Digital Sanskrit Buddhist Canon

९. बलि संबोधन बोधिमार्गावतारण प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
९. बलि संबोधन बोधिमार्गावतारण प्रकरणम्



अथ सर्वनीवरणविष्कम्भी सोऽभिनन्दितः।

भूयस्तं श्रीघनं नत्वा प्रार्थयदेवमादरात्॥

भगवछ्रोतुमिच्छामि भूयोऽप्यस्य जगत्प्रभोः।

सद्धर्मगुणमाहात्म्यं तेन श्रुत्वा स भगवान् पुनः।

विष्कम्भिनं महासत्त्वं तमालोक्यैवमादिशत्॥

ततोऽसौ त्रिजगन्नाथो लोकेश्वरो जिनात्मजः।

सत्त्वान् पश्यन् समुद्धर्तुं पाताले समुपाचरत्॥

तत्र चायोमयी भूमी रसतले सुरालया।

तत्रापि स महाभिज्ञो भासयन् समुपाचरत्॥

यत्र राजा बलिर्नाम सर्वदैत्याधिपोऽपि यः।

बद्धः स वामनः सान्तःपुर जनोऽधितिष्ठति॥

दुर्दान्तं तं महावीर्यं त्रैलोकातिभयंकरम्।

समुद्धर्तुं समालोक्य तत्राविशत् स भासयन्॥

तत्र स रश्मिमुत्सृज्य सर्वत्र संप्रभासयन्।

शनैश्चरन् समालोक्य बलेः सद उपाचरत्॥

तत्र तं समुपायातं सुवर्णबिम्बमिवोज्ज्वलम्।

दुरतः स बलिर्दृष्ट्वा निधायैवं व्यचिन्तयत्॥

कोऽयमत्र समायातो दिव्यकान्तिः प्रभसयन्।

महेश्वरोऽथवा सूर्यश्चन्द्रो वापि हुताशनः॥

८४

कोऽन्य ईदृक्प्रभाश्रीमान् देवो वा दानवोऽपि वा।

गन्धर्वो किन्नरो वापि नागो वा गरुडोऽपि वा॥

ईदृग्महर्द्धिकः श्रीमान्नास्ति त्रैधातुकेष्वपि॥

बोधिसत्त्वोऽथवार्हन् वा मुनीन्द्रो वा समागतः॥

इत्येवं चिन्तयन् द्रष्टुं स वामनासुरैः सह।

सर्वपरिजनैश्चासौ बलिस्तं समुपाचरत्॥

पश्यन्तं स बली राजा समीक्ष्यैनं जिनात्मजम्।

लोकेश्वरं महासत्त्वं विज्ञाय संप्रमोदितः॥

सहसा समुपासृत्य कृतांजलिपुटो मुदा।

तस्य पादाम्बुजे नत्वा संपश्यन्नेवमब्रवीत्॥

अद्य मे सफ़लं जन्म भवत्संदर्शनोद्भोवे।

अधुना प्रणिधानं च संसिध्यते मनोरथम्॥

अस्य मे शुध्यतेऽप्यात्मा मुच्यते सर्वपापतः।

मुक्तोऽस्मि बन्धनादद्य प्राप्तवान् सुगतेः पथः॥

यद्भवान् स्वयमालोक्य मामुद्धर्तुमिहागतः।

संदृश्यते मय ह्यद्य तन्मे पुण्यविपाकतः॥

भवन्तं येऽपि पश्यन्ति पुण्यवन्तो नरा हि ते।

भवन्ति श्रीसुखापन्नाः सर्वक्लेशविवर्जिताः।

ते सत्त्वाः सुखिनो लोके परिशुद्ध विकल्मषाः॥

भवचारणमुक्ता ये दृश्यन्ते भवतो भवे।

भवतां दर्शनेनैवं मुक्तोऽस्मि भवबन्धनात्।

क्लेशादयः पलायन्ते गरुडस्येव पन्नगाः।

भवानेव जगन्नाथः शास्ता सद्धर्मदेशकः।

त्राता भर्ता शरण्येऽपि नास्त्यन्यो मे सुहृद्गतिः॥

तद्भवान् कृपयालोक्य मामुद्धृत्य भवोदधेः।

सन्मार्गे संप्रतिस्थाप्य संपालयितुमर्हति॥

इति संप्रार्थ्य दैत्येन्द्रः स बलिः सांजलिः पुनः।

प्रणत्वा तं जगन्नाथं सादरात् स्वपुरेऽनयत्॥

८५

तत्र तं स्वपुरे नीत्वा महोत्सवैः प्रमोदनैः।

अन्तःपुरे सुभास्वर्णरत्नपीठे न्यवेशयत्॥

तत्र तं संप्रतिष्ठाप्य राजा संमोदितो बलिः।

सान्तःपुरजनैः सार्धं यथाविधि समर्चर्यत्॥

महद्राजर्द्धिसत्कारैः सत्कृत्य प्रभजन् मुदा।

पादाब्जे प्रणतिं कृत्वा प्रार्थयदेवमादरात्॥

भगवंस्त्रैधातुनाथोऽसि यदत्र स्वयमागतः।

तदस्मान् कृत्पयालोक्य सर्वान् संत्रातुमर्हसि॥

त्राता न विद्यतेऽस्माकं दशाकुलचारिणाम्।

जरामरणभीतानां क्लेशाग्निदहितात्मनाम्॥

भवाब्धश्रमखिन्नानां नित्यमुद्विग्नचेतसाम्।

अनाथानामबन्धूनां भव माता पिता सुहृत्॥

एषां बन्धनबद्धानां जात्यन्धानां दुरात्मनाम्।

मूढानां च शुचित्तानां भव क्लेशापहो गतिः॥

नाथो भव जगन्नाथः शास्ता सद्धर्मदेशकः।

शरण्यं सद्गुरुर्मित्रं त्राता भर्ता हितार्थभृत्॥

यथा भवान् जगल्लोकं निवार्य पापमार्गतः।

धर्ममार्गे प्रतिष्ठाप्य पालयति विलोकयन्॥

तथास्मानपि पापिष्ठान्निवार्य पापपद्धतेः।

नियुज्य सहसे पश्यन् पालयितुं सदार्हसि॥

कृपयास्मान् दुरासक्तान् समुद्दृत्य भवोदधेः।

संबोधिसाधने धर्मे नियोजयतु बोधयन्॥

इति संप्रार्थितं तेन बलिना भद्रवांछिना।

श्रुत्वा लोकेश्वरश्चैनं बलिं दृष्ट्वैवमादिशत्॥

साधु शृणु समाधाय दैत्याधिप समादरात्।

हितार्थं ते प्रवक्ष्यामि यद्धर्मं बोधिसाधनम्॥

संसारे सर्वदा भद्रं सौख्यं भोक्तुं यदीच्छसि।

त्रिरत्नस्मरणं कृत्वा भज नित्यं समाहितः॥

८६

त्रिरत्नशरणं कृत्वा ये भजन्ति सदा भवे।

दुर्गतिपरिमुक्तास्ते गछन्ति सद्गतिं सदा॥

सद्गतावेव संजाताः सद्धर्मसाधनोद्यताः।

पुण्यश्रीगुणसत्सौख्यं भुक्त्वा यान्ति जिनालयम्॥

त्रिरत्नभजनोत्पन्नं पुण्यफ़लं महद्बहु।

अप्रमेयसंख्येयं संबोधिज्ञानसाधनम्॥

एवं विज्ञाय दैत्येन्द्र संबोधिं यदि वांछसि।

धर्मधातुं समभ्यत्च्य भज नित्यं समाहितः॥

धर्मधातुं समभ्यर्च्य ये भजन्ति सदादरात्।

विमुक्तपातकाः सर्वे गच्छन्ति ते जिनालयम्॥

सद्धर्मान् च सदा श्रुत्वा सत्कृत्य श्रद्धयादरात्।

अभ्यर्च्य शरणं कृत्वा भज नित्यं समाहितः॥

सद्धर्मं ये सदा श्रुत्वा सत्कृत्य श्रद्धयादरात्।

गत्वा शरणमभ्यर्च्य भजन्ति संप्रमोदिताः॥

ते सर्वे क्लेशनिर्मुक्ताः परिशुद्धत्रिमण्डलाः।

बोधिसत्त्वा महाभिज्ञाः संयान्ति सुगतालयम्॥

संघरत्नानि येऽभ्यर्च्य श्रद्धया शरणं गताः।

सत्कारैः समुपस्थाय भजन्ति सर्वदा मुदा॥

तेऽपि क्लेशविनिर्मुक्ताः शुद्धाशयाः शुभोद्यताः।

महासत्त्वाः शुभोत्साहं भुक्त्वा यान्ति सुखावतीम्॥

श्रद्धया योऽर्हते पिण्षपात्रामेकं प्रयच्छति।

तस्य पुण्यमसंख्येयमप्रमेयं जगुर्जिनाः॥

सर्वेषामपि पुण्यानां शक्यते मया।

एतत्पुण्यप्रमानं तु शक्यते न जिनैरपी॥

सर्वत्रैधातुकोत्पन्नाः सत्त्वाश्चेत्सुगतात्मजाः।

तेऽप्येतत्पुण्यसंख्यानां प्रमातुं नैव शक्नुयुः॥

प्रागेवाहमिहैकोऽस्मिन् तत्कथं शक्नुयामिदम्।

पुण्यस्कन्धं समाख्यातुं यन्न शक्यं जिनैरपि॥

८७

चूर्णीकृत्य महीं सर्वां कृत्वा चानुरजोमयम्।

तत्सर्वं गणितुं शक्यं सर्वैबुद्धर्मयापि च।

नतु त्रिरत्नसत्कारे पुण्यस्कन्धं कदाचन।

प्रमातुं शक्यते सर्वैर्मुनीश्वरैर्मयापि च॥

सर्वेषामुदधीनां च नदीनां च जलान्यपि।

बिन्दुसंख्याप्रमाणेन गणितुं शक्यते मया॥

मेरुप्रमाणभूर्जेषु संपूर्णमक्षरं लिखेत्।

तदक्षराणि सर्वाणि संख्यातुं शक्यते मया॥

सर्वेस्वपि समुद्रेषु सर्वास्वपि नदीषु च।

यावत्यो वालुकास्तासां संख्यातुं शक्यते मया॥

सर्वेषामपि जन्तूनां चतुर्द्विपनिवासिनाम्।

देहजानि च लोमानि संख्यातुं शक्यते मया॥

सर्वेषामपि वृक्षाणां चतुर्द्वीपमहीरुहाम्।

शस्यानामपि पत्राणि संख्यातुं शक्यते मया॥

प्रवर्षज्जलधराणां वर्षैकस्य निरन्तरम्।

तद्बिन्दुपरिसंख्याभिः प्रमातुं शक्यते मया॥

नतु त्रिरत्नसत्कारपिण्डपात्रादिदानजम्।

पुण्यस्कन्धमसंख्येयं प्रमातुम् शक्यते मया॥

यदि सर्वेऽपि सत्त्वाश्च दशभूमिप्रतिष्ठिताः।

बोधिसत्त्वा महासत्वा भवेयुर्ब्रह्मचारिणः॥

यावत्तेषां महत्पुण्यं संबोधिग़्यानसाधनम्।

ततोऽपि हि महत्पुण्यं त्रिरत्नं संप्रादानजम्॥

किमेवं बहुना प्रोक्ता सर्वेरपि मुनीश्वरैः।

यत्संख्यातुं प्रमातुं च शक्यते न कदाचन॥

तत्कथमहमेकोऽत्र संख्यातुं शक्नुयामपि॥

अप्रेमेयमसंख्येयमित्येवं परिबुध्यताम्॥

एतदेव महत्पुण्यं न क्षिणोति कदाचन।

सर्वसत्त्वहिताधानसद्धर्मगुणसाधनम्॥



८८

भद्रश्रीसुखसंपत्तिसंस्थितिसंप्रदायकम्।

सर्वक्लेशाग्निसंतापहरं संबोधिसाधनम्॥

एवं महत्फ़लं मत्वा त्रिरत्नं सर्वदा स्मरन्।

ध्यात्वा स्तुत्वा प्रणत्वापि भज नित्यं समाहितः॥

ये त्रिरत्नं सदा नित्यं श्रद्धया समुपाश्रिताः।

स्मृत्वा ध्यात्वापि तुष्टाश्च प्रणत्वापि भजन्त्यदि॥

सर्वे ते विमालात्मानः परिशुद्धेन्द्रियाशयाः।

निःक्लेशाः सद्गुणाधाराश्चतुर्ब्रह्मविहारिणः॥

धर्मश्रीगुणसंपत्तिशुभोत्साहसुखारताः।

बोधिसत्त्वा महासत्त्वा भविष्यन्ति जिनात्मजाः॥

ततः पारमिताः सर्वाः पूरयित्वा यथाक्रमम्।

जित्वा मारगणान् सर्वान्निःक्लेशा विमलेन्द्रियाः॥

अर्हन्तः त्रिजगत्पूज्या महाभिज्ञा विनायकाः।

त्रिविधां बोधिमासाद्य सम्बुद्धपदमाप्नुयुः॥

इति सत्यं समाख्यातं सर्वैरपि मुनीश्वरैः।

मत्वा तस्मात्त्रिरत्नस्य भज बोधिं यदीच्छसि॥

इति तेन जगच्छास्ता समादिष्टं निशम्य सः।

बलिर्दैत्याधिपः पश्यन् विस्मयं समुपाययौ॥

अथासौ चितयन् यज्ञदानादिप्रकृतं स्वकम्।

