Digital Sanskrit Buddhist Canon

११. शुद्धावासिक सुकुण्डल देवपुत्रोद्धारण प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
११. शुद्धावासिक सुकुण्डल देवपुत्रोद्धारण प्रकरणम्



अथ गगनगंजोऽसौ बोधिसत्त्वः कृतांजलिः।

विश्वभुवं मुनीन्द्रं तं नत्वेवं पुनरबवीत्॥

भगवन् स महासत्त्वो लोकेश्वरो जिनात्मजः।

कदेह समुपागच्छेद् द्रक्ष्यते स कथं मया॥

१३४

ततः कुत्र प्रयातोऽसौ समुद्धर्तुं च दुःखितः।

तदुपादिश्य नः सर्वान् प्रबोधयितुमर्हति॥

इति संप्रार्थिते तेन गगनगंजेन सद्धिया।

विश्वभूर्मुनिराजस्तं समालोक्यैवमादिशत्॥

ततोऽसौ कुत्रपुत्रान्तर्हिताग्निवत् प्रभासयन्।

गत्वा विहायासौ शुद्धवासलोकेऽभिगच्छति॥

तत्र स ब्राह्मणं रुपं धृत्वा पश्यन् समन्ततः।

तत्र देवनिकायेषु समुपाचरते दीनवत्॥

तत्र सुकुण्डलो नाम देवपुत्रो दरिद्रितः।

दुःखितः क्लेशाभिन्नात्मा दुर्भगो दीनमानसः॥

तं संपश्यन् समुद्धर्तुं सदृशाभाविताशयः।

शनैस्तस्य गृहद्वारे समुपाश्रित्य तिष्ठति॥

तं द्वारसमुपासीनं विलोक्य स सुकुण्डलः।

कस्त्वं किमर्थमायात इत्येवं परिपृच्छति॥

तेनैवं परिपृष्टेऽसौ ब्राह्मणोऽर्थि सुदुःखिवत्।

निश्वस्यैवं शनैस्तस्य संपश्यन् वदते पुरः॥

ब्राह्मणोऽहं महाभाग दूरदेशादिहागतः।

क्षुत्पिपासाभितप्तोऽस्मि तद्भोज्यं मे प्रदीयताम्॥

तेनैवं याचमानोऽसौ देवपुत्रः सुकुण्डलः।

रुदन् दीनस्वरः पश्यन् वदत्येवं तमानतः॥

ब्राह्मण किं प्रदास्यते किंचिद्वस्तु न मे गृहे।

तत्क्षमस्वापराधं मे प्रार्थयान्यमितो व्रजन्॥

इति तेनोदितं श्रुत्वा वदत्येवं द्विजः स तम्।

किंचिदपि प्रदातव्यं क्षुत्तृष्णाखेदितस्य मे।

यदि न दीयते किंचिदप्यत्र मरणं व्रजे॥

इति तदुक्तमाकर्ण्य देवपुत्रः सुकुण्डलः।

किंचिद्वस्तु गृहे द्रष्टुं प्रविश्य पश्यते श्वसन्॥

तदा तस्य जगद्धर्तुः कृपादृष्ट्यनुभावतः।

तत्र गृहे समुद्भूता महदैश्वर्यसंपदः॥

१३५

तदा तस्य गृहे तत्र काष्ठागारेषु सर्वतः।

भाण्डानि विविधै रत्नैः पूर्णानि सर्वधातुभिः॥

अन्नैश्च भोजनैर्द्रव्यैः पानैर्दिव्यामृतैरपि।

दिव्यचीवरवस्त्रादिसर्वालंकारभूषणैः॥

सुगन्धिद्रव्यपुष्पैश्च परिपूर्णानि सर्वतः।

विलोक्य समुदाश्चर्यसमाकुलितमानसः॥

अहो किमिदमाश्चर्यम् स्वप्नं वा दृश्यते मया।

इति संचिन्त्य भूयोऽपि समीक्ष्यैवं विचिन्तयन्॥

नूनमयं महाभिज्ञः पुरुषो मद्गृहागतः।

यस्य दर्शनभावेन लक्ष्मीर्जाता ममेदृशी॥

इति निश्चित्य चित्तेन देवपुत्रः स नन्दितः।

सहसोपेत्य तम् विप्रं भाषते एवमादरात्॥

नमस्ते ब्राह्मणश्रेष्ठ कश्चित्ते कौशलं तनौ।

प्रविशात्र गृहेऽस्माकमनुग्रहीतुमर्हसि॥

इति तेनोदितं श्रुत्वा ब्राह्मणः स प्रसादितः।

सहसोत्थाय तद्गेहं प्रविशति विलोकयन्॥

तत्र स सुप्रसनात्मा देवपुत्रः सुकुण्डलः।

ब्राह्मणं तं प्रतिष्ठाप्य स्वासने चार्चते मुदा॥

प्रवार्य दूष्यपट्टादिचीवरैः शुष्मकोमलैः।

मण्डयित्वा च सर्वागं सर्वालंकारभूषणैः॥

दिव्यरसाग्रसुस्वादैराहारैरमृतोत्तमैः।

