त्वा संचरध्वं यथेच्छया॥

अस्माकं स्वामिनो नैव गतिर्वापि न कश्चन।

परायणोऽपि नैवास्ति भर्तापि न सुहृत्प्रियः॥

तद्यूयं भवतास्माकं स्वामिनो गतयोऽपि च।

परायणाश्च भर्तारः पतयः सुहृदः प्रियाः॥

विद्यन्तेऽत्र गृहा रम्या भोग्यानि विविधान्यपि।

पानानि सुरसान्येवं वस्त्राणि विविधानि च॥

सर्वद्रव्याणि रत्नानि सर्वाणि भूषणान्यपि।

सर्वर्तुफ़लपुष्पादिरम्योद्यानवनान्यपि॥

पुष्करिण्योऽपि सन्त्यत्र दिव्यगन्धाम्बुपूरिताः॥

तदत्र किं विषादं वः संरमध्वं यथेच्छया।

यथाकामं सुखं भुक्त्वा संचरध्वं प्रमोदिताः॥

इत्येवं कथितं ताभिर्निशम्य ते वणिग्जनाः।

सर्वेऽपि ताः समालोक्य विस्मयं समुपाययुः॥

ततस्ताः प्रमदाः सर्वान् मत्वा तान् काममोहितान्।

एकैकं पुरुषं धृत्वा स्वस्वगेहं न्यवेशयन्॥

तासां वृद्धापि या कान्ता सा दृष्ट्वा समुपासृता।

सिंहलं तं समादाय स्वालयं संन्यवेशयत्।

१७२

अथ ताः प्रमदाः सर्वान् स्वान् स्वांस्तान् स्वामिनो मुदा।

स्वस्वालये प्रतिष्ठाप्य दिव्यभोगैरतर्पयन्॥

ततस्तान् भोगसंतृप्तान् सर्वान्स्ताः प्रमदाशयाः।

रहिक्रीडारसाभोगैः सन्तर्पयितुमारभन्॥

एवं ते वणिजः सर्वे भुक्त्वा भोज्यं यथेप्सितम्।

संक्रीडित्वा यथाकामं संचरिते प्रमोदिताः॥

एवं भुक्त्वा यथाकामं रमित्वा ते दिवानिशम्।

महानन्दसुखासक्ताः सप्ताहानि व्यलंघयन्॥

अथापरे क्षपायां स सिंहलः।

त्रिरत्नस्मृतिमाधाय तस्थौ ध्यानसमाहितः॥

तदा तत्रालये दीपः संप्रदीप्तमहोज्ज्वलः।

राक्षस्यां निद्रितायां स प्राहसन् संप्रभासयन्॥

तं प्रदीप्तं हसन्तं स दृष्ट्वातिविस्मिताशयः।

सुचिरं संनिरीक्ष्यैवं ध्यात्वा चैवं व्यचिन्तयत्॥

अहो चित्रं किमर्थेऽयं प्रदीपो यत्प्रहस्यते।

एवं हि हसितो दीपो दृष्टो नैव श्रुतोऽपि न॥

इति ध्यात्वा चिरं पश्यन् सिंहलः स समुत्थितः।

समुपाश्रित्य तं नत्वा पप्रच्छैवं कृतांजलिः॥

किमर्थं हससे दीप तदत्र मे समादिश।

कोऽत्र दीपे प्रविष्टो हि मया न ज्ञायते भवान्॥

इति तेनाभिंसंपृष्टे प्रदीपः स समुज्ज्वलन्।

सिंहलं तं समामन्त्र्य प्रहसन्नेवमब्रवीत्॥

सिंहल किं न जानासि राक्षसीयं न मानुषी।

रमित्वापि यथाकामं भक्षेत्त्वां नैव संशयः॥

सर्वास्ताः प्रमदाः कान्ता राक्षस्यो नैव मानवाः।

सर्वांस्तांस्त्वत्सहायांश्च भक्षिष्यन्ति न संशयः॥

इति दीपसमाख्यातं श्रुत्वा भीतः स सिंहलः।

किमिदं सत्यमेवं स्यादिति तं पर्यपृच्छत॥



१७३

सत्यमेव प्रदिपेयं राक्षसी यन्न मानुषी।

कथं भवान् विजानासि सत्यमेतत् समादिश॥

इति संप्रार्थिते तेन स प्रदीपः पुनर्हसन्।

सिंहलं सार्थवाहं तं समामन्त्र्यैवमादिशत्॥

सत्यमेतन्मयख्यातं यदि न त्वं प्रतीच्छसि।

दक्षिणस्यां महारण्ये गत्वा पश्य त्वमात्मना॥

तत्रारण्ये महद्दुर्गे आयसकोट्ट उच्चके।

वणिक्शतसहस्त्राणि प्रक्षिप्य स्थापितानि हि॥

केचिज्जीवन्ति केचिच्च मृताः केचिच्च भक्षिताः।

अस्थीनि चावकीर्णान्निप्रतिणि समन्ततः॥

तत्र गत्वा समालोक्य सर्वमेतन्मयोदितम्।

सत्यं वा यदि वाऽसत्यं श्रद्दध्या मे वचस्तदा॥

इत्येवं तदुपाख्यातं श्रुत्वा स परिबोधितः।

तत्र गत्वा तथा द्रष्टुं सर्वमेतस्तमुत्सुकः॥

प्रसुप्तां राक्षसीं मोहजालनिद्रावृतेन्द्रियाम्।

कृत्वा चन्द्रप्रभं खड्गं धृत्वा संप्रस्थितो द्रुतम्॥

ततो गच्छन् स एकाकी निशीये संविलोकयन्।

दक्षिणस्यां महारण्ये दुर्गमे समुपाचरत्॥

तत्रात्युच्चे महकोट्टमयःप्राकारसंवृतम्।

गवाक्षद्वारे निर्यूहवीहीनं लोकसंस्कृतम्॥

तं दृष्ट्वा समुपासृत्य परिभ्रमन्समन्ततः।

लोकविषादवैलाप्यं श्रुत्वा स विस्मयाकुलः॥

तत्र चम्पकवृक्षाग्रमारेह्य स समाश्रितः।

महोत्काशरवो नैव नाजुहाव तदाश्रितान्॥

भवन्तः के कियन्तोऽत्र प्रक्षिप्ताः केन निश्रिताः।

किं भुक्त्वा वसथात्रापि तत्सर्वं वक्तुमर्हथ॥

इति तदुक्तमाकर्ण्य तत्रस्थास्ते वणिग्जनाः।

वृक्षशाखाग्रमारुढं तमालोक्यैवमब्रुवन्॥

१७४

कस्त्वं भो कथमायासि कस्मादिहागतः कुतः।

सर्वमेतत् प्रवृत्तान्तं समुपाखातुमर्हति॥

इति तदुक्तमाकर्ण्य सार्थवाहः स सिंहलः।

तत्रस्थांस्तान् जनान् सर्वान् समामन्त्र्यैवमब्रवीत्॥

सिंहलः सार्थवाहोऽहं जम्बूद्वीपादिहागतः।

गन्तुं रत्नाकरेऽम्भोधौ वणिक्पंचशतैः सह॥

अब्धिमध्ये महावातैर्हता नौका विखण्डिता।

उदके पतितास्सर्वे वयुमुत्तीर्य बाहुभिः॥

तीरमासाद्य वृक्षस्य छायायां समुपाश्रिताः।

स्वदेशमनुशोचन्तो न्यषीदाम विषादिताः॥

तत्रातिसुन्दरीकान्ताः कुमारिका मनोहराः।

ताः सर्वाः पुरतोऽस्माकं समाश्रित्यैवमब्रुवन्॥

मा भैष्ट किं विषादं वा धैर्यमालम्ब्य तिष्ठत।

सर्वासामपि ह्यस्माकं कश्चित् स्वामी न विद्यते॥

तद्यूयं स्वामिनोऽस्माकं भूत्वा भुक्त्वा यथेप्सितम्।

यथाकामं रमित्वेह संचरध्वं सदा सुखम्॥

इत्यस्मानालोक्य सर्वास्तान् सर्वानस्मान् विमोहितान्।

एकैकं स्वामिनं धृत्वा स्वास्वालयं न्यवेशयन्॥

तत्रास्मान् यथाकामं भोजयित्वात्यमोदयन्।

यथेच्छया रमित्वापि चारयन्ति सदा सुखम्॥

इत्येवं महदाश्चर्यं सुखं भुक्त्वातिविस्मितः।

किमत्र विषये वृत्तमिति द्रष्टुमिहाव्रजे॥

इति तेन समाख्यातं श्रुत्वा तेऽपि वणिग्जनाः।

सर्वे स्वकं प्रवृत्तान्तं कथित्वा तं व्यनोदयन्॥

यत्खलु सार्थवाहोऽसि जानीहि ताभि राक्षसीः।

तदत्र रतिसंरक्ता मा तिष्ठाशु व्रज स्वं पुरम्॥

वयमप्येवमम्भोधौ पतिता व्यसनितास्तथा।

राक्षसीभिः समुत्तार्त्य स्वस्वगृहे निवेशिताः॥

१७५

भोजयित्वा यथाकामं रमित्वापि यथेच्छया।

विनोद्य स्ववशे स्थाप्य संचारिताः सुखे सदा॥

यदा यूयमिह प्राप्तास्तद ताभिर्वयं द्रुतम्।

कोटेऽत्र सर्व आनीय प्रक्षिप्ता बन्धनालये॥

गृहीत्वामीभिरस्स्माकं राक्षसीभिर्दिवानिशम्।

खादित्वा पुरुषान् नित्यं संचर्यन्ते यथेच्छया॥

यूयमपि तथामीभी राक्षसीभिर्यथेच्छया।

