Digital Sanskrit Buddhist Canon

६. दुर्दान्त दानव प्रबोधन बोधिचर्यावतारण प्रकरणम्

Technical Details
६. दुर्दान्त दानव प्रबोधन बोधिचर्यावतारण प्रकरणम्



अथ सर्वनीवरणविष्कम्भी स जिनात्मजः।

भगवन्तं मुनीन्द्रं तं पुनर्नत्वैवमब्रवीत्॥

दुर्क्लभं भगवन्स्तस्य लोकेश्वरस्य दर्शनम्।

सद्धर्मश्रवणं चापि सदा त्रैधातुकेष्वपी॥

कदासौ त्रिजगन्नाथो लोकेश्वर इहाव्रजेत्।

द्रष्टुमिच्छाम्यहं शास्तस्तं सर्वाधिपतिं प्रभुम्॥

इति तेनोदितं श्रुत्वा भगवान् स मुनीश्वरः।

विष्कम्भिनं महासत्त्वं तमालोक्यैवमादिशत्॥

भूयस्तस्य जगद्भर्तुः लोकेश्स्य महात्मनः।

सद्धर्मगुणमाहात्म्यं वक्ष्ये तच्छ्रणुतादरात्॥

अस्मिन् द्वीपेऽस्ति कांचन्यमयी भूमिर्मनोरमा।

तत्रानेकसहस्राणि वसन्ति स्मामरद्विषाम्॥

तत्रासौ त्रिजगन्नाथो लोकेश्वरो विलोकयन्।

दुर्दन्तान् दनुजान् दुष्टान् समुद्धर्तुमुपाचरत्॥

ददर्श तान् महादुष्टान् दशाकुशले संचरतान्।

मदमानातिर्दर्पान्धान् क्लेशाग्नितापिताशयान्॥

संपश्यन् करुणात्मा स मैत्रीकारुण्यचोदितः।

पुण्यरश्मिं समुत्सृज्य प्रभासयन्नुपाचरत्॥

तद्रश्मिपरिसंस्पृष्टाः सर्वे ते सुखतान्विताः।

अत्यद्भुतसमाघ्रातचित्ता एवं व्यचिन्तयन्॥

अहो कुत इयं कान्तिः प्रायातेह प्रसारिता।

यया स्पृष्टा वयं सर्वे महत्सौख्यसमन्विताः॥

६७

इति चिन्तयतां तेषां स लोकेश्शो जिनात्मजः।

पुर आचार्यरुपेण संपश्यन् समुपाचरन्॥

तमेवं समुपायातं दृष्ट्वा सर्वेऽपि तेऽसुराः।

सुप्रसन्नाः समागम्य प्रणत्वैवं बभाषिरे॥

स्वागतं ते शिवं कश्चिद्विजयस्वात्र सद्गुरो।

प्रविशेहासने शास्तर्यत्कार्यं तत्समादिश॥

इति तैः प्रार्थितं श्रुत्वा समाश्रित्य स आसने।

सर्वांस्तान् समुपासीनान् समालोक्यैवमब्रवीत्॥

कस्येयं कान्तिरायाता यत्पृष्टे नो महत्सुखम्।

मन्यध्वं किं भवद्भिस्तद्भुतमिह जायते॥

इति तेनोदितं श्रुत्वा सर्वे ते दानवा अपि।

शास्तारं तं समालोक्य प्रत्यूचुरेवमादरात्॥

न जानीमो वयं शास्तः कस्येयं कान्तिरागता।

तद्भवान्नः समादिश्य प्रबोधयितुमर्हति॥

इति तैः प्रार्थितं श्रुत्वा स आचार्यो विलोक्य तान्।

सर्वांस्तदद्भुतं प्रष्टुकामानेवमभाषत॥

शृण्वन्तु तदहं वक्ष्ये यदियं कान्तिरागता।

श्रुत्वा मया यथाख्यातं तथा चरितुमर्हथ॥

इति तेन समादिष्टं श्रुत्वा सर्वेऽपि तेऽसुराः।

सुप्रसन्नाशया नत्वा तं गुरुमेवमब्रुवन्॥

शास्तर्भवान् यदमाकमाचार्यो धर्मदेशकः।

तदेतदद्भुतं जातं समुपादेष्टुमर्हति॥

इति तैः प्रार्थ्यमानः स आचार्यस्तान् प्रसादितान्।

सर्वान् विस्मयसंपन्नान् समालोक्यैवमादिशत्॥

शृणुध्वमादद्यूयं सर्वं तत्र ममोदितम्।

तदेवमद्भुतं जातं बोधयितुं प्रवक्ष्यते॥

तद्यथा यो जगन्नाथः सर्वत्रैधातुकाधिपः।

