Digital Sanskrit Buddhist Canon

१२. सिंहलद्वीप राक्षसी परिबोधनोद्धारण प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
१२. सिंहलद्वीप राक्षसी परिबोधनोद्धारण प्रकरणम्



अथ गगनगंजोऽसौ बोधिसत्त्वो जिनात्मजः।

विश्वभुवं मुनीन्द्रं तं पुनर्नत्वैवमब्रवीत्॥

अद्यापि स महासत्त्वो नायाति भगवन्निह।

कदेह समुपागच्छेत् कुत्र गच्छति साम्प्रतम्॥

१४०

इति तेनाभिसंपृष्टे विश्वभूः स सुधाखिरः।

गगनगंजमालोक्य तमेवं पुनरादिशत्॥

ततः संप्रस्थितोऽसौ च लोकेश्वः प्रभासयन्।

सिहंलद्वीप आलोक्य च लोकेश्वर राक्षसीरभिगच्छति॥

दिव्यातिसुन्दरं कामरुपं धृत्वा स भासयन्।

तत्राभिसरते चित्तं राक्षसीनां प्रमोदयन्॥

तमायातं समुपालोक्य प्रौढकामातिसुन्दरम्।

सर्वासां राक्षसीनां तत्कामरागं समुत्थितम्॥

तदा ताः प्रमदाः सर्वा राक्षस्य मदनाकुलाः।

नवयौवनकन्तांगा रतिरुपातिसुन्दराः॥

भूत्वा तं समुपालोक्य पुरतं समुपाश्रिताः।

तत्पादाम्बुरुहे नत्वा बुवत्येवं समादरम्॥

स्वागतं ते भवान् हि कच्चित् सर्वत्र कौशलम्।

संपश्यन् तर्पयास्माकमनुगृहीतुमर्हसि॥

अस्माकं यौवनीनां यत्स्वामी भर्ता पतिः प्रभुः।

कस्या अपि हि नैकोऽपि विद्यते हि कदाचन॥

तदास्माकं भवान् स्वामी भर्ता पतिः प्रभुः सुहृत्।

भवतु नागतिश्चापि त्राता द्वीपः परायणः।

शरण्यं च सदा लोके सन्मार्गदेशकोऽचि च॥

सदा ते शरणे स्थित्वा समादिष्टं तथा त्वया।

तथा सर्वा वयं धृत्वा संचरिष्यामहे मुदा॥

सन्त्यत्र विविधा भोग्या दिव्यामृतरसोत्तमाः।

वस्त्राणि विविधान्येवं विविधभूषणाम्यपि॥

रमणीयास्तडागाश्च क्रीडोद्यानवनानि च।

प्रासादा रमणीयाश्च दीर्घिकाश्च मनोरमाः॥

सन्ति द्रव्याणि सर्वाणि रत्नानि विविधान्यपि।

सर्वोपकरणवस्तूनि सुपथ्यान्यौषधान्यपि॥

एतानीमानि सर्वाणि त्वदधीनानि सर्वदा।

तद्भवान् समुपालोक्य स्वेच्छया दातुमर्हति॥

१४१

यथाकामं सुखं भुक्त्वा सहास्माभिः सदा रमन्।

स्वेच्छया संचरंस्तिष्ठन् वसत्विहैव सर्वदा॥

भवद्वशे समाश्रित्य सर्वा वयं समासरात्।

पूरयित्वाप्यभिप्रायं चरिष्यामो यथासुखम्॥

तदस्माकं भवान् स्वामी भूत्वात्रैव सदा रमन्।

स्थातुमर्हसि राजेव पालयन्नः सुदुःखिताः॥

भवतो भजनं कृत्वा करिष्यामः समीहितम्।

तत्तिष्ठतु सदेहैव मान्यत्र व्रजतु क्वचित्॥

एवं ताभिः समाख्यातं निशम्य स जगत्प्रभुः।

सर्वास्ताः प्रमदाः पश्यन् ब्रवीत्येवं पुरः पुनः॥

यथा मयोपदिष्टं हि युष्माभिः क्रियते यदि।

तथा युष्मद्वशे स्थित्वा चरिष्यामीह सर्वदा॥

यथाकामं सुखं भुक्त्वा युष्माभिः सह सर्वदा।

रमन् सर्वमभिप्रायं पूरयिष्यामि वो ध्रुवम्॥

इति तेन समादिष्टं श्रुत्वा ताः प्रमदा अपि।

सर्वास्तं पुरुषं कान्तं संवीक्ष्यैवं ब्रुवन्ति च॥

त्वदादिष्टं वयं श्रुत्वा न चरिष्यामहे कथम्।

अवश्यं ते वशे स्थित्वा करिष्यामो यथोदितम्॥

तदस्माकं वचः श्रुत्वा भुक्त्वास्माभिः सुखं सह।

