Digital Sanskrit Buddhist Canon

५. सर्वाकार सर्वसत्त्व प्रबोधन बोधिचर्यावतारण प्रकरण

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
५. सर्वाकार सर्वसत्त्व प्रबोधन बोधिचर्यावतारण प्रकरण



अथ सर्वनीवरणविष्कम्भी सुगतात्मजः।

सांजलिर्भगवन्तं तं प्रणत्वा चैवमब्रवीत्॥

भगवन्स महासत्त्वो लोकेश्वर जगत्प्रभुः।

कदेह समुपागछेद् द्रष्टुमिच्छामि तं प्रभुम्॥

इति तदुक्तमाकर्ण्य भगवान् स मुनीश्वरः।

विष्कम्भिनं महासत्त्वं तमालोक्यैवमादिशत्॥

४७

विष्कम्भिन् स महासत्त्वो नागच्छेदिह सांप्रतम्।

अन्यत्र नरके सत्त्वानुद्धर्तुमभिगच्छति॥

सर्वत्रापि स्वयं गत्वा संपश्यन्नरकाश्रितान्।

सर्वान् सत्त्वान् समुद्धृत्य प्रेषयति सुखावतीम्॥

एवं स सर्वदा सत्त्वान् स्वयं पश्यन् दिने दिने।



असंख्येयान् समुद्धृत्य प्रेषयति सुखावतीम्॥



एवं कुर्वन् स लोकेशो बोधिचर्याव्रतं चरन्।

असंख्यपुण्यरत्नाद्यश्रीसमृद्धो विराजते॥

तस्य पुण्यमसंख्येयमप्रमेयं बहूत्तमम्।

सर्वैरपि मुनीन्द्रैस्तत्प्रमातुं नैव शक्यते॥

इत्येवं सुगतैः सर्वैः पुराख्यातं मया श्रुतम्।

तदत्राहं प्रवक्ष्यामि शृणुध्यं यूयमादरात्॥

तद्यथाभूत् पुरा शास्ता शिखि नाम तथागतः।

सर्वज्ञोऽर्हन्महाभिज्ञोः धर्मराजो मुनीश्वरः॥

सर्वविद्याधिराजेन्द्रः संबुद्धः सुगतो जिनः।

मारजित् सर्वलोकेन्द्रस्त्रैधातुकविनायकः॥

तदासं बोधिसत्त्वोऽहं दानशूरोऽभिधो गृही।

सदादानरतो धीरः सर्वसत्त्वहितार्थभृत्॥

सदा स शिखिनस्तस्य मुनीन्द्रस्य जगद्गुरोः।

सत्कृत्य श्रद्धया नित्यं प्राभजन् समुपस्थितः॥

तदा तेन मुनीन्द्रेण समाख्यातं मया श्रुतम्।

लोकेश्वरस्य सद्धर्मसाधनोद्भवकौशलम्॥

इति तेन मुनीन्द्रेण समाख्यातं निशम्य सः।

बोधिसत्त्वो महासत्त्वो विष्कम्भी चैवमब्रवीत्॥

भगवन् किदृशं तस्य लोकेशस्य महात्मनः।

सद्धर्मसाधनोद्भूतं कौशलं भवता श्रुतम्॥

भगवन्स्तत्समाख्याय सर्वानस्मान् प्रबोधय।

सर्वलोका इमे श्रुत्वा भवेयुस्तद्गुणारताः॥

४८

इति संप्रार्थितं तेन श्रुत्वासौ भगवान् जिनः।

सर्वांल्लोकान् सभासीनान् समालोक्यैवमादिशत्॥

यदा स भगवांच्छास्ता शिखी तथागतो जिनः।

सर्वलोकसभामध्ये ससांघिकः समाश्रितः॥

आदिमध्यान्तकल्याणं संबोधिगुणसाधनम्।

सद्धर्मं समुपादेष्टुं समारभेज्जगद्धिते॥

तदा तस्य मुखद्वारान्नानावर्णाः सुरश्मयः।

विनिर्गता जगत्सर्वमवभास्य प्रचेरिरे॥

कृत्वा सर्वत्र लोकेषु सुभद्राणि समन्ततः।

पुनरागत्य सा कान्तिस्तदाश्रम उपागताः॥

शिखिनं तं महाभिज्ञं धर्मराजं मुनीश्वरम्।

त्रिधा प्रदक्षिणीकृत्य तन्मुखाज्ये समाविशत्॥

तत्सत्पुण्यप्रभां दृट्वा लोकेश्वरः स विस्मितः।

अमिताभं जिनं नत्वा पप्रच्छैवं समादरात्॥

भगवन् कस्य सत्पुण्यकान्तिरियं समागता।

तद्भवान् समुपादिश्य संबोधयतु नो गुरो॥

इति तदुक्तमाकर्ण्य भगवान् सोऽमितप्रभः।

लोकेश्वरं महासत्त्वं तमालोक्यैवमादिशत्॥

कुलपुत्र शिखी नाम संबुद्धोऽर्हन्मुनीश्वरः।

सर्वज्ञस्त्रिगच्छास्ता धर्मराजस्तथागतः॥

विहारे जेतकोद्याने समाश्रितः ससांघिकः॥

सर्वलोकसभामध्ये समासीनः प्रभासयन्।

सद्धर्मं समुपादेष्टुं प्रारम्भं कुरुतेऽधुना॥

तस्येयं सुप्रभाकान्तिर्मुखद्वाराद्विनिर्गता।

सर्वत्र भुवनेष्वेवमवभास्य प्रचर्यते॥

इहापि समुपायाता भासयन्ती प्रचारिता।

परावृत्य मुनेस्तस्य मुखे प्राविशतेऽधुना॥

इत्यादिष्टं मुनीन्द्रेण लोकेश्वरः प्रसादितः।

अमिताभं मुनीन्द्रं तं प्रणत्वैवमभाषत॥

४९