गलदश्रुमुखः पश्यंल्लोकेश्वरं तमब्रवीत्॥

भगवन् कीदृशं कर्म मूढेन प्रकृतं मया।

येनेहापि मया प्राप्तं बन्धनं स्वजनैः सह॥

हा मया कुधिया यज्ञं तीर्थिकसंमतं कृतम्।

यत्फ़लेनाहमत्रैवं बन्धितः सजनोऽधसि॥

अहो बौद्धेषु यद्दानं प्रकृतं तत्फलं शुभम्।

येनेह भद्रसंपत्तीर्भुक्त्वान्ते याति निर्वृतिम्॥

हा मूढेन कृत तीर्थिकशासने मया।

येनेहैवं महद्दुःखं प्राप्तं स्वजनैः सह॥

८९

यदा मया जगन्नाथ समारभ्य महन्महम्।

सर्वार्थिभ्यः ससत्कारं दानं दत्तं यथेप्सितम्॥

तदा वामन आगत्य ब्रह्मचारी ममाग्रतः।

द्विपदमात्रसंस्थानं पृथिव्यां समयाचयत्॥

तच्छ्रुत्वा दानरक्तेतन मया मानातिमानिना।

तृतीये पदसंस्थानं दत्तं तस्मै महीतले॥

मया प्रदत्तमादाय स्वस्तिवाक्यमुदीरयन्।

वामनः स महन्मूर्त्तिं धृत्वातिष्ठत् पुरो मम॥

स त्रिपादो महद्भूतो भीमरुपो महर्द्धिमान्।

धृत्वा त्रैविक्रमीं मूर्त्तिं पश्यन् मामेवमब्रवीत्॥

देहि मे यत्त्वया दत्तं तृतीयस्य पदस्य मे।

स्थानं न विद्यते कुत्र स्थापयेयमिदं वद॥

एकं न्यस्तं मयाकाशे द्वितीयं च महीतले॥

तृतीयं मे पदं कुत्र स्थापयेथा त्दं वद॥

इति तेनोदितं श्रुत्वा लज्जितो प्रविषर्णधिः।

किंचिद्वक्तुशक्तोऽहमतिष्ठं मूढमानसः॥

तदा स विष्णुरालोक्य मामवमवदत्पुनः।

यत्राहं स्थापयिष्यामि तत्र संस्थापयेद् ध्रुवम्॥

इति तदुक्तमाकर्ण्य तदाहमवदंस्तथा॥

त्वया संस्थाप्यते यत्र तत्र संस्थापयाम्यहम्॥

इति सत्यं मया प्रोक्तं श्रुत्वा स संप्रहर्षितः।

मूर्धनि मे तृतीयेन पादेनाक्रम्य विक्रमी॥

मामिहाधसि पाताले सान्तःपुरजनान्वितम्।

सबन्धुसानुगं चापि बन्धने स्थापयत्यसौ॥

यन्महादारुणं पापं निर्दयेन मया कृतम्।

तेनात्र बन्धनं प्राप्तं सान्तःपुरजनैः सह॥

दत्वार्थिभ्योऽपि सर्वेभ्यः सर्वोपकरणान्यपि।

यथाभिवांछितं द्रव्यं गजाश्वरथवाहनम्॥

९०

कुक्षत्रे यत्कृतं दानमेतत्फलमिहाश्यते।

हा मया किं कृतं श्रुत्वा तीर्थिकशासनम्॥

एवं भद्रफ़लं पुण्यं त्रिरत्नभजोनोद्भवम्।

मया न श्रूयते क्वापि ज्ञायते नैवमुत्तमम्॥

हाहं तीर्थिकैर्दुष्टैवशीकृत्वाभिवांछितः।

प्रतारितोऽप्यसद्धर्मे प्रापितोऽत्रापि बन्धने॥

ईदृशं सत्फ़लं पुण्यं भद्रश्रीबोधिसाधने।

सुक्षत्रे दानसंभूतं नश्रुतं न मतं मया॥

यदीदृशं महत्पुण्यं भद्रश्रीबोधिसंप्रदम्।

न ज्ञातं तत्त्रिरत्नानां प्राभजिष्यन् सदा भवे॥

तन्मया भगवन् ज्ञातं श्रुत्वेदं भवतोदितम्।

तत्सदैव त्रिरत्नानां शरणस्थो भजाम्यहम्॥

तद्भवान् समुपाख्यातु त्रिरत्नभजने विधिम्।

अद्यारभ्य सदाप्येवं चरिष्याम्यहमाभवम्।

तथाहं भगवन् बुद्धरत्नस्य शरणे स्थितः।

यथाविधि समभ्यर्च्य भजानि सर्वदाभवम्॥

तथा च धर्मरत्नानां शरणे समुपस्थितः।

सत्कृत्य श्रद्धया गौण्यं श्रुत्वा भजानि सर्वदा॥

तथा य संघरत्नानां शरणे सर्वदा स्थितः।

तथार्हभोजनैश्चापि सत्कृत्य प्रभजाम्यहम्॥

यथात्र भवतादिष्टं संचरिष्ये तथा खलु।

संबोधिसाधनं धर्मं समुपादेष्टुमर्हति॥

इति तदुक्तमाकर्ण्य लोकेश्वरः स सर्ववित्।

प्रबोधितं तमालोक्य दैत्येन्द्रमेवमादिशत्॥

साधो बलेऽसुरेन्द्रोऽसि तच्छ्रिणुष्व समाहितः।

हितार्थं ते प्रवक्ष्यामि यदि सद्धर्ममिच्छसि॥

आदौ विरम्य पापेभ्यो दुष्टमित्राद्दूरगतः॥

सन्मित्रं समुपाश्रित्य चर भद्र समाहितः॥

९१

ततः श्रद्धाशयो धीरश्चतुर्ब्रह्मविहारिकः।

त्रिरत्नभजनं कृत्वा बोधिचर्याव्रतं चर॥

सौगतेभ्यस्तथार्थिभ्यः श्रद्धया मानयन् मुदा।

संबोधिप्रणिधानेन कुरुष्व दानमीप्सितम्॥

संबोधिप्रणिधानेन यद्धानं श्रद्धया कृतम्।

तत्फ़लं हि महत्सिद्धं संबुद्धपदसाधनम्॥

ततोऽन्यत्प्रणिधानेन यद्दानं प्रकृतं मुदा।

तत्कलं श्रीमहत्सौख्यं दद्यान् नैव तु सौगतम्॥

तत्त्रिरत्नमनुस्मृत्वा संबोधिनिहिताशयः।

ददस्व श्रद्धया दानं बौद्धं पदं यदीच्छसि॥

एवं दत्वा सदा दानं बोधिचित्तो जितेन्द्रियः।

शुचिशीलसमाचारश्चरस्व पोषधं व्रतम्॥

व्रतं विना न शुध्येत त्रिकायं महतामपि।

तद्बोधिप्रणिधानेन चरष्व सौगतं व्रतम्॥

एवं व्रतं सदा धृत्वा चतुर्ब्रह्मविहारधृक्।

संबोधिप्रणिधानेन क्षान्तिव्रतं समाचर॥

कृत कल्पसहस्त्रैर्यद्दानं त्रिरत्नसाधनम्।

क्लेशोत्थितो जगद्दुष्टः क्रधो हन्ति क्षणेन तत्॥

तत्क्लेशारीन् जगद्दुष्टान् क्रोधमूलान् विनिर्जयन्।

संबोधिप्रणिधानेन सत्त्वे क्षमाव्रतं चर॥

केवलं क्षमया नैव सद्धर्मगुणसाधनम्।

विना वीर्यसमुत्साहम् सिध्यते बोधिसंवरम्॥

तत्कौधीद्यं समुत्सृज्य संबोधिनिहिताशयः।

धृत्वा वीर्यसमुत्साहं चर भद्रार्थसाधने॥

न हि वीर्यं विनाकार्यं सिध्यते सुधियामपि।

तस्माद्वीर्यं समाधाय संबोधिकृतनिश्चयः॥

स्वपरामहिताधानं सद्धर्मरत्नमर्जय।

दुर्बुद्धेर्हि महोत्साहं वीर्यं न साधयेच्छुभम्॥

९२

स्वपरात्महितोत्पातमेव कुर्यात् सदारिवत्।

तद्धैर्यसुमतिं धृत्वा संबोधिध्याननिष्ठितः॥

सर्वसत्त्वहिताधानं सद्धर्मरत्नमर्जय।

प्रज्ञाविरहितो नैव ध्यानाहितोऽपि सिध्यते।

तत्सत्प्रज्ञामहारत्नमर्जय त्रिजगद्धिते॥

एतद्धि परमोपायं संबोधिज्ञानसाधने।

विज्ञाय त्वं सदा सत्त्वहितार्थे चर सद्व्रतम्॥

तदा त्वं बोधिसत्त्व स्याः सर्वसत्त्वहितार्थभृत्।

भद्रचारी महाभिज्ञो महासत्त्वो जिनात्मजः॥

इति बौद्धपदं प्राप्तुं यदीच्छसि जगद्धिते।

बोधिचित्तं महारत्नं प्राप्तुं रत्नत्रयं भज॥

त्रिरत्नभजनोत्पत्रपुण्यरत्नानुभावतः।

बोधिचित्तं महारत्नं प्राप्स्यते जगद्धिते॥

इति तेन जगच्छास्त्रा समादिष्टं निशम्य सः।

बलिः प्रबोधितो बोधिचर्याव्रतं समैच्छत॥

ततः स बलिरालोक्य तं लोकेशं जिनात्जम्।

सांजलिः प्रणतिं कृत्वा प्रार्थयच्चैवमादरात्॥

भगवंस्त्रिजगन्नाथो भवानेव जगद्गुरुः।

समुद्धर्ता सुहृन्मित्रं कश्चिन्नैवापरो मम॥

तदाज्ञां भवतां धृत्वा शिरसाहं समाहितः।

त्रिरत्नभजनं कॄत्वा संचरिष्ये सुसंवरम्॥

तच्चित्तरत्नसंप्राप्त्यै सर्वान् बुद्धान् मुनीश्वरान्।

धर्मरत्नं च संघांश्च शरणं गच्छामि सर्वदा॥

तेषां पूजां करिष्यामि श्रद्धया समुपस्थितः।

धर्में श्रुत्वा च संघानां दास्ये यथार्हं भोजनम्॥

अद्यारभ्य सदा तेषां मुनीन्द्राणामुपासकः।

यथाविधि व्रतं धृत्वा चरिष्यामि जगद्धिते॥

सच्चित्तरत्नग्रहणाय सम्यक्पूजां करोम्येष तथागतानाम्।

सद्धर्मरत्नस्य च निर्मलास्य बुद्धात्मजानां च गुणाकराणाम्॥

९३

यावन्ति पुष्पाणि फ़लानि चौवं भैषज्यजातानि च यानि सन्ति।

रत्नानि यावन्ति च सन्ति लोके जलानि च स्वच्छमनोरमाणि॥

महीधरा रत्नमयास्तथान्ये वनप्रदेशाश्च विवेकरम्याः।

लताः सुपुष्पाभरणोज्ज्वलाश्च दुमाश्च ये सत्फ़लनम्रशाखाः॥

देवादिलोकेषु च गन्धधूपाः कल्पद्रुमा रत्नमयाश्च वृक्षाः।

सरांसि चाम्भोरुहभूषनानि हंसस्वनात्यन्तमनोहराणि॥

अकृष्टजातानि च शस्यजातान्यन्यानि वा पूज्यविभूषणानि।

आकाशधातिप्रसरावधीनि सर्वान्यपीमान्यपरिग्रहानि॥

आदाय बुद्धया मुनीपुंगवेभ्यो निर्यातयाम्येष सपुत्रकेभ्यः।

गृह्णन्तु तन्मे वरदक्षिणीया महाकृपा मामनुकम्पमानाः॥

अपुण्यवानस्मि महादरिद्रः पूजार्थमन्यन्मम नास्ति किंचित्।

अतो ममार्थय परार्थचिन्ता गृणन्तु नाथा इदमात्मशक्त्या॥

ददामि चात्मानमहं जिनेभ्यः सर्वेण सर्वं च तदात्मजेभ्यः।

परिग्रहं मे कुरुताग्रसत्त्वा युष्मासु दासत्वमुपैमि भक्त्या॥

परिग्रणास्मि भवत्कृतेन निभीर्भवे सत्त्वहितं करोमि।

पूर्वं च पापं समतिक्रमामि नान्यच्च पापं प्रकरोमि भूयः॥

सबुद्धधर्मसंघेषु चैत्येषु प्रतिमासु च।

पुष्परत्नादिवर्षाश्च प्रवर्तन्तां निरन्तरम्॥

बोधिसत्त्वा महासत्त्वाः पूजयन्ति यथा जिनान्।

तथा सर्वान् मुनीन्द्रांस्तान् सपुत्रान् पूजयाम्यहम्॥

स्वरांगसागरैः स्त्रोत्रैः स्तौमि चाहं गुणोदधीन्।

स्तुतिसंगीतिमेघाश्च संभवन्त्येष्वनन्यथा॥

सर्वक्षत्राणुसंख्यैश्च प्रणामैः प्रणमाम्यहम्।

सर्वांस्त्र्यध्वगतान् बुद्धान् सहधर्मगणोत्तमान्॥

सर्वचैत्यानि वन्देऽहं बोधिसत्त्वाश्रयानपि।

नमस्करोम्युपाध्यायानभिवन्द्यान् यतींस्तथा॥

बुद्धं गच्छामि शरणं यावदाबोधिमण्दतः।

धर्मं गच्छामि शरणं बोधिसत्त्वगणांस्तथा॥

९४