यथाकामं रमन्नत्र संचरतां यथेच्छया॥

इति ताभिः समाख्यातं निशम्य स जगत्प्रभुः।

सर्वास्ता राक्षसीः पश्यन् ब्रवीत्येव प्रबोधयन्॥

यदि यूयं मयाख्यातं धृत्वा सर्वाश्चरिष्यथ।

तच्छृणुध्वं समाधाय देशितं वो हितं मया॥

विरम्य दशपापेभ्यो धृत्वा ब्रह्मविहारिकम्।

त्रिरत्नभजनं कृत्वा चरध्वं पोषधं व्रतम्॥

यद्येतद्व्रतमाधाय चरथ सर्वदादरात्।

तदा युष्मद्वशे स्थित्वा तिष्ठेयमिह संरमन्॥

१४२

इति तेन समादिष्टं श्रुत्वा ताः प्रमदा अपि।

सर्वास्तथेति विज्ञप्य कुर्वन्त्येवं च तत्पुरः॥

स्वामिन् यथा त्वयादिष्टं तथा वयं चरेमहि।

तदेतद्विधिमस्माकं समुपादेष्टुमर्हसि॥

इति संप्रार्थितं ताभिनिर्शम्य स जिनात्मजः।

ताः सर्वास्ता बोधिता मत्वा समीक्ष्यैवं ब्रवीति तत्॥

शृणुध्वं यदि वांछास्मिन् युष्माकं सत्सुखे सदा।

व्रतराजविधानं च उपदेक्ष्यामि विस्तरम्॥

आदौ पुण्यसुखोत्साहं धृत्वा शुद्धाशया मुदा।

तीर्थे स्नात्वा विशुद्धांगा प्रावृत्य शुद्धचीवरैः॥

अभ्यर्च्य सद्गुरुं नत्वा त्रिरत्नशरणं गताः।

श्रीमल्लोकेश्वरं ध्यात्वा समभ्यर्च्य यथाविधिम्॥

ततश्चार्घादिकं दत्वा संस्तुत्वा स्तुतिजल्पनः।

अष्टांगैः सादरं नत्वा कृत्वा वापि प्रदक्षिणान्॥

सधातुद्रव्यरत्नादिदक्षिणान् श्रद्धयादरात्।

उपढोक्य समालोक्य कृताजलिपुता मुदा॥

पापानां देशनां कृत्वा धृत्वा पुण्यानुमोदनाम्।

संबोधिप्रणिधिं धृत्वा प्रार्थगेत जगच्छुभे॥

एवं कृत्वा व्रतं नित्यमह्नायामे तृतीयके।

भोग्यं निरामिषं भुक्त्वा कुरुत व्रतपालनाम्॥

एवं नित्यं समाधाय कृत्वा व्रतमिदं सदा।

त्रिरत्नशरणं कृत्वा संचरध्वं जगद्धितं॥

एतत्पुण्यानुभावेन परिशुद्धत्रिमण्डलाः।

सदा सद्गतिसंजाताः सद्धर्मश्रीगुणाशयाः॥

सत्सुखानि सदा भुक्त्वा निःक्लेशा विजितेन्द्रियाः।

सर्वत्र भद्रतां कृत्वा गमिष्यथ सुखावतीम्॥

तत्रामिताभनाथस्य पीत्पा धर्मामृतं सदा।

त्रिविधां बोधिमासाद्य संबुद्धपदमाप्स्यथ॥

१४३

एवं मत्वा महत्पुण्यं पोषधव्रतसंभवम्।

यदीच्छथ सदा भद्रं तच्चरध्वं सदा व्रतम्॥

इत्येवं तत्समादिष्टं श्रुत्वा ताः प्रमदा अपि।

राक्षस्यो मुदिताः सर्वा धर्तुमिच्छन्ति तद् व्रतम्॥

ततस्ताः प्रमदाः सर्वा राक्षस्योऽपि प्रबोधिताः।

यथाविधि समाधाय चरन्ति पोषधं व्रतम्॥

एतत्पुण्यानुभावेन सर्वास्ता विमलाशयाः।

विमुक्तकामसंरागा भवन्ति ब्रह्मचारिकाः॥

तदा तासां च सर्वासां राक्षसीनां मनांस्यपि।

क्लेशदुःखैर्न बाध्यन्तेऽपहारिभिः कदापि च॥

तासामाघाचित्तं च नैवाभिजायते क्वचित्।

दशाकुशलसंरागं कस्याश्चापि न जायते॥

सर्वा श्रद्धानुसारिण्यः सद्धर्मगुणसाधने।

तथा धर्मानुसारिण्यो भवन्ति प्राप्तसंवराः॥

चतुःसत्यागमप्रप्ताः प्राप्तमार्गचतुष्टयाः।

काश्चिच्च श्रोतापतिफ़लप्राप्ताः प्रबोधिताः॥

तथान्याः सकृदागामिफ़लप्राप्ताः काश्चित् सद्धर्मसाधने॥

काश्चिदर्हत्वसंप्राप्ताः परिशुद्धत्रिमण्डलाः।

प्रत्येकां बोधिमन्याश्च काश्चित्संबोधिलालसाः॥