भगवन् धर्मराजं तं द्रष्टुमिच्छामि सांप्रतम्।

तत्तत्राहं गतिष्यामि तदाज्ञां दातुमर्हति॥

इति संप्रार्थितं तेन लोकेशेन निशम्य सः।

अमिताभो मुनीन्द्रस्तं लोकेशमेवमबव्रीत्॥

कुलपुत्र मुनीन्द्रंस्तं यदि द्रष्टुं त्वमिच्छसि।

गच्छ मद्वचनेनापि कौशल्यं स्प्रष्टुमर्हसि॥

पद्मं समुपसंस्थाप्य तस्य पश्यन् सभामपि।

समुपाश्रित्य सद्धर्मं श्रुत्वा गच्छानुमोदितः॥

इत्यादिष्टं मुनीन्द्रेण श्रुत्वा लोकेश्वरो मुदा।

सांजलिस्तं जिनं नत्वा संभासयंस्ततोऽचरत्॥

यदा ततः सुखावत्यां संप्रस्थितः स भासयन्।

तदा सर्वा मही साब्धिः सागाधा च प्रकम्पिता॥

प्रवर्षाद्वियतो हेमरत्नमयं महोत्पलम्।

निरुत्पातं शुभोत्साहं प्रावर्तत समन्ततः॥

तदाश्रममहोद्याने कल्पवृक्षाः समुत्थिताः।

दिव्यवस्त्रसुवर्णादिरत्नालंकारलम्बिताः॥

नानाकुसुमवृक्षाश्च सुगंधिपुष्पशोभिताः।

अनेकफ़लवृक्षाश्च दिव्यरसफ़लानताः॥

अष्टांगुणसंपन्नजलपूर्णाः सरोवराः।

नानापुष्पाभिसंकीर्णाः प्रादुर्भूता मनोरमाः॥

विविधपुष्पवर्णाणि द्रव्याणि विविधान्यपि।

हेमादिधातुरत्नानि वस्त्राणि भूषणानि च॥

सुवर्णसुरसास्वादसंपन्नभोजनान्यपि।

धान्यादिव्रीहिजातानि प्रवर्षन्त तदाश्रमे॥

तत्र च सप्तरत्नानि संजातानि जिनाश्रमे।

सर्वा भूमिश्च सौवर्णा निर्भासा संबभौ तदा॥

तदा लोकेश्वर पद्मं सहस्त्रपत्रं सुवर्णिकम्।

सप्तरत्नमयो ज्वालं समादाय ततश्चरन्॥

५०

एवं तत्र सुभद्राणां निमित्तं संप्रकाशयन्।

अवभास्य जगल्लोकं समालोक्य समन्ततः॥

प्राणिनो दुःखिनः सर्वान् समुद्धृत्य प्रयत्नतः।

बोधिमार्गे प्रतिष्ठाप्य संप्रेषयन् सुखावतीम्॥

सुधारश्मिं समुत्सृज्य संभासयन् समन्ततः।

संबुद्धं शिखिनं तद्विहारमुपाचरत्॥

तानि भद्रनिमित्तानि विलोक्य तत्सभाश्रितः।

रत्नपाणिर्महासत्त्व बोद्धिसत्त्वोऽभिलोकयन्॥

विस्मितः सहसोत्थाय पुस्तः समुपाचरत्।

उद्वहन्नुत्तरासंगं जानुभ्यां भुवि संस्थितः॥

भगवन्तं मुनीन्द्रं तं संबुद्धशिखिनं मुदा।

कृतांजलिपुटो नत्वा पप्रच्छैवं समादरात्॥

भगवन् कस्य प्रभाकान्तिरियमिह समागता।

महद्भद्रनिमित्तानि दृश्यन्ते प्रोद्भवानि च॥

भगवन्स्तत्समादिश्य सर्वानिमान् सभाश्रितान्।

विस्मयाकुलचित्तान्तः प्रबोधयितुमर्हति॥

इति संप्रार्थितं तेन श्रुत्वा शिखी तथागतः।

रत्नपाणिं महासत्त्वं तं पश्यन्नेवमादिशत्॥

रत्नपाणे महासत्त्व दृश्यन्ते यदिहाधुना।

महद्भद्रनिमित्तानि संजातानि समन्ततः॥

तद्धेतुं संप्रवक्ष्यामि शृणुध्वमिदमादरात्।

यूयं सर्वे प्रसीदन्तः प्रतिबुध्यानुमोदत॥

यः श्रीमांजगन्नाथो बोधिसत्त्वो जिनात्मजः।

सर्वसंघाधिपः शास्त सर्वलोकाधिपेश्वरः।

समन्तभद्रकारी स आर्यावलोकितेश्वरः।

सत्त्वान् पश्यन् समुद्धर्तुं सुखावत्यां विनिश्चरन्॥

पुण्यरश्मिं समुत्सृज्य संभासयन् समन्ततः।

शोधयंस्त्रिजगल्लोकं कृत्वा भद्रं समन्ततः॥ ५१

पापिनोऽपि दुराचारान् सर्वत्र नरकेष्वपि।

निमग्नांस्तान् समालोक्य समुद्धृत्य समन्तत॥

बोधयित्वा प्रयत्नेन कृत्वा सद्धर्मलालसान्।

ममेह दर्शनं कर्तुं समुपागच्छपि सांप्रतम्।

तस्येयं सुप्रभा कान्तिर्भासयन्ती समागता॥

ईदृग्द्रनिमित्तानि संजातानि समंततः।

भद्रहेतुरयं तस्य लोकेशस्यागतः खलु॥

इत्यादिष्टं मुनीन्द्रेण रत्नपाणिर्निशम्य सः।

संबुद्धं तं सभां तां च समालोक्यैवमब्रवीत्॥

भगवन् स महासत्त्वो लोकेश्वरो जगत्प्रभुः।

नागच्छति कदागत्च्छेद् द्रष्टुमिच्छामि तं प्रभुम्॥

इति तेनोदितं श्रुत्वा भगवान् स शिखी जिनः।