विज्ञापयामि संबुद्धान् सर्वदिक्षु व्यवस्थितान्।

महाकारुणिकांश्चापि बोधिसत्त्वान् कृतांजलिः॥

अनादिगतिसंसारे जन्मन्यत्रैव वा पुनः।

यन्मया पशुना पापं कृतं कारितमेव वा॥

यच्चानुमोदितं किंचिदात्मघाताय मोहिनः।

तदत्ययं देशयाम्यत्र पश्चात्तापेन तापितः॥

रत्नत्रयेऽपकारो यो मातापितृषु वा मया।

गुरुष्वन्येषु वा क्षोपात्कायवाग्बुद्धिभिः कृतः॥

अनेकदोषदुष्टेन मया पापेन मोहना।

यत्कृतं दारुणं पापं तत्सर्वं देशयाम्यहम्॥

कथं च निःसराम्यस्मात् नित्योद्विग्नोऽस्मि साम्प्रतम्॥

मा भून्मे मृत्युरचिरादक्षीणे पापसंचये॥

कृताकृतोपरीक्षोऽयं मृत्युर्विश्रम्भघातकः।

स्वस्थास्वस्थैरविश्वास्य आहस्मिकमहाशनिः॥

प्रियाप्रियनिमित्तेन पापं कृतमनेनेकधा।

सर्वमुत्सृज्य गन्तव्यं मया न ज्ञातमीदृशम्॥

अप्रिया न भविष्यन्ति भविष्यन्ति न मे प्रियाः।

अहं च न भविष्यामि सर्वं च न भविष्यति॥

तत्तत्स्मरणतां याति यद्यद्वस्त्वनुभूयते।

स्वप्नानूभूतवत् सर्वें गतं न पुनरीक्ष्यते॥

इहैव तिष्ठतस्तावद्गतानेकप्रियाप्रियाः।

तन्निमित्तं कृतं पापं मे पुरःस्थितम्॥

एवमागन्तुकोऽमीती मया नैव समीक्ष्यते।

मोहनुनयाविद्वेषैः कृतं पापमनेकशः॥

रात्रिंदिवमविश्राममायुषो वर्धते व्ययः।

आयस्यज्यागमो मास्ति न मरिष्याम्यहं कथम्॥

इह शय्यागतेनापि बन्धुमध्येऽपि तिष्ठता।

मयैवैकेन सोढव्या मर्मछेदादिवेदना॥



९५

यमदूतैर्गृहीतस्य कुतो बन्धुसुहृत्सखाः।

पुण्यमेकं तदा त्राणं मया तत्रैव संचितम्॥

अनित्यजीवीतासंगादित्थं भयमजानता।

प्रमत्तेन मदान्धेन बहुपापं मयार्जितम्॥

अंगछेदार्थमप्यन्यो नीयमानो विशुष्यति।

पिपसितो दीनदृष्टिरन्यदेवेक्षते जगत्॥

किं दुष्टैर्भैरवाकारैर्यमदूतैरधिष्ठितः।

महात्रासंकरग्रस्तः पुरीषोत्सर्गवेष्टितः॥

कातरैर्नत्रविक्षोपैस्त्राणान्वेषी चतुर्दिशम्।

को मे महाभयादस्मात् साधुस्त्राता भवेदिह॥

त्राणशून्या दिशो दृष्ट्वा पुनः संमोहमागतः।

तदाहं किं करिष्यामि तस्मिन् स्थाने महाभये॥

अधैव शरणं यामि जगन्नाथान् महाबलान्।

जगद्रक्षार्थमुद्युक्तान् सर्वत्रासहरान् जिनान्॥

तैश्चाधिगतं धर्मं संसारभयनाशनम्।

शरणं यामि भावेन बोधिसत्त्वगणं तथा॥

समन्तभद्रायात्मानं ददामि भयविह्वलः।

विरौम्यार्तरवं भीतो भयं नाशयते द्रुतम्॥

तत्र सर्वज्ञनाथस्य सर्वपापापहारिणः।

वाक्यमुल्लंघयामीति धिग्मामत्यन्तमोहितम्॥

तिष्ठाम्यत्यप्रमत्तोऽहं प्रयातेष्वितरेष्वपि।

किमु योजनसाहस्रे प्रपाते दीर्घकालिके॥

अद्यैव मरणं नैति न युक्त मे सुखासिका।

अवश्यं न भविष्यामि कस्मान्मे सुस्थिनं मनः॥

पूर्वानुभूते नष्टेभ्यः किं मे सारमवस्थितम्।

येषु मेऽभिनिविष्टेन गुरुणां लंघिनं वचः॥

जीवलोकमिमं त्यक्त्वा बन्धून् परिचितानपि।

एकाकी क्वापि यास्यामि किं मे सर्वैः प्रियाप्रियैः॥

९६

इयमेव तु मे चिन्ता युक्ता रात्रंदिवं सदा।

अशुभान्नियतं दुःखं निःसरेयं ततः कथम्॥

मया दुष्टेन मूढेन यत्पापं प्रकृतं पुरा।

प्रकृत्या देशयाम्येष नाथानामग्रतोऽधुना।

कृतांजलिर्दुःखभीतः प्रणिपत्य पुनः पुनः॥

अत्ययमत्ययत्वेन प्रतिगृह्णन्तु नायकाः।

अभद्रकं पुनर्नाथा न करिष्यामि सर्वदा॥

अपायदुःखविश्रामं सर्वसत्त्वैः कृतं शुमम्।

अनुमोदे प्रमोदेन सुखं तिष्ठन्तु दुःखिताः॥

संसारे दुःखवैमोक्षमनुमोदे शरीरिनाम्।

बोधिसत्त्वत्वबुद्धत्वमनुमोदे च तायिनाम्॥

चित्तोत्पादसमुद्रांश्च सर्वसत्त्वसुखावहान्।

सर्वसत्त्वहिताधानाननुमोदे च शासिनाम्॥

सर्वदिक्संस्थितान् बुद्धन् प्रार्थयामि कृतांजलिः।

धर्मप्रदीपं कुर्वन्तु मोहाद्दुःखप्रपातिनाम्॥

जिनान् निर्वातुकामांश्च याचयामि समादरात्।

कल्पोऽननल्पान्स्तिष्ठन्तु मा भूदन्धमिदं जगत्॥

इत्युक्ते बलिना तेन लोकेश्वरो निशम्य निशम्य सः।

साधु साध्विति संराध्य तं बलिं चैवमब्रवीत्॥

क्षणसंपदियं सुदुर्लभा प्रतिलब्धा पुरुषार्थसाधनी।

यदि नात्र विचिन्त्यते हितं पुनरप्येष समागमः कुतः॥

रात्रौ यथा मेघघनान्धकारे विद्युत्क्षणं दर्शयति प्रकाशम्।

बुद्धानुभावेन तथा कदाचिल्लोकस्य पुण्येषु मतिःक्षणं स्यात्॥

तस्माच्छुभं दुर्बलमेव नित्यं बलं तु पापस्य महत्सुघोरम्।

तज्जीयतेऽयेन शुभेन केन संबोधिचित्तं यदि नाम न स्यात्॥

कल्पाननल्पान् प्रतिचिंतयद्भिर्दृष्टं मुनीन्द्रैः हितमेतदेव।

यतः सुखेनैव सुखं प्रवृद्धमुत्प्लावयत्यमितान् जनौघान्॥

९७

भवदुःखशतानि तर्तुकामैरपि सत्त्वव्यसनानि हर्तुकामैः।

बहुसौख्यशतानि भोक्तुकामैर्न विमोच्यं हि सदैव बोधिचित्तम्॥

भवचारकबन्धनो वरो कः सुगतानां सुत उच्यते क्षणेन।

सनरामरलोकवन्दनीयो भवति स्यादित एव बोधिचित्ते॥

अशुचिप्रतिमामिमां गृहीत्वा जिनरत्नप्रतिमां करोत्यनर्घाम्।

रसजातमतीव वेधनीयं सुदृढं गृह्णीष्व बोधिचित्तरत्नम्॥

सुपरीक्षितमप्रमेयधीभीर्बहुमूल्यं जगदेकसार्थवाहैः।

गतिपत्तनविप्रवासशीलाः सुदृढं गृह्णन्तु बोधिचित्तरत्नम्॥

कदलीव फ़लं विहाय याति क्षयमन्यत्कुशलं हि सर्वमेव।

सततं फ़लति क्षयं न याति प्रसवत्येव हि बोधिचित्तवृक्षः॥

कृत्वापि पापानि सुदारुणानि यदाश्रयादुत्तरति क्षणेन।

शूराश्रयेणैव महाभयानि नाश्रीयते तत्कथमज्ञसत्त्वैः॥

युगान्तकालानलवन्महान्ति पापानि यन्निर्दहति क्षणेन।

यस्यानुशंसानमितान् उवाच मैत्रेयनाथः सुधनाय धीमान्॥

तद्बोधिचित्तं द्विविधं विज्ञातव्यं समासतः।

बोधिप्रणिधिचित्तं च बोधिप्रस्थानमेव च॥

गन्तुकामश्च गन्तुश्च यथाभेदः प्रतीयते।

तद्वद् भेदाऽनयोर्ज्ञेयो यथासंख्येन पण्डितैः॥

बोधिप्रणिधिचित्तस्य सम्सारेऽपि महत्फ़लम्।

न त्वविच्छिन्नपुण्यत्वं यथाप्रस्थानचेतसः॥

यतः प्रभृत्यपर्यन्तसत्त्वधातुप्रमोक्षणे।

समाददाति तच्चित्तमनिवर्तेन चेतसा॥

ततः प्रभृति सुप्तस्य प्रमत्तस्याप्यनेकशः।

अविच्छिन्नाः पुण्यधाराः प्रवर्तन्ते नभःसमाः॥

जगदानन्दबीजस्य जगद्दुःखौषधस्य च।

चित्तरत्नस्य यत्पुण्यं तत्कथं हि प्रमीयते॥

हिताशंसनमात्रेन बुद्धपूजा विशिष्यते।

किं पुनः सर्वसत्त्वानां सर्वसौख्यार्थमुद्यमात्॥

९८



दुःखमेवाभिधावन्ति दुःखनिःसरणाशयाः।

सुखेच्छयैव संमोहात् स्वसुखं घ्नन्ति शत्रुवत्॥

यस्तेषां सुखरंकाणां पीडितानामनेकशः।

तृप्तं सर्वसुखैः कुर्यात् सर्वाः पीडाश्छिनत्ति च॥

नाशयत्यपि संमोहं साधुस्तेन समः कुतः।

कुतो वा तादृशं मित्रं पुण्यं वा तादृशं कुतः॥

कृते यः प्रतिकुर्वीत सोऽपि तावत्प्रशस्यते।

अव्यापारितः साधुस्तु बोधिसत्त्वः किमुच्यते॥

इति मन्त्रयतौ जिनस्य पुत्रे कलुषं स्वहृदये करोति यः।

कलुषोदयसंख्यया स कल्पान्नरकेष्वासतीति नाथ आह॥

अथ यस्य मनः प्रसादमेति प्रसवेत्तस्य ततोऽधिकं फ़लम्॥

तस्माद् गृहीत्वा सुदृढं बोधिचित्तं जिनात्मजः।

शिक्षानतिक्रमे यत्नं कुर्यान्नित्यमतन्द्रितः॥

त्वयापि च यथाशक्तिस्तत्र किं परिलम्ब्यते।

नाद्य चेत् क्रियते यत्नं तलेनापि तलं व्रजेः॥

यदि चैवं प्रतिज्ञाय साधयेनैव कर्मणा।

एतान् सर्वान् विसंवाद्य का गतिस्ते भविष्यति॥

मनसा चिन्तयित्वा तु यो न दद्यात् पुनर्नरः।

स प्रेतो भगवतीत्युक्तमल्पमात्रेऽपि वस्तुनि॥

किमुतानुत्तरं सौख्यमुच्चैरुद्घुष्य भावतः।

यस्मादापद्यमानोऽसौ सर्वसत्त्वार्थहानिकृत्॥

योऽप्यन्यः क्षणमप्यस्य पुण्यविघ्नं करिष्यति।

तस्य दुर्गतिपर्यन्तं नास्ति सत्त्वार्थघातिनः॥

एकस्यापि हि सत्त्वस्य हितं हित्वा हतो भवेत्।

अशोषाकाशपर्यन्तवासिनां किमु देहिनाम्॥

अप्रेमेयागता बुद्धाः सर्वसत्त्वगवेषकाः।

त्वमेषां न स्वदोषेण चिकित्सागोचरं गतः॥

न हीदृशैस्त्वच्चरित्रैः सद्गुतिर्लभ्यते पुनः।

सद्गतावलभ्यमानायां पापमेव कुतः शुभम्॥

९९

यदा कुशलयोग्योऽपि कुशलं त्वं करोषि न।

अपायादुःखसंमूढ किं करिष्यसि तदा शुभम्॥

अकुर्वतश्च कौशल्यं पापमेवोपचिन्नतः।

हतः सुगतिशब्दोऽपि कल्पकोटिशतैरपि॥

एके क्षणकृतात् पापादवीचौ कल्पमास्यते॥

अनादिकालोपचितात् पापात् का सुगतौ कथा॥

यदीदृशं क्षणं प्राप्य पुनः सीदसि मोहितः।

शोचिष्यसि चिरं भूयो यमदूतैः प्रचोदितः॥

चिरं धक्ष्यति ते कायम् नारकाग्नि सुदुःसहः।

पश्चात्तापानलचित्तं चिरं धक्ष्यत्यशिक्षितम्॥