गृहीत्वात्र प्रतिक्षिप्ता भक्षिष्यध्वे न संशयः॥

इत्यवश्यं भवेदेवं विज्ञाय सहसा भवान्।

सर्वान् सार्थान् समाहूय स्वदेशं द्रुतम्॥

यदीतः सहसा यूयं सर्वे गच्छत सांप्रतम्।

कुशलं वा भवेन्नैवं यदि सर्वे विनक्ष्यथ॥

इति तदुक्तमाकर्ण्य सिंहलं स प्रबोधितः।

अवतीर्य द्रुतं वृक्षात् सहसा स्वालयं ययौ॥

तत्र रतिकरं दीपमुद्दीप्तं तं समीक्ष्य सः।

सांजलिः प्रणतिं कृत्वा पुरतः समुपाश्रयत्॥

तं पुरस्थं समालोक्य प्रदीपः स समुज्ज्वलन्।

साधो सत्यं त्वया दृष्टमित्येवं समपृच्छत॥

इति दीपोदितं श्रुत्वा पुनराह स विस्मितः।

सर्वं सत्यं मया दृष्टमादिष्टं भवता यथा॥

किमुपायमिहाप्यस्ति येनेतः सहसा पुनः।

जम्बूद्वीपं गमिष्याम तत्समादेष्टुमर्हति॥

इति संप्रार्थिते तेन स प्रदीपः समुज्ज्वलन्।

प्रहसंस्तं समाश्वस्य पुनरेवमुपादिशत्॥

तदुपायमिहाप्यस्ति येनेतः सहसा व्रजेः।

जम्बूद्वीपं पुनर्गन्तुं यदीच्छसि शृणुष्व तत्॥

अत्र तीरे महाम्भोधेः सुवर्णबालुकास्थले।

बालाहोऽश्वो महा..त्रो विद्यते करुणात्मकः॥

१७६

स श्वेता औषधीर्भुक्त्वा प्रावर्त्य परिवर्त्य च।

समुत्थाय स्वमात्मानं प्रच्छोडित्वैवमालपेत्॥

क इतोऽब्धिं समुत्तिर्य गन्तुमिच्छन्ति ये पुनः।

स्वदेशं मे समारुह्य पृष्ठे तिष्ठन्तु ते दृढम्॥

यदि गन्तुं तवेच्छास्ति जम्बूद्वीपमितः पुनः।

तत्र गत्वाश्वराजं तं नत्वा संप्रार्थयादरात्॥

वयमिच्छामहे गन्तुं जम्बूद्विपमितः पुनः।

तदस्मान् कृपया सर्वान् संप्रापयिमर्हति॥

ततः सोऽश्वो महाभिज्ञः सर्वान् युष्मानितो द्रुतम्।

स्वपृष्ठेन समावाह्य पारेऽब्धेः प्रापयिष्यति॥

इत्येवं समुपादिश्य स दीपोऽन्तर्हितोऽभवत्।

सोऽपि शयनमारुह्य राक्षस्या शयितोऽभवत्॥

तदंगशीतत्वं स्पृष्टा विबुद्धा सा निशाचरी।

कथं ते शीतलं देहमित्येवं पर्यपृच्छत॥

तच्छ्रुत्वा सार्थवाहोऽसौ सिंहलो भीतमानसः।

तां कान्तां प्रमदामेवं प्रबोधयितुमब्रवीत्॥

कान्तेऽहं निर्गतो गेहाम्मुलमूत्रं विसृज्य च।

आगम्य शयितस्तेन शीतलिता तनु मम॥

इति तां मिथ्यया कान्तां बोधियित्वापि शंकितः।

सिंहलः स विषण्णात्मा तस्थौ निद्रापराङ्मुखः॥

ततः स प्रातरुत्थाय सर्वांस्तान् वणिजः सत्त्वान्।

समाहूय बहिर्देशे गत्वा यानमुपाश्रयत्।

तथा ते वणिजश्चापि सर्वे तत्र समाश्रिताः।

परस्परं समाभाष्य संतस्थिरेऽभिनन्दिताः॥

तत्र तान् वणिजः सर्वान् निर्विशंकाभिनन्दितान्।

सिंहलः स समालोक्य समामन्त्र्यैवमब्रवीत्॥

भवन्तः प्रष्टुमिच्छामि सत्यं भाषन्तु नान्यथा।

किदृक्स्नेहोपचारैर्वः कान्ताः संमानयन्ति हि॥

१७७

इति तदुक्तमाकर्ण्य तत्रकोऽतिप्रगल्भितः।

सिंहलं तं समालोक्य सहर्षमेवमब्रवीत्॥

धन्योऽस्मि सार्थवाहात्र भाग्येन प्रेरितः खलु।

ईदृग्भोग्यमहत्सौख्यं मन्ये स्वर्गेऽपि दुर्लभम्॥

यन्मे कान्ता सुभद्रांगी सुस्नेहोपचारिणी।

यथेच्छा सुरसैर्भोग्यैर्मानयन्ति दिवानिशम्॥

तथान्यः प्रावदत्तत्र महर्सौख्यमिहाप्तवान्।

भाग्येन प्रेरितोऽत्राहमीदृक्सौख्यं कुहापि न॥

यन्मे कान्ता वरैर्भोग्यैस्तोषयित्वा दिवानिशम्।

रमयन्ती यथाकामं मानयन्ती समादरात्॥

तथापरो वणिक्प्राह धन्योऽहमतीभाग्यवान्।

ईदृक्सम्पन्महत्सौख्यं लप्स्ये कुत्र कथं कदा।

ईदृक् महत्तरं सौख्यं मन्ये स्वर्गेऽपि दुर्लभम्॥

यन्मे स्नेहवती भार्या दिव्यवस्त्रादिभूषणैः।

मण्डयित्वा यथाकामं रमयित्वा दिवानिशम्॥

यथाभिलषितैर्भोग्यैस्सन्तर्प्य प्रतिपाति माम्।

तथान्योऽपि वणिक्प्राह भाग्येनेहाहमाप्तवान्॥

यदीदृक् महदैश्वर्यं संपत्तिर्लप्स्यते कुतः॥

स्वर्गेऽपि दुर्लभं मन्ये कुत्रात्र पृथिवीतले।

यन्मे भार्या मनोरम्या कान्ता दिव्यातिसुन्दरी॥

विविधदिन्यसौरभ्यगन्धद्रव्यैर्दिवाशम्।

अनुलिप्य यथाकामं क्रिडयति समादरात्॥

भोजनैर्विविधास्वादैः पानैर्दिव्यामृतात्तमैः।

वस्त्रैश्च विविधैः काम्यैर्भूषणैर्विविधैरपि॥

मण्डयित्वा यथाकामं भोजयित्वा दिवानिशम्।

यथाभिलषितैः सौख्यैः रमयन्त्यभिपाति माम्॥

एवं ते वणिज्यः सर्वे स्वस्वभार्याकृतादरम्।

स्नेहोपचारसत्सौख्यं निवेधैवं बभाषिरे॥

१७८

अहो भाग्यं तदस्माकं यदिह प्रेषिता वयम्।

ईदृक्संपन्महत्सौख्यं स्वर्गेऽपि दुर्लभं खलु॥

तदिहैव सदा भुक्त्वा यथाकामं चरेमहि।

जम्बूद्वीपे पुनर्गन्तुं नोत्सहेम कदाचन॥

किमीदृक्सुखसंपत्तिर्हित्वा यास्यामहे वयम्।

स्वदेशेऽपि पुर्नगत्वा किं किं भोक्ष्यामहे सुखम्॥

कुत्रेदृग्गुणसंपन्ना दिव्यकान्ता मनोरमाः।

सर्वविद्याकलाभिज्ञा लभ्यन्ते दुर्लभा भुवि॥

एताः कान्ताः सुभद्रांगाः स्वामिस्नेहोऽनुचारिकाः।

हित्वा गत्चा स्वदेशेऽपि किं स्थित्वा स्वजनैः सह॥

धन्यास्ते पुरुषा मर्त्याः कान्ताभिर्ये सदा रताः।

यथाकामं सुखं भुक्त्वा संचरन्ते यथेच्छया॥

एवं श्रीगुणसंपन्ना दिव्यकान्तासहारताः।

यावज्जीवं सुखं भुक्त्वा संतिष्ठेमहि सर्वदा॥

जम्बूद्विपे पुनर्गन्तुं नाभीच्छामः कदापि हि।

किं लप्स्यामह एतादृक् महत्सौख्यं कदा कथम्॥

इत्येवं तैः समाख्यातं सर्वैरपि निशम्य सः।

सिंहलस्तान् समालोक्य निष्श्वसन्नेवमब्रवीत्॥

भवन्तः श्रूयतां वाक्यं यन्मया सत्यमुच्यते।

यदि भद्रेऽस्ति वांछा वः तत्कुरुध्वं यथोदितम्॥

इति तेनोदितं श्रुत्वा सर्वे ते विस्मताशयाः।

सिंहलं सार्थवाहं तं समालोक्यैवमब्रुवन्॥

किं वाक्यं समुपाख्याहि यदि भद्रे समीहसि।

भवता यत्समादिष्टं करिष्यामस्तथा वयम्॥

इति तैः कथितं सर्वैः श्रुत्वा स सिंहलः सुधीः।

सर्वांस्तान् वणिजः सार्थान् संपश्यन्नेवमब्रवीत्॥

सर्वैः सत्य समाधाय समयं धास्यते यदि।

तदाहमुपदेक्ष्यामि सत्यमेतद्यथाश्रुतम्॥

१७९

इति तेनोदितं श्रुत्वा सर्वेऽपि तेऽतिविस्मिताः।

किं समयं धरिष्यामस्तदादिशेति चाब्रुवन्॥

एतत्तैः कथिते सर्वैः सार्थवाहः स सिंहलः।