रत्नपाणिं तमालोक्य सभां चाप्येवमादिशत्॥

आगच्छेत् स महासत्त्वो लोकेश्वरः सुदुःखितः।

सत्त्वान् सर्वान् समुद्धृत्य प्रेषयित्वा सुखावतीम्॥

प्रथममिह मां द्रष्टुमागच्छेत् स कृपानिधिः।

तदा तं त्रिजगन्नाथं पश्च भज समादरात्॥

इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स रत्नभृन्मुदा।

सह सर्वसभालोकैस्तस्थौ तद्दर्शनोत्सुकः॥

तदासौ त्रिजगन्नाथो लोकेश्वरः प्रभासयन्।

दूरात्तं सुगतं पश्यन् विहारे समुपाविशत्॥

तं लोकेशं समायातं समीक्ष्य सुगतात्मजम्।

सर्वे लोकाः सभासीनाः समुत्थाय प्रणेमिरे॥

रत्नपाणिस्तमायातं संपश्यन् सहसोत्थितः।

सांजलिः समुपागम्य ववन्दे तत्पदाम्बुजे॥

एवं स वन्द्यमानस्तैः सर्वलोकैः प्रभासयन्।

शिखिनं तं समालोक्य पुरतः समुपाचरत्॥

५२

तं समायातमालोक्य भगवान् स शिखी मुदा।

स्वागतं ते महासत्त्व कौशलमित्यपृच्छत॥

इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स सुगतात्मजः।

कौशलं मे सदा शास्तरिति वदन्नुपाचरत्॥

तत्रासौ त्रिजगन्नाथः शिखिनं तं मुनीश्वरम्।

वन्दित्वा तं महापद्ममुपस्थाप्यैवब्रवीत्॥

भगवन्नमिताभेन शास्त्रेमं प्रहितं कजम्।

कुशलं चापि सर्वत्र पृच्छत ते समन्ततः॥

इति तदुक्तमाकर्ण्य भगवान् स शिखी मुदा।

गृहीत्वा तं महापद्मं वामे स्थाप्यैवमब्रवीत्॥

सर्वत्र कौशलमत्र क्वचित्तस्यापि कौशलम्।

इति पृष्ट्वा मुनीन्द्रैश्च तनेवं पर्यपृच्छत॥

कुलपुत्र त्वया सत्त्वाः कियन्तो नरकाश्रिताः।

समुद्धृत्य शुभे स्थाप्य प्रेषितास्ते सुखावतीम्॥

इति पृष्टे मुनीन्द्रेण लोकेश्वरो विलोक्य सः।

संबुद्धं तं सभां चापि समालोक्यैवमब्रवीत्॥

भगवन् बहवोऽसंख्येयाः सत्त्वा नरकाश्रिताः।

ते सर्वेऽपि प्रयत्नेन मयालोक्य समुद्धृताः॥

तद्यथा ये महादुष्टा अवीचौ कर्मभोगिनः।

रौरवे कालसूत्रे च हाहवतपनेऽपि च॥

तापनेऽग्निधटे ये च शाल्मलिके च पापिनः।

संघाते चान्धकारे च शीतोदकेऽसिपत्रके॥

एवमन्यषु सर्वेषु नरकेषु समन्ततः।

स्वकृतकर्मभुंजानां तिष्ठन्तो दुःखभोगिनः॥

तीव्रदुःखाग्निसन्तप्ता मूढा विलुप्तचेतनाः।

ते सर्वेऽपि मयोद्धृत्य संप्रेषिताः सुखावतीम्॥

भूताः प्रेताः पिशाचाश्च क्षुप्तिपासाग्निदाहिताः।

सूचिमुखादयो दुष्टा विण्मूत्रामेध्यभोगिनः॥

५३

पशवोऽपि च ये दुष्टाः पक्षिणोऽपि दुरारताः।

कृमिकीटादयश्चापि स्वकर्मफ़लभोगिनः॥

तेऽपि सर्वे मयालोक्य मोचयित्वा स्वकर्मतः।

समुद्धृत्य प्रयत्नेने संप्रेषिताः सुखावतीम्॥

एवमन्येऽपि सत्त्वा ये मर्त्या दैत्याःसुरा अपि।

अधर्माभिरता दुष्टा भ्रष्टा नरकगामिनः॥

तेऽपि सर्वे मयालोक्य बोधियित्वा प्रयत्नतः।

सधर्मे संप्रतिष्ठाप्य संप्रेषिता जिनालये॥

एवं नित्यं मयालोक्य प्राणिनो दुरितोऽर्द्धताः।

सर्वेऽपि नरकासीनास्तीव्रदुःखाग्नितापिताः॥

दिने दिनेऽप्यसंख्येया समुद्धृत्य प्रयत्नतः।

बोधियित्वा शुभे स्थाप्य चारयित्वा सुसंवरे।

बोधिमार्गे नियुज्यैवं संप्रेषिता जिनालये॥

यथा मया प्रतिज्ञातं तथा कर्त्तव्यमेव तत्।

इति नित्यं समालोक्य सत्त्वा धर्मेऽभियोजिताः॥

यावन्तः प्राणिनः सर्वे यावन्न बोधिभागिनः।

तावदहं न संबोधिं संप्राप्नुयां जगद्धिते॥

इति दृढा प्रतिज्ञा मे यावन्न परिपूरिता।

तावत् सत्त्वान् समालोक्य समुद्धृत्य प्रयत्नतः॥

बोधयित्वापि कृत्वा च चतुर्ब्रह्मविहारिणः।

बोधिमार्गे प्रतिष्ठाप्य प्रेषयेयं सुखावतीम्॥

इत्येवं भगवंच्छास्ते बोधिचर्यां समाचरन्।

सर्वसत्त्वहितं कृत्वा चरे त्रिधातुकेष्वपि॥