हस्तपादादिरहितास्तृष्णाद्वेषादिशत्रवः।

न शुरा नैव ते प्राज्ञाः कथं दासीकृतोऽसि तैः॥

त्वच्चितावस्थित्ता एव घ्नन्ति त्वामेव सुस्थिताः।

अत्र ते चेतना नास्ति मन्त्रैरिव विमोहितः॥

सर्वे देवा मनुष्याश्च यदि स्युस्तव शत्रवः।

तेऽपि नावीचिकं वह्निं समुदानयितुं क्षमाः॥

सर्वे हिताय कल्प्यन्ते स्वानुकूल्येन सेविताः।

सेव्यमानस्त्वमी क्लेशाः सुतरां दुःखकारकाः॥

भवचारकपालका इमे नरकादिष्वपि वध्यघातकाः।

मतिवेश्मनि लोभयन् जले यदि तिष्ठन्ति कुत सुखं तव॥

अकारणेनापि रिपुक्षतानि गात्रेष्वलंकारदुद्वहन्ति।

महार्थसिद्ध्यै तु समुद्यतस्य दुःखानि कस्मात्तव बाधकानि॥

स्वजीविकामात्रनिबद्धचित्ताः कैवर्तचण्डालकृषीवलाद्याः।

शीतातपादिव्यसनं सहन्ते जगद्धितार्थम् सहसे कथं न॥

दुर्गापुत्रककर्णाढ्या दाहछेदादिवेदनाम्।

मुधा सहन्ते मुक्त्यर्थं कस्मात्त्वमसि कातरः॥

मुक्त्यर्थिनश्च यक्तं ते लोभसत्कारबन्धनम्।

ये मोचयन्ति बन्धात्त्वां द्वेषस्तेषु कथम् तव॥

स्पृष्त उष्नोदकेनापि सुकुमारः प्रतप्यसे।

कृत्वा च नारकं कर्म किमेवं स्वस्थमास्यते॥

न किंचिदस्ति तद्वस्तु तदभ्यासस्य दुष्करम्।

तस्मामृदुव्यथाभ्यासात् सोढव्यापि महाव्यथा॥

दुःखं नेच्छसि दुःखस्य हेतुमिच्छसि दुर्मते।

स्वापराधागते दुःखे कस्मादन्यत्र दूष्यते॥

मुक्त्वा धर्मरतिं श्रेष्ठामनन्तसुखसन्ततिम्।

रतिराद्धत्यहासादौ दुःखहेतौ कथं तव॥



१००

स्पृष्ट उष्णोदकेनापि सुकुमारः प्रतप्यसे।

कृत्वा च नारकं कर्म किमेवं स्वस्थमास्यते॥

न किंचिदस्ति तद्वस्तु यदभ्यासस्य दुष्करम्।

तस्मामृदुव्यथाभ्यासात् सोढव्यापि महाव्यथा॥

दुःखं नेच्छसि दुःखस्य हेतुमिच्छसि दुर्मते।

स्वापराधागते दुःखे कस्मादन्यत्र दूष्यते॥

मुक्त्वा धर्मरतिं श्रेष्ठामनन्तसुखसन्ततिम्।

रतिराद्धत्यहासादौ दुःखहेतौ कथं तव॥

बोधिच्छन्दवियोगेन पौर्वकेन तवाधुना।

विपत्तिरीदृशी जाता तस्माद्बोधिं प्रसाधय॥

मिथ्या कल्पनया चित्ते पापात् काये व्यथा यतः।

तस्मात् कार्यं शुभे छन्दं भावयित्वैवमादरात्॥

न प्राप्तं भगवन्पूजामहोत्साहसुखं त्वया।

न कृता शासने कारा दरिद्राशा न पूरिता॥

भीतेभ्यो नाभयं दत्तमार्ता न सुखिनः कृताः।

केवलस्वात्मसौख्यार्थं यज्ञदानं कृतं त्वया॥

अभिलाषविघाताश्च जायन्ते पापकारिणाम्।

दुःखानि दौर्मनस्यानि भयानि विविधान्यपि॥

पापकारी सुखेच्छश्च यत्र यत्राभिगच्छति।

तत्र तत्रैव तत्पापैर्दुःखशस्त्रैहन्यते॥

मनोरथं शुभकृतां यत्र यत्रैव गच्छति।

तत्र तत्रापि तत्पुण्यैः फलार्घ्येनाभिपूज्यते॥

विपुलसुगन्धिशीतलसरोरुहगर्भगताः।

मधुरजिनस्वराशनकृतोपचितद्युतयः॥

मुनिकरबोधितां व्रज विनिर्गतसद्वपुषः।

सुगतसुता भवन्ति सुगतस्य पुरः कुशलैः॥

यमपुषापनीतसकलछविरार्तरवो

हुतवहतापविद्रुतकताम्रनिषिक्ततनुः।

१०१

ज्वलदसिशक्तिघातशतशातितमांसदलः

पतति सुतप्तलोहधरणीष्वशुभैर्बहुशः॥

जन्मान्तरेऽपि सोऽभ्यासः पापाद्दुःखं वर्धते।

अन्यच्च कार्यं कालं च हीनं तत्तनसाधितम्॥

आपदा बाधतेऽल्पापि मनस्ते यदि दुर्बलम्।

विषादकृतनिश्चेष्ट आपदः सुकरा ननु॥

व्युत्थितश्चेष्तमानस्तु महतामपि दुर्जयः।

तदेष मानो वोढव्यो जिनसिंहसुतो ह्यहम्॥

ये भोग्यमानविजिता वराकास्ते न मानिनः।

मानि शत्रुं वशं नेति मानशत्रुवशास्तु ते॥

मानेन दुर्गतिं नीता मूर्खा दुर्दर्शनाः कृशाः।

हताशाः परिभूताश्च मानुष्येऽपि हतोत्सवाः॥

ते मानिनो विजयिनश्च त एव शूराः

ये मानशत्रुविजयाय वहन्ति मानम्।

ये तं स्फुरन्तमपि मानरिपुं निहत्य

कामं जने जयफ़लं प्रतिपादयन्ति॥

कामैर्न तृप्तिः संसारे क्षुरधारामधूपमैः।

पुण्यामृतैः कथं तृप्तिर्विपाकमधुरैः शिवैः॥

कस्यानित्येष्वनित्यस्य स्नेहो भवितुमर्हति।

येन जन्मसहस्राणि द्रष्टव्यो न पुनः प्रियः॥

अवश्यं न धृतिं याति समाधौ न च तिष्ठति।

नच तृप्यति दृष्ट्वापि पूर्वद् बाध्यते तृषा॥

न पश्यति यथाभूतं संवेगादवहीयते।

दद्यते तेन शोकेन प्रियसंगमकांक्षया॥

तच्चिन्तया मुधा याति ह्रस्वमायुर्मुहुर्मुहुः।

अशाश्वतेन मित्रेण धर्मो भ्रश्यति शाश्वतः॥

बालैः स भागचरितो नियतं याति दुर्गतिम्।

नेष्यते विसभागश्च किं प्राप्तं बलसंगमात्॥

१०२

क्षणाद्भवन्ति सुहृदो भवन्ति रिपवः क्षणात्।

तोषस्थाने प्रकुप्यन्ति दुराराध्याः पृथग्जनाः॥

हितमुक्ताः प्रकुप्यन्ति वारयन्ति च ते हितात्।

अथ न श्रूयते तेषां कुपिता यान्ति दुर्गतिम्॥

ईर्ष्योत्कृष्टात् समाद्वन्द्वो हीनात्मानः स्तुतेर्मदः।

अवर्णात् प्रतिघश्चेति कदा बालाद्धितं भवेत्॥

आत्मोत्कर्षः परावर्णः संसाररतिसंकथा।

इत्याद्यवश्यमशुभं सर्वथा बालसंगमात्॥

तस्मात् प्राज्ञो न तामिच्छेदिच्छातो जायते भयम्।

नानाधिमुक्तिकाः सत्त्वा जिनैरपि न तोषिताः॥

बहवो लाभिनोऽभूवन् बहवश्च यशस्विनः।

सहलाभयशोभिस्तेन ज्ञाताः क्व गता इति॥

कामा ह्यनर्थजनका इहलोके परत्र च।

इह बन्धवधछन्दैर्नारकादौ परत्र च॥

यदर्थं दूतदूतीनां कृतोंऽजलिरनेकधा।

न च पापमकीर्त्तिर्वा यदर्थं गणिता पुरा॥

प्रक्षिप्तश्च भयेऽप्यात्मा द्रविणं च व्ययीकृतम्।

यान्येव च परिष्वज्य बभूवोत्तमनिर्वृतिः॥

तान्येवास्थीनि नान्यानि स्वाधीनान्यममानि च।

प्रकामं संपरिष्वज्य किं न गच्छति निर्वृतिम्॥

एकस्मादशनादासां लालामेध्यं च जायते।

तत्रामेध्यमनिष्ठं ते लालापानं कथं प्रियम्॥

यदि न तेऽशुचौ रागः कस्मादालिंगसे परम्।

मांसकर्दमसंलिप्तं स्नायुबद्धास्थिपंजरम्॥

अमेध्यभवमल्पत्वान्न वांछस्यशुचिं कृमिम्।

बह्वमेध्यमयं कायममेध्यजमपीच्छसि॥

श्मशाने परितान् घोरान् कायाम् पश्यापरानपि।

कथं ज्ञात्वापि तत्रैव पुनरुत्पद्यते रतिः॥

१०३

मानार्थं दासतां यान्ति मुढाः कामविदम्बिताः।

दह्यन्ते छिद्यमानाश्च हन्यमानाश्च शक्तिभिः॥

अर्जनरक्षणेनाथ विषादैरर्थमनन्तमवेहि।

व्यग्रतया धनसत्तमतीनां नावसरो भवदुःखविमुक्त्यै॥

मायया निर्मितं सर्वं हेतुभिर्यच्च निर्मितम्।

आयाति तत्कुतः कुत्र याति चेति निरुप्यताम्॥

स्वप्नोपमास्तु गत्यो विचारे कदलीसमाः।

निर्वृतानिर्वृतानां च विशेषो नास्ति वस्तुतः॥

एवं शून्येषु भावेषु किं लब्धं किं हृतं भवेत्।

सत्कृतः परिभूतो वा केन कः संभविष्यति॥

कुतः सुखं वा दुःखं वा किं प्रियं वा किमप्रियम्।

का तृष्णा कुत्र सा तृष्णा मृग्यमाना स्वभावतः॥

विचारे जीवलोके हि को नामात्र मरिष्यते।

को भविष्यति को भूतः को बन्धुः कस्य कः सुहृत्॥

सर्वमाकाशसंकाशं परिगृह्णीष्व तत्तथा।

प्रकुप्यन्ति प्रहृष्यन्ति कलहोत्सवहेतुभिः॥

शोकायासौविषादैश्च मिथश्छेदनभेदनैः।

यापयन्ति सुकृच्छ्रेण पापैरात्मसुखेच्छवः॥

मृताः पतन्त्यपायेषु दीर्घतीव्रव्यथेषु च।

आगत्त्यागत्य सुगतिं भूत्वा भूत्वा सुखोचिताः॥

भवे बहुप्रपातश्च तत्र वा तत्त्वमीदृशम्।

तत्रान्योन्यविरोधश्च न बह्वेत्तत्त्वमीदृशम्॥

तत्र चानुपमास्तीव्रा अनन्ता दुःखासागराः।

तत्रैवमल्पबलता तत्राप्यल्पत्वमायुषः॥

तत्रापि जीवितारोग्यव्यापारैः क्षुत्क्लमश्रमैः।

निद्रयोपद्रवैर्बालैः सत्संगैनिष्फ़लैस्तथा॥

वृथैवायुर्वहत्याशु विवेकस्तु सुदुर्लभः।

तत्राप्यभ्यस्तविक्षेपनिवारणगतिः कुतः॥

१०४

तत्रापि यतते मारो महापायप्रपातने।

तत्रासन्मार्गबाहुल्यं विचिकित्सा च दुर्जया॥

पुनश्च क्षणदौर्बल्यं बुद्धोत्पादोऽतिर्लभः।

क्लेशौघो दुर्निवारश्चेत्यहो दुःखपरम्परा॥

अहो बतातिशोच्यत्वमेषां दुःखौघवर्तिनाम्।

येनेक्षन्ते स्वदौःस्थित्यमेवमप्यतिदुःखिताः॥

स्नात्वा स्नात्वा यथा कश्चिद्विशेद् वह्निं मुहुर्मुहुः।

स्वसौस्थित्यं न मन्यन्त एवमप्यतिदुःस्थिताः॥

अजरामरशीलानामेवं विहरतां सताम्।

आयास्यन्त्यापदो घोरा कृत्वा मरणमग्रतः॥

एवं दुःखातप्तानां शान्त्यै बोधिव्रतं चर।

बोधिव्रतं महत्पुण्यं संबोधिज्ञानसाधनम्॥

पुण्यमेघसमुद्भूतैः सुखोपकरणैः स्वकैः।

सदोपलम्भदृष्टिभ्यो बुद्धादेशय शून्यताम्॥

संवृत्यानुपलम्भेन पुण्यसंभारमाचर।

तस्माद्यथार्त्तिशोकादेरात्मानं गोप्तुमिच्छसि॥

रक्षाचित्तं दयाचित्तं जगत्यभ्यस्यतां तथा।

दुष्करान् मा निवर्तस्व तस्मासभ्यासशक्तितः।

यस्यैव श्रवणात् त्रासस्तैरेव न विना रतिः॥

