Digital Sanskrit Buddhist Canon

१५. श्रीजेताराम विश्वभू दर्शन सुखावती प्रत्युद्गम प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
१५. श्रीजेताराम विश्वभू दर्शन सुखावती प्रत्युद्गम प्रकरणम्



अथ सर्वनीवरणविष्कम्भी स जिनात्मजः।

सांजलिः श्रीघनं नत्वा समालोक्यैवमब्रवीत्॥

भगवन् स महासत्त्वो लोकेश्वरस्ततश्चरन्।

कुत्र सत्त्वान् समुद्धर्तुं संप्रयातस्तदादिश॥

इति तदुक्तमाकर्ण्य भगवन् स मुनीश्वरः।

सभां विष्कम्भिनं तं च समालोक्यैवमादिशत्॥

ततोऽप्यन्तर्हितश्चासौ लोकेश्वरो वियद्गतः।

संभासयन् जगल्लोकं स्थित्वा चैवं व्यचिन्तयत्॥

१५३

जेतारामे विहारेऽद्य सर्वदेवासुरादयः।

लोकाः समेत्य सद्धर्मं श्रोतुं सभासमाश्रिताः॥

अहमपि मुनीन्द्रं तं विश्वभुवं जगद्गुरुम्।

वन्दितुं तस्य धर्मं च श्रोतुं गच्छेयं साम्प्रतम्॥

इति ध्यात्वा स लोकेश्वरः प्रभासयन् समन्ततः।

प्रह्लादयन् जगल्लोकं जेताराममुपाचरत्॥

तत्र स समुपाविश्य संपश्यन्स्तं मुनीश्वरम्।

सर्वावतीं सभां तां च संभासयन्नुपासरत्॥

तं दृष्ट्वा समुपायातं गगनगंज उत्थितः।

उपेत्य तं मुनिं नत्वा सांजलिरेवमब्रवीत्॥

भगवन्नयमायातः कतमस्सुगतात्मजः।

बोधिसत्त्वो जगल्लोकं प्रभासयन् समागतः॥

इति तत्पृष्टमालोक्य विश्वभूः स मुनीश्वरः।

लोकेश्वरोऽयमायात इति पश्यन्स्तमब्रवीत्॥

तत्रोपेत्य स लोकेशो बोधिसत्त्वो विलोकयन्।

त्रिधा प्रदक्षिणीकृत्य विश्वभुवो जगद्गुरोः।

सांजलिः प्रणतिं कृत्वा वामपार्श्वे समाश्रयत्॥

कच्चिते कुशलं काये श्रान्तः क्लान्तश्च मास्यपि।

इत्येवं कुशलं पृष्ट्वापृच्छत् स भगवान् पुनः॥

कुलपुत्र त्वया कुतेर सत्त्वाः समुद्धृताः।

कियन्तो बोधयित्वा च नियुज्य स्थापिता शुभे॥

इति पृष्टे मुनीन्द्रेन लोकेश्वरः स आदितः।

विस्तरेण मुनीन्द्रस्य पुर एवं न्यवेदयत्॥

प्रेतलोकेषु ये सत्त्वाः प्रेताः सूचीमुखादयः।

तेऽपि सर्वे मयोद्धृत्य संप्रेषिताः सूखावतीम्॥

ये चावीचौ निमग्नास्ते सर्वे मया समुद्धृताः॥

कालसूत्रे च ये सत्त्वा ये चापि रौरवाश्रिताः।

हाहे च तपने ये च शीतोदके चये स्थिताः॥

१५४

असिच्छदे च ये सत्त्वाः संवृते चापि ये स्थिताः।

एवमन्यत्र सर्वत्र नरकेषु समास्थिताः॥

तेऽपि सर्वे मयोद्धृत्य संप्रेषिताः सुखावतीम्॥

ये चापि पापिनो दुष्टास्तेऽपि मया प्रयत्नतः।

बोधयित्वा प्रतिष्ठाप्य बोधिमार्गे नियोजिताः॥

तथा कांचनभूम्यां च सत्त्वा येऽधोमुखाः।

अपि ते सर्वेऽपि मया यत्नाद् बोधिमार्गे नियोजिताः॥

तथा रुपमयीभूम्यां सत्त्वाः पुरुषपुंगलाः।

तेऽपि मया प्रयत्नेन बोधिमार्गे नियोजिताः॥

ततश्चायोमयीभूम्यां पाताले निवसन्ति ये।

बलिप्रमुखदैत्याश्च दुर्दान्ता मदमानिनः॥

तेऽपि सर्वे मया यत्नाद् बोधयित्वा प्रसादिताः।

बोधिमार्गे प्रतिष्ठाप्य चारयित्वा जगद्धिते॥

तमोऽन्धकारभूम्यं च ये सत्त्वा यक्षराक्षसाः।

ते सर्वे बोधिमार्गेषु बोधयित्वा नियोजिताः॥

शुद्धावासे देवलोके सुकुण्डलादयोऽमराः।