वर्णगन्धरसोदारैर्भोजयति समादरम्॥

तत्सत्कारं समालोक्य ब्राह्मणः स प्रसादितः।

भुक्त्वा भोग्यं यथाकामं ददात्यस्मै शुभाशिषम्॥

स्वस्ति ते मंगलं भूयात्सर्वदापि समन्ततः।

तिष्ठतु ते गृहे लक्ष्मीः सदा सद्धर्मसाधिनी॥

भवतु ते सदा शुद्धं चित्तं सद्धर्मलालसम्।

सिध्यन्तु तेऽभिलाषं च सम्वृतिकार्यसाधनम्॥

१३६

सदैतच्छ्रीसुसंपत्तिसुखं भुक्त्वा हितार्थभृत्।

त्रिरत्नभजनं कृत्वा तिष्ठ चरन् मुदा शुभे॥

अहं गच्छामि जेतर्षेरुद्यने सौगताश्रमे।

विश्वभुवं मुनीन्द्रं संद्रष्टुं वन्दितुमुत्सहे॥

इति तदुक्तमाकर्ण्य देवपुत्रः स विस्मितः।

ब्राह्मणं तं समालोक्य पृच्छते चैवमादरात्॥

कीदृशं तन्महोद्यानं जेतर्षेः सौगताश्रमम्।

कीदृशी रमणीया सा भूमी तद्वद मे द्विज॥

इत्येवं देवपुत्रेण परिपृष्टे निशम्य सः।

ब्राह्मणस्तं समालोक्य वदत्येवं च सादरम्॥

रमणीयं तदुद्यानं जेतर्षः सौगताश्रमम्।

दिव्यसौवर्णरत्नादिनानालंकारमण्डितम्॥

तत्रैनकसमुद्भूता कल्पृक्षा महीरुहाः।

सर्वकुसुमवृक्षाश्च सर्वसत्फ़लशाखिनः॥

अष्टांगगुणसम्पन्नाः जलपूर्णमनोहराः।

अनेकाः पुष्करिण्योऽपि पद्मोत्पलादिशोभिताः॥

तत्रार्हन्तः शुभात्मानो भिक्षवो ब्रह्मचारिणः।

शुद्धशीला महाभिज्ञा दक्षिणीया विचक्षणाः॥

विश्वभुवो मुनीन्द्रस्य श्रावका बोधिचारिणः।

अनेके बोधिसत्त्वाश्च महासत्त्वा महर्द्धिकाः॥

भिक्षुण्यो ब्रहचारिण्यः शुद्धशीला जितेन्द्रियाः।

चैलकव्रतिनश्चापि तथान्येऽपि च सांघिकाः॥

त्रिरत्नभजनारक्ता उपासका उपासिकाः।

विश्वभुवो मुनीन्द्रस्य शासने शरणाश्रिताः॥

सदा धर्मामृतं पीत्वा विहरन्ति समाहिताः।

एवमन्येऽपि लोकाश्च ब्राह्मणस्तीर्थिका अपि॥

राजानः क्षत्रियाश्चैव समन्त्रिजनपौरिकाः।

श्रेष्ठिनः सार्थवाहाश्च महाजनाः शुभार्थिनः॥

१३७

तत्रागत्य समाश्रित्य श्रुत्वा सद्धर्ममादरात्।

त्रिरत्नभजनं कृत्वा विहरन्ति सदा शुभे॥

तथा देवाश्च दैत्याश्च गन्धर्वा अपि किन्नराः।

यक्षाश्च नागराजाश्च गरुडाश्च महोरगाः॥

सिद्धा विद्याधराश्चापि सर्वे लोकाधिपा अपि।

सदा तत्र समागत्य विश्वभुवो जगद्गुरोः॥

सत्कृत्याभ्यर्च्य सद्धर्मं श्रुत्वा तिष्ठन्ति सादरम्॥

एवं तत्र मुनीन्द्रोऽसौ विश्वभूः संप्रदर्शयन्।

प्रातिहार्याणि सद्धर्मं समुपादिश्य तिष्ठति॥

एवं तज्जेतकारामं पुण्यक्षेत्रं मनोरमम्।

सर्वैर्लोकाधिपैश्चापि संसेवितं प्रशासितम्॥

तदत्र साम्प्रतम् सर्वे लोका देवाधिपा अपि।

सद्धर्मं श्रोतुमागात्य तिष्ठन्ति तत्सभाश्रिताः॥

तवापि यदि वांछास्ति तत्र गच्छ समदरात्।

विश्वभुवो मुनीन्द्रस्य सभां पश्च वृषं शृणु॥

तत्सद्धर्मामृतं पीत्पा संबोधिनिहिताशयः।

त्रिरत्नभजनं कृत्वा बोधिचर्याव्रतं चर॥

एतत्पुण्यविशुद्धत्मा परिशुद्धत्रिमण्डलः।

त्रिविधां बोधिमासाद्य संबुद्धपदमाप्स्यसि॥

इति मत्वा समाधाय श्रुत्वा सद्धर्ममादरात्।

त्रिरत्नभजनं कृत्वा तिष्ठ चरन् सदा शुभे॥

इति तेन समादिष्टं निशम्य स सुकुण्डलः।