आत्मानं च परांश्चैव यः शीघ्र त्रातुमिच्छति।

स चरेत् परमं गुह्यं परात्मसमवर्तनम्॥

यस्मिनात्मन्यतिस्नेहादल्पासपि भयाद्भयम्।

न द्विषेत् कस्तमात्मानं शत्रुवद्यो भयावहः॥

यो मान्यक्षुप्तिपासादिप्रतीकारचिकीर्षया।

पक्षिमत्स्यमृगान् हन्ति परिपन्थं च तिष्ठति॥

यो लाभसत्क्ऱ्रियाहतोः पितरावपि मारयेत्।

रत्नत्र्यस्वमादद्याद्येनावीचिन्धनो भवेत्॥

कः पण्डितस्तमात्मानमिच्छेद्रक्षेत् प्रपूजयेत्।

न पश्येच्छत्रुवच्चैनं कश्चैवं प्रतिमानयेत्॥

१०५

यदि दास्यामि किं भोज्ये इत्यात्मार्थे पिशाचता।

भोक्ष्ये चेत्किं ददामीति परार्थे देवराजता॥

आत्मार्थं पीडयित्वान्यन्नरकादिषु पच्यते।

आत्मानं पीडयित्वा तु परार्थे सर्वसंपदः॥

दुर्गतिर्नीचता सौख्यं ययेवात्मोन्नतीच्छया।

तामेवान्यत्र संक्राम्य सुगतिः सत्कृतिर्मतिः॥

आत्मार्थं परमाज्ञाप्य दासत्वाद्यनुभूयते।

परार्थं स्वयमाज्ञाप्य स्वामित्वाद्यनुभूयते॥

ये केचिद्दुग़्खिता लोके सर्वे ते स्वसुखेच्छया।

य केचित्सुखिता लोके सर्वे तेऽन्यसुखेच्छया॥

बहुनात्र किमुक्तेन दृश्यतामिदमन्तरम्।

स्वार्थार्थिनश्च बालस्य मुनेश्चान्यार्थकारिणः॥

न नामसाध्यं बुद्धत्वं संसारेऽपि कुतः सुखम्।

स्वसुखस्यान्यदुःखेन परिवर्त्तमकुर्वतः॥

आस्ताम् तावत्परो लोको दृष्टोऽप्यर्थो न सिध्यति।

भृत्यस्याकुर्वतः कर्म स्वामिनोऽददतो भृतिम्॥

त्यक्त्वान्योन्यसुखोत्पादं दृष्ट्वादृष्टसुखोत्सवम्।

अन्योन्यदूषणाद् घोरं दुःखं गृह्णन्ति मोहिताः॥

उपद्रवा ये च भवन्ति लोके यावन्ति दुःखानि भयानि चैव।

सर्वाणि तान्यात्मपरिग्रहेण तत्किं तव स्वात्मपरिग्रहेण॥

आत्मानमपरित्यज्य दुःखं त्यक्तुं न शक्यते।

यथाग्निमपरित्यज्य दाहस्त्यक्तुं न शक्यते॥

तस्मात् स्वदुख शान्त्यर्थं परदुःखशमाय च।

ददस्वान्येभ्य आत्मानं परान् गृह्णीष्व चात्मवत्॥

अन्यसंबन्धितोऽस्मीति निश्चयं कुरु संमते।

सर्वं सत्त्वार्थमुत्सृज्य नान्यच्चिन्त्यं त्वयाधुना॥

सर्वमेतत् सुचरितं दानं सुगतपूजनम्।

कृतं कल्पसहस्रैर्यत्प्रतिघः प्रतिहन्ति तत्॥

१०६

न च द्वेषसमं पापं न च क्षान्तिसमं तपः।

तस्मात् क्षान्तिं प्रयत्नेन भावयेद्विविधैर्नयैः॥

मनः शमं न गृह्णाति न प्रीतिसुखमश्रूते।

न निद्रां न धृतिं द्वेसशल्ये हृदि स्थिते॥

पूजयत्यर्थमानैर्यान्येऽपि चैनं समाश्रिताः।

तेऽप्येनं हन्तुमिच्छन्ति स्वामिनं द्वेषदुर्भगम्॥

सुहृदोऽप्युद्विजन्तेऽस्माद्ददाति चेन्न सेव्यते।

संक्षेपान्नास्ति तत्किंचित्क्रोधनो येन सुस्थितः॥

न द्विषन्तः क्षयं यान्ति दुर्जना गगनोपमाः।

मारिते क्रोधचित्ते तु नश्यन्ते सर्वशत्रवः॥

विकल्पेधनदिप्तेन जन्तुः क्रोधाग्निना किल।

दहत्यात्मानमेवादौ परं धक्ष्यति वा न वा॥

जरा रुपवतां क्रोधः तमश्चक्षुष्मतामपि।

वधो धर्मार्थकामानां तस्मात् क्रोधं निवारयेत्॥

अनिष्टकरणाज्जातमिष्टस्य च विघातनात्।

कोधं यो हन्ति निर्बन्धात् स सुखीह परत्र च॥

अत्यनिष्ठागमेनापि न क्षोभ्या मुदिता त्वया।

दौर्ममनस्येऽपि नास्तीष्टं कुशलं त्ववहीयते॥

यद्यस्त्येव प्रतीकारो दौर्मनस्येन तत्र किम्।

अथ नास्ति प्रतीकारो दौर्मनस्येन तत्र किम्॥

गुणोऽपरश्च दुःखस्य यत्सम्वेगान्मदच्युतिः।

संसारिषु च कारुण्यं पापाद्भीतीर्जिने स्पृहा॥

ये केचिदपराधास्तु पापानि विविधानि च।

तत्सर्वं प्रत्ययबलात् स्वतन्त्रस्तु न विद्यते॥

तस्मान्मित्रममित्रं वा दृष्ट्वाप्यन्यायकारिणं।

ईदृशाः प्रयया अस्येत्येवं मत्वा सुखी भव॥

त्वत्कर्मचोदिता एव जातास्त्वय्यपकारिणः।

येन यास्यन्ति नरकान् त्वयैव ते हता ननु॥

१०७

एतानाश्रित्य ते पापं क्षीयते क्षमता बहु।

त्वामाश्रिय तु यान्त्येते नरकान् दीर्घवेदनान्॥

त्वमेवास्यपकार्येषां तवैते चापकारिणः।

मोहादिके पराध्यन्ते कुप्यन्त्यन्येऽपि मोहिताः॥

एवं बुध्वा तु सत्त्वेषु क्षान्तिं धृत्वा शुभे चर।

येन सर्वे भविष्यन्ति मैत्रचित्ताः परस्परम्॥

स्तुतियशोऽर्थसत्कारा न पुण्या यतर्चषुष्वे।

न बलार्थं न चारोग्येन च कायसुखाय ते।

स्तुत्यादयश्च ते क्षेमं संवेगं नाशयन्त्यपि।

गुणवत्स्वपि मात्सर्यं सम्पत्कोपं च कुर्वते॥

तस्मात् स्तुत्यादिघाताय ये तव प्रत्युपस्थिताः।

अपायपातरक्षार्थं प्रवृत्तास्तद्विषस्तव॥

दुःखप्रवेष्टुकामस्य ये कपाटत्वमागताः।

बुद्धाधिष्ठानत जाता इव द्वेषस्तेषु कथम्॥

पुण्ये विघ्नः कृतोऽनेनेत्यत्र को यो न युज्यते।

क्षान्त्या समं तपो नास्ति न त्वेतत्तदुपस्थितम्॥

अथ त्वमात्मदोषेण न करोषि क्षमामिह।

त्वयैवात्र कृतो विघ्नः पुण्यहेतावुपस्थिते॥

न कालोपपन्नेन दानविघ्नः कृतोऽथिना।

न च प्राव्राजके प्राप्ते प्रव्रज्य बिघ्न उच्यते॥

सुलभा याचका लोके दुर्लभास्त्वपकारिणः।

यतस्तेऽनपराद्धस्य न कश्चिदपराध्यति॥

अश्रमोपार्जितस्तस्माद्गृहे निधिरिवोत्थितः॥

बोधिचर्यासहायत्वात् स्पृहणीयस्सदा रिपुः।

अपकाराशयोऽसेऽतिशत्रुर्यदि न पूज्यते॥

अन्यथा ते कथं क्षान्तिर्भिषग्जीवहितोद्यते।

तद्दुष्टाशयमेवातः प्रतीत्योत्पद्यते क्षमा।

स एवातः क्षमाहेतुः पूज्यस्स धर्मवत्सदा॥

१०८

सत्त्वक्षेत्रं जिनक्षेत्रमित्यतो मुनिनोदितम्।

एतानाराध्य बहवः सम्पत्पारं यतो गताः॥

सत्त्वेभ्यश्च जिनेभ्यश्च बुद्धधर्मागमे समे।

जिनेषु गौरवं यद्वन्न सत्त्वेष्विति कः क्रमः॥

मैत्र्याशयस्तु यत्पूज्यः सत्त्वमाहात्म्यमेव तत्।

बुद्धप्रसादाद्यत्पुत्यं बुद्धमाहात्ममेव तत्॥

बुद्धधर्मागमांशेन तस्मात् सत्त्वा जिनैः समाः।

न तु बुद्धैः समाः केचिदनन्तांशैर्गणार्णवैः॥

गुणसारैकराशीनां गुणोऽणुरपि चेत् क्वचित्।

दृश्यते तस्य पूजार्थं त्रैलोक्यमपि न क्षमम्॥

बुद्धधर्मोदयांशश्च श्रेष्ठः सत्त्वेषु विद्यते।

एतदंशानुरुपेण बुद्धपूजा कृता भवेत्॥

किं च निश्च्छद्मबन्धूनामप्रमेयोपकारिणाम्।

सत्त्वाराधनमुत्सृज्य निष्कृतिः कापरा भवेत्॥

येषां सुखे यान्ति मुदं मुनीन्द्रा येषां व्यथायां च प्रविशन्ति मन्युम्।

तत्तोषणात् सर्वमुनीन्द्रतुष्टिस्तत्रापकारेष्वकृतं मुनीनाम्॥

आदीप्तकायस्य यथासमन्तान्न सर्वकामैरपि सौमनस्यम्।

सत्त्वव्यथायामपि तद्वेदेवमप्रीत्युपायोऽस्ति दयामयानाम्॥

आत्मीकृतं सर्वमिदं जगत्तैः कृपात्मभिर्नैव हि संशयोऽस्ति।

दृश्यन्ते एते ननु सत्त्वरुपास्त एव नाथाः किमनादरोऽत्र॥

तथागताराधनमेतदेव स्वार्थस्य संसाधनमेतदेव।

लोकस्य दुःखापहमेतदेव तस्मात्तवास्तु व्रतमेतदेव॥

आस्तां भविष्यबुद्धत्वं सत्त्वाराधनसम्भवम्।

इहैव सौभाग्ययशः सौस्थित्यं किन्न पश्यसि॥

प्रासादिकत्वमारोग्यं प्रामोद्यं चिरजीवितम्।

चक्रवर्त्तिसुखं स्फ़ीतं क्षमी प्राप्नोति संसरन्॥

एवं क्षमो भजेद्वीर्यं वीर्यं बोधिर्यतः स्थिता।

न हि वीर्यं विना पुण्यं यथा वायुं विन गतिः॥

१०९

वीर्यं हि सर्वगुणरत्ननिधानभूतं सर्वापदस्तरति वीर्यमहाप्लवेन।

नैवास्ति तज्जगति वस्तु विचिन्त्यमानं नाप्नुयाद्यदिह वीर्यरथाधिरुढः॥

युद्धेषु यकरितुरंगपदातिमत्सु नाराचतोमरपरश्वधसंकुलेषु।

हत्वा रिपून् जयमनुत्तममाप्नुवन्ति विष्णुर्जितं तदह वीर्यमहाहटस्य॥

अम्भोनिधीन् मकरवृन्दविघट्टिताबुतुंगाकुलाकुलतंरगविभंगभीमान्।

विर्येण गोष्पदमिव प्रविलंघ्य शूराः कुर्वन्त्यनर्घगुणरत्नधनार्जनानि॥

रागादीनूरगानिवोग्रवपुषो विष्टभ्य धैर्यान्विताः।

शीलं सज्जनचित्तनिर्मलतरं सम्यक्तमादापयेत्॥

मर्त्याः कान्ततरेषु मेरुशिखरोपान्तेषु वीर्यान्विताः।

मोदन्ते सुरसुन्दरीभुजलतापाशोपगुढाश्चिरम्॥

यद्देवो वियति विमान्बवासिनो ये निर्द्वन्द्वाः समनुभवन्ति सौमनस्यम्।

अत्यन्तं विपुलफ़लप्रसूतिहेतो वीर्यस्थिरविहितस्य सा विभूतिः॥

क्लेशारिवर्गं त्वभिभूय धीराः संबोधिलक्ष्मीपदमाप्नुवन्ति।

बोध्यंगदानं प्रदिशन्ति सद्भ्यो ध्यानं हि तत्र प्रवदन्ति हेतुम्॥

जन्मप्रबन्धकरणैकनिमित्तभूतान् राजादिदोषनिचयान् विदार्य सर्वान्।

आकाशतुल्यमनसः समलोष्टहेमाध्यानाद्भवन्ति मनुजा गुणहेतुभूताः॥

प्रज्ञाधनेन विकलं तु नरस्य रुपमालेख्य रुपमिव सारविहीनमन्तः।

बुद्धयान्वितस्य फ़लमिष्टमुदेति वीर्याद्वीर्यन्तु बुद्धिरहितं स्ववधायशत्रुः॥

