Digital Sanskrit Buddhist Canon

१४. मागधिक सत्त्व प्रबोधनोद्धारण प्रकरण

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
१४. मागधिक सत्त्व प्रबोधनोद्धारण प्रकरण



अथ गगनगंजोऽसौ बोधिसत्त्वः प्रमोदितः।

विश्वभुवं मुनीन्द्रं तं प्रणत्वैवमुवाच च॥

भगवन् स महाभिज्ञः कदेह समुपासरेत्।

इदानीं क्व प्रयातोऽसौ ह्येतदादेष्टुमर्हति॥



इति संप्रार्थिते तेन विश्वभूः स मुनीश्वरः।

बोधिसत्त्वं तमालोक्य सभां चाप्येवमब्रवीत्॥

ततोऽसौ त्रिजगन्नाथो वाराणस्यां विनिश्चरन्।

सत्त्वान् पश्यन् समुद्धर्तुं मगधेऽभिगतोऽधुना॥

१४८

तत्र स समुपाश्रित्य दुर्भिक्षपरिपीडितान्।

नृमांसान्यपि भुंजानान् पिबतो रुधिराण्यपि॥

परस्परं युध्यमानान् महापातकचारिणः।

क्लेशाग्नितापितान् दुष्टान् संपश्यन्ननुपृच्छति॥

कस्माद्यूयमिहान्योन्यं युद्धं कृत्वाविरोधिताः।

नृमांसान्यपि भुक्त्वैवं पीत्वा नृरुधिराण्यपि॥

क्लेशाग्निदहितात्मानो महापातचारिणः।

भूतयक्षा इव क्षुराश्वरथैवमभद्रके॥

इति तत्पृष्टमालोक्य सर्वे ते दुर्जना अपि।

तत्पुण्यांशुपरिस्पृष्टा भवन्ति दमिताशयाः॥

ततः सर्वेऽपि ते तस्य पुरतः समुपाश्रिताः।

तं समीक्ष्य महासत्त्वं निवेदयन्ति तद्वृतिम्॥

साधो यदत्र दुर्भिक्षमहोत्पातं प्रवर्तते।

तन्नात्र विद्यते किंचिदन्नं पानं च भोजनम्॥

विंशतिवर्षंजातो स दहतिः प्रवर्तिता।

तत्क्षुत्तृष्णाग्निसंदग्धाः सर्वेऽतिक्लेशिता वयम्॥

यदेवं क्लेशसंतप्ता दुःसहवेदनातुराः।

निःस्नेहा निर्दयाः क्रूराश्चाण्डालवृत्तिचारिणः॥

तदन्योन्यं निहत्यापि युद्धं कृत्वा दिवानिशम्।

नृमांसान्यपि भुंजानाः पीत्वा नृरुधिराण्यपि॥

कृत्वातिदारुणं कर्म महापातकचारिणः।

स्वात्मानमेव संतृप्य पालयन्तश्चरामहे॥

विंशतिवर्षपर्याप्तं कान्तारमिह वर्तते।

अभक्ष्यान्यपि तद्भुक्त्वा पालयामः स्वजीवितम्॥

तद्भवान् यदि शक्नोति दुर्भिक्षं शमयन्निह।

कृत्वा सुभिक्षमस्माकं त्राता भवितुमर्हति॥

इति तैः कथितं श्रुत्वा बोधिसत्त्वः स ऋद्धिमान्।

गत्वा खे विविधं द्रव्यं प्रवर्षयति सर्वतः॥

१४९

प्रथममौदकं वर्षं प्रवर्तितं समन्ततः।

तद् दृष्ट्वा ते जनाः सर्वे साश्चर्यहर्षिताशयाः॥

तद् मृतं सुखं पीत्वा यथेच्छया प्रमोदिताः।

संतृप्तरिसन्तुष्टा भवन्ति प्रीणीताश्रयाः॥

ततश्चासौ महाभिज्ञो भोग्यानि विविधानि च।

सुपिष्टादीनि खाद्यानि वर्षयति समन्ततः॥

तानि दृष्ट्वा च ते सर्वे समागृह्य यथेच्छया।

प्रभुक्त्वा सुखमासाद्य तिष्ठन्ति विस्मयान्विताः॥