एवं नित्यं जगल्लोकि कृत्वा भद्रसुखोत्सवम्।

प्रचरं प्रचराम्येवं चरिष्यामि सदा भवे॥

इत्युक्त्वा स महासत्त्वो लोकेश्वरो जिनात्मजः।

भूयस्तं शिखिनं नत्वा समनुज्ञामयाचत॥

भगवन् गन्तुमिच्छामि सत्त्वानुद्धर्तुमन्यतः।

तदनुज्ञां प्रदत्वा मे प्रसीदतु जगद्धिते॥

५४

इति तदुक्तमाकर्ण्य स शिखी भगवान् मुदा।

लोकेश्वरं महाभिज्ञं तमालोक्यावमब्रवीत्॥

सिध्यतु ते महासत्त्व कार्यं संबोधिसाधनम्।

गच्छ लोके हितं कुर्वन् संचरस्व सुखं सदा॥

इत्यादिष्टं मुनीन्द्रेण लोकेश्वरो जगत्प्रभुः।

शिखिनं धर्मराजं तं प्रणत्वा प्राचरत्ततः॥

प्रक्रमित्त्वा ततः सोऽग्निपिण्ड इव समुज्ज्वलन्।

आकाशेऽन्तर्हितोऽन्यत्र भुवेने भासयन् ययौ॥

तमेवं खे गतं दृष्ट्वा रत्नपाणिः स विस्मितः।

शिखिनं भगवन्तं तं समालोक्यैवमब्रवीत्॥

भगवंस्त्रिजगद्भर्तुर्लोकेश्स्य महान्मनः।

कियत्सुकृतसंभारं विद्यते तत्समादिश॥

इति संप्रार्थितं तेन श्रुत्वा स भगवांछिखी।

रत्नपाणिस्तमालोक्य समामंत्र्यैवमादिशत्॥

कुलपुत्र शृणु चास्य लोकेशस्य जगत्प्रभोः।

पुण्यस्कन्धं प्रवक्ष्यामि सत्त्वानां भद्रकारणे॥

तद्यथैके महासत्त्वाः सर्वेषामपि देहिनाम्।

सर्वदा सर्वसत्कारैर्भजन्ति समुपस्थिताः॥

तेषां पुण्यानि यावन्ति तानि सर्वाणि सद्गुरोः।

लोकेश्स्यैकवालाग्रे इति सर्वे जिना जगुः॥

तद्यथापि चतुर्द्वीपे मेघा वर्षन्ति सर्वदा।

तत्सर्वजलबिन्दूनां संख्यातुं शक्यते मया॥

न तु लोकेश्वरस्यास्य बोधिसत्त्वस्य सत्प्रभोः।

पुण्यस्कन्धप्रमाणानि कर्तुं केनापि शक्यते॥

सर्वषामपि चाब्धीणां सर्वेषामपि चाम्भसाम्।

एकैकबिन्धुसंख्यानि कर्तुं शक्नोम्यहं ध्रुवम्॥

न तु लोकेश्वरस्यास्य संबोधिव्रतचारिणः।

पुण्यसंभारसंख्यानि कर्तुं शक्नोम्यहं खलु॥

५५

सर्वेषामपि जन्तूनां चतुर्द्वीपनिवासिनाम्।

एकैकरोमसंख्याभिः प्रमाणं शक्यते किल॥

न तु लोकेश्वरस्यास्य सद्धर्मसद्गुणाम्बुधेः।

बोधिसंभारपुण्यानां प्रमातुं शक्यते मया॥

हेमरत्नमयान् स्तूपान् परमाणुरजोपमान्।

विधाय सर्वदाभ्यर्च्य प्रभजेत् समुपस्थितः॥

संबुद्धप्रतिमांश्चैवं परमाणुरजोपमान्।

हेमरत्नमयान् स्थाप्य सर्वे लोका महोत्सवैः॥

सधातुरत्नपूजांगैर्भजेयुः सर्वदा मुदा।

एतत्पुण्यप्रमाणानि कर्तुं शक्नोम्यहं ध्रुवम्॥

नैव लोकेश्वरस्यास्य चतुर्ब्रह्मविहारिणः।

पुण्यसंख्याप्रमाणानि कर्तुं शक्नोमि सर्वथा॥

सर्वेषामपि वृक्षाणां चतुर्द्विपमहीरुहाम्।

पत्रसंख्याप्रमाणानि कर्तुं शक्नोम्यहं खलु॥

नैव लोकेश्वरस्यास्य सत्त्वहितार्थदायिनः।

पुण्यसंख्याप्रमाणानि कर्तुं शक्नोमि सर्वदा॥

सर्वे स्त्रीपुरुषा मर्याश्चतुर्द्वीपनिवासिनः।

श्रोतापत्तिफ़ले स्थाप्य चारयेयुः सुसंवरम्॥

तेषां पुण्यप्रमाणानि कर्तुं शक्नोम्यहं खलु।

न तु लोकेशपुण्यानां प्रमातुं शक्नुयामहम्॥

एतान् सर्वान्नरांश्चापि बोधयित्वा प्रयत्नतः।

सकृदागामिनः कृत्वा चारयेयुः शुभे सदा॥

एतेषामपि पुण्यानां प्रमातुं शक्यते खलु।

नैव लोकेशपुण्यानां प्रमातुं शक्यते क्वचित्॥

तथा च मानवान् सर्वान् बोधयित्वानुमोदयन्।

अनागामीफ़ले स्थाप्य चारयेयुः सुसंबरे॥

एतेषामपि पुण्यानां प्रमातुं शक्यते किल।

नैव लोकेश्वरस्यास्य प्रमातुं शक्यते क्वचित्॥

५६

तथैतान् सकलान् मर्त्यान् बोधयित्वा प्रयत्नतः।

अर्हत्वे संप्रतिस्थाप्य चारयेयुः सुनिर्वृतौ॥

एतेषामपि पुण्यानां प्रमातुं शक्यते मया।

न तु लोकश्वरस्यास्य शक्यते सुगतैरपि॥

तथा प्रत्येकबोधौ च सर्वान् एतान् नरानपि।