जगच्छास्ता जगद्भर्ता बोधिसत्त्वो जिनात्मजः॥

६८

महासत्त्वो महाभिज्ञ आर्यावलोकितेश्वरः।

मैत्रीक्षमाप्रसन्नात्मा करुणामय ईश्वरः॥

स त्रैलोकेश्वरः श्रीमान् सद्धर्मपुण्यभास्करः।

सर्वान् सत्त्वान् समुद्धर्तुं चरते त्रिभवेष्वपि॥

सर्वत्र स समालोक्य सर्वान् सत्त्वान् प्रबोधयन्।

बोधिमार्गे प्रतिष्ठाप्य प्रेषयति सुखावतीम्॥

स एवं सर्वलोकेषु सर्वेषु नारकेष्वपि।

निमग्नान् पापिनो दुष्टानपि सत्त्वान् विलोकयन्॥

पुण्यसुधाकरैः स्पृष्ट्वा समुद्धृत्य प्रबोधयन्॥

बोधिमार्गे प्रतिष्ठाप्य प्रेषयति सुखावतीम्॥

दिने दिने स आलोक्य समुद्धृय प्रबोधयन्।

अप्रेमेयानसंख्येयान् सत्त्वान् प्रेषयति सद्गतौ॥

एवं कृत्वा स लोकेशो महत्पुण्यैः समन्वितः।

सर्वधर्माधिपः शास्ता धर्मराजो जगत्प्रभुः॥

बोधिसत्त्वो महासत्वः सर्वसत्त्वहितार्थभृत्।

सर्वविद्याधिपो धीरः संबोधिज्ञानभास्करः॥

इहापि स समागत्य सर्वान् सत्त्वान् प्रबोधयन्।

बोधिमार्गे प्रतिष्ठाप्य संप्रेषयेत् सुखावतीम्॥

इत्येवं स इहागन्तुं पुण्यरश्मि समुत्सृजन्।

प्रभासयन् जगल्लोकं संचरत्वे जिनालयान्॥

तस्य पुण्यप्रभाकान्तिरिहापीयं प्रसारिता।

तया यूयं परिस्पृष्टा महत्सुखसमन्विताः॥

तत्तस्य शरणं कृत्वा ध्यात्वा स्मृवापि सर्वदा।

नामापि च समुच्चार्य नत्वा भजितुमर्हथ॥

ये तस्य शरणं कृत्वा ध्यात्वा स्मृत्वा समादरात्।

श्रद्धया नाम प्रोच्चार्य स्तुत्वा नत्वा भजन्त्यपि॥

सर्वेऽपि ते न जायन्ते दुर्गतीषु कदाचन।

सदा सद्गतिसंजाताश्चरन्ति सर्वदा शुभे॥

६९

विरतमारसंचाराः सद्धर्मगुणलालसाः।

सर्वसत्त्वहिताधानसंबोधिव्रतकामिनः॥

त्रिरत्नभजनोत्साहाश्चतुर्ब्रह्मविहारिणः।

भद्रश्रीगुणसंपत्तिसमुद्धाः सद्गुणारताः॥

यावज्जीवं सुखं भुक्त्वा स्वपरात्महितोद्यताः।

बोधिचर्याव्रतं धृत्वा संचरेरन् जगच्छुभे॥

ततोऽन्तःसमये तेषां लोकेश्वरः स संमुखम्॥

उपागत्य समाश्वासं दद्यादेवं वदत्पुरः॥

मा भैषीः कुलपुत्रात्र किंचिन्ना ते भयं क्वचित्॥

त्रिरत्नभजनं कृत्वा सद्धर्मं यत् त्वयार्जितम्।

न त्वं यायाः पुनः क्वापि दुर्गतिषु कदाचन।

सदा सद्गुतिसंजाताः सद्धर्मश्रीसुखान्वितः।

त्रिरत्नभजनं कृत्वा संचरेथाः सुसंवरे॥

तथा यावद्भुवं लोके बोधिचर्याव्रतं चरन्।

कृत्वा सत्त्वहितं सौख्यं भुक्त्वा प्रान्ते व्रजेद्दिवि॥

तत्रापि त्वं महासौख्यं भुक्त्वा चरेत्सदा शुभे॥

एवं मत्वा समाधाय स्मृत्वा रत्नत्रयं सदा।

तिष्ठामोऽत्र विषीद त्वं मृतोऽपि सत्सुखं लभेः॥

सर्वेषामपि जन्तूनां ससारे मरणं ध्रुवम्।

त्वं सुखेनैव मुक्त्वेमं कायं दिव्यमवाप्स्यसि॥

यावज्जीवं यथाकामं भुक्त्वा स्वर्गेऽमरैः सह।

ततश्चापि सुखेनैव यायादन्ते सुखावतीम्॥