सर्वांस्तान् वणिजः संघान् समालोक्यैवमब्रवीत्॥

भवन्तः श्रूयतां सर्वैः समयमुदितं मया।

नैतत्केनापि वक्तव्यं भार्यायाः पुरतोऽपि वः॥

कश्चिद्भाषेत भार्यायाः पुरा यदि प्रमादतः।

तदा सर्वे वयं ह्यत्र व्रजेम निधनं खलु॥

इति सत्यं समाधाय समयं धातुमर्हथ।

यदि संधार्यते सत्यं सर्वेषामपि भद्रता॥

इति तदुक्तमाकर्ण्य सर्वेऽपि ते वणिग्जनाः।

सत्यमेतद्धरिष्यामः समादिशेति चाब्रुवन्॥

इति सर्वै समाख्यातं श्रुत्वा स सिंहलः सुधीः।

सर्वांस्तान् वणिजः संघान् संपश्यन्नेवमब्रवीत्॥

शृणुध्वं धैर्यमालम्ब्य तिष्ठत मा विषीदत।

इमा हि प्रमदाः सर्वा राक्षस्यो नैव मानुषाः॥

इति सत्यं मयाख्यातं श्रुत्वा सर्वेऽपि बोधिताः।

कश्चिदपि स्वभार्यायाः पुरतो वक्तुमर्हति॥

इति तेन समाख्यातं श्रुत्वा सर्वे वणिग्जनाः।

भीतिसंत्रसितात्मानः क्षणं तस्थुर्विमोहिताः॥

ततस्ते वणीजः सर्वे संत्रासाभिहताशयाः।

सिंहलं सार्थवाहं तं समालोक्यैवमब्रुवन्॥

सार्थवाह कथं ज्ञातं कुत्र दृष्टं श्रुतं त्वया।

एताः कान्ता न मानुष्यो राक्षस्य इति तद्वद॥

यद्येता नैव मानुष्यो राक्षस्य एव तत्कथम्।

अस्माकं क इह त्राता गतिर्वा स्यात्परायणः॥

यद्येतत्सत्यमेवेह तिष्ठेमहि कथं वयम्।

पलायेमहि कुत्रेतस्तदुपायमुपादिश॥

१८०

इति तैः कथितं श्रुत्वा सार्थवाहः स सिंहलः।

सर्वान्स्तान् वणिजः संघान् समाश्वास्यैवमब्रनीत्॥

सत्यमेव मृषा नैव तथापि मा विषीदत।

उपायं विद्यतेऽत्रापि तच्छृणुध्वं मयोदितम्॥

योऽश्वाजोऽत्र बालाहो नाम तीरे महोदधेः।

स्थितः सत्त्वानुकम्पार्थं स नः त्राता गतिर्भवेत्॥

स तिष्ठेदुधेस्तीरे सुवर्णबालुकास्थले।

आवर्त्य परिवर्त्तापि भुक्त्वा श्वेता महोषधीः॥

तत्र गत्वा वयं सर्व उपसरेम वन्दितुम्।

संपश्येत्करुणात्मा स सर्वानस्मानुपासृतान्॥

दृष्ट्वास्मान् स समुत्थाय प्रच्छादयेत् स्वमाश्रयम्।

कोऽत्र पारमितो गन्तुं इच्छन्तीति वदेत् त्रिधा॥

तदा सर्वे वयं नत्वा तमेवं प्रार्थयेमहि।

इच्छामहे इतो गन्तुं पारं तत्सहसा नय॥

इत्यस्मत्प्रार्थित श्रुत्वा सर्वानस्मान् स्वपृष्ठके।

आरोप्य समसोत्तीर्य नयेत् पारं महोदधेः॥

स एवास्माकमिह त्राता गतिर्नान्यो हि विद्यते।

तद्वयमश्वराजं तं नत्वैवं प्रार्थयेमहि॥

एतदुपायमत्रापि विद्यतेऽस्मत्परायणे।

कश्चिदेतत्स्वभार्याया वक्तुं नैवार्हति ध्रुवम्॥

प्रमोदाद्यदि भार्यायाः स्नेहात् कश्चिद्वदेत्पुरः।

राक्षस्योऽस्मान्स्तद सर्वान् भक्षिष्यन्ते न संशयः॥

इति स्नेहोऽस्ति जीवे वो धृत्वैतत्समयं दृढम्।

कस्याश्चित्पुरतः किंचिद्वक्तव्यं नैव केनचित्॥

इति तेनोदितं श्रुत्वा सर्वेऽपि ते वणिग्जनाः।

मृत्युत्रासाहतात्मानः सिःहलमेवमब्रुवन्॥

सार्थवाह भवन्नाथस्त्राता मित्रं सुहृद्गतिः।

अस्माकं नापरः कश्चित्तदन्वाहर्तुमर्हति॥

१८१

कस्मिन्दिने गमिष्याम इतस्तीरे महोदधेः।

यत्र तिष्ठेदश्वराज इति सत्यं समादिश॥

इत्युक्तं तैर्निशम्यासौ सार्थवाहो निरीक्ष्य तान्।

इतोऽहिन तृतीयेऽवश्यं गच्छेमहीति चाब्रवीत्॥

न कस्याश्चित्पुरः कश्चत्सत्यमेतद्वदेन्न हि।

गोपनीयं प्रयत्नेन त्रिधेति सोऽब्रवीत् पुनः॥

इति संमतमाधाय सर्वेऽपि ते वणिग्जनाः।

तत्पुरे पुनरागत्य स्वस्वालयं समाविशत्॥

तत्र ताः प्रमदाः कान्ता दृष्ट्वा तान् स्वगृहागतान्।

स्वं स्वं स्वामितनमालोक्य पप्रच्छुरेवमादरात्॥

कुत्र भवान् प्रयातोऽत्र समायातोऽसि साम्प्रतम्।

सत्यमेतत् समाख्याहि यदि स्नेहोऽस्ति ते मयि॥

इति भार्योदितं श्रुत्वा सर्वेऽपि ते वणिग्जनाः।

देशाद्बहिर्वयं गत्वागताः स्म इति चाब्रुवन्॥

एतच्छ्रुत्वा च ताः कान्ताः सर्वाः स्वं स्वं प्रियं मुदा।

समीक्ष्य समुपासीनाः पप्रच्छुरेवमादरात्॥

दृष्टं किं महदुद्यानं दृष्टं वापि सरोवरम्।

फ़लपुष्पाभिनम्राश्च दृष्टाः किं पादपा अपि॥

इति भार्योदितं श्रुत्वा सर्वेऽपि ते वणिग्जनाः।

किंचिन्न दृश्यतेऽस्माभिरिति प्रत्युत्तरं ददुः॥

तच्छ्रुत्वा प्रमदाः सर्वाः समीक्ष्य ता स्वकं प्रियम्।

संप्रहासं कुर्वन्त्यः पुनरेवं बभाषिरे॥

कथं न दृश्यतेऽत्रास्ति महोद्यानं सरोवरम्।

विविधास्तरवः सन्ति फ़लपुष्पभरानताः॥

अहो यूयं गताः कुत्र दृश्यन्ते न कथं खलु।

एतत्सत्यं समाख्याहि यदि प्रियास्म्यहं तव॥

एतच्छ्रुत्वापि ते सर्वे वणिजः स्वस्वप्रियां प्रति।

प्रहसन् संनिरीक्ष्यापि पुनरेवं बभाषिरे॥

१८२

इतोऽह्नि तृतीयेऽवश्यं तदुद्यानं सरोवरम्।

सर्वानपि तरुन् द्र्ष्टुं गमिष्यामो वयं प्रिये॥

तानि सर्वाणि संवीक्ष्य गृहीत्वापि फ़लानि च।

पुष्पाण्यपि समाहृत्य समायास्यामहे द्रुतम्॥

तच्छ्रुत्वा तास्तथेत्युक्त्वा सर्वाः स्वं स्वं प्त्रियं मुदा।

यथाभिलषितार्भोग्यैः सादरं समतोषयन्॥

भुक्त्वा तेऽपि यथाकामं सर्वैः संतोषिता अपि।

दिर्घोच्छ्वासं समुत्सृज्य तस्थुः क्षणं विषादिताः॥

तदृष्ट्वा प्रमदास्ताश्च सर्वाः स्वस्वप्रभुं प्रति।

किमुच्छ्वासं समुत्सृष्टं वदेति प्रावदत् पुनः॥

स्वदेशविषयं स्मृत्वा समुच्छ्वासं समुत्थितम्।

इति स्वस्वप्रियास्ते सर्वेऽपि पुरतोऽवदन्॥

तच्छ्रुत्वा प्रमदास्ताश्च सर्वाः स्वस्वपतेः पुनः।

उपासीना विहसन्त्यः संनिरीक्ष्यैवमब्रुवन्॥

किं स्वदेशस्मृतिं कृत्वा सुखं भुक्त्वेह तिष्ठत।

संरमित्वा यथाकामं संचरध्वं यथेच्छया॥

द्रव्याण्यपि च सर्वाणि भोग्यानि विविधानि च।

सर्वोपकरणवस्तूनि वस्त्राणि भूषणान्यपि॥

उद्यानानि सुरम्यानि पुष्करिण्यो मनोरमाः।

फ़लपुष्पाभिनम्राश्च पादपा विविधा अपि॥

प्रासादाश्च मनोरम्या गृहाश्चाट्टाभिशोभिताः।

मण्डपाश्च मठाश्चापि रथा अश्वाश्च हस्तिनः॥

गावश्च महिषाश्चापि सर्वेऽपि पशुजातिकाः।

विद्यते सकलोऽन्यत्र किं नास्तीह निरीक्ष्यताम्॥

तदेतान्यपि सर्वाणि त्वदधीनानि सर्वदा।

यथेच्छया समादाय भुक्त्वा रमन्सुखं चर॥