बोधयित्वा नियुज्येव चारयेयुः सुनिर्वृतौ॥

एतेषामपि पुण्यानां प्रमातुं शक्यते मया।

न तु लोकेश्वरस्यास्य सर्वैरपि मुनीश्वरैः॥

एतेषामपि सर्वेषां पुण्यानां प्रवरं महत्।

पुण्यं लोकेश्वरस्यास्य बह्वमेयमुत्तमम्॥

किं मयैकेन तत्पुण्यं प्रमातुं इह शक्यते।

सर्वैरपि मुनीन्द्रैर्ही शक्यते न कदाचन॥

एवमसौ महत्पुण्यसंभारश्रीसमृद्धिमान्।

लोकश्वरो महासत्त्वो बोधिसत्त्वो जिनात्मजः॥

नास्तीदृक्पुण्यसंभारसद्गुणश्रीसमृद्धिमान्।

तदन्यो हि महासत्वः कुतस्त्रैधातुकेष्वपि॥

इत्येवं तन्महत्पुण्यं श्रुत्वा यूयं प्रमोदिताः।

तमीशं शरणं गत्वा भजध्वं सर्वदा भवे॥

ये तस्य त्रिजगद्भर्तुर्लोकेशस्य जगत्प्रभोः।

ध्यात्वा नाम समुच्चार्य स्मृत्वा भजन्ति सर्वदा॥

ते भवक्लेशनिर्मुक्ताः परिशुद्धत्रिमण्डलाः।

धर्मश्रीगुणसंपन्नाः संप्रयायुः सुखावतीम्॥

तत्रामिताभनाथस्य गत्वा ते शरणं मुदा।

सद्धर्मामृतमास्वाद्य रमेयुर्बोधिसाधिनः॥

भूयस्ते भगसंक्लेशैर्बाधिष्यन्ते कदाचन।

गर्भवासमहददुखं लभेयुर्न पुनर्भवे॥

तस्यामेव सुखावत्यां पद्मे रत्नमेये वरे।

संजाता सततं ध्यात्वा तिष्ठेयुस्तं मुनिश्वरम्॥

५७

तावत्तत्र सुखावत्यां तिष्ठेयुस्ते सुखान्विताः।

यावन्नास्य जगच्छास्तुः प्रतिज्ञा परिपूरिता॥

क्रमेण बोधिसंभारं पूरयित्वा जगद्धिते।

त्रिविधां बोधिमासाद्य सम्बुद्धपदमाप्नुयुः॥

इत्येवं सुगतैः सर्वेः समादिष्टं मया श्रुतम्।

तदस्य लोकनाथस्य भजन्तु बोधिवांछिनः॥

इत्यादिष्टं मुनीन्द्रेण रत्नपाणीर्निशम्य सः।

शिखिनं भगवन्तं तं समालोक्यैवमब्रवीत्॥

भगवन्नस्य प्रतिज्ञा या सुदृढातिमहत्यसौ।

कियता खलु कालेन संपूरिता भविष्यते॥

कथमेकात्मना तेन सर्वे त्रैधातुकाश्रिताः।

बोधिमार्गे प्रतिष्ठाप्य संप्रेषिताः सुखावतीम्॥

कथमसौ महासत्त्वः सत्त्वान्नाधिमुक्तिकान्।

एकः प्रबोधयन् सर्वान् बोधिमार्गेऽभियोजयेत्॥

सत्त्वाः षड्गतिसंजाता नानाकर्मानुचारिणः।

एतान् सर्वान् कथमेको बोधयन् परिपाचयेत्॥

इति तेनोदितं श्रुत्वा भगवान् स शिखी जिनः।

रत्नपाणिं महासत्त्वं तमालोक्यैवमब्रवीत्॥

एकोऽप्यसौ महासत्त्वो महाभिज्ञो जिनांशजः।

नानारुपेण सत्त्वानां सद्धर्म समुपादिशत्॥

बोधयन् प्राणिनः सर्वान् दत्त्वा द्रव्यं यथेप्सितम्।

बोधिमार्गे प्रतिष्ठाप्य प्रेषयति जिनालयम्॥

बोद्धान् सुबुद्धरुपेण बुद्धधर्मे नियोजयन्।

बोधिमार्गे प्रतिष्ठाप्य प्रेषयति सुखावतीम्॥

प्रत्येकबुद्धरुपेण प्रत्येकबोधिवांछिनः।

बोधिमार्गे प्रतिष्ठाप्य प्रेषयति सुनिर्वृतिम्॥

अर्हद्धर्मानुसंरक्तानर्हद्रूपेण बोधयन्।

अर्हद्धर्मे प्रतिष्ठाप्य प्रेषयति सुखावतीम्॥

५८

बोधिचर्येषिणो बोधिसत्त्वरुपेण बोधयन्।

बोधिचर्याव्रते स्थाप्य चारयति जगत्द्धिते॥

तथोपासकरुपेण प्रबोधयनूपासकन्॥

बोधिमार्गे प्रतिष्ठाप्य चारयति सुसंवरम्॥

तथा च शिवरुपेण शैवान् सर्वान् प्रबोधयन्।

बोधिमार्गे नियुज्यासौ चारयति जगद्धिते॥

एवं स वैष्णवान् सर्वान् विष्णुरुपेण बोध्यन्।

बोधिमार्गे नियुज्यापि चारयति जगद्धिते॥

तथा च ब्राह्मणान् सर्वान् ब्रह्मरुपेण बोधयन्।

बोधिमार्गे प्रतिष्ठाप्य चारयन्ति जगद्धिते॥

तथैन्द्रानिन्द्ररुपेण सर्वानपि प्रबोधयन्।

बोधिमार्गे प्रतिष्ठाप्य चारयति जगद्धिते॥

तथा सूर्यस्य वैनेयान् सूर्येरुपेण बोधयन्।

बोधिमार्गे प्रतिष्ठाप्य चारयति जगद्धिते॥

तथा च चन्द्रवैनेयांश्चन्द्ररुप्रेण बोधयन्।

बोधिमार्गे प्रतिष्ठाप्य चारयति जगद्धिते॥