यदाहारेण संतृप्ताः सर्वे ते संप्रमोदिताः।

तदा धान्यादिसर्वाणि व्रीहिशस्यानि वर्षयन्॥

विविधानि च वस्त्राणि द्रव्याणि विविधान्यपि।

सर्वाणि धातुरत्नानि सर्वाणि भूषणानि च॥

वर्षयंस्तत्र सर्वत्र करोति तान् प्रमोदितान्।

तद्दृष्ट्वा सकला लोका भवन्ति विस्मयान्विताः॥

तानि सर्वाणि ते सर्वे दृष्ट्वादाय यथेच्छया।

पूरयित्वा गृहे कोष्ठे भवन्ति प्रतिनन्दिताः॥

यदा तेषामभिप्रायं सर्वेसामनुसिध्यते।

तदा ते नन्दिताः सर्वे समेत्येकान्त आश्रिताः॥

परस्परं समालोक्य साश्चर्यहर्षिताशयाः।

अहो कस्यानुभावोऽयमित्युक्त्वा समुपास्थिताः॥

तदासौ त्रिजगच्छास्ता वृद्धमेकं महल्लकम्।

सुदृष्ट्या समधिष्ठाय प्रेषयन्ति तदन्तिके॥

तत्र स संचरन् वृद्धो जीर्णः कुब्जो महल्लकः।

दण्डपरायणो गत्वा शनैः पश्चन्निषीदति॥

तत्र मध्ये निषीत्वा स वृद्धस्तान् समुपाश्रितान्।

सर्वांल्लोकान् समालोक्य कथयत्येवमानतः॥

किं मन्यध्व इदं भद्रं जातं कस्यानुभावतः।

कस्यापीदृक्प्रभावं हि नास्ति त्रैधातुकेष्वपि॥

१५०

ज्ञायां ह्यनुभावोऽयं लोकेशस्य जगत्प्रभोः।

श्रूयतां वक्ष्यते तस्य प्रभावोऽत्र मयाधुना॥

यो लोकेश्वरो नाम बोधिसत्त्वो जिनात्मजः।

महासत्त्वो महाभिज्ञस्त्रैधातुकाधिपेश्वरः॥

स सर्वेषामपि त्राता नाथः शास्ता हितार्थभृत्।

धर्मश्रीगुणसंपत्तिसुखभर्ता गुरुं प्रभुः॥

अन्धानामपि सन्मार्गं दर्शयति प्रदीपवत्।

सूर्यादितापदग्धानां छत्रीभूतः सुधांशुवत्॥

तृषितानां नदीभूतः क्षुधितानां सुरद्रुमः।

रोगिणां शल्यहृद्वैद्यः माता पिता च दुःखिनाम्॥

नरकाभ्युपपन्नानामुद्धर्ता निर्वृतिप्रदः।

दरिद्रानां प्रदाता च शरण्यं शरणार्थिनाम्॥

अगतीनां गतिर्बन्धुमित्रं द्विपः परायणः।

किमेव बहुनाख्याय सर्वधर्माधिपोऽप्यसौ॥

सुखितास्ते महाभागा भद्राः सद्धर्मलाभिनः।

येऽस्य त्रैधातुनाथस्य स्मृत्वा भजन्ति सर्वदा॥

तेऽपि धन्या महात्मानः सद्धर्मगुणलाभिनः।

येऽस्य नाम समुच्चार्य भजन्ति श्रद्धया सदा॥

ते भवदुःखनिर्मुक्ता निःक्लेशा विमलाशयाः।

पूजांगैः श्रद्धयाभ्यर्च्य भजन्ति ये समादरात्॥

ये चास्य मण्डलं कृत्वं समभ्यर्च्य यथाविधि।

जपस्तोत्रप्रणामाद्यैर्भजन्ते शरणाश्रिताः॥

ते भवन्ति महाराजा नरेन्द्राश्चक्रवर्तिनः।

धर्मश्रीगुणसत्कीर्तिसप्तरत्नसमन्विताः॥

सौम्याः सुगन्धिकायाश्च पूर्णगात्राः शुभेन्द्रियाः।

जातिस्मराः सुभद्रांशाः सद्धर्मगुणसाधिनः॥

एवं तस्य जगत्त्रातुः सद्गुणं वर्ण्यते कथम्।

अप्रमेयमसंख्येमित्याख्यातं मुनीश्वरैः॥