नात्र किंचिद्विषादत्वं भयं चापि न किंचन॥

यथाकामं प्रभुक्त्वैव रम चरन् सुखं वस॥

१८३

इति ताभिः समाख्यातं सर्वेऽपि ते वणिग्जनाः।

तथेति प्रभाषित्वा तस्थुः विनोदिता इव॥

ततस्ताः प्रमदाः सर्वा रात्रो स्वस्वप्रियैः सह।

यथाकामं रमित्वापि सुषेयुः शयनाश्रिताः॥

तेऽप्येवं वणिजः सर्वे रमित्वा शयनाश्रिताः।

मृत्युशंकाहतात्मानस्तस्थुर्निद्रापराङ्मुखाः॥

ततः प्रातः समुत्थाय सर्वेऽपि ते वणिग्जनाः।

स्वां स्वां भार्यां समामन्त्र्य समालोक्यैवमब्रुवन्॥

वयं यास्यामहे द्रष्टुं तडागोद्यानपादपान्।

सज्जीकृत्य तदाहारं संस्थापयत संवरम्।

तच्छ्रुत्वा प्रमदाः सर्वास्तास्तथेति प्रबोधिताः।

सज्जीकृत्योपसंस्थाप्य स्वस्वप्रियं व्यनोदयन्॥

तस्मिंश्च दिवसेऽप्येवं सर्वेऽपि ते वणिग्जनाः।

भुक्त्वा भोग्यं रमित्वापि तस्थुर्जागर्तिका निशि॥

ततः प्रातः समुत्थाय सर्वे ते सिंहलादयः।

स्वां स्वां भार्यां समामन्त्र्य गृहीत्वा स्वस्वसंवरम्॥

संमील्य सहसा सर्वे देशाद्बहिर्विनिर्गताः।

गत्वा दूरमनोद्यनसमीपं समुपाश्रयन्॥

तत्र स सिंहलः सर्वान् वणीजस्तान् विलोकयन्।

समामन्त्र्य क्रियाकारं कर्तुमेवमभाषत॥

भवन्तः श्रूयतां वाक्यं यन्त्रयात्र निगद्यते।

तत्सर्वे सत्यमाधाय कर्तुमर्हन्ति नान्यथा॥

यदि स्नेहः स्वजिवोऽस्ति ज्ञातिबन्धुसुहृत्स्वपि।

युष्माभिर्मद्वचः श्रुत्वा सत्यं धर्तव्यमत्र हि॥

शृणुध्वं तत्क्रियाबन्धं क्रियते यन्मया हिते।

त्रिरत्नशरणं धृत्वा चरितव्यं समाहितैः॥

केनापि स्मरणीया न भर्या कान्ता प्रिया अपि।

पश्चान्नैवाभिलोक्यं च यावत्पारं न गम्यते॥

१८३

इति कृत्वा क्रियाबन्धं सर्वे ते सिंहलादयः।

ततः संप्रस्थिताः शीघ्रं तीरं प्राप्तो महोदधेः॥

तत्र तमश्वमद्राक्षुः सवर्णवालुकास्थले।

आवर्त्यपरिवर्तित्वा भुक्त्वौषधीः समाश्रितम्॥

तत्र तान् समुपयातान् दृष्ट्वा सोऽश्वः समुत्थितः।

प्रच्छाडित्वा त्रिधा कोऽतः पारगामीति प्रावदत्॥

तदा ते वणिज्यः सर्वे सांजलयस्तमादरात्।

त्रिधा प्रदक्षिणीकृत्य प्रणत्वैवं बभाषिरे॥

देव सर्वे वयं पारं गन्तुमिच्छामहे खलु।

तद्भवान्नो द्रुतं पारं संप्रापयितुमर्हति॥

इति तैः प्रार्थितं श्रुत्वा सोऽश्वराजो दयानिधिः।

सर्वांस्तान् वणिजः पश्यन् पुनरेवमभाषत॥

यदि पारमितो गन्तुं यूयं सर्वे समिच्छथ।

मत्पृष्ठं दृढमारुह्य संतिष्ठध्वं समाश्रिताः॥

यावत्र छोदितं कायं मया तावत्र केनचित्।

कर्तव्यो दृष्टिविक्षेपो यदि जीवितमिच्छथ॥

इति तेन समादिष्टं श्रुत्वा स सिंहलाग्रतः।

नत्वा तत्पृष्टमारुह्य संश्रितः समतिष्ठत॥

ततस्ते वणिज्यः सर्वे नत्वा तं सहसा क्रमात्।

रुह्यते पृष्ठमाश्रित्य संश्लेषिता निषेदिरे॥

ततः सोऽश्वो महावेगी संवहन्स्तान् वणिग्जनान्।

संक्रमन् सहसाम्भोधेर्मध्ये द्वीपमुपाययौ॥

तदाश्वेनाहूतान् सर्वान् राक्षस्यस्तान् वणिग्जनान्।

दृष्टवा ताः सकलास्तत्र सहसा खादुपाचरन्॥

हा कान्ता प्रियभर्तासि मां विहायाधुना कथम्।

निःस्नेहो मयि कुत्रैक एव गन्तुं त्वमिच्छसि॥

अहमपि त्वया सार्धं गन्तुमिहाव्रजामि हि।

तन्मां पश्यन्भवाकान्त समत्वहर्तुमर्हति॥

१८५

हा कान्त कथमेकान्ते त्यक्त्वा मां भक्तिचारिणीम्।

निःस्नेहो रतिसंभोगो क्व प्रयातुं त्वमिच्छसि॥

कथं मत्स्नेहसंभोगरतिसौख्यमहोत्सवम्।

विस्मृतं भवता कान्त तत्स्मृत्वा पश्येमां प्रियाम्॥

हा प्राणसमकान्तोऽसि नैवास्ति मे सुहत्प्रियः।

तवाप्यस्मि प्रिया भार्या तत्कथं नौ वियोगता॥

सुदुष्यकोमलैवस्त्रैः प्रावृतोऽसि मयेप्सितैः।

तत्स्नेहतिमुत्सृज्य कुत्र गन्तुं त्वमिच्छसि॥

यथाभिलषितैर्भोग्यैः पानैश्च परितोषितः।

विस्मृत्य कथमेकान्ते मां त्यक्त्वा गन्तुमिच्छसि॥

विविधसुरभिद्रव्यैस्त्वं लिप्त्वा मोदितो मया।

सौगन्धिद्रव्यमुज्झित्वा कुत्र गन्तुं त्वमिच्छसि॥

मुक्ताहाराद्यलंकारैर्भूषितोऽसि यथेप्सितैः।

तत्ते सर्वमलंकारं त्यक्त्वा गन्तुं कुहेच्छसि॥

भुक्त्वा भोग्यं यथाकामं रमित्वापि दिवानिशम्।

तद्भोग्यरतिसत्सौख्यं हित्वा गन्तुं कुहेच्छसि॥

हा कान्त मम नाथोऽसि कृत्वनाथामिमां सतीम्।

निर्दयो मां परित्यज्य कथं गन्तुं कुहेच्छसि॥

हा कान्त पस्य मां भार्यां भवद्धर्मानुचारिणीम्।

देहि मे दर्शनं स्वामि मा त्यजेमां प्रियंवदाम्॥

यदि मे दर्शनं कान्त न ददासीह किंचन।

भवन्नाम समुच्चार्य मरिष्ये श्वो निराशिता॥

तदा भवानपि मां स्मृत्वा भोग्यक्रीडासुखान्यपि।

कियत्कालं धरेत् प्राणं यास्यसि मरणं ध्रुवम्॥

इति स्नेहोऽस्ति ते भर्तः स्वजिवे मयि वा यदि।

एकधापीह मां स्मृत्वा भवान् संद्रष्टुमर्हति॥

इत्येवं विलपन्त्यस्ता राक्षस्यः सकला अपि।

स्वस्वभर्तारमालोक्य रुदन्त्योऽनुययुर्द्रुतम्॥



१८६

तत्कारुण्यविलापं ते श्रुत्वा सर्वे वणिग्जनाः॥

स्नेहरतिसुखोत्साहं स्मृत्वा ता द्रष्टुमिच्छिरे॥

तत्र ये येऽतिस्तेनेहार्द्राषु कारुण्याधैर्यमोहिताः।

तान् द्रष्टुं पृष्टमद्राक्षुस्ते तेऽश्वान्न्यपतन् जले॥

ये येऽश्वान्निपततन्तोऽब्धौ तान्स्तानालोक्य ता द्रुतम्।

राक्षस्यः सहसोद्धृत्य प्रादनत्स्वस्वपतिं मुदा॥

एवं ते वणिजः सर्वे निपतन्तो महाम्बुधौ।

सहसोद्धृत्य सर्वाभी राक्षसीभिः प्रभक्षिताः॥

सिंहल एक एवाश्वपृष्ठे संश्लिष्य संश्रितः।

त्रिरत्नस्मरणं धृत्वा संतस्थौ निश्चलेन्द्रियः॥

तमेवैकं महासत्त्वमुहित्वा सोऽश्वराट्लघुः।

सहसा संक्रमत्पारमब्धेरस्तीरं समाययौ॥

तत्र स तीरमासाद्य प्रच्छोडित्वा स्वमाश्रयम्।

अवतार्य स्वपृष्ठात्तं सिंहलमेवमब्रवीत्॥

साधो व्रज समाधाय संपश्यन् पथि सर्वतः।

सर्वत्र ते शुभं भूयाद्रमस्व बन्धुभिः सुखम्॥

इति तेन समादिष्टं श्रुत्वा स सिंहलः कृती।

तमश्वं सांजलिर्नत्वा संपश्यन्नेमवमब्रवीत्॥

धन्योऽसि त्वं महासत्व यन्मां मृत्युमुखगतम्।