तथा च वह्निवैनेयान् वह्निरुपेण बोधयन्।

बोधिमार्गे प्रतिष्ठाप्य चारयति जगद्धिते॥

तथा च यमवैनेयान् यमरुपेण बोधयन्।

एवं वरुणरुपेण वैनेयान् वरुणस्य च॥

तथा च वायुवैनेयान् वायुरुपेण बोधयन्।

वैनेयान् राक्षसस्यापि रक्षोरुपेण बोधयन्॥

यक्षरुपेण यक्षस्य वैनेयान् संप्रबोधयन्।

नागरुपेण नागस्य वैनेयान् संप्रबोधयन्॥

तथा भूतेशरुपेण वैनेयान् भूतपरेरपि।

तथा गणेशरुपेण वैनेयान् गणपस्य च॥

तथा गन्धर्वरुपेण गान्धर्वधर्मचारिणः।

तथा किन्नररुपेण वैनेयान् किन्नरस्य च॥

५९

विद्याधरस्य रुपेण वैद्याधरान् प्रबोधयन्।

तथा भैरववैनेयान् रुपेण भैरवस्य च॥

तथा कुमारवैनेयान् स्कन्दरुपेण बोधयन्॥

महाकालस्य रुपेण वैनेयांस्तस्य बोधयन्।

महाकालस्य रुपेण वैनेयांस्तस्य बोधयन्॥

मातृकाणां च रुपेण वैनेयान् संप्रबोधयन्।

बोधिमार्गे प्रतिष्ठाप्य चारयति जगद्धिते॥

एवं यस्य यस्य वैनेयान् सत्त्वान् यन्तेन बोधयन्।

तस्य तस्यैव रुपेण योगयति जगद्धिते॥

एवं स ऋषिवैनेयानृषिरुपेण बोधयन्।

योगिरुपेण वैनेयान् योगिनश्चापि बोधयन्॥

तथा च यतिवैनेयान् यतिरुपेण बोधयन्।

तथा तपस्ववैनेयांस्तपस्विरुपेण बोधयन्॥

तथा तैर्थिकरुपेण तीर्थिकांश्चापि बोधयन्।

तथा च राजवैनेयान् राजरुपेण बोधयन्॥

वैश्यरुपेण वैनेयान् वैश्यस्यापि प्रबोधयन्।

शूद्ररुपेण शूद्रस्य वैनेयांश्च प्रबोधयन्॥

गृहपतेश्चापि वैनेयांस्तद्रूपेण प्रबोधयन्।

तथा च मंत्रीवैनेयान् मंत्रीरुपेण बोधयन्॥

तथा चामात्यरुपेण तद्वैनेयान् प्रबोधयन्।

तथा च योधृवैनेयान् योधृरुपेण कांश्चन॥

एवं च भृत्यरुपेण दासरुपेण कांश्चन।

कांस्चिच्च सार्थभृद्रूपेण शिन्पिरुपेण कांश्चन॥

तथा च वैद्यरुपेण वणिग्रूपेण कांश्चन।

कांश्चिच्च पितृरुपेण मातृरुपेण कांश्चन॥

तथा च भ्रातृरुपेण भार्यारुपेण कांश्चन।

रुपेणापि भगिन्याश्च पुत्ररुपेण कांश्चन॥

कश्चिद्दुहितृरुपेण पौत्ररुपेण कांश्चन।

एवं पितामहादीनां ज्ञातीनां सुहृदामपि॥।

६०

बंधुमित्रसहायानां रुपेण परिबोधयन्।

कांश्चिच्च शत्रुरुपेण संत्रासयन् प्रयत्नतः॥

कांश्चिच्चण्डालरुपेण चौररुपेण कांश्चन।

सद्धर्मे प्रेरयित्वैव चररयति जगद्धिते॥

एवं सिंहादिजन्तूनां रुपेण त्रासयन्नपि।

पशूनां पक्षिणां चापि कृमिकीटादिप्राणिनाम्॥

रुपेण त्रासयित्वापि बोधयित्वा च यत्नतः।

बोधिमार्गे प्रतिष्ठाप्य चारयति जगच्छुभे॥

एवमसौ महासत्त्वो लोकनाथो जगत्प्रभुः।

नानारुपेण सर्वेषां सत्त्वानां बोधयन् मनः॥

त्रासयन्नपि सद्धर्मे प्रेरयसि प्रयत्नतः॥

एवं स त्रिजगन्नाथो बोधिसत्त्वो जिनात्मजः।

सर्वान् सत्त्वान् समुद्धृत्य प्रेषयति सुखावतीम्॥

एवं कृत्वा स लोकेशः सर्वलोकाधिपेश्वरः।

षड्गतिभवचारीणां दुष्टानामपि मूढानाम्॥

सद्धर्मसद्गुणश्रीमन्माहैश्वर्यसमृद्धिमान्॥

नास्ति तेन समः कश्चित्पुण्यश्रीगुणवानपि।

दयालुर्भद्रसंचारी त्रैधातुभुवनेष्वपि॥

एवं तस्य महत्पुण्यं मत्वा संबोधिवांछिनः।

श्रद्धया शरणं गत्वा स्मृत्वा ध्यात्वा भजंति ते॥

ये तस्य शरणं गत्वा स्मृत्वा ध्यात्वा भजंति ते।

सर्वे हि विमलात्मानो भद्राशयाः शुभेंद्रियाः॥

बोधिसत्वा महासत्वाः प्रचरंतः सदा शुभे।

त्रिविधां बोधिमासाध्य निर्वृतिं पदमाप्नुयुः॥

इत्यादिष्टं मुनींद्रेण रत्नपाणिर्निशम्य सः।

अत्यद्भुतसमक्रान्तहदयश्चैवमब्रवीत्॥

परमाद्भुतप्राप्तोऽहं भगवन् यदीदृशं क्वचित्।

धर्मश्रीगुणमाहात्म्यं दृष्टं न श्रूयतेऽपि न॥

६१

ईदृशं पुण्यसंभारं जिनानामपि न क्वचित्।