बोधयित्वा प्रयत्नेन बोधिमार्गे नियोजिताः॥

ततः सिंहलद्वीपे च राक्षस्योऽपि प्रयत्नतः।

बोधयित्वा बोधिमार्गे सर्वाः स्थापिता मया॥

वाराणस्यां च येऽमेध्यनिमग्नाः कृमयोऽपि ते।

सर्वे मया समृद्धृत्य संप्रेषिताः सुखावतीम्॥

ततो मागधिका लोका दुष्टा अपि प्रयत्नतः।

बोधयित्वा बोधिमार्गे नियुज्य पालिता मया॥

एवमन्येऽपि सत्त्वाश्च दुष्टाः पातकिनोऽपि ते।

सर्वे मया समुद्धृत्य संप्रेषिताः सुखावतीम्॥

एवं भूताः पिशाचाश्च प्रेताश्चापि निशाचराः।

सर्वे पापिनो मग्नाः सर्वेषु नरकेष्वपि।

मया समुद्धृत्य संप्रेषिताः सुखावतीम्॥

१५५

तिर्यंचोऽपि सर्वे सद्गतौ स्थापिता मया।

तेऽपि मया समुद्धृत्य संप्रेषिताः सुखावतीम्॥

एवं नागाश्च दैत्याश्च यक्षगन्धर्वकिन्नराः।

कुम्भाण्डा राक्ष्यश्चापि दुष्टा दर्पाभिमानिनः॥

तेऽपि सर्वे प्रयत्नेन बोधिमार्गे मयेरिताः॥

एवं च मानवा दुष्टाः पापिष्ठा अपि यत्नतः।

शोधयित्वा समालोक्य बोधिमार्गे नियोजिताः॥

एवं दिव्यसुखारक्ता देवाश्चापि प्रयत्नतः।

बोधयित्वा मया सर्वे बोधिमार्गे नियोजिताः॥

एवं सर्वेऽपि सत्त्वाश्च त्रैधातुकनिवासिनः।

बोधिमार्गे प्रतिष्ठाप्य प्रेषणीयाः सुखावतीम्॥

एवं सर्वान् समालोक्य समुद्धृत्य समन्ततः।

भवतां दर्शनं कर्तुमिहाहमागतोऽधुना॥

भवतां दर्शनं प्राप्य साफ़ल्यं मे परिश्रमम्।

इतोऽहं भगवंच्छास्ता गमिष्यामि सुखावतीम्॥

भवानिह समाश्रित्य पुण्याभैर्भासयन् जगत्।

सद्धर्मम् सर्वदादिश्य विहरतु जगद्धिते॥

इति तेन समाख्यातं श्रुत्वा स संप्रहर्षितः।

गगनगंज आलोक्य लोकेशमेवमव्रवीत्॥

अहो ईदृक्महाभिज्ञं दृष्टं श्रुतं न कस्यचित्।

संबुद्धानां न विद्यन्ते तत्कस्यान्यस्य विद्यते॥

इत्युक्त्वा स महासत्त्वो गगनगंज उत्थितः।

तस्य लोकेश्वरस्याग्रे सांजलिः समुपाचरन्॥

मा त्वं श्रान्तोऽसि लोकेश कच्चित्ते कौशलं तनौ।

इति पृष्ट्वा पदाम्भोजे नत्वा पश्यन् समाश्रितः॥

इत्येवं तेन संपृष्टे लोकेश्वरो निशम्य ते।

गगनगंजमालोक्य सस्मित एवमब्रवीत्॥

नात्राहं भवतां मध्ये श्रान्तः क्लिष्टोऽपि वा चरे।

भवतां दर्शनेनापि कौशल्यं मम सर्वतः॥

१५६

इति तेन समादिष्तं निशम्य संप्रमोदितः।

गगनगंज आलोक्य तं लोकेशमभाषत॥

सदात्रास्मद्धिते शास्तर्विहरस्व कृपामते।

भवद्धर्मामृतं पीत्वा करिष्यामो जगद्धितम्॥

इति तदुक्तमाकर्ण्य लोकेश्वरो जिनात्मजः।

गगनगंजमालोक्य तं पुनरेवमब्रवीत्॥

नाहं सदेह तिष्ठेयं सर्वत्रापि चरेय हि।

यथा मया प्रतिज्ञातं कर्तव्यं तज्जगद्धितम्॥

सर्वे सत्त्वा मयालोक्य बोधयित्वा प्रयत्नतः।

बोधिमार्गे प्रतिष्ठाप्य प्रेषणीयाः सुखावतीम्॥

तत्सत्त्वान् समुद्धृत्य शोधयित्वाभिबोधयन्।

बोधिमार्गे प्रतिष्ठाप्य गमिष्यामि सुखावतीम्॥

तद्भन्तः सदाप्येवं संबुद्धशरणाश्रिताः।

बोधिचर्याव्रतं धृत्वा विहरन्तु जगद्धिते॥

सदा वो मंगलं भूयात्कार्ये संबोधिसाधने।

संसिध्यतु जगद्भद्रसाधनश्रीः समृद्ध्यतु॥

इत्यादिष्टं जगद्भर्त्रा श्रुत्वा स संप्रहर्षितः।