आदाय सहसोत्तार्य रक्षसि स्वयमागतः॥

तन्मे नाथोऽसि शास्ता पिण्डानुत्राता सुहृद्गतिः।

यावज्जीवं भवत्पादं स्मृत्वा भजेय सर्वदा॥

मन्ये भवन्तमीशांशनिर्मितं त्रिजगत्प्रभुम्।

बोधिसत्त्वं महासत्वं सर्वसत्त्वानुपालकम्॥

इत्थं मां सर्वदालोक्य भवान् सर्वत्र संकटे।

बोधयित्या प्रयत्नेन कृपया त्रातुमर्हति॥

इति संप्रार्थ्य तं नाथमश्वराजं स सिंहलः।

त्रिधा प्रदक्षिणीकृत्य ननाम तत्पदान् पुनः॥



१८७

ततः सोऽश्वस्तमालोक्य किंचिद्दूरे चरन् स्वयम्।

अन्तर्हितो ज्वलद्वह्निरिवाकाशे ययौ द्रुतम्॥

तमेवं खे गतं दृष्ट्वा सिंहलः सोऽतिविस्मितः।

यावद्दृष्टिपथं पश्यंस्तस्थौ नत्वा कृतांजलिः॥

ततः स सिंहलो धीरः पश्यन् न्मार्गे सहाहितः।

एकाकी संक्रमन् जम्बूद्वीपारण्यमुपाययौ॥

तदा या राक्षसी भार्या सिंहलस्य वणिक्पतेः।

राक्षस्यः सकलास्तास्तां परिवृत्यैवमब्रुवन्॥

अस्माभिर्भक्षिताः सर्वस्वामिनोऽपि स्वकस्वकाः।

भक्षितो न त्वयैवैकः स्वामी निर्वाहितः कथम्॥

यदि तावत्तमानीय भक्षसे न त्वमात्मना।

त्वां विहत्य वयं सर्वा भक्षिष्याम इति ध्रुवम्॥

इत्येवं कथितं ताभिः सर्वाभिस्तन्निशम्य सा।

संत्रस्ता पुरतस्तासां विषण्णास्यैवब्रवीत्॥

भगिन्यो यदि युष्माकं निर्बन्ध एष निश्चयः।

सर्वथाहं तमानीय भक्षेयमिति निश्चितम्॥

इति तयोक्तमाकर्ण्य राक्षस्यः सकला अपि।

एवं चेत्ते भवेद्भद्रं नोचेन्नेति हि चाब्रुवन्॥

ततः सा राक्षसी धृत्वा परमभीषणाकृतिम्।

आकाशात् सहसा गत्वा सिंहलस्य पुरोऽसरत्॥

दृष्ट्वा तां राक्षसीं भीमां पुरतः समुपासृताम्।

सिंहलोऽसिं समुत्थाप्य संत्रासयितुमुद्ययौ॥

सिंहलं तमसिं धृत्वा निहन्तुं संमुखागतम्।

दृष्ट्वा सा राक्षसी त्रस्ता प्रदुद्राव वनान्तरे॥

तदा तत्र वणिक्सार्थो मध्यदेशात् समाययौ।

तं दृष्ट्वा सा सुन्दरीरुपं धृत्वा पुर उपासरत्॥

तां कान्तां सुन्दरीं रम्यां पुरतः समुपासृताम्।

सार्थवाहः समालोक्य पप्रच्छैवं समादरात्॥

१८८

भगिनि को भवन्तीह कान्तारे तु मिताश्रया।

एकाकी कुत आयासि तत्सत्यं वक्तुमर्हसि॥

इति सार्थभृता पृष्टे रुदन्ती सा कृतांजलिः।

तस्य सार्थपतेः पादौ प्रणत्वैवं न्यवेदयत्॥

अहं सार्थपते राज्ञस्ताम्रद्विपपतेः सुता।



सिंहलस्यास्य भार्यार्थं दत्त तेन महीभुजा॥

अनेन सार्थवाहेन परिनीयाहमात्मना।

दत्वा विश्रम्भमानीता स्वदेशगमनं प्रति॥

अब्धितीरोसंप्राप्ता नौकायादौ विभग्निता।

अमंगलेति कृत्वाहं छोरितानेन जंगले॥

तद्भवान् बोधयित्वैनं सार्थवाहं मम प्रियम्।

मयि स्नेहभिसम्बन्धे संयोजयितुमर्हति॥

तयेति प्रार्थितं श्रुत्वा सार्थवाहस्तथेति सः।

प्रतिश्रुय तस्य सार्थवाहस्य समुपासरत्॥

तं दृष्ट्वा समुपायातं सिंहलः स प्रसादितः।

आसने संप्रतिष्ठाप्य समालोक्यैवमब्रवीत्॥

वयस्य कौशलं कश्चिद्देहे सर्वत्र चापि ते।

इत्येवं संकथालापं कृत्वा तस्थौ विनोदयन्॥

तथा स सार्थवाहस्तं सिंहलं कौशलं मुदा।

पृष्ट्वा संमोदयन् वीक्ष्य पुनरेवमभाषत॥

वयस्यासौ राजपुत्री परिणीता त्वया स्वयम्।

अस्थाने मा परित्याज्या क्षमस्वास्या विरोधताम्॥

इति तेनोदितं श्रुत्वा सिंहलः स महामतिः।

सार्थवाहं तमालोक्य पुनरेवं न्यवेदयत्॥

सुखेन राजपुत्रीयं परिणीतापि ना मया।

राक्षसीयमिहायाता ताम्रद्वीपनिवासिनी॥

इति तेनोदितं श्रुत्वा सार्थवाहः स विस्मितः।

सिंहलं सुहृदं तं च समालोक्यैवमब्रवीत्॥

१८९

वयस्य राक्षसीयं कि कथमेवमिहागता।

ज्ञातापि च त्वया केन तत्सत्यं वक्तुमर्हसि॥

इति तेनोदिते सर्ववृत्तान्तं विस्तरेण सः।

सिंहलस्य मित्रस्य पुरतः संन्यवेदयत्॥

तदुक्तं सर्वृत्तान्तं श्रुत्वा स सार्थभृत् सुधीः।

सत्यमिति परिज्ञाय बभुव त्रसिताशयः॥

ततः स सिंहलस्तस्मात् संप्रस्थितः समाहितः।

संपश्यन् पथि सर्तत्र संचरन् स्वपुरं ययौ॥

तत्र स स्वगृहे गत्वा मातापित्रोः पुरो गतः।

तत्पादान् सहसा नत्वा कौशल्यं समपृच्छत॥

त्वन्मुखदर्शनादेव कौशल्यं नौ सदा भवेत्।

तवापि कौशलं कच्चिदिति तौ पर्यपृच्छताम्॥

तच्छ्रुत्वा सिंहलश्चासौ स्वप्रवृत्तिमनुस्मरन्।

गलदश्रुविलिप्तास्यो पित्रोरेवं न्यवेदयत्॥

किं ताताविह वक्षामि दैवेन प्रेरितोऽस्मि हि।

एक एवाहमायातः सर्वे नष्टाः सहायकाः॥

कथमिति पुनः पृष्टः पितृभ्यां सिंहलः सुतः।

सर्वमेतत् स वृत्तान्तं विस्तरेण न्यवेदयत्॥

तदुक्तं सर्वमाकर्ण्य पितरौ प्रहताशयौ।

चिरं निःश्वस्य तं पुत्रं पश्यन् तावेवमूचतुः।

हा पुत्र भाग्यतो नौ त्वं जीवन्निह समागतः।

मा शुचस्तद्धनं नष्टं धैर्यं धृत्वा सुखं चर॥

किमेव बहुभिर्द्रव्यैर्विना पुत्रेण नौ गृहे।

पुत्र एव महारत्नं धर्मार्थवंशसाधनम्॥

बहुरत्नानि नः सन्ति यदि त्वमिह नागतः।

एतान्यपि हि सर्वाणि व्यर्थं क्षिणुयुरावयोः॥

द्रव्ये नष्टे पुनर्द्रव्यं साधययं प्रयत्नतः।

त्वयि पुत्रे विनष्टेऽहं साधयेयं कथं परम्॥

१९०

किं करिष्यन्ति रत्नानि विना पुत्रेण साधुना।

निर्धनोऽपि वरं साधुः पुत्रो धर्मार्थसाधनः॥

मृते रत्नानि किं कुर्युर्विना पुत्रेण साधुना।

सत्पुत्रः पिण्डदानादीन् कृत्वा स्वर्गेऽपि प्रेर्स्येत्॥

सत्पुत्र एवं सद्रत्नमिह धर्मार्थसद्गुणान्।

साधयेद्यत्परत्रापि संस्कृत्य प्रेरयोद्दिवि॥

तत्त्वमेवावयो रत्नमिह धर्मार्थसौख्यदम्।

संस्कारपिण्डदानैश्च परत्र प्रेरयेद्दिवि॥

इत्यावयोर्हि संसारे त्वन्मुखाम्भोजदर्शनात्।

जन्मजीवितसम्पत्तिसाधनं सफ़लं भवेत्॥

इति विज्ञाय सत्पुत्र त्वमावाभ्यां सहान्वितः।

सद्धर्मसाधनं कृत्वा भुक्त्वा कामं समाचर॥

धृत्वा स्वकुलसंवृत्तिं त्रिरत्नशरणं गतः।

दत्वार्थिभ्यो यथाकामं संरमस्व गृहाश्रितः॥

तस्मिन्नवसरे तत्र राक्षसी सातिसुन्दरी।

भूत्वा सिंहलसंकाशं पुत्रं धृत्वा समाययौ॥

तत्र तं बालकं पुत्रमंक आरोप्य सर्वतः।

पृच्छन्ति सिंहलगेहं बभ्राम सा प्रगल्भिका॥