दृश्यते श्रूयते नापि कदाचन मया खलु॥

एवं तेनोदितं श्रुत्वा भगवान् स शिखी जिनः।

रत्नपाणिं महासत्त्वं तमालोक्यैवमादिशत्॥

सर्वाकारसुभद्रांशो विश्वरुपो मणिर्यथा।

चिन्तामणिर्महारत्न इव सर्वहितार्थभृत्॥

कामधेनुर्यथाकामं भोग्यं संपत्तिसंभरः।

कल्पवृक्षो यथा भद्रश्रीसमृद्धिप्रदायकः॥

भग्रघटो यथा सर्वसत्त्ववांछितपूरकः।

लोकेश्वरः स सर्वेषां वांछितार्थाभिपूरकः॥

बोधिसत्त्वो जगद्भर्ता विश्वनाथो जगत्प्रभुः।

सर्वधर्माधिपश्शास्ता सर्वलोकाधिपेश्श्वरः॥

किं वक्ष्यतेऽस्य माहात्म्यं बोधिश्रीगुणसंभृतः।

शक्यते न समाख्यातुं सर्वैरपि मुनीश्वरैः॥

तद्यथासौ महासत्त्वो दुर्दान्तानपि बोधयन्।

बोधिमार्गे प्रतिष्ठाप्य चारयति जगद्धिते॥

वज्रकुक्षिगुहा ख्याता जम्बूद्विपेऽत्र विद्यते।

तत्रानेकसहस्त्रानि वसन्ति स्म सुरद्विषाम्॥

तत्र गत्वा सुराणां स शास्तृरुपेण संसरन्।

सद्धर्मं समुपादेष्टुं पश्यंस्तान् समुपाचरत्॥

तं दृष्ट्वा समुपायातमाचार्यं तेऽसुरा मुदा।

सर्वे ते सहसोपेत्य प्रणत्वैवं बभाषिरे॥

स्वागतं ते समयासि प्रणत्वैवं बभाषिरे॥

स्वागतं ते समायसि कश्चित् सर्वत्र कौशलम्।

कृपया नः समालोक्य धर्ममादेष्टुमर्हसि॥

भवता यद्यथादिष्टं तत्तथा वयमादरात्।

श्रुत्वा धृत्वा चरिष्यामः संसारसुखसाधने॥

इति संप्रार्थन्ते सर्वे दानवास्तं गुरुं मुदा।

सभासने प्रतिष्ठाप्य धर्मं श्रोतुमुपाश्रयन्॥

६२

तान् सर्वान् समुपासीनान् दृष्ट्वा स सुगतात्मजः।

दैत्यानां धर्ममारभ्य सद्धर्मं समुपादिशत्॥

भवन्तः श्रूयत्वा धर्में संसारसुखसाधनम्।

वक्ष्यतेऽत्र मया युष्मत्संसारगुःखमुक्तये॥

मैत्रचिता भवन्तोऽत्र शान्तचिता जितेन्द्रियाः।

दयाचित्ताश्च सत्त्वेषु भवध्यं समाचारिणः॥

ततः सत्यसमाचाराः परिशुद्धाशया मुदा।

त्रिरत्नशरणं गत्वा चरध्वं पोषधं व्रतम्॥

धृत्वा तदव्रतराजाख्यं संसारभद्रकारिणः।

शृणुध्वं चापि कारण्डव्यूहसूत्रसुभाषिते॥

ये श्रुत्वेदं महायानसूत्रराजं सुभाषितम्।

त्रिरत्नशरणं गत्वा चरन्ति पोषधं व्रतम्॥

तेषां सर्वाणि पापानि पंचानन्तर्यकान्यपि।

निःशेषं परिनष्टानि भविष्यन्ति सदा भवे॥

ये च श्रुत्वानुदन्ति श्रद्दधास्यन्ति चादरात्।

गृहिष्यन्ति लिखिष्यन्ति स्वाध्यास्यन्ति प्रमोदिताः॥

ये च लिखापयिष्यन्ति वाचयिष्यन्ति सर्वदा।

सदानुचिन्तयिष्यन्ति भावयिष्यन्ति चादरात॥

परेभ्यो विस्तरेणार्थमुपदेष्यन्ति सादरात्।

सत्कारैः श्रद्धया नित्यं पूजयिष्यन्ति सर्वदा॥

ते एव सुखिता धन्याः संसारसुखभागिनः।

न ते दुर्गतिदुःखानि भोज्यन्तेऽपि कदाचन॥

सदासद्गतिसंजाताः संसारसुखभोगिनः।

सद्गुणश्रीमहत्सपदृद्धिमन्तो महर्द्धिकाः॥

बोधिचर्याव्रतं धृत्वा स्वपरात्महितोद्यताः।

कृत्वा सर्वत्र भद्राणि चरिष्यन्ति सदा भवे॥

प्रान्ते जातिस्मरास्ते च बोधिप्रणिहिताशयाः।

त्रिरत्नशरणं गत्वा समेष्यन्ति सुनिर्वृतिम्॥

६३

यदा काले समायाते तेषां निर्वृतिवांछिनाम्।

द्वादशा सुगताः प्रेक्ष्य समुपागम्य सम्मुखम्॥

उपस्थिताः समालोक्य स्पृष्ट्वा पुण्यसुधाकरैः।

संपश्यन्तः समाश्वास्य मानयन्त्येवमादरात्॥

मा भैषीः कुलपुत्रात्र तिष्ठालं व्यसुधीरताम्।

यन्महायानकारण्यूहसूत्रं त्वया श्रुतम्॥

तत्ते नास्ति भयं किंचिददुर्गतेश्च कदाचन।

गमनाय सुखावत्यां मार्गेस्ते परिशोधितः॥

युष्मदर्थे सुखावत्यां दिव्यालंकारभूषणम्।

दिव्यामृतसुभोग्यं च संस्थापितमहत्तमम्॥

इत्याश्वास्य मुनीन्द्रास्तान् त्यक्तदेहान् सुखावतिम्।