गगनगंज एनं च समालोक्यैवमब्रवीत्॥

भवतामपि सिध्यन्तु कार्याणि त्रिजगद्धिते।

मंगलं च सदा भूयात् संबोधिश्रीः समृद्ध्यतु॥

इत्येवं तौ महासत्वौ पृष्ट्वान्योन्यं सकौशलम्।

मिथौ भद्राशिषं दत्वा तूष्णीभूत्वावतिष्ठतुः॥

तदासौ भगवांच्छास्ता विश्वभूस्तान् सभाश्रितान्।

सर्वांल्लोकान् समालोक्य सद्धर्मं समुपादिशत्॥

शृण्वन्तु कुलपुत्रा यत्संबोधिज्ञानसाधनम्।

सद्धर्मं तन्मयाख्यातं सत्त्वानां भद्रकारणम्॥

प्रथमं बोधिसत्त्वेन संबोधिज्ञानसिद्धये।

संबोधिं प्रणिधिं कृत्वा कर्तव्यं दानमीप्सितम्॥

१५७

ततो विरम्य पापेभ्यो दशभ्योऽपि समादरात्।

शुद्धशीलं समाधाय चरितव्यं सुसंवरम्॥

ततः क्लेशान् विनिर्जित्य चतुर्ब्रह्मविहारिणः।

क्षान्तिव्रतं सदा धृत्वा चरितव्यं जगद्धितम्॥

ततो धर्ममहोत्साहं धृत्वा सत्त्वार्थसाधने।

पापमित्रारतिं त्यक्त्वा साधनीयं महद्गुणम्॥

ततो दुष्टाशयं त्यक्त्वा कामभोग्यविरागिना।

सुधीरचित्तमाधाय ध्यातव्यं त्रिजगद्धितम्॥

ततो दुर्मित्रसंरागं त्यक्त्वा संबोधिरागिना।

प्रज्ञाब्धौ बोधिसद्रत्नं साधनीयं जगच्छुभे॥

एताः पारमिताः षड् वा पूरयित्वा यथाक्रमम्।

सर्वान् मारगणान् जित्वा संबोधिज्ञानमाप्स्यते॥

तत एवं महाभिज्ञश्रीसंपद्वीर्यसद्गुणैः।

सर्वसत्त्वहितं कृत्वा संबुद्धपदमाप्स्यते॥

एवं यूयं परिज्ञाय संबुद्धत्वं यदीच्छथ।

एवं पारमिताः सर्वाः पूरयध्वं यथाक्रमम्॥

संबोधिप्रणिधिं धृत्वा चतुर्ब्रह्मविहारिणः।

त्रिरत्नभजनं कृत्वा संचरध्वं जगद्धिते॥

एतत्पुण्यानुभावेन सर्वे यूयं जितेन्द्रियाः।

अर्हन्तः प्राप्य संबोधिं संबुद्धपदमाप्स्यथ॥

इत्यादिष्टं मुनीन्द्रेण विश्वभुवा निशम्य ते।

सर्वे लोकाः सभासीनस्तथेत्यभ्यनुमोदिताः॥

विश्वभुवं मुनीन्द्रं तं तन्त्रलोकाधिपेश्वरम्।

कृतांजलिपुटा नत्वा स्वस्वालयं ययुर्मुदा॥

ततो लोकेश्वरो गत्वा खेऽग्निपिण्ड इवोज्जवलन्।

संभासयन् जगल्लोकं द्रुतं सुखावतीं ययौ॥

इत्येवं त्रिजगत्त्रातुर्लोकेशस्य महात्मनः।

विश्वभुवा समादिष्टं महाभिज्ञं मया श्रुतम्॥

१५८

दृष्टं चापि तथा तस्य लोकेशस्य जगत्प्रभोः।

महाभिज्ञानुभावत्वं मया तद्वो निगद्यते॥

एवं तस्य महाभिज्ञं मत्वा यूयं समादरात्।

ध्यात्वा स्मृत्वा समुच्चार्य नामापि भजताभवम्॥

ये तस्य शरणे स्थित्वा ध्यात्वा स्मृत्वापि सर्वदा।

नामापि च समुच्चार्य भजन्ति बोधिमानसाः॥

दुर्गतिं ते न गच्छन्ति कदाचन क्वचिद्भवे।

सदा सद्गतिसंजाताः सद्धर्मगुणसाधिनः॥

भद्रश्रीगुणसंपत्तिसमृद्धिसिद्धिभाविनः।

सदा लोके शुभं कृत्वा प्रान्ते यायुः सुखावतीम्॥

तत्रामिताभनाथस्य पीत्वा धर्मामृतं सदा।

त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयुः॥

इत्यादिष्टं मुनीन्द्रेण श्रीघनेन निशम्य ते।

सर्वे लोकाः सभासीनाः प्राभ्यनन्दन् प्रबोधिताः॥



॥इति श्रीजेतारामविश्वभूदर्शनसुखावतीप्रत्युद्गमप्रकरणं समाप्तम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project