Digital Sanskrit Buddhist Canon

७. अधोमुख सत्त्वोद्धारण प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

7. adhomukha sattvoddhāraṇa prakaraṇam

७. अधोमुख सत्त्वोद्धारण प्रकरणम्



अथासौ भगवांच्छास्ता श्रीघनस्त्रिजगद्गुरुः।

विष्कम्भिनं महासत्त्वं संपश्यंश्चैवमब्रवीत्॥

भूयोऽपि कुलपुत्रास्य लोकेशस्य महद्गुणम्।

श्रुतं मया तथा वक्ष्ये तच्छृणुत समादरात्॥

तद्यथाभुत् पुरा शास्ता तथागतो मुनीश्वरः।

सर्वज्ञोऽर्हन्महाभिज्ञो धर्मराजो विनायकः॥

सर्वधर्माधिपो नाथः सर्वविद्याधिपेश्वरः।

विश्वभूर्नाम् संबुद्धो भगवान् सुगतो जिनः॥

तदाहं कुलपुत्रासं क्षान्तिवादीति विश्रुतः।

महर्षिस्तापसो धीमान् संयमी विजितेन्द्रियः॥

गिरिगुहां समाश्रित्य संबोधिधर्मसाधकः।

व्यहरन् सत्त्वहितं कृत्वा चतुर्ब्रह्मविहारिकः॥

तदाप्यस्य जगच्छास्तुर्लोकेशस्य महत्तरम्।

गुणप्रभावमाख्यातं विश्वभुवा श्रुतं मया॥

७४

तद्यथासौ जगच्छास्ता विश्वर्भूभगवान् जिनः।

तद्वनोपाश्रमे रम्ये विजहार ससांघिकः॥

तदा स भगवांस्तत्र सर्वलोकसभाश्रितः।

सद्धर्मं समुपादिश्य सत्त्वान् बोधौ व्यनोदयन्॥

यदैकसमये तत्र भगवान् स मुनीश्वरः।

आर्यधर्ममुपादेष्टुं सभासने समाश्रयत्॥

तदा तत्र महान् रश्मिरवभास्य समन्ततः।

सर्वत्र मंगलं कृत्वाह्लादयन्ती समासरत्॥

तद्रश्मिसंपरिस्पृष्टाः सर्वसत्त्वाः सुखान्विताः।

तदद्भुतं समालोक्य विस्मयं समुपाययुः॥

तदा गगनगंजाख्यो बोधिसत्त्वो महामतिः।

सर्वांस्तान् विस्मयापन्नान् लोकान् पश्यन् समुत्थितः॥

उद्वहन्नुत्तरासंगं सांजलिः पुरतोऽग्रतः।

विश्वभुवं मुनीन्द्रं तं नत्वैवं पर्यपृच्छत॥

भगवन् पुण्यप्रभाकान्तिः कस्य हेयं समागता।

यया स्पृष्टा इमे लोका महत्सुखसमन्विताः॥

विस्मितास्तत्समालोक्य भगवन्तं मुनीश्वरम्।

तद्धेतुं श्रोतुमिच्छन्तः सर्वे तस्थुः समाहिताः॥

तेदषां हदयान्तःस्थं महदद्भुतकौतुकम्।

विनोदितुमिमं हेतुं कस्येति तदुपादिश॥

इति तेनोदितं श्रुत्वा विश्वभूः स मुनीश्वरः।

विलोक्य तं महासत्त्वं गगनगंजमब्रवीत्॥

शृणु त्वं कुलपुत्रात्र यदिदं कान्तिरागता।

तदहं संप्रवक्ष्यामि श्रुत्वेदमनुमोदत॥

या कांचनमयीः भूमिर्जम्बुद्विपेऽत्र विद्यते।

तस्यामधोमुखाः सत्वा निवसन्त्यप्रमोयिकाः॥

तान् सर्वान् पापिनो दुष्टान् पश्यन् स सुगतात्मजः।

लोकेश्वरः समद्धर्त्तुं सुखावत्या इहागतः॥

७५

तेषां पापविशोधार्थं पुण्यरश्मिं समुत्सृजन्।

भासयन् स जगल्लोकांस्तत्र याति कृपानिधिः॥

तत्प्रभापरिसंस्पृष्टाः सर्वे ते सत्सुखान्विताः।