यद्बुद्धो मर्त्यलोके मलतिमिरगणं दारयित्वा महान्तम्।

ज्ञानालोकं करोति प्रहरति च सदा दोषवृन्दं नराणाम्॥

आदेष्ट्य चेन्द्रियाणां परमनुजमनो वेत्ति सर्वैः प्रकारैः।

प्रज्ञां तत्रापि नित्यं शुभवरजननीं हेतुमत्कीर्तयन्ति॥

कार्यार्णवे वापि दृढं निमग्नाः संग्राममध्ये मनुजाः प्रधानाः।

प्रज्ञावशात्ते विजयं लभन्ते प्रज्ञा ह्यतः सा शुभहेतुभूता॥

तस्मात्सर्वगुणार्थसाधनकरी प्रज्ञैव संवर्ध्यताम्।

न प्रज्ञा विकला विभान्ति पुरुषाः प्राताःप्रदीपा इव॥

स्वर्गापवर्गगुणरत्ननिधानभूता एताः षडेव भुवि पारमिता नराणाम्।

ज्ञात्वा भवस्व हितसाधनतत्परस्त्वं कुर्या अतः सततमेव शुभे प्रयत्नम्॥

११०

सद्धर्मसाधनं कायमितरार्थं न पीडयेः।

एवं बुध्वा हि सत्त्वानामाशामाशु प्रपूरयेः॥

आचारो बोधिसत्त्वानामप्रमेय उदाहृतः।

चित्तशोधनमाचारं नियतं तावदाचर॥

या अवस्थाः प्रपद्यन्ते स्वयं परवशोऽपि वा।

तास्ववस्थासु याः शिक्षाः शिक्षेत्ता एव यत्नतः॥

न ही तद्विद्यते किंचिद्यन्न शिक्ष्यं जिनात्मजैः।

न तदस्ति न यत्पुण्यमेवं विहरतः सतः॥

पारम्पर्येण साक्षाद्वा सत्त्वार्थात्मान् सदा चर।

सत्त्वानामेव चार्थाय सर्वं बोधाय नामय॥

सदाकल्याणमित्रं च जीवितार्थेऽपि मा त्यज।

बोधिसत्त्वव्रतधरं महायानार्थकोविदम्॥

इत्येवं लोकनाथेन समादिष्टं निशम्य सः।

बलिरश्रुविरुक्षास्यो रुदित्वा चैवमबव्रीत्॥

आकृतं किं मया नाथ यज्ञं तीर्थिकसम्मतम्।

यस्येह फ़लं भुंजानो वसाम्यत्र जनैः सह॥

त्राहि मां भगवन्नथ पापिनं मूढमानसम्।

सजनोऽहं सदा शास्तर्भवतां शरणं व्रजे॥

नमोऽस्तु बोधिसत्त्वाय शुभपद्मधराय ते।

पद्मश्रीभूषितांगाय जटामकुटधारिणे॥

जिनराजशिरस्काय सत्त्वाश्वासप्रदाय च।

हीनदीनानुकम्पाय दिनकृद्वरचक्षुषे॥

पृथिवीवरनेत्राय भैषज्यराजकाय च।

सुशुद्धसत्त्वनाथाय परमयोगधारिणे॥

मोक्षप्रवरधर्माय मोक्षमार्गोपदर्शिने।

चिन्तामणिप्रभासाय धर्मगंजाभिपालिने॥

षण्णां पारमितानां च निर्देशनकराय च।

बोधिमार्गोपदिष्टाय सुचेतनकराय च॥

१११

एवं स्तुत्वा स दैत्येन्द्रो लोकनाथं तमीश्वरम्।

सांजलिर्मुदितो नत्वा पुनरेवमभाषत॥

रक्ष मां दुर्मतिं नाथ समुद्धर भवोदधेः।

बोधिमार्गे प्रतिष्ठाप्य नियोजय शुभे वृषे॥

अद्यारभ्य सदा नाथ त्रिरत्नशरणं गतः।

बोधिचर्याव्रतं धृत्वा संचरेयं जगद्धिते॥

सर्वदिक्षु स्थितान् नाथान् संबुद्धांश्च मुनीश्वरान्।

कृतांजलिः सदा स्मृत्वा नमामि शरणे स्थितः॥

यच्च धर्मं जिनैः सर्वैः समादिष्टं जगद्धिते।

तत्सद्धर्ममहं धृत्वा संचरिष्ये सदा शुभे॥

सर्वाल्लोकधिपान् नाथान् बोधिसत्त्वान् जिनात्मजान्।

तानप्यहं सदा स्मृत्वा भजानि शरणे स्थितः॥

एवं तद्भजनं कृत्वा यन्मया साधितं शुभम्।

तेन स्यां सर्वसत्त्वानां सर्वदुःखप्रशान्तिकृत्॥

ग्लानानामस्मि भैज्यं भवेयं वैद्य एव च।

तदुपस्थायकश्चापि यावद्रोगी पुनर्भवे॥

क्षुत्पिपासाव्यथां हन्यामन्नपानप्रवर्षणैः।

दुर्भिक्षान्तरकल्पेषु भवेयं पानभोजनम्॥

दरिद्राणां च सत्त्वानां निधिः स्यामहमक्षयः।

नानोपकरणाकारैरुपतिष्ठेयमग्रतः॥

आत्मभावांस्तथा भोगन् सर्वं त्र्यध्वगतं शुभम्।

निरपेक्षस्त्यजाम्येष सर्वसत्त्वार्थसिद्धये॥

सर्वत्यागश्च निर्वाणं निर्वानार्थि च मे मनः।

त्यक्तव्यं चेन्मया सर्वं वरं सत्त्वेषु दीयते॥

यथासुखीकृतश्चात्मा कर्तव्यो जयतां मया।

घ्नन्तु निन्दन्तु वा नित्यमाकिरन्तु च पांशुभिः॥

क्रीडन्तु मम कायेन हसन्तु विलसन्तु च।

दत्तस्तेभ्यो मया कायश्चिन्तया किं ममान्यथा॥

११२

कारयन्तु च कर्माणि यानि तेषां सुखावहे।

अनर्थः कस्यचिन्मा भून्मामालम्ब्य कदाचन॥

येषां क्रुद्धा प्रसन्ना वा मामालम्ब्य मतिर्भवेत्।

स एव तेषां हेतुः स्यान्नित्यं सर्वार्थसिद्धये॥

अत्याख्यास्यन्ति मां ये च ये चान्येऽप्यपकारिणः।

उत्प्रासकास्तथान्ये वा सर्वे स्युर्बोधिभागिनः॥

अनाथानामहं नाथः सार्थर्वाहश्च जायिनाम्।

पारेप्सुनां च नौभूतः सेतुः संक्रम एव च॥

दीपार्थिनामहं दीपः शय्या शय्यार्थिनामहम्।

दासार्थिनामहं दासो भवेयं सर्वदेहिनाम्॥

चिन्तामणिर्भद्रधटः सिद्धविद्यामहौषधिः।

भवेयं कल्पवृक्षश्च कामधेनुश्च देहिनाम्॥

पृथिव्यादीनि भूतानि निःशेषाकाशवासिनाम्।

सत्त्वानामप्रमेयाणां यथाभोग्यन्यनेकधा॥

एवमाकाशनिष्ठस्य सत्त्वधातोरनेकधा।

भवेयमुपजीव्योऽहं यावत्सर्वे न निर्वृताः॥

यथा गृहितं सुगतैर्बोधिचित्तं पुरातनैः।

ते बोधिसत्त्वशिक्षायामानुपूर्व्या यथास्थिताः॥

तद्वदुत्पादयाम्येष बोधिचित्तं जगद्धिते।

तद्वदेव च ताः शिक्षाः शिक्षिस्यामि यथाक्रमम्॥

अद्य मे सफ़लं जन्म सुलब्धाः सारसंपदः।

अद्य बुद्धकुले जातो बुद्धपत्रोऽस्मि साम्प्रतम्॥

तथाधुना मया कार्यं स्वकुलोचितकारिणा।

निर्मलस्य कुलेऽस्यास्य कलंको न भवेद्यथा॥

अन्धः सत्कालकूटेभ्यो यथा रत्नमवाप्नुयात्।

तथा कंखचिदप्येतद्बोधिचित्तं ममोदितम्॥

जगन्मृत्युविनाशाय जातमेतद्रसायनम्।

जगद्दारिद्रयशमनं निधानमिदमक्षयम्॥

११३

जगद् व्याधिप्रशमनं भैषज्यमिदमुत्तमम्।

भवाब्धभ्रमणश्रान्तजगद्विश्रामपादपः॥

दुर्गत्युत्तरणे सेतुः सामान्यः सर्वपापिनाम्।

जगत्क्लेशोष्मशमन उदितश्चित्तचन्द्रमाः॥

जगदज्ञानतिमिरप्रोत्सारणमहारबिः।

सद्धर्मक्षीरमथनान्नवनीतं समुत्थितम्॥

सुखभोगबुभुक्षितस्य वा जनसार्थस्य भवाब्धचारिणः।

सुखस्त्रमिदं ह्युपस्थितं सकलाभ्यागतसत्त्वतर्पणम्॥

जगदद्य मया निमन्त्रितं सुगतत्वेन सुखेन चान्तरा।

पुरतः खलु सर्वतायिनामभिनन्दन्तु सुरासुरादयः॥

तस्मान्मया यज्जनदुःखदेन दुःखं कृतं सर्वमहाकृपानाम्।

तदद्य पापं प्रतिदेशयामि यत्खेदितास्तन्मुनयः क्षमन्ताम्॥

आराधना याद्य तथागतानां सर्वात्मन दासमुपैमि लोके।

कुर्वन्तु मे मूर्ध्नि पदं जनौघा निघ्नन्तु वा तुष्यतु लोकनाथः॥

त्वामेवाहमृषिं व्रजामि शरणं प्राणैरपि प्राणिना-

मेकं बान्धवमेकेव सुहदं शास्तारमेकं गुरुम्।

त्रानं त्रैभुवार्त्तिगह्वरदरीव्यावर्त्तिनां प्राणिना-

माचार्यं परमर्थतत्त्वविषये भूतार्थनाथं विभुम्॥

मन्ये पूतमिवात्मभावमधुना शास्तुः प्रणामोद्भवैः

पुण्यम्भोभिरखण्डमण्डलशशिज्योत्स्नावली निर्मलैः।

को वा त्वं प्रणिपत्य सान्द्रकरुणां प्रह्लादिताध्याशयं

तीव्रापायवतीं विषादनकरीं तीर्णां न दुःखापगाम्॥

स्वाभिप्रायमतो ब्रवीमि सकलं संसारमप्युत्सहे

वस्तुं भीमभयानके लोकेश्वरालंकृते।

न त्वेवैकपि क्षणं सुरपुरे संबुद्धशून्ये जगत्यु-

द्वृत्तक्षतवृत्तराक्षसगणव्यालुप्तपुण्योत्सवे॥

तद्यावन्न पतति सर्व एव लोको दुर्दृष्टिव्रतविवृते प्रमादकूपे

सर्वज्ञप्रवचनभास्करे गतेऽस्तं तत्तावद्वचनरसायनैर्निषेव्यम्।

११४

पापाभ्यासकलंकितान्यपि यतः कल्याणमित्राश्रयात्

तोयानीव घनात्यये विमलतां चेतांसि गच्छन्त्यतः।

सम्यक् मित्रसमागमोत्सवसुखान्याश्रित्य तस्मात्सदा

सेव्याः सत्पुरुषा निरत्ययगुणश्रीसम्पदं वांछता।

एवं विनिश्चित्य करोमि यत्नं यथोक्तशिक्षाप्रतिपत्तिहेतोः

वैद्योपदेशाच्चलतः कुतोऽस्ति भैषज्यसाध्यस्य निरामयत्वम्॥

इति तेनासुरेन्द्रेण समाख्यातं निशम्य सः।

लोकेश्वरः समालोक्य तं बलिं चैवमब्रवीत्॥

साधु साधु महाराज यद्येवं व्रतमिच्छसि।

तावच्चित्तं समाधाय शिक्षां रक्ष प्रयत्नतः॥

शिक्षां रक्षितुकामेन चित्त रक्षयं प्रयत्नतः।

न शिक्षा रक्षितुं शक्या चलं चित्तमरक्षता॥

अदान्ता मत्तमातंगा न कुर्वन्तीह तां व्यथाम्।

करोति यामवीच्यादौ मुक्तश्चित्तमतंगजः॥

बद्धश्चेच्चित्तमातंगः स्मृतिरज्ज्वा समन्ततः।

भयमस्तं गतं सर्वं सर्वं कल्याणमागतम्॥

व्याघ्राः सिहां गजा ऋक्षाः सर्पाः सर्वे च शत्रवः।

सर्वे नरकपालाश्च डाकिन्यो राक्षसास्तथा॥

सर्वे बद्धा भवन्त्येते चित्तस्यैकस्य बन्धनात्।

चित्तस्यैकस्य दमनात् सर्वे दान्ता भवन्त्यपि॥

यस्माद्भयानि सर्वाणि दुःखानि विविधान्यपि।

चित्तादेव भवन्तीति प्रोक्तं सर्वमुनीश्वरैः॥

तस्माच्चित्तं समाधाय स्मृत्वा रक्षन् प्रयत्नतः।

चित्तादेव हि सर्वत्र भयं भद्रं च जायते॥

शस्त्राणि नरके केन घट्टितानि प्रयत्नतः।

तप्तायःकुट्टिमं केन कुतो जाताश्च ता स्त्रियः॥