प्रबोधितस्तथेत्युक्त्वा पृच्छत्येवं द्विजं च तम्॥

अवस्यं सत्यमाख्यातुमर्हसि मे पुरः द्विज।

देवोऽसि मानवो वा त्वं दैत्येन्द्रो वा महर्द्धिमान्॥

कस्यापि विद्यते नेदृक्कृपाधर्मानुभावता।

यथा त्वमिह माम् पश्यन् तथा कोऽन्योऽनुपालयेत्॥

इति तेनोदितं श्रुत्वा ब्राह्मणः स प्रसादितः।

देवपुत्रं तमालोक्य वदत्येवं प्रबोधने॥

१३८

न देवो मानवो नैव दैत्येन्द्रो वापि नास्म्यहम्।

बोधिसत्त्वोऽस्म्यहं सर्वसत्त्वहितार्थसंभरः॥

बोद्धिचर्याव्रतं धृत्वा पश्यन् सत्त्वान् सुदुःखितः।

बोधयित्वा प्रयत्नेन योजयित्वा सुसंवरे॥

एवं सर्वत्र लोकेषु दुःखिनः पापिनोऽप्यहम्।

बोधयित्वा स्वयं पश्यन् योजयेयं सदा शुभे॥

तथहं स्वयमालोक्य सर्वान् सत्त्वान् प्रबोधयन्।

बोधिमार्गे प्रतिष्ठाप्य गच्छे तत्र जिनाश्रमे॥

इति तेन समादिष्टं निशम्य संप्रमोदितः।

स रत्नदक्षिणां दत्वा तस्यैवं च प्रभाषते॥

अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितम्।

यत्राद्य रोपितं वीजमद्य संपद्यते फ़लम्॥

धन्यास्ते पुरुषाः सर्वे ये त्रिरत्नसुभक्तिकाः।

सदा धर्मामृतं पीत्वा संचरन्ते जगद्धिते॥

अहमपि गमिष्यामि जेतारामे जिनाश्रमे।

विश्वभुवं मुनीन्द्रं तं द्रष्टुमिच्छे ससांघिकम्॥

तदहं भवता सार्द्धं तत्र गन्तुं समुत्सहे।

तन्मां नीत्वा मुनीन्द्रं तं संदर्शयितुमर्हति॥

इति संप्रार्थिते तेन ब्राह्मणः स सुकुण्डलम्।

देवपुत्रं तमालोक्य प्रतिब्रवीति बोधयन्॥

अहमन्यत्र लोकेऽपि सत्त्वान् पश्यन् प्रबोधयन्।

बोधिमार्गे नियुज्यैवं गमिष्यामि तदाश्रमे॥

त्वमेव प्रथमं गत्वा तत्र जेताश्रमे वने।

विहारस्थं मुनीन्द्रं तं संदर्शय ससांघिकम्॥

तत्सद्धर्मामृतं पीत्वा संबोधिनिहिताशयः।

त्रिरत्नभजनं कृत्वा संचरस्व सदा शुभे॥

इत्युक्त्वा स महासत्त्वो ब्राह्मणः प्रस्थितस्ततः।

अन्तर्हितः क्षणाद्वह्निरिवाशेऽभिगच्छति॥

१३९

तद् दृष्ट्वा देवपुत्रोऽसौ मुदाश्चर्यकुलाशयः।

नत्वाकाशे मुहुः पश्यंश्चिरेण गच्छते गृहे॥

तत्र सत्त्वालयासीनाः ब्राह्मणं तमनुस्मरन्।

तद्दुपदिष्टमाधाय तिष्ठते संचरेच्छुभे॥

त्रिरत्नभजनं कृत्वा संचरन्ते सदा शुभे॥

एवं स त्रिजगन्नथो लोकेश्वरो जिनात्मजः।

देवानपि प्रयत्नेन बोधयित्वा प्रमोदयन्।

बोधिमार्गे नियुज्यैवं चारयति जगद्धिते॥

एवं तस्य जगद्भर्तुः पुण्यस्कन्धं महत्तरम्।

अप्रमेयमसंख्येयमित्याख्यातं मुनीश्वरैः॥

तत्रास्य त्रिजगद्भर्तुः स्मृत्वापि नाम सर्वदा।

ध्यात्वापि प्रणतिं कृत्वा भजन्तु बोधिवांछिनः॥

ये भजन्ति मुदा तस्य न ते गच्छन्ति दुर्गतिम्।

सदा सद्गतिसंजाताः प्रान्ते यान्ति सुखावतीम्॥

तत्रामिताभनाथस्य पीत्वा धर्मामृतं सदा।

बोधिचर्याव्रतं धृत्वा संयास्यन्ति जिनालयम्॥

इत्यादिष्टं मुनीन्द्रेण श्रुत्वा सर्वे सभाश्रिताः।

लोकास्तथेति विज्ञप्य प्राभ्यनन्दन् प्रबोधिताः॥



॥इति शुद्धावासिकसुकुण्डलदेवपुत्रोद्धरणप्रकरणं समाप्तम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project