किमेतदिति संविक्ष्य तिष्ठन्ति विस्मिताशयाः॥

तदा तत्र स लोकेश ऋषिरुपेण भासयन्।

सर्वानधोमुखान् सत्त्वानुपैति तान् विलोकयन्।

तमृषिं संप्रभासन्तं समायातं विलोक्य ते॥

सर्वेऽप्यधोमुखाः सत्त्वाः समुपायान्ति संमुखम्।

तत्र सर्वेऽपि ते सत्त्वाः प्रणत्वा तं मुनिं मुदा॥

श्रद्धासने प्रतिष्ठाप्य प्रार्थयन्त्येवमादरात्।

महर्षे यदिहायासि तदस्मद्भाग्ययोगतः॥

तद्भवान् कृपयास्माकं दैवमाख्यातुमर्हति।

किं कर्म पातकं घोरमस्माभिः प्रकृतं पुरा॥

येनास्मोऽधोमुखा सर्वे वयं जाता इहेदृशाः॥

इति तैः प्रार्थितं श्रुत्वा स महर्षिर्विलोक्य तान्।

सर्वानधोमुखान् सत्त्वान् समादिशति बोधयन्॥

शृणुश्वं यत्पुरा कर्म युष्माभिः प्रकृतं यथा।

तत्समुपदिशाम्यत्र श्रुत्वा तत्परिबुध्यताम्॥

यत्त्रिरन्तं प्रतिक्षिप्य मदेर्ष्यामानगर्विताः।

अदृश्यमिति भाषन्तो चरन्नधोमुखाः पुरा॥

तेनैतद्दैवयोगेन यूयं सर्वेऽप्यधोमुखाः।

दुःखानि विविधान्यत्र भुक्त्वा वसथ साम्प्रतम्॥

तदत्र श्रद्धया यूयं त्रिरत्नशरणं गताः।

ध्यात्वा स्मृत्वा समुच्चार्य नामापि भजतादरात्॥

पोषधं च व्रतं धृत्वा चतुर्ब्रह्मविहारिणः।

स्वपरात्महितं कृत्वा संचरध्वं सदा शुभे॥

ततः संबोधिचित्तेन धृत्वा बोधिव्रतं सदा।

त्रिरत्नभजनोत्साहैः संचरध्वं जगद्धिते॥

७६

ततो यूयं विकल्मषाः परिशुद्धत्रिमण्डलाः।

निःक्लेशा बोधिमासाद्य निर्वृतिसुखमाप्स्यथ॥

इति तेन समादिष्टं श्रुत्वा सर्वेऽपि ते मुदा।

तस्य पादौ पुनर्नत्वा पुरःस्थित्वैवमब्रुवन्॥

नाथोऽसि त्वं जगल्लोके सद्धर्मसुखसंभरः।

आश्वासय तदस्माकमन्धानां पापचारिणाम्॥

तमोऽभिभूतदृष्टीनां प्रणष्टपथचारिणम्।

अनाथानाममित्राणां दीनानां मूढचेतसाम्॥

त्राणशरण्यशून्यानां मन्दानां दुःखभागिनाम्।

धर्मदीपं समुज्ज्वाल्य दर्शय निर्वृतेः पथः॥

दत्वा सत्सुखसम्पत्तिर्न्नाथो भव शुभार्थभृत्।

दत्वा पुण्यार्जनोपायं सन्मित्रो भव सन्मतिः॥

दुर्गतितरणोपायं प्रदत्वा भवसद्गतिः।

सद्गतिगमनोपायं दत्वा शास्त्वा गुरुर्भव॥

निर्वार्य पापसंगेभ्यस्त्राता क्लेशापहो भव।

दुर्वृत्तिक्लेशसंतापं हत्वा भवशरण्यकः॥

सद्धर्मसाधनोत्साहं दत्वा भव विनायकः।

सद्गुणसुखसंपत्तीर्दत्वा भव सुहत्प्रभुः॥

सद्धर्मं समुपादिश्य चारयास्मान् सुसंवरे।

विमुक्तिसाधनोपायं दत्वा प्रेषय निर्वृतिम्॥

धन्यास्ते सुखिता येते सततं शरणे स्थित्वा।

स्मृत्वा नाम समुच्चार्य ध्यात्वा भजन्ति सर्वदा॥

ईदृग्दुःखं न ते क्वापि यास्यन्ति भवचारणे।

यादृग्वयमिदं दुःखमनुभावामहे सदा॥

ते सद्भाग्या महासत्त्वा ये सदा ते उपस्थिताः।