तत्र गत्वामिताभस्य त्रिशास्तुः समुपाश्रितः।

सदा धर्मामृतं पीत्वा संचरेथाः सुसंवरे॥

तत्रैवं सुचिरं भुक्त्वा सद्धर्मश्रीसुखोत्सवम्।

प्रान्ते बोधिं समासाद्य समाप्नुयाः सुनिर्वृतिम्॥

इत्यन्ते समये तेषां लोकनाथः स संमुखम्।

समागत्य समाश्वासं दत्वाभयं समर्पयेत्॥

७०

इति सत्यं समाख्यातं सर्वैरपि मुनीश्वरैः।

श्रुतं मया तथाख्यातं श्रुवानुमोद्य चर्यताम्॥

एवं मत्वास्य त्रैलोकनाथस्य शरणं गताः।

स्मृत्वा नाम समुच्चार्य ध्यात्वा भजत सर्वदा॥

तथा वः सर्वदा भद्रं निरुत्पातं भवेद् ध्रुवम्।

यावज्जीवं सुखं भुक्त्वा यायान्तान्ते सुरालयम्॥

तत्रापि सुचिरं भुक्त्वा दिव्यकामं सुखोत्सवम्।

ततोऽन्तसमये च्युत्वा संयास्यथ सुखावतीम्॥

तत्र गत्वामिताभस्य सर्वदा समुपस्थिताः।

पीत्वा धर्मामृतं पुण्यं महोत्साहैश्चरिष्यथ॥

तत्रापि सुचिरं भुक्त्वा सद्धर्मश्रीमहोत्सवम्।

प्रान्ते संबोधिमासाद्य समवाप्स्यथ निर्वृतिम्।

इति तेन समादिष्टं श्रुत्वा सर्वैऽपि तेऽसुराः।

तथेति प्रतिविज्ञाप्य प्रबोधिताश्चैवमब्रुवन्॥

शास्तस्तथा करिष्यामः यथादिष्टं त्वयाधुना।

अद्यारभ्य सदा तस्य नाथस्य शरणं गताः॥

स्मृत्वा ध्यात्वा समुच्चार्य नामापि प्रभजामहे।

तदस्माकं हितार्थेन भवांस्तस्य जगत्प्रभोः॥

व्रतस्यापि विधानं च समुपादेष्टुमर्हति।

इति तैः प्रार्थितं श्रुत्वा स आचार्योऽप्रबोधितान्।

सर्वांस्तान् दानवान् दृष्ट्वा पुनरेवमुपादिशत्।

शृणुध्वमस्य वक्ष्यामि व्रतविधिं समासतः॥

आदौ तीर्थे जले स्नात्वा शुद्धशीला जिनेन्द्रियाः।

ब्रह्मविहारिणो भूत्वा चरित्वा पोषधं व्रतम्।

त्रिरत्नशरणं गत्वा ध्यात्वा तं सुगतात्मजम्।

लोकेश्वरं समावाह्य समभ्यर्च्य यथाविधि।

जगस्तोत्रादिभिः स्तुत्वा कृत्वा चापि प्रदक्षिणाम्।

जगस्तोत्रादिभिः स्तुत्वा कृत्वा चापि प्रदक्षिणाम्।

अष्टांगै प्रणतिं कृवा स्मृत्वा चापि समादरात्॥

७१

नामानि च समुच्चार्य दृष्ट्वा श्रुत्वापि तद्गुणान्।

प्रशंसामपि भाषित्वा प्रकाशित्वा च सर्वतः॥

सत्कृत्य श्रद्धया सर्वैरुपकणवस्तुभिः।

यथाशक्ति समभ्यर्च्य वन्दित्वा भजताभवम्।

एवं नित्यं समाधाय चतुस्संध्यं दिने दिने।

यथाशक्ति भजध्वं तं ध्यात्वा स्मृत्वापि भावतः॥

प्रत्यहमेकवारं वा मासे मासेऽपि वा सिते।

अष्टम्यां पूर्णमास्यां वा भजध्वं सर्वदा तथा॥

एवं विधाय सर्वेऽपि यूयमेतद् गुणान्विताः।

यथोक्तं तत्फ़लं प्राप्य नूनं यास्यथ निर्वृतिम्॥

इति तेन समादिष्टं श्रुत्वा सर्वेऽपि तेऽसुराः।

प्रबोधिताः प्रमोदन्तस्तथा चरितुमिच्छिरे॥

ततस्ते दानवास्सर्वे दुर्दान्ता मदमानिनः।

अप्येतत्पुण्यसत्सौख्यप्रकाममुदिताशयाः॥

शुद्धशीलाः प्रसन्नाश्च सद्धर्मगुणलालसाः।

विरतोपायसंचाराश्चतुर्ब्रह्म्विहारिणः॥