नीत्वामिताभनाथस्य स्थापयेयुः सभासने॥

तत्रामिताभनाथस्य पीत्वा धर्मामृतं मुदा।

बोधिचर्याव्रतं धृत्वा प्रचरेयुः सदापि ते॥

क्रमेण बोधिसंभारं पूरयित्वा जगद्धिते।

त्रिविधां बोधिमासाद्य समाप्स्यन्ति सुनिर्वृतिम्॥

इत्येवं सुगतैः सर्वैः समाख्यातं मया श्रुतम्।

तथा समुदितं श्रूत्वा यूयं सर्वेऽनुमोदत॥

यद्येवं निर्वृतिं गन्तुं सर्वे यूयं समिच्छथ।

त्रिरत्नशरणं गत्वा चरत पोषधव्रतम्॥

महायानसूत्रराजं कारण्डव्यूहमुत्तमम्।

श्रुत्वा सदा समाधाय चरते बोधिसंवरम्॥

एतत्पुण्यानुभावेन सदा भुक्त्वा महासुखम्।

निःक्लेशा विमलात्मानः परिशुद्धत्रिमण्डलाः॥

बोधिचर्याव्रतं धृत्वा संचरन्तो जगद्धिते।

बोधिसत्त्वा महासत्वाः सर्वसंसारपालकाः॥

ततः प्रान्ते सुखावत्यां गत्वा भुक्त्वा महत्सुखम्।

सद्धर्ममिताभस्य श्रुत्वा शुभे चरिष्यथ॥

६४

तत्रापि बोधिसंभारं पूरयित्वा यथाक्रमम्।

त्रिविधां बोधिमासाध्य संप्राप्स्यथ सुनिर्वृतिम्॥

एतन्मया समाख्यातं यदि निर्वृतिमिच्छथ।

श्रुत्वा यथा मयोद्दिष्टं तथा चरत सर्वदा॥

इति तेन समादिष्टं श्रुत्वा सर्वेऽपि तेऽसुराः।

तथेत्यभ्यनुमोदित्वा तथा चरितुमीच्छिरे॥

ततस्ते दानवाः सर्वे निर्वृतिसुखवांछिनः।

तमाचार्यं पुनर्नत्वा प्रार्थयन्नेवमादरात्॥

शास्तर्भवत्समादिष्टं श्रुत्वा वयं प्रबोधिताः।

तथा चरितुमिच्छामस्तत्समादेष्टुमर्हति॥

इति तैः प्रार्थितं श्रुत्वा स लोकेशोऽसुरात्मधृत्।

सर्वांस्तानसुरान् पश्यन् समामन्त्र्यैवमादिशत्॥

भो भवन्तोऽसुराः सर्वे शृणुत तन्मयोदितम्।

श्रुवानुमोदनां कृत्वा चरतैतद् व्रतं सदा॥

आदौ सर्वे महायानसूत्रराजं वरोत्तमम्।

कारण्डव्यूहमाकर्ण्य प्रानुमोद्य प्रबोधिताः॥

प्रातस्तीर्थजले स्नात्वा शुद्धशीला जिनेन्द्रियाः।

त्रिरत्नशरणं गत्वा ध्यानत्वा लोकेश्वरं प्रभुम्॥

यथाविधि समभ्यर्च्य जपस्तोत्राभिवन्दनैः।

संतोस्य प्रार्थनां कुर्युः संबोधिव्रतसाधनाम्॥

एवं व्रतं समाप्यैव पंचामृतैर्निरामिषैः।

भोजनैस्तृतीये यामे कुर्युस्तत्पालनं मुदा॥

एवं नित्वं यथाशक्ति मासे मासेऽपि सर्वदा।

अष्टम्यां पंचदश्यां च व्रतं कुर्युर्यथाविधि॥

चरतैतदव्रतं नित्यं मासे मासेऽपि सर्वदा।

अथैकवारमप्येवं वर्षे चरत्कार्तिके॥

कार्तिके यय्कृतं कर्म तत्फ़लं बहुसत्तमम्।

अप्र्मेयमसंख्येयं न क्षणुयात कदाचन॥

६५

इति मत्वा समाधाय चरतैतद्व्रतं सदा।

एवं स समुपादिश्य तद्विधिं समुपादिशत्॥

तदाचार्यसमादिष्टं धृत्वा सर्वेऽपि तेऽसुराः।

यथाविधि समाधाय प्रेचिरुस्तदव्रतं सदा॥

ततस्ते दानवाः सर्वे चतुर्ब्रह्मविहारिणः।

बोधिसत्त्वा महासत्त्वा बभूवुर्भद्रचारिणः॥

एवमसौ महाभिज्ञो दुर्दान्तानपि दानवान्।

बोधयित्वा प्रयत्नेन बोधिमार्गे प्रयोजयेत्॥

एवं तस्य जगच्छास्तुः पुण्यस्कन्धं महद्बहु।

अप्रमेयमसंख्येयं इत्याख्यातं मुनीश्वरैः॥

एवं स त्रिजगन्नाथो लोकेश्वरो जिनात्मजः।

स्वयं पश्यन् जगत्सर्वं पालयति सदा भवे॥

पापिष्टानपि दुर्दान्तानपि यत्नैः प्रबोधयन्।

बोधिमार्गे नियुज्यैवं प्रेषयति सुनिर्वृतिम्॥

तेनासौ त्रिजगच्छास्ता सर्वलोकाधिपेश्वरः।

भजनीयः सदा भक्त्या संबोधिज्ञानवांछिभिः॥

तस्य नाम समुच्चार्य स्मृत्वा ध्यात्वा भजन्ति ये।

ते नूनं बोधिमासाध्य निर्वृतिं समवाप्नुयुः॥

इत्यादिष्टं मुनीन्द्रेण रत्नपाणिर्निशम्य सः।

प्रबोधितः प्रसन्नात्मा प्राभ्यनन्दत् स पार्षदः॥

इत्येवं शिखिनादिष्टं संबुद्धेन मया श्रुतम्।

लोकेश्वरस्य माहात्म्यं पुण्यस्कन्धं महत्तरम