आदिमध्यान्तकल्याणं धर्मं श्रुत्वा चरन्ति वै॥

वयमपि तथा सर्वे सदा ते शरणे स्थिताः।

धर्मं श्रुत्वा सुकल्याणमिच्छामश्चरितुं व्रतम्॥

७७

तत्प्रसीद महर्षे त्वमस्माकं सद्गुरुर्भव।

सद्धर्मं समुपादिश्य चारयास्मान् सुसंवरे॥

इति तैः प्रार्थितं श्रुत्वा स महर्षिः प्रसादितान्।

तान् सर्वान समुपामन्त्र्य समालोक्यैवमादिशत्॥

शृणुध्वं सादरं यूयं सदा भग्रं यदीच्छथ।

हितार्थं वः प्रवक्ष्यामि सद्धर्मबोधिसाधनम्॥

इत्यादिश्य स कारण्डव्यूहसूत्रं सुभाषितम्।

उच्चार्य श्रावयन् बोधिचर्यायां योजयत्यपि॥

ततस्ते पुरेषाः सर्वे सद्धर्मसाधनोद्यताः।

त्रिरत्नभजनं कृत्वा संचरन्ते सुसंवरे॥

ततस्ते विमलात्मानः परिशुद्धत्रिमण्डलाः।

बोधिचर्याव्रतं धॄत्वा संचरन्ते जगद्धिते॥

सर्वेऽपि ते महासत्त्वा बोधिसत्त्वा महर्द्धिकाः।

परमसुखाभर्तारो भवन्त्यप्यनिवर्तिनः॥

एवं स त्रिजगन्नाथ ऋषिरुपेण बोधयन्।

सर्वान्स्तान बोधिचर्यायां नियुज्य चारयत्यपि॥

एवं तान् बोधिमार्गेऽसौ महर्षिः सर्वान्नियुज्य च।

ततोऽन्तर्हित आकाशे याति वह्निरिवोज्ज्वलन्॥

तमाकाशगतं दृष्ट्वा सर्वे तेऽप्यतिविस्मिताः।

प्रणत्वा चानुशंसतः संचरन्ते समादरात्॥

तस्य लोकेश्वरस्येयं पुण्यकान्तिः शुभा प्रभोः।

अवभास्य जगल्लोकमिहापि संप्रसारिता॥

एवं स त्रिजगन्नाथो लोकेश्वरो जिनात्मजः।

सर्वसत्त्वहितं कृत्वा प्रचरन्ति समन्ततः॥

तेन तस्य महत्पुण्यस्कन्धं बहुसमुत्तमम्।

अप्रमेयमसंख्येयं इत्यादिष्टं मुनीश्वरैः॥

एवं विज्ञाय सर्वेऽस्य लोकेशस्य सदादरात्।

स्मॄत्वा ध्यात्वा समुच्चार्य नामापि भक्तुमर्हथ॥

७८

ये तस्य शरणं गत्वा स्मृत्वा ध्यात्वापि सर्वदा।

नामापि च समुच्चार्य भजन्ति श्रद्धया मुदा॥

दुर्गतिं ते न गच्छन्ति संजातास्सद्गतौ सदा।

धर्मश्रीगुणसंपत्तिर्भुक्त्वा यान्ति सुखावतीम्॥

इत्यादिष्टं मुनीन्द्रेण विश्वभुवा निशम्य ते।

सर्वे सभाश्रिता लोकाः प्राभ्यनन्दन् प्रबोधिताः॥

इत्येवं लोकनाथस्य पुण्यप्रभावमुत्तमम्।

विश्वभुवा मुनीन्द्रेण समादिष्टं मया श्रुतम्॥

एवं सुकृतमाहात्म्यं लोकेश्वरस्य सद्गुरोः।

विज्ञाय शरणं गत्वा भजन्तु बोधिवांछिन॥

ये तस्य शरणं गत्वा भजन्ति श्रद्धया सदा।

सद्धर्मगुणसौख्यं भुक्त्वा यायुः सुखावतीम्॥

तत्र गत्वामिताभस्य सद्धर्मामृतमुत्तमम्॥

पीत्वा संबोधिमासाद्य प्रान्ते यायुः सुनिर्वृतिम्॥

इत्यादिष्टं मुनीन्द्रेण श्रीघनेन निशम्य ते।

सर्वे सभाश्रिता लोकाः प्राभ्यनन्दन् प्रबोधिताः॥

॥ इत्यधोमुखसत्त्वोद्धरप्रकरणम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project