पापचित्तसमुद्भूतं तं तु सर्वं जगुर्जिनाः।

तस्मात्कश्चिन्न त्रैलोक्ये चित्तादन्यो भयानकः॥

११५

अद्ररिद्रं जगत्कृता दानपारमिता यदि।

जगद्दरिद्रमद्यापि सा कथं पूर्वतायिनाम्॥

फलेन सह सर्वस्वत्यागचित्ते जनेऽखिले।

दानपारमिता प्रोक्ता तस्मात् सा चित्तमेव हि॥

मत्स्यादयः क्व नीयन्तां मारयेयुर्यतो नतान्।

लब्धे विरतिचित्ते तु शीलपारमिता मता॥

कियतो मारयिष्यामि दुर्जनान् गगनोपमान्।

मारिते क्रोधचित्ते तु मारिताः सर्वशत्रवः॥

भूमिं छादयितुं सर्वां कुतः चर्म भविष्यति।

उपानच्चर्ममात्रेण छन्ना भवति मेदिनी॥

बाह्या भावास्तथा सर्वा न शक्या वारयितुं क्वचित्।

स्वचित्तमेव निवार्य किमेवान्यैर्निवारितैः॥

सहापि वा च्छरीलाभ्यां मन्दवृत्तेन तत्फ़लम्।

यत्पटोरेककस्यापि चित्तस्य ब्रह्मतादिकम्॥

जपास्तपांसि सर्वाणि दीर्घकालकृतान्यपि।

अन्यचित्तेन मन्देन वृथैवेत्याह सर्ववित्॥

दुःखं हन्तुं सुखं प्राप्तुं भ्रमन्ति ते मुधाम्बरे।

यैश्चैतद्धर्मसर्वस्वं चित्तगुह्यं न भावितम्॥

तस्मात्स्वाधिष्ठितं चित्तं सदा कार्यं सुरक्षितम्।

चित्तरक्षाव्रतं मुक्त्वा किमन्यैर्बहुभिर्व्रतैः॥

यथा चपलमध्यस्थो रक्षति व्रणमादरात्।

एवं दुर्जनमध्यस्थो रक्षेश्चित्तव्रणं सदा॥

लाभा नश्यन्तु ते कामं सत्कारः कायजीवितम्।

नश्यत्वन्यच्च कुशलं मा तु चित्तं कदाचन॥

असंप्रजन्यचित्तस्य श्रुतचिन्ततभावितम्।

सछिद्रकुम्भजलवन्न स्मृताववतिष्ठते॥

अनेके श्रुतवन्तोऽपि श्रद्धायत्नपरा अपि।

असंप्रजन्यदोषेन भवन्त्यापत्तिकश्मलाः॥

११६

असंप्रजन्यचौरेण स्मृतिमोषानुसारिणः।

उपचित्यापि पुण्यानि मुषिता यान्ति दुर्गतिम्॥

क्लेशतस्करसंघोऽयमवतारगवेषकः।

प्राप्यावतारं मुष्णाति हन्ति सद्गतिजीवितम्॥

तस्मात् स्मृतिर्मनोद्वारान्नापनेया कदाचन।

गतापि प्रत्युपस्थाप्या संस्मृत्वा पापिकीं व्यथाम्॥

बुद्धाश्च बोधिसत्त्वाश्च सर्वत्राव्याहतक्षणाः।

सर्वमेवाग्रतस्तेषामहं चापि पुरःस्थितः॥

इति ध्यात्वा तथा तिष्ठन् त्रपादरभ्यान्वितः।

बुद्धानुस्मृतिरप्येव भवेत्तव मुहुर्मुहुः॥

संप्रजन्यं तदायाति नैव यात्यागतं पुनः।

स्मृतिर्यदा मनोद्वारे रक्षार्थमवतिष्ठते॥

इत्येवं त्वं महाराज बोधिचर्याव्रतं चर।

त्रिरत्नं शरणं कृत्वा भज नित्यमनुस्मरन्॥

एतत्पुण्यविपाकेन परिशुद्धत्रिमण्डलः।

बोधिसत्त्वो महासत्त्वो महाभिज्ञो भवेद् ध्रुवम्॥

ततः पारमित्ताः सर्वाः पूरयित्वा यथाक्रमम्।

दुष्टमारान् विनिर्जित्य सद्धर्मगुणराड् भवेह्॥

सद्धर्मश्रीगुणाधारः सर्वसत्त्वहितार्थभृत्।

षडक्षरीमहाविद्यां प्राप्य भवेः समृद्धिमान्॥

ततो मारगणान् सर्वान् जित्वार्हद्विजितेन्द्रियः।

प्राज्ञः सम्बोधिमासाद्य सम्बुद्धपदमाप्नुत्याः॥

तदा त्वमसुरेन्द्रश्रीनार्म तथागतो जिनः।

धर्मराजो जगन्नाथः सर्वज्ञोर्हन्मुनीश्वरः॥

सर्वविद्याधिपः शास्ता महाभिज्ञो विनायकः।

समन्तभद्रकृच्छ्रीमान् गुणाकरो भविष्यसि॥

इमे सर्वे सुरास्तत्र श्रावकास्ते जितेन्द्रियाः।

निःक्लेशा विमलात्मानो भविष्यन्ति शुभंकराः॥

११७

तदा तव मुनीन्द्रस्य बुद्धक्षत्रे समन्ततः।

क्लेशानां समुदाचारा भविष्यन्ति कदापि न॥

इत्येवं त्वं परिज्ञाय समाधायासुराधिप।

बोधिचर्याव्रतं धृत्वा संचरस्व जगद्धिते॥

बोधिचर्यासमुद्भूतं पुण्यं नैव क्षिणोत्यपि।

सदापि सत्फ़लं दद्याद्यावत्संबोधिनिर्वृतिम्॥

बोद्धिचर्याद्भवं पुण्यं सर्वैरपि मुनीश्वरैः।

प्रमातुं शक्यते नैव मयैकेन कथं खलु॥

तस्मात् सर्वप्रयत्नेन विरम्य क्लेशसंगतेः।

त्रिरत्नभजनं कृत्वा बोधिचर्याव्रतं चर॥

यद्येवं चरसे राजन् क्वापि न दुर्गतिं व्रजेः।

सदा सद्गतिसंजातो बोधिसत्त्वः समृद्धिमान्॥

स्वपरात्महितं कृत्वा भुक्त्वा सौख्यं सदा भवेः।

सद्धर्मश्रीगुणापन्नसत्सौक्याभिनन्दितः॥

अन्ते गत्वा सुखावत्याममिताभं जिनेश्वरम्।

संपश्यंश्च्छरणं गत्वा भजिष्यसि सदादरात्॥

तत्सद्धर्मामृतं पीत्वा संबुद्धश्रीगुणालयः।

संबुद्धपदमासाद्य सुनिर्वृतिमवाप्स्यति॥

इत्यादिष्टं जगच्छास्त्रा लोकेश्वरेण सद्धिया।

श्रुत्वा सोऽसुरेन्द्रोऽपि मुमोद बोधिसाधने॥

अथ बलिः स दैत्येन्द्रस्तं लोकाधिपतीश्वरम्।

महाराजर्द्धिसत्कारैः समार्चयत् प्रमोदितः॥

ततः पादाम्बुजे नत्वा सांजलिः संप्रसादितः।

संबोधिप्रणिधिं धृत्वा पुनरेवमभाषत॥

अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितम्।

यत्राद्य रोपितं बीजमद्य संपद्यते फ़लम्॥

यावत्र प्राणिनः सर्वे बोधिसत्त्वा भवन्त्यपि।

तावत्सत्त्वहितार्थाय चरेऽहं बोधिसंवरम्॥

११८

उत्पादयामि संबोधौ चित्तं नाथ जगद्धिते।

निमन्त्रये जगत्सर्वं दारिद्रयान्मोचयामि तत्।

व्यापादाखिलचित्तं तदीर्ष्यामात्सर्यदुर्मतिम्।

नाद्याग्रेण धरिष्यामि यावन्नाप्स्यामि निर्वृतिम्॥

ब्रह्मचर्यं चरिष्यामि कायान्स्त्यक्ष्यामि पापकान्।

बुद्धानामनुशिक्ष्येऽहं शीलसंयमसंवरम्॥

नोऽहं त्वरितरुपेण बोधिं प्राप्तुं समुत्सहे।

भवान्तकोटिमिच्छामि स्थातुं सत्त्वस्य कारणाम्॥

क्षेत्रान् विशोधयिष्यामि चाप्रमेयान् समन्ततः।

नामधेयं करिष्यामि दशसु दिक्षु विश्रुतम्॥

कायवाचोमनस्कर्म शोधयिष्यामि सर्वथा।

बोधिमार्गे प्रतिष्ठाप्य चारयिष्ये जगच्छुभे॥

त्रिरत्नभजनं कृत्वा यावत्र निर्वृतिं गतः।

बोधिचर्याव्रतं धृत्वा करिष्यामि जगद्धितम्॥

इति मे निश्चयं शास्तस्तद्भवान् संप्रसीदतु।

भवत्प्रसादमासाद्य बोधिसत्त्वोऽस्मि साम्प्रतम्॥

इति तदुक्तमाकर्ण्य लोकेश्वरः प्रसादितः।

तं बलिं बोधितं पश्यन् पुनरेवमुपादिशत्॥

यद्येवं ते मनो बोधिचर्याव्रते सुनिश्चितम्।

हितार्थं ते प्रवक्ष्यामि तच्छृणुष्व समाहितः॥

यस्य पुण्येऽभिलाषोऽस्ति तेन पूज्या जिनास्सदा।

तेन संलभ्यते पुण्यं संबोधिगुणसाधनम्॥

यस्य ज्ञाने रुचिस्तेन श्रोतव्यं योगमुत्तमम्।

ततः संप्राप्यते ज्ञानं संबोधिपदसाधनम्॥

यस्य भोग्ये रुचिस्तेन कर्तव्यं दानमीप्सितम्।

ततोऽभिवांछितं भोग्यं प्राप्यते श्रीगुणान्वितम्॥

यस्य स्वर्गेऽभिलाषोऽस्ति सुशीलं तेन धार्यताम्।

ततो दिव्यमहत्सौख्यं लभ्यते श्रीगुणास्पदम्॥

११९

प्रतिभाणार्थिकेनापि कर्तव्यं गुरुगौरवम्।

तेन संप्राप्यते नूनं प्रतिभाणं महत्तरम्॥

संधारणार्थिकेनापि भावनीया निरात्मता।

तेनाभिलभ्यते मुक्तिर्भवचारणबन्धनात्॥

सुखार्थिकेन त्यक्तव्या पातकाभिरतिर्मतिः।

तेन संलभ्यते सौख्यं सुभद्रं निरुपद्रवम्॥

सत्त्वहितार्थिकेनापि धर्तव्यं बोधिमानसम्।

तेन सत्त्वहितं कृत्वा प्राप्यते बोधिरुत्तमा॥

मंजुस्वरार्थिकेनापि वक्तव्यं सत्यमेव हि।

तेन मंजुस्वरो सत्यवादी भवति सन्मतिः॥

शुद्धगुणार्थिकेनापि सेवितव्यः सुसद्गुरुः।

तेन सद्गुणसंपत्तिश्रीसमृद्धो भवत्यपि॥

शमथे रुच्यते तेन कार्या सत्संगचारणा।

विपश्यनार्थिकेनापि प्रत्यवेक्ष्यात्मशून्यता॥

तथा हि सर्वदोषाणां व्युपशन्तिर्भवेद् भवे॥

ब्रह्मलोकार्थिकेनापि धार्या ब्रह्मविहारिता।

तया ब्रह्म समासाद्य परा गतिरवाप्यते॥

नृदेवश्र्यर्थिकेनापि धर्तव्यं दशकौशलम्।

तेन सुरेन्द्रसम्पत्तित्वम्छ्रीः संप्राप्यते ध्रुवम्॥

सुनिर्वाणार्थिकेनापि कार्यं ज्ञानभियोजनम्।

तेनेव सकलान् मारान् जित्वा संबोधिमाप्नुयात्॥

बोधिगुणार्थिकेनापि सेवितव्यं त्रिरत्नकम्।

तेन बोधिमतिं प्राप्य निर्वृतिपदमाप्नुयात्॥

एवं विज्ञाय दैत्येन्द्र सद्धर्मसुखसाधनम्।

मया ते हितमाख्यातं बुध्वा धर्तुं यदीच्छसि॥

विरम्य तीर्थिकासंगात् त्रिरत्नशरणं गतः।

बोधिचर्याव्रतं धृत्वा संचरस्व जगद्धिते॥

एवं कृत्वासुरेन्द्र त्वं बोधिसत्त्वो जिनात्मजः।

महासत्त्वो महाभिज्ञो सर्वलोकाधिपो भवेः॥

१२०

एवं यो चरते नात्र क्लेशव्याकुलिताशयः।

मारचर्यागुणसक्तोऽसत्पथे संचरिष्यते॥

ततोऽतिक्लेशितात्मा स दशाकुशलसंरतः।

भूयोऽतिपातके घोरे निर्विशंकश्चरिष्यति॥

ततोऽतिदुरितात्मा स दारुणदुःखतापितः।

दुःसहक्लेशरागाग्निदग्धांगः परितप्यते॥

तदा तस्य सुहतत्राता कश्चिदेकोऽपि नैव हि।

तथातिचिररोगार्त्तः कृच्छ्रेण स मरिष्यत॥

ततः स यमदूतेन बध्वा संतर्ज्य नेष्यते।

तत्र पश्यन् स सर्वत्र सर्वान् दुष्टान् भयंकरान्॥