तत्र सा प्रेरिता लोकैः सिंहलस्य गृहान्तिके।

गत्वा समीक्ष्यमाना तद्द्वारमूलमुपाश्रयत्॥

तत्र लोकाः समालोक्य बालकं तं मनोहरम्।

सिंहलसदृशाकारं पश्यन्त एवमब्रुवन्।

भवन्तो ज्ञायतामेष बालकः सिंहलात्मजः।

यदस्य सिंहलस्येव निर्विशेषं मुखेन्द्रियम्।

इत्युक्तं जनकायेन निशम्य सा क्षपाचरा।

भवद्विर्ज्ञातेऽस्यायं पुत्र इत्येवमब्रवीत्॥

भगिनि त्वं सुता कस्य कुतः कथमिहागता।

इति तैश्च जनैः पृष्टा सा पुनरेवमब्रवीत्॥



१९१

भवन्तोऽहं सुता राज्ञस्ताम्रद्वीपाधिपस्य हि।

पित्रास्य सार्थवाहस्य दत्ता भार्यार्थमात्मना॥

अनेन सार्थवाहेन परिणीता सहागता।

अब्धितीरोपप्राप्ता नौर्भग्ना यादोऽनिलाहता॥

अमंगलेति कृत्वाहं छोरितानेन जंगले।

क्षुद्रं पुत्रमिमं धृत्वा कष्टेनेहाहमागता॥

अस्यात्मजो ह्ययं बालो भार्याहं धर्मचारिणी।

इत्येनं स्वामिनं सर्वं संबोधयितुमर्हथ॥

तयेति प्रार्थितं श्रुत्वा सर्वे लोकास्तथेति ते।

प्रतिज्ञाय द्रुतं तस्य सिंहलस्य पुरो गताः॥

सर्वमेतत् प्रवृत्तान्तं यथोदितं तथा तथा।

विस्तरेण समाख्याय सिंहलमेवमव्रुवन्॥

सार्थवाह त्वया भार्या क्षुद्रपुत्रा तपस्विनी।

बालकश्च सुतस्तेऽसौ त्यक्तावेनावुभौ कथम्।

तदस्माकं वचः श्रुत्वा भार्यां तां स्वात्मजं च तम्।

संपश्यन् कृपया साधो समन्वाहर्तुमर्हसि॥

इति तैः प्रार्थ्यमानोऽसौ सिंहलस्तान् सुहृज्जनान्।

सर्वानपि समालोक्य पुर एवमभाषत॥

भवन्तो न सुता राज्ञो भार्यापीयं न मे खलु।

राक्षसी हि नराहारा ताम्रद्वीपनिवासिनी॥

बालोऽप्ययं न मे पुत्रो निर्मितो माययानया।

इति सत्यं मया ज्ञात्वा कथ्यते न मृषा खलु॥

तच्छ्रुत्वा ते जनाः सर्वे तस्य पित्रोः पुरो गताः।

सर्वमेतत् प्रवृत्तान्तं विस्तरेण न्यवेदयन्॥

तन्निवेदितमाकर्ण्य पितरौ तौ प्रबोधितौ।

स्वात्मजं तं समामन्त्र्य पुर एवमभाषताम्॥

क्षमस्व स्वात्मजस्नेहाद्दुहितुर्नृपतेस्तव।

भार्यायाः परिणीयात अपराधं सहस्रशः॥

१९२

इति तदुक्तमाकर्ण्य सिंहलः सोऽभिरोषितः।

पित्रोरेतत् प्रवृत्तान्तं निवेद्य चैवमब्रवीत्॥

तात नेयं सुता राज्ञः भार्यापि च न मे खलु।

दारकोऽयं न मे पुत्रो निर्मितो माययानया॥

राक्षसीयं नराहारा ताम्रद्वीपनिवासिनी।

अस्मानपि समाहर्तुं ताम्रद्वीपादिहागता॥

इति पुत्रोदितं श्रुत्वा तौ मातापितरावपि।

तमात्मजं समालोक्य पुनरेवमभाषताम्॥

सर्वा अपि स्त्रियः पुत्र राक्षस्य एव मायिकाः।

तेनास्या अपराधत्वं क्षन्तुमर्हसि सर्वथा॥

इत्येतत्कथितं ताभ्यां श्रुत्वा स सिंहलः सुतः।

तौ मातापितरौ पश्यन् पुनेरेवमभाषत॥

यद्येषा तात युष्माकमभिप्रेता मनोरमा।

धारयत गृहे ह्येतां यास्याम्यन्यत्र साम्प्रतम्॥

इति पुत्रोदितं श्रुत्वा तौ मातापितरौ पुनः।

आत्मजं तं समालोक्य स्नेहादेवमभाषताम्॥

धास्यामः सुत तामेनां तवैवार्थे गृहे सदा।

यदि ते रुचिता नेयं किमस्माकमनयात्मज॥

इति ताभ्यां कथित्वासौ निष्कासिता बलात्ततः।

सिंहकेशलिनो राज्ञः सकाशं सहसा ययौ॥

तत्र सा सुन्दरी कान्ता सपुत्रा द्वारे सन्निधौ।

समुपासृत्य पश्यन्ती मोहयन्ती समाश्रयत्॥

तां दृष्ट्वा मन्त्रिणोऽमात्याः सर्वे कौतूहलान्विताः

नृपतेः पुरतो गत्वा समीक्ष्यैवं न्यवेदयन्॥

देवातिसुन्दरी कान्ता सकान्तबालकात्मजा।

राजद्वारमुपाश्रित्य संपिष्ठते प्रगल्भिका॥

इति तैर्निवेदितं श्रुत्वा राजा स सिंहकेशली।

प्रवेशयात्र पश्येयमिति तान् मन्त्रिणोऽब्रवीत्॥

१९३

मन्त्रिणस्तथेत्युक्त्वा गच्छन्तः सहसा ततः।

वनितां तां समाहूय प्रावेशयन्नृपालयम्॥

दृष्ट्वा तां सुन्दरी कान्तां राजासौ रागमोहितः।

सुचिरं तां समालोक्य तस्थौ निश्चरितेन्द्रियः॥

ततः स नृपतिः पश्यन् पृष्ट्वा तां कौशलं मुदा।

कुतस्त्वमागता कस्य पुत्रीति पर्यपृच्छत॥

तच्छ्रुत्वा प्रमदा सा तं पश्यन्ती नृपतिं चिरात्।

गलदश्रुविलिप्तास्या प्रणत्वैवमभाषत॥

देव जानीहि मां पुत्रीं ताम्रद्वीपमहीपतेः।

सार्थवाहस्य भार्यार्थं ददौ स नृपतिः स्वयम्॥

तेनापि सार्थवाहेन परिणीतासमादरात्।

ततः संप्रस्थितानेन सहेहागन्तुमुत्सुका॥

अब्धितीरे प्राप्ता नौर्भग्ना यादोऽनिलाहता।

कृच्छ्रात्ततः समुत्तीर्य तीरमासद्य प्राचरन्॥

अमंगलेति कृत्वाहं छोरितानेन जंगले।

तदात्मजमिमं धृत्वा शनैरिह समागता॥

पृष्ट्वाहं सार्थवाहस्य गृहं गत्वा समाश्रिता।

पितृभ्यामपि संत्यक्ता निर्वाहिता गृहाद् बलात्॥

तद्भवच्छरणे राजन् क्षुद्रपुत्राहमागता।

तद्भवान्सिंहलं पौरैं क्षमापयितुमर्हति॥

इति तयोक्तमाकर्ण्य नृपतिः स समीक्ष्य ताम्।

समाश्वास्य समाहूय मन्त्रिण एवमब्रवीत्॥

मन्त्रिणः सार्थवाहं तं सिंहलं सिंहनन्दनम्।

गत्वाहं सहसाहूय समानयत साम्प्रतम्॥

इति राज्ञा समादिष्टं श्रुत्वा ते मन्त्रिणो द्रुतम्।

सिंहलं तं समाहूय नृपस्य समुपानयत्॥

दृष्ट्वा तं समुपायातं सिंहलं स नराधिपः।

सादरं समुपामन्यिं समीक्ष्यैवं समादिशत्॥

१९४

सिंहलं केन भार्येषा त्वया त्यक्ता नृपात्मजा।

क्षमस्वैनां गृहे नीत्वा सात्मजामभिपालय॥

इत्यादिष्टं नरेन्द्रेण श्रुत्वा स सिंहलो वणिक्।

सांजलिस्तं नृपं नत्वा समालोक्यैवमब्रवीत्॥

देव नैषा सुता राज्ञो भार्यापि मे सुतोऽप्ययम्।

राक्षसीयं नराहारा ताम्रद्वीपादिहागता॥

तेनैतत्कथितं श्रुत्वा स राजा रागमोहितः।

सिंहलं तां च समीक्ष्य पुनरेवं समादिशत्॥

सर्वाः स्त्रियोऽपि राक्षस्य एव तत्क्षन्तुमर्हति।

येद्येषा नाभिप्रेता ते त्यक्त्वा मे दीयतां त्वया॥

एतद्राजोदितं श्रुत्वा सिंहलः स वणिक्सुधीः।

नृपतिं तं समालोक्य पुनरेवं न्यवेदयत्॥

राक्षसीयं महाराज न दद्याम् नापि वारये।

भवान् सम्यग्विचार्यैव करोतु ते हितं यथा॥

इति तदुक्तमाकर्ण्य राजा स रागमोहितः।

इत्युक्त्वा सिंहतो धीरः ततः संप्रेस्थितो गृहे॥

त्रिरत्नस्मृतिमाधाय तस्थौ धैर्यसमाहितः।