तेन शास्त्रा यथादिष्टं तथाधाय समादरात्।

तस्य त्रैलोकनाथस्य प्रकृत्वा शरणं मुदा॥

ध्यात्वा स्मृत्वा सदा नाम समुच्चार्य यथाविधि।

पोषधं च व्रतं धृत्वा प्राचरन्त समाहिताः॥

यथाशक्ति समभ्यर्च्य सर्वोपकणैरपि।

कृत्वा प्रदक्षिणान्येव कृत्वा च प्रणतिं मुहुः।

अष्टांगैश्चापि वन्दित्वा प्रभजन्तः समाचरन्॥

एवं ते दानवाः सर्वे शान्तचर्या जितेन्द्रियाः।

शुद्धशीलाः शुभाचाराश्चतर्ब्रविहारिणः॥

परस्परं हितं कृत्वा सद्धर्मगुणभाषिणः।

बोधिचर्याव्रतारक्ता बभूवुर्बोधिभागिनः॥

एवं तान् दानवान् सर्वानाचार्यः स प्रबोधयन्।

बोधिमार्गे प्रतिष्ठाप्य समामन्त्र्य ततोऽचरत्॥

७२

ततः सोऽन्तर्हितः खे स्थः प्रभासयन् समन्ततः।

धृत्वा लोकेश्वरो मूर्तिं सर्वांस्तान् समदर्शयत्॥

तमाकाशे प्रभासन्तं लोकेश्वरं जिनात्मजम्।

दृष्ट्वा ते दानवास्सर्वे बभूवुर्विस्मयान्विताः॥

तत्र ते प्रणतिं कृत्वा गत्वा तं शरणं मुदा।

जपस्तोत्रादिभिः स्तुत्वा वन्दित्वा प्रावदंस्तथा॥

नमस्ते भगवन्नाथ सदा ते शरणं स्थिताः।

बोधिचर्याव्रतं धृत्वा चराम तत्प्रसीदतु॥

यदस्मदपराधं तत् क्षन्तव्यं भवता सदा।

एवमस्मान् समालोक्य संपालयितुमर्हति॥

इत्येवं तेऽसुराः सर्वे प्रार्थयित्वा समादरात्।

अष्टांगैरपि तं नत्वा पश्यन्त एव तस्थिरे॥

ततः स त्रिजगन्नाथो दत्वा तेभ्यो जयाशिषम्।

ततश्चान्तर्हितोऽयत्र सत्त्वानुद्धर्तुमाचरत्॥

ततस्ते दानवाः सर्वे भूयोऽतिधर्मलालसाः।

त्रिरत्नभजनं कृत्वा संप्रचेरुः सदा शुभे॥

एवं स त्रिजगन्नाथो नानारुपेण बोधयन्।

दुर्दान्तानपि सद्धर्मे नियोजयति यत्नतः॥

तेनास्य त्रिजगद्भर्तुः पुण्यस्कन्धं महत्तरम्।

अप्रमेयमसंख्येयमित्याख्यातं मुनीश्वरैः॥

इत्यसौ त्रिजगच्छास्ता सर्वलोकाधिपेश्वरः।

सर्वज्ञैः सुगतैः सर्वैः प्रशंसितः सदादरात्॥

इति तस्य जगल्लोकैः पुण्यमाहात्म्यसत्कथाम्।

श्रुत्वानुमोदनां कृत्वा प्रशंस्य ते समन्ततः॥

इति मत्वा सदा तस्य लोकेशस्य जगत्प्रभोः।

श्रद्धया शरणे स्थित्वा भक्तव्यं सः सुखार्थिभिः॥

इत्येवं शिखिनाख्यातं संबुद्धेन मया श्रुतम्।

तथात्र वः समाख्यातं श्रुत्वानुप्रतिबुध्यताम्॥

एवं मत्वास्य माहात्म्यं सद्धर्मगुणवांछिभिः।

कर्तुव्याः सर्वदा भक्त्या ध्यात्वा स्मृत्वापि भावतः॥

ये तस्य शरणे स्थित्वा ध्यात्वा स्मृत्वापि भावतः।

नामापि च समुच्चार्य भजन्ति सर्वदा मुदा।

ते सर्वे विमलात्मानः संबुद्धश्रीगुणाकराः॥

बोधिसत्त्वा महासत्वा भविष्यन्ति जिनात्मजाः।

इति शास्त्रा मुनीन्द्रेण समादिष्टं निशम्य ते॥

विष्कम्भिप्रमुखाः सर्वे प्राभ्यनन्दन् प्रबोधिताः॥



॥इति दुर्दान्तदानवप्रबोधन बोधिचर्यावतारणप्रकरणम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project