एवं तदुपदेशमासाद्य सर्वास्ताः प्रमदा अपि।

सद्धर्माभिता भद्रा भवन्ति बोधिमानसाः॥

एवं तस्य जगद्भर्तुः प्रसादास्ताः प्रमोदिताः।

शिक्षासंवरमासाद्य प्रचरन्ति जगद्धिते॥

ततस्ता नन्दिताः सर्वाः शास्तारं तमुपस्थिताः।

कृताजलिपुटा नत्वा प्रार्थयन्त्येवमादरात्॥

यद्भवान् स्वयमालोक्य सर्वानस्मान् दुरारतान्।

कृत्या बोधयन् धर्मे नियोजयति सद्गुरो॥

१४४

तदस्माकं भवांच्छस्ता सुहृन्मित्रं च सद्गुरुः।

सद्धर्मं समुपादिश्य सदेह स्थातुमर्हति॥

वयं सर्वा भवच्छिक्षास्तद्भवच्छरणे स्थिताः।

भवता यद्यथादिष्टं तत्करिष्यामहे तथा॥

न पुरा राक्षसीवृत्तिं करिष्यामः कदाचन।

शिक्षासंवरमाधाय चरिष्यामो व्रतं सदा॥

जम्बूद्वीपे यथा मर्त्या विरम्य दशपापतः।

संवृतिसुखभुंजाना जीवन्ति सद्गुणारताः॥

तथा वयं विरम्यात्र दशकुलमार्गतः।

सद्वृतिसुखभुंजाना जीवेम सद्गुणारताः॥

सदैतद् व्रतमाधाय त्रिरत्नभजनारताः।

सर्वं सत्त्वहितं कृत्वा संचरिष्यामहे शुभे॥

तदस्मान् कृपया पश्यन्नेवं चानुग्रहं सदा।

कृत्वा सद्धर्ममादिश्य विहरत्विह मान्यतः॥

इति संप्रार्थितं ताभिः सर्वाभिः स जिनात्मजः।

लोकेश्वरः समाकर्ण्य ता वीक्ष्य वदते पुनः॥

नाहं सदेह तिष्ठेयं सर्वत्रापि सुदुःखिनः।

प्राणिनः स्वयमालोक्य समुद्धर्तुं चरेमहि॥

तदेतत्संवरं धृत्वा यूयमेवं समाहिताः।

त्रिरत्नभजनं कृत्वा सौख्यं भुक्त्वाभितिष्ठत॥

काले कालेऽहमागत्य युष्माकं हितसाधने।

देशयिष्यामि सद्धर्मसंबुद्धपदसाधानम्॥

एवं संबोधयन् सर्वा राक्षसीस्ताः स राक्षसः।

लोकेश्वरो महासत्त्वः संप्रस्थितस्ततो द्रुतम्॥

ततोऽन्तर्हित आकाशे गत्वेन्दुरिव भासयन्।

प्रह्लादयन् जगल्लोकं चरते सत्वहितोत्सुकः॥

तं खे गतं प्रभास्वन्तं दृष्ट्वा ताः सकला अपि।

राक्षस्यो विस्मयोत्पन्नास्तिष्ठन्ति प्रतिनन्दिताः॥

१४५

ततः प्रभृती ताः सर्वा राक्षस्योऽपि समाहिताः।

तच्छिक्षासंवरं धृत्वा संचरन्ते सदा शुभे॥

एवं स त्रिजगन्नाथो राक्षसीरपि बोधयन्।

बोधिमार्गे नियुज्यापि चारयति सदा शुभे॥

एवं तस्य जगद्भर्तुः पुण्यस्कन्धं महत्तरम्।

अप्रमेयसंख्येमित्याख्यातं मुनीश्वरैः॥

तत्तस्य त्रिजगद्गर्तुः शरणं समुपाश्रिताः।

ध्यात्वाप्युच्चार्य नामापि स्मृत्वापि भजताद्भवम्॥

ये तस्य त्रिजगद्भर्तुः श्रद्धया शरणे स्थिताः।

ध्यात्वाप्युच्चार्य नामापि स्मृत्वा भजन्ति सर्वदा॥

ते सदा सद्गतिं यान्तिं न कदाचन।

भद्रश्रीगुणसंपत्तिसमापन्ना भवन्त्यपि॥

सदा सत्त्वहिताधाने सद्धर्मसाधनारताः।

त्रिरत्नभजनं कृत्वा संप्रयायुः सुखावतीम्॥

तत्रामिताभनाथस्य पीत्वा धर्मामृतं सदा।

अर्हन्तो बोधिमासाद्य संबुद्धपदमाप्नुयुः॥

इत्यादिष्टं मुनीन्द्रेण विश्वभुवा निशम्य ते।

सर्वे सभाश्रिता लोकाः प्राभ्यनन्दन् प्रबोधिताः॥



॥इतिसिंहलद्वीपराक्षसीपरिबोधनोद्धरण प्रकरणम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project