तां कान्तां ससुतां स्वान्तःपुरे प्रावेशयन्मुदा॥

ततः सा रमणी कान्ता राजानं तं प्रमोहितम्।

रमयन्ती यथाकामैः सुखैर्हृत्वा वशेऽनयत्॥

तयैव सह संरक्तो राजा स कामनन्दितः।

यथाकामं सुखं भुक्त्वा चचार स्वेच्छया रमन्॥

एवं सा राक्षसी नित्यं रमयित्वा यथेच्छया।

नृपतिं तं वशीकृत्य स्वच्छन्दं समचारयत्॥

ततः सा राक्षसी रात्रो राजकुलाश्रितान् जनान्।

नृपतिप्रमुखान् सर्वान् संप्रास्वपितान् व्यधात्॥

कृत्वा सर्वान् प्रसुप्तांस्तान् प्रास्वापनाभिमोहितान्।

ततः सा सहसाकाशात्ताम्रद्वीपं मुदाचरत्॥

१९५

तत्र सा सहसोपेय ताः सर्वा अपि राक्षसी।

पुरतः समुपाहूय समालोक्यैवमब्रवीत्॥

भगिन्यस्तेन युष्माकमेकेन सिंहलेन किम्।

सिंहकेशरिणो राज्ञः सिंहकल्पाभिधे पुरे॥

नृपतिप्रमुखाः सर्वे जना अन्तःपुराश्रिताः।

मया कृताः प्रसुप्तास्ते प्रास्वापनाभिमोहिताः॥

आगच्छत मया सार्धं सहसा तत्र चरेमहि।

नृपतिप्रमुखान् सर्वान् भक्षिष्यामोऽधुना वयम्॥

इति तयोक्तमाकर्ण्य राक्षस्यः सकला अपि।

आकाशात् सहसा गत्वा सिंहकल्पं मुदाचरन्॥

तत्र ताः सहसोपेत्य सर्वा राजकुले स्थितान्।

नृपतिप्रमुखान् सर्वांल्लोकान् मुदा च खादिरे॥

सर्वेऽपि भक्षितास्ताभी राक्षसीभिर्नृपादयः।

जना राजकुलद्वारं नोद्घाटितमुषस्यपि॥

राजकुलोपरि प्रातः पक्षिणः कुणपाशिनः।

गृध्रादयो विरावन्तः प्रभ्रमन्तः प्रेचिरिरे॥

तत्र प्रातः समायाता अमात्या मन्त्रिणो जनाः।

पक्षिणो भ्रमतो दृष्ट्वा तस्थुः सर्वेऽपि विस्मिताः॥

कथं राजकुलं द्वारं नोद्घाटितं च साम्प्रतम्।

भ्रमन्तः पक्षिणोऽनेके इत्युक्त्वा तस्थुरुन्मुखाः॥

तत्प्रवृत्तान्तमाकर्ण्य सिंहलः सहसोत्थितः।

निशितं खड्गमादाय प्राचरत्तत्र सत्वरः॥

तत्र तां जनतां पश्यन्सिंहलः स उपाश्रितः।

गलदश्रुविलिप्तास्यः पुरत एवमब्रवीत्॥

भवन्तः कुणपाहारा भ्रमन्त्यत्र खगा यतः।

तद्राजापि जनाः सर्वे राक्षस्या भक्षिता खलु॥

तदुक्तमिति तच्छ्रुत्वा सर्वेऽपि मन्त्रिणो जनाः।

कथमेवं त्वया ज्ञातमित्यप्राक्षुस्तमादरात्॥



१९६

तच्छ्रुत्वा सिंहलश्चासौ सर्वान्स्तान् मन्त्रिणो जनान्।

समीक्ष्य तत्पुरः स्थित्वा सहसौवमभाषत॥

भवन्तो दीर्घनिःश्रेणिः सहसानीयतामिह।

आरुह्योपरि गत्वाहं पश्याम्यत्र समन्ततः॥

तदुक्तं मन्त्रिणः श्रुत्वा निःश्रेणिं सहसा जनैः।

आनयित्वाशु प्रासादे प्रान्ते समध्यरोपयन्॥

तान् दृष्ट्वा सिंहलः खड्गं धृत्वाभिरुह्य संक्रमन्।

प्रासादोपरि संस्थित्वा त्रासयत्ताः निशाचरीः॥

सिंहलं खड्गपाणिं तं प्रासादोपरि संस्थितम्।

राक्षस्यस्ताः समालोक्य सर्वा भीता विबभ्रमुः॥

तासां काश्चिच्छिरो धृत्वा काश्चित्पादान् भुजान् पराः।

ताः सर्वा अपि राक्षस्यः पलायितास्ततो द्रुतम्॥

ततः सिंहल आलोक्य सर्वास्ता निष्पलायिताः।

प्रासादादवतीर्याशु द्वारं समुदघाटयत्॥

ततस्ते मन्त्रिणोऽमात्या जनाः सर्वेऽपि सैनिकाः।

गत्व समीक्ष्य राजादीन् सर्वान् भुक्तान् विचुक्रुशुः॥

सुचिरं विलपित्वा ते सर्वेऽपि मन्त्रिणो जनाः।

अमात्याः सैनिकाः पौरा विचेरुः संत्रसिताशयाः॥

ततः स सिंहलो दृष्ट्वा सर्वांस्तान् मन्त्रिणो जनान्।

अमात्यान् सैनिकान् पौरान् समामन्त्र्यैवमब्रवीत्॥

भवन्तो मा विचरन्त्यत्र नास्ति काचिन्निशाचरी।

तत्सर्वे समुपाविश्य पश्यन्तां सर्वतः पुनः॥

ततस्ते मन्त्रिणोऽमात्या जनाः संवीक्ष्य सर्वतः।

सर्वराजकुलं सान्तर्बहिस्तं समशोधयन्॥

ततस्ते मन्त्रिणोऽमात्या ब्रह्मणादीन् महाजनान्।

सन्निपात्य प्रजाश्चापि समामर्नयैवमब्रुवन्॥

भवन्तोऽत्र मृतो राजा वंशस्तस्य न विद्यते।

तदत्र कं कृत्वा मिमीमहि वदन्त्विदम्॥

१९७

इति तैर्मन्त्रिभिः प्रोक्तं श्रुत्वा ते ब्राह्मणादयः।

महाजनाः प्रजाश्चापि सर्वेऽप्येवं न्यवेदयन्॥

यः प्राज्ञः सात्विको विरो नीतिशास्त्रविचक्षणः।

दयाकारुण्यभद्रात्मा सर्वधर्महितार्थभृत्॥

तं विधिनाभिंषिंच्यात्र प्रतिष्ठाप्य नृपासने।

सर्वराज्याधिपं कृत्वा प्रमाणयन्तु सर्वदा॥

इति तैः कथितं श्रुत्वा केचिद्विज्ञा महाजनाः।

सर्वेषां मन्त्रिणां तेषां पुरत एवमब्रुवन्॥

सिंहलोऽयं सार्थावाहः सात्विको नीतिवित्कृती।

दयाकारुण्यभद्रात्मा सर्वसत्त्वहितार्थभृत्॥

ईदृग्वीरो महाप्राज्ञो दयाकारुण्यसन्मतिः।

मैत्रीश्रीसद्गुणाधारो नास्ति कश्चिन्महाजनः॥

तदेनं सिंहलं वीरमभीषिंच्य नृपासने।

प्रतिष्ठाप्य नृपं कृत्वाभिमतां सकलैः सह॥

इति तैरुदितं श्रुत्वा तेऽमात्या मन्त्रिणो जनाः।

सर्वेऽप्यनुमतं कृत्वा तथा कर्तुं समारभन्॥

ततस्ते मन्त्रिणोऽमात्या ब्राह्मणाश्च महाजनाः।

सिंहलं तं समामन्यिं पुरत एवमब्रवन्॥

सिंहलात्र यदस्माकं प्रजानामपि संमतम्।

तदनुमोद्य राज्योऽत्र राजा भवितुर्हसि॥

इति तैर्मन्त्रिभिः सर्वैरमात्यैः सुजनैर्द्विजैः।

प्रार्थितं सिंहलः श्रुत्वा तत्पर एवमब्रवीत्॥

भवन्तोऽहं वणिग्वृत्तिव्यवहारोपजीविकः।

तत्कथं राज्यसंभारं संवोढुमभिशक्नुयाम्॥

तदेतन्मम योग्यं न क्षमन्तु तदशक्यताम्॥

यद्योग्यं कर्म तत्रैव योजनीयो हि मन्त्रिभिः॥

इति तेनोदितं श्रुत्वा तेऽमात्या मन्त्रिणो जनाः।

सर्वे तं सिंहलं वीक्ष्य समामन्त्र्यैवमब्रुवन्॥

१९८

भवत्सदृशः सद्बुद्धिर्विर्यवान् सदयः कृती।

सात्विको लोकविख्यातः कश्चिदन्यो न निद्यते॥

यच्चास्य नृपतेर्वंशे विद्यतेऽपि न कश्चन।

तदत्रेदं भवान् राज्यमनुशासितुमर्हति॥

इति तैर्मन्त्रिभिः सर्वैः संप्रार्थितं निशम्य सः।

सिंहलो मन्त्रिणः सर्वान् समालोक्यैवमब्रवीत्॥

भवन्तो यदि मां सर्वे राजानं कर्तुमिच्छथ।

समये नाहमिच्छामि राज्यं समनुशासितुम्॥

इति तेनोदितं श्रुत्वा सर्वे ते मन्त्रिणो जनाः।

अमात्यास्तं महाभिज्ञं समलोक्यैवमब्रुवन्॥

यथा यद्भवताख्यातं समयं तत्तथा खलु।

सर्वे वयं समाधाय चरिष्यामः समाहिताः॥