पश्येद् वृक्षान् प्रदीप्ताग्निज्वालामालातिभीषणान्।

पूयशोणितसंपूर्णां भीमां वैतरणीं नदिम्॥

तान् दृष्ट्वा स परित्रस्तो विकलो दीनमानसः।

विमोहितो विषण्णात्मा तिष्ठेत् त्रासविषार्दितः॥

ततस्ते यमदूतास्तं कालपाशैर्निबध्य च।

क्षुरधारोचिते मार्गे क्रामयेयुर्बलाद् द्रुतम्॥

तत्पादशीर्णमांसानि काकगृध्रोलूकादयः।

पक्षिणः श्वशृगालाश्च भक्षेयु रुधिराण्यपि॥

पुनेरेवं समुद्भूतो भविष्यतो विशीर्णितो।

एवं स महतीं प्रत्यनुभवेन्नरके व्यथाम्॥

ततोऽवतार्य भूयस्तं बध्वा ते यमकिंकराः।

तीक्ष्णकण्टाचित्ते मार्गे क्रामयेयुरितस्ततः॥

एकैकांघ्रितले तस्य पंचपंचशतान्यपि।

कण्टकान्यतितीक्ष्णानि प्रवेक्ष्यन्ति समन्ततः॥

तत्र स चंक्रमाशक्तातत्तीव्रवेदनार्दितः।

किं मया प्रकृतं पापमित्युक्त्वाभिरुदनक्रमेत्॥

तच्छ्रुत्वा यमदूतास्ते रक्ताक्षा भीषणननाः।

ततोऽवतार्य तं दुष्टं वदेयुरेवेमग्रतः॥

१२१

अरे पापिन किमत्रैवमिदानीमनुशोचसे।

अवश्यं यत्कृतं कर्म भोग्यमेव हि तत्फ़लम्॥

यत्त्वया प्रकृतं पापं तत्फ़लं भुक्तमत्र हि।

यदि न प्रकृतं पापं भुंज्यानैवात्र तत्फ़लम्॥

धर्मस्ते विद्यते नैव तत्त्राता नात्र कश्चन।

धर्म एव सुहत्त्राता सर्वेषां भवचारिणाम्॥

यत्त्वय कामरक्तेन विलंघ्य सद्गुरोर्वचः।

असन्मित्रानुरागेण प्रकृतं पातकं बहु॥

हत्वापि प्राणिनोऽनेका भुक्तास्त्वया प्रमोदिना।

अदत्तमपि चाहृत्य भुक्तम् द्रव्यं त्वया बलात्॥

अधर्मरतिरोगेण भुक्ताश्चापि परयियः।

यशोजीवितद्रव्यार्थे प्रभाषितं मृषा वचः॥

पैशुन्यवचसा भेदं सुहृदां च कृतं त्वया।

लोके भिन्नप्रलापेन प्रकृतं वैरविग्रहम्॥

पारुष्यवचसाक्रुष्य सन्तोऽपि परिभाषिताः।

परस्वविषये लोभात्तृष्णाक्लिष्टं मनस्तव॥

साधूनामर्हतां चापि व्यापादमपि चिन्तितम्।

मिथ्यादृष्टिप्रमादेन स्वपरात्माहितं कृतम्॥

एवम् नानाविधानेन क्लेशाभिमानिना त्वया।

प्रभुक्त्वैव यथाकामं संचरित्वा यथेच्छया।

साधितं पापमेवैवं धर्मं किंचिन्न साधितम्॥

भुक्त्वैव केवलं भोग्यं यथाकामं प्रमोदिना।

क्रीडीत्वा पशुनेवैवं दुख़्ख हेतु त्वयार्जितम्॥

सद्धर्मसाधनं चित्तमुत्साहितं न ते क्वचित्।

तेनात्रैवं महद्दुखं त्वया दुरात्मना॥

नापि किंचित् त्वया दत्तमर्थिभ्यः द्रव्यमीप्सितम्।

दृष्ट्वापि परदेहानि मनस्ते रोषदूषितम्॥

१२२

शीलं ते विद्यते नैव किंचिदपि च संयमे।

क्षान्तिर्न भाविता नैव सत्त्वेषु दुःखितेष्वपि॥

न कृतं शासने बोद्धे सत्कारभजनोत्सवम्।

त्रिरत्नस्मरणं कृत्वा ध्यानं नापि जगद्धितम्॥

प्रज्ञापि साधिता नैव सद्धर्मगुणसाधनी।

त्रिरत्नस्तूपबिम्बानां दृष्ट्वापि नानुमोदितम्।

सत्कारं भजनं नैव किंचिदपि कृतं त्वया॥

प्रदक्षिणानि कृत्वापि वन्दिप्वापि कदाचन।

स्मृत्वा नाम गृहीत्वापि न हि संसाधितं शुभम्॥

सद्धर्मभाषितं क्वापि श्रुतं त्वया कदापि न।

सांघिकानां च सत्कारं कृतं नापि कदाचन॥

धर्मगण्डीनिनादं च श्रुतं त्वया कदापि न।

किंचिदपि न ते धर्मे मनोऽभिलषते क्वचित्॥

तेनात्र दारुणं दुःखं त्वयाप्तं साम्प्रतं ध्रुवम्।

येनैव यत्कृतं कर्म तेनैव भुज्यते फ़लम्॥

इति तैर्गदितं श्रुत्वा स पापी परितापितः।

तेषां पुरो रुदन्नैवं ब्रूयाच्च निःश्वसन् शनैः॥

अश्राद्धोऽहं तदा धर्मे त्रिरत्नगुणनिःस्पृहः।

असन्मित्रोपदेशेन प्रारमन्दुरिते सदा॥

तद्भवद्भिः कृपाबुद्धया क्षन्तव्या मेऽपराधता।

रक्षितव्याहमात्रापि युष्माभिरपि सर्वथा॥

इति तत्प्रार्थितं श्रुत्वा सर्वे ते यमकिंकराः।

तं बध्वा यमराजस्य पुरतः सहसा नयेत्॥

तं दृष्ट्वा यमराजोऽपि समुपानीतमग्रतः।

तान् सर्वान् किन्नरान् पश्यन् सहसैवमुपादिशेत्॥

किमत्र मे उपानीतः पापिष्ठोऽयं हि दुर्मतिः।

यदस्य पापिनो द्रष्टुमपि नेच्छाम्यहं मुखम्॥

गच्छतैवं निबध्वापि दर्शयत स्वकर्मताम्।

यत्र कर्मफ़लं भोग्यं तत्रैनं नयत द्रुतम्॥

१२३

इति राज्ञा समादिष्टं श्रुत्वा ते यमकिन्नराः।

तं बध्वा सहसा नीत्वा कालसूत्रेऽतिदारुणे।

क्षिप्त्वा शक्तिशतैः काये प्रहरेयुरनेकधा॥

तथा स विध्यमानोऽपि शक्तिशतैरनेकधा।

दुःसहवेदनां भुक्त्वा जीवन्नैव त्यजेदसून्॥

तथापि तं महादुष्टं जीवन्तं तं समीक्ष्य ते।

बध्वा चाग्निखदामध्ये क्षिप्त्वा कुर्युर्विदाहितम्॥

तथापि जीवितो नैव त्यजेत् प्राणं स किल्विषी।

सर्वांगदग्धितश्चापि तिष्ठेत् प्रश्वस्य मोहितः॥

तथापि तममुक्तासुं दृष्ट्वा ते यमकिंकराः।

क्षिप्त्वा तस्य मुखे तप्तं भक्षयेयुरयोगुडम्॥

तेन तस्य मुखमोष्ठौ जिह्वा दन्ता च कण्ठकम्।

हदयमन्त्रगुणा दग्धा सर्वांगोऽप्यभिधक्ष्यते॥

ततो निदग्धकायोऽसौ पापी त्यक्त्वा तदाश्रयम्।

अन्यत्र नरके जन्म लब्ध्वैवं दुःखमाप्स्यते॥

एवमेव महाराज दशाकुशलचारिणः।

सर्वे ते पापिनो दुष्टा भुंजन्ते नरके व्यथाम्॥

कश्चित्त्राता तदा तेषां नास्त्येव तत्र नारके।

यावन्न क्षीयते कर्म तावद्दुःखं समन्ततः॥

पुण्यमेव सुहृत्त्राता सर्वभवचारिणः।

पापिनो नरकासीनाः स्वर्गासीना हि पुण्यिनः॥

तस्माद्राजन्विदित्वैवं संसारभद्रवांछिभिः।

दुःखं हन्तुं सुखं प्राप्तुं कर्तव्यं पुण्यमेव हि॥

पुण्येन जायते क्वापि दुर्गतौ न कदाचन।

सदा सद्गतिसंजाता भवन्ति श्रीगुणालयाः॥

पुण्यवांल्लक्ष्मीमांछ्रीमान् गुणवान् बुद्धिमान् कृती।

सर्वविद्याकलाभिज्ञः सर्वसत्त्वार्थभृद्भवेत्॥

सुशीलो संयमी धीरः क्षान्तिमान् वीर्यवान् बली।

समाधिगुणवान् प्राज्ञः सर्वधर्माधिपो भवेत्॥

१२४

बोधिचित्तमपि प्राप्य सर्वसात्त्वहितार्थभृत्।

बोधिसत्त्वो महासत्त्वः संबुद्धगुणसाधकः॥

बोधिचर्याव्रतं धृत्वा संचरेत जगद्धिते॥

ततोऽभिसुहृत् कृपात्मा स परिशुद्धत्रिमण्डलः।

निःक्लेशोऽर्हत् त्रिधां बोधिं प्राप्य निर्वृतिमाप्नुयात्॥

इति विज्ञाय राजेन्द्र यदि संबोधिमिच्छसि।

विरम्य तीर्थिकासंगाद् बोधिचर्याव्रतं चरन्॥

सर्वसत्त्वहितं कृत्वा चतुर्ब्रह्मविहारधृक्।

त्रिरत्नभजनं कृत्वा साधय पुण्यसन्मणिम्॥

यद्येवं साध्यते पुण्यं भवेरेवं महर्द्धिमान्।

सद्धर्मरत्नमासाद्य त्रिलोकाधिपतिर्भवेत्॥

इत्येवं समुपादिष्टं लोकेशेन निशम्य सः।

बलिस्तथेति विज्ञप्य प्राभ्यनन्दन्प्रबोधितः॥

ततः स दैत्यराजेन्द्रस्तं त्रैलोकाधिपं गुरुम्।

महद्राजर्द्धिसत्कारैः समभ्यर्च्य प्रमोदितः॥

दिव्यरत्नमयोज्ज्वालं मौलिकुण्डलभूषणम्।

मुक्तिकाहारत्नादिन् दक्षिणान् समढौकयेत्॥

ततः प्रदक्षिणान्कृत्वा सांजलिः संप्रमोदितः।

तत्पादाम्बुरुहे नत्वा समालोक्यैवमब्रवीत्॥

भगवंल्लोकराजेन्द्र भवत्कृपाप्रसादतः।

पवित्रीभूतमात्मानं भवति मेऽधुना ध्रुवम्॥

सर्वदाहं जगन्नाथ भवतां शरणाश्रितः।

त्रिरत्नभजनं कृत्वा संचरे बोधिसंवरे॥

तन्मेऽनुग्रहमाधाय सदैवं द्रष्टुमर्हति।

क्षमित्वा चापराधत्वं पुत्रवत् पालयस्व माम्॥

भवानत्रैवमाश्रित्य सद्धर्मं समुपादिशत्।

अस्मदनुग्रहं कृत्वा विजयितुं सदार्हति॥

इत्येवं प्रार्थिने तेन बलिना स जगत्प्रभुः।

लोकेश्वरो महासत्त्वस्तं विलोक्यैवमादिशत्॥

१२५

नाहं सदात्र तिष्ठेयं बहु कार्यं ममास्ति हि।

ततोऽहं जेतकोद्याने विहारे सुगताश्रमे।

सदेवासुरलोकानां सन्निपाता भवत्यपि॥

तत्र तं त्रिजगन्नाथं विश्वभुवं मुनीश्वरम्।

संबुद्धं द्रष्टुमिच्छामि तद्गमिष्यामि साम्प्रतम्॥

तत्त्वं यथा परिज्ञातं तथा कृत्वा समाहितः।

बोधिचर्याव्रतं धृत्वा सुखं चर सदा शुभे॥

इति शास्ता समादिष्टं श्रुत्वा स बलिरादरात्।

तथेति प्रतिवन्दित्वा प्राभ्यनन्दत्तमीश्वरम्॥

एवं स त्रिजगन्नाथो लोकेश्वरो जिनात्मजः।

तं बलिं समनुशास्य प्रतस्थौ भासयन्स्ततः॥

संचरन्तं तमालोक्य सजनः सोऽसुराधिपः।

दूरतः सांजलीर्नत्वा संपश्यन् स्वालयं ययौ॥

तदारभ्यासुरेन्द्रोऽसौ बोधिचर्याव्रतं दधत्।

त्रिरत्नभजनं कृत्वा सदारज्जगद्धिते॥

सर्वे तस्य जनाश्चापि त्रिरत्नभजने रताः।

तथा बोधिव्रतं धृत्वा प्राचरन्त सदा शुभे॥

इत्यादिष्टं मुनीन्द्रेण श्रुत्वा सर्वे सभाश्रिताः।

लोकाः सद्धर्मं वांछन्तः प्राभ्यनन्दन् प्रबोधिताः॥



॥इति बलिसंबोधनबोधिमार्गावतारणप्रकरणम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project