१५१

एवं तस्य महत्पुण्यस्कन्धमहत्तरं वरम्।

यूयं विज्ञाय नामापि स्मृत्वा भजत सर्वदा॥

ये चास्य श्रद्धया नित्यं स्मृत्वा ध्यात्वा समाहिताः।

नामापि च समुच्चार्य भजन्ति शरणाश्रिताः॥

दुर्गतिं ते न गच्छन्ति कदाचिदपि कुत्रचित्।

सदा सद्गतिसंजाता भवन्ति श्रीगुणाश्रयाः॥

कृत्वा भद्राणि सत्त्वानां भुक्त्वा सौख्यानि सर्वदा।

बोधिचर्याव्रतं धृत्वा प्रान्ते यान्ति सुखावतीम्॥

तत्रामितरुचेः शास्तुः पीत्वा धर्मामृतं सदा।

त्रिविधां बोधिमासाद्य निर्वृतिपदमाप्नुयुः॥

इति तेन समादिष्टं श्रुत्वा सर्वेऽपि ते जनाः।

तथेति प्रतिनन्दित्वा व्रजन्ति स्वगृहं ततः॥

सोऽपि महल्लको वृद्धः सद्धर्मगुणविस्तरम्।

समाख्याय समुत्थाय संप्रयाति स्वमालयम्॥

तदा सर्वेऽपि ते लोक मागधिकाः प्रबोधिताः।

लोकेश्चरमनुस्मृत्वा भजन्ति सर्वदा मुदा॥

तदारभ्य सदा तत्र सुभिक्षं संप्रवर्तितम्।

सर्वे सत्त्वा यथाकामं भुक्त्वा चरन्ति सद्वृषे॥

सर्वे ते विमलात्मानश्चतुर्ब्रह्मविहारिणः।

बोधिचर्याव्रतं धृत्वा संचरन्ते शुभे सदा॥

एवं स त्रिजगन्नाथो लोकेश्वरो जिनात्मजः।

सर्वधर्माधिपः शास्ता बोधिसत्त्वः कृपानिधिः॥

स्वयं सत्त्वान् समालोक्य पापिनो दुर्जनानपि।

बोधयित्वा प्रयत्नेन चारयति शुभे व्रते॥

एवं तस्य जगद्भर्तुः पुण्यस्कन्धं महत्तरम्।

अप्रमेयमसंख्येयमित्याख्यातं जिनैरपि॥

तेनासौ त्रिजगन्नाथः सर्वत्रैधातुकाधिपः।

सर्वर्माभिसंभर्ता बोधिश्रीगुणरत्नभृत्॥

१५२

सर्वैर्मुनीश्वरैश्चापि प्रशंसितोऽभिसंष्टुतः।

सर्वैर्लोकाधिपैश्चापि नित्यं स्मृत्वाभिवन्दितः॥

इत्येवं तस्य सद्धर्मगुणमाहात्म्यमुत्तमम्।

विज्ञाय स्मरणं धृत्वा भजन्तु बोधिवांछिनः॥

ये तस्य शरणे स्थित्वा स्मृत्वा ध्वात्वापि चेतसा।

नामोच्चार्याभिवन्दित्वा स्तुत्वा भजन्ति सर्वदा॥

दुर्गतिं ते न गच्छन्ति क्वचिदपि कदाचन।

सदा सद्गतिसंजाता भवन्ति बोधिचारिणः॥

बोधिचर्याव्रतं धृत्वा सर्वसत्त्वहितोद्यताः।

बोधिश्रीगुणसंपन्नाः संप्रयान्ति सुखावतीम्॥

तत्रामितरुचेः शास्तुः पीत्वा धर्मामृतं सदा।

त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयुः॥

इति यूयमपि ज्ञात्वा स्मृत्वा तं त्रिगुणाधिपम्।

ध्यात्वा स्मृत्वाभिवन्दित्वा भजध्वं सर्वदादरात्॥

इत्यादिष्टं मुनीन्द्रेण विश्वभुवा निशम्य ते।

सर्वे लोकास्तथेत्युक्त्वा प्राभ्यनन्दन् प्रबोधिताः॥



॥इति मागधिकसत्त्वप्रबोधनोद्धारणप्रकरणं समाप्तम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project