इति तदुत्तमाकर्ण्य सिंहलः संप्रबोधितः।

सर्वान्स्तान् मन्त्रिणोऽमात्यान् समालोक्यैवमब्रवीत्॥

यद्येतत्सत्यमाधाय सर्वे चरितुमच्छथ।

तथात्र राज्यसंभारं संवोढुमुत्सहेऽप्यहम्॥

तद्भवन्तोऽत्र मे वाक्यं धृत्वा धर्मानुसाधिनः।

त्रिरत्नभजनं कृत्वा चरेयुः सर्वेदा शुभे॥

इत्यनुशासनं धृत्वा मम धर्मासहायीनः।

सर्वेसत्त्वहिताधारे दह्र्मे चरितुमर्हथ॥

इति तेनोदितं श्रुत्वा सर्वे मन्त्रिणो जनाः।

अमात्या द्विजपौराश्च तथेति प्रतिशुश्रुवुः॥

ततस्ते मन्त्रिणोऽमात्या जना द्विजा महाजनाः।

सर्वेऽपि संमतं कृत्वा तं नृपं कर्तुमारभन्॥

ततस्तेऽत्र पुरे सम्यग्छोधयित्वा समन्ततः।

ध्वजछत्राद्यालंकारैर्मण्डनैः समशोधयन्॥

ततस्ते परिशुद्धेऽहिन सिंहलं यथाविधिम्।

अभिषिंच्य महोत्साहैश्चक्रुः लोकाधिपं नृपम्॥

१९९

नृपासने प्रतिस्ठाप्य सर्वे लोकाः समन्त्रिणः।

सिंहलं तं महाराजं संसेविरे समादरात्॥

ततः स सिंहलो राज सर्वांल्लोकान् विनोदयन्।

स्वस्वधर्मे प्रतिष्ठाप्य शशास स्वात्मजानिव॥

तदनुशासनं धृत्वा सर्वे लोका द्विजादयः।

त्रिरत्नभजनं कृत्वा संचेविरे शुभे सदा॥

तदा तस्य प्रभो राज्ये सर्वत्र विषयेष्वपि।

निरुत्पातं शुभोर्साह प्रावर्त्तत निरन्तरम्॥

तथा स मन्त्रिभिः सद्भिः नीतिधर्मविचक्षणैः।

सेव्यमानो महाविज्ञो रराज देवराडिव॥

तत्र स नृपतिर्जित्वा जन्बूद्वीपे महीभुजः।

सर्वान्स्तान् मन्त्रिणोऽमात्यान् समामर्नयैवमादिशत्॥

सज्जीक्रियतामाश्वत्र चतुरंगबलैः सह।

ताम्रद्विपे गमिष्यामि जेतुं ता राक्षसीरपि॥

तदादिष्टं समाकर्ण्य सर्वे मन्त्रिणो जनाः।

चतुरंगबलान्येवं सहसा समसज्जयन्॥

ततः सन्नाह्य स भूमीन्द्रश्चतुरंगबलैः सह।

संप्रस्थितो महोत्साहैस्तीरं प्राप महोदधेः॥

तत्र स तानि सर्वाणि चतुरंगबलान्यपि।

आरोप्य वहनेष्वब्धौ संप्रस्थितो चरन् मुदा॥

तत्र स संतरन् सर्वैश्चतुरंगवलैः सह।

स्वस्तिना सहसाम्बोधेः पारतीरमुपाययौ॥

ताम्रद्वीपे तदा तत्र राक्षसीनां महद्ध्वजः।

रेपित आपणस्थाने कम्पितोऽसूचयद्भयम्॥

तं प्रकम्पितमालोक्य राक्षस्यो भयशंकिताः।

सर्वा एकत्र संमिल्य मिथ एवं समूचिरे॥

भवन्त्य आपणस्थोऽथं ध्वजः प्रकम्पितोऽधुना।

जाम्बुद्वीपनृपा नूनमस्भिर्योद्धुमागताः॥

२००

सज्जीकृत्वा तदस्माभिः स्थातव्यमिह साम्प्रतम्।

इति संभाष्य ता द्रष्टुमब्धितीरमुपाचरन्॥

तत्रस्थाः सकलास्तास्तान् सिंहलादीन् नराधिपान्।

तीरोत्तीर्णान् महोत्साहैर्ददृशुर्योद्धुमागतान्॥

दृष्ट्वा तान् समुपायातान् राक्षस्यस्ता भयान्विताः।

काश्चित् पलायिता भीताः काश्चद्योद्धं समाश्रिताः॥

योद्धं प्रत्युद्गताः काश्चित् काश्चित्तस्थुर्निरीक्ष्य खे॥

तान् प्रत्युद्गतान् दृष्ट्वा सिंहलस्याग़्याया द्रुतम्।

विद्याधरिभिराविष्टा वीरैः शस्त्रैः प्रद्योतिताः॥

अवशिष्टा अभिस्ताः सिंहलस्य नृपप्रभोः।

कृतांजलिपुटा नत्वा पादयोरेवमब्रुवन्॥

क्षमस्व नो महाराज व्रजामः शरणे तव।

तदस्मान् योषितो बाला हन्तुं नार्हति क्षत्रियः॥

इति संप्रार्थितं ताभिः श्रुत्वा स सिंहलः प्रभुः।

समयेन क्षयं व इति ता वीक्ष्याब्रवीत्॥

तच्छुत्वा सकला तास्तं सिंहलं क्षत्रियाधिपम।

सांजलयः पुनर्नत्वा समालोक्यैवमब्रवीत्॥

किं समयं समाख्यातुं भवताभिहितं यथा।

तथा सर्वे वयं धृत्वा चरिष्यामः सदापि हि॥

इतिः ताभिः समाख्यातं निशम्य स नृपः सुधीः।

तां सर्वा राक्षसीः पश्यन् पुनरेवमभाषत॥

यदीदं नगरं त्यक्त्वा सर्वेऽन्यत्राधितिष्ठथ।

मद्विजिते च यद्यत्र नापराध्येथ कस्यचित्॥

तदा युष्माकमेवाहमपराध्यक्षयमेनहि।

तदन्यथा कृते युष्मान् सर्वा हन्यां स संशयः॥

इति तेन समाख्यातं श्रुत्वा ताः सकला अपि।

सिंहलं तं प्रणत्वा च समालोक्यैवमब्रुवन्॥

स्वामिंस्तथा करिष्यामो भवानभिहितं यथा।

तदस्मान् योषिता बालाः संपालयितुमर्हति॥

२०१

इति संप्रार्थ्य सर्वास्ता राक्षस्यः परिबोधिताः।

त्यक्त्वा तद्विषयं गत्वा वनेऽन्यत्र समाश्रयन्॥

तत्र स सिंहलो राजा सामात्या मन्त्रिणो जनाः।

स्थित्वा लोकानधिष्ठाप्य स्वस्वधर्मेऽन्वशासत॥

तत्र ते सकला लोका धृत्वा तन्नुपशासनम्।

त्रिरत्नभजनं कृत्वा स्वस्वर्धं समाचरन्॥

तदैतद्धर्मभावेन सुभिक्षं निरुपद्रवम्।

सद्धर्ममंगलोत्साहं प्रावर्तत समन्ततः॥

सिंहलेन नरेन्द्रेण जित्वा संवासितं स्वयम्।

तेनासौ सिंहलद्वीप इति प्रख्यापितोऽभवत्॥

योऽसौ सिंहलो राजा तदाहमभवं खलु।

यः सिंहकेशरी राजा ज्येष्ठ एव महल्लकः॥

तदाभूद्राक्षसी या सा वेषा एवानुपमा खलु।

यो वलाहोऽश्वराजोऽभूदेषोऽवलोकितेश्वरः॥

तदाप्येवं स लोकेशो बोधिसत्त्वो विलोक्य माम्।

अश्वो भूत्वा समुत्तार्याप्यब्धेरेवं महद्भयात्॥

एवं स त्रिजगन्नाथो बोधिसत्त्वः सदा स्वयम्।

विलोक्य सकलान् सत्त्वान् समुत्तार्य भयादवत्॥

तेनास्य सदृशो धर्मो नास्ति कस्यापि कुत्रचित्।

बुद्धानामपि नास्त्येव कुतोऽन्येषां त्रिधातुषु॥

इत्थमयं महासत्त्वः सर्वलोकाधिपेश्वरः।

सर्वधर्माधिपः शास्ता महाभिज्ञाऽधिराजते॥

तेन लोकाधिपाः सर्वे त्रैधातुकाधिपा अपि।

अस्य शरणमाश्रित्य प्रभजन्ति सदादरात्॥

येऽप्यस्य शरणं कृत्वा भजन्ति सर्वदादरात्।

दुर्गतिं ते न गच्छन्ति संप्रयान्ति सुखावतीम्॥

तत्र गत्वामिताभस्य मुनीन्द्रस्योपसंश्रिताः।

सदा धर्मामृतम् पीत्वा प्रचरन्ति जगद्धिते॥

ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमम्।

निःक्लेशा बोधिमासाद्य संबुद्धपदमाप्नुयुः॥

इति विज्ञाय ये सत्त्वाः समीच्छन्ति जिनास्पदम्।

तस्य लोकाधिनाथस्य भजन्तु शरणाश्रिताः॥

इति शास्त्रा समादिष्टं श्रुत्वा सर्वे सभाश्रिताः।

लोकास्तथेति विज्ञप्य प्राभ्यनन्दन् प्रबोधिताः॥



॥इति सिंहलसार्थवाहोद्धारणप्रकरणं समाप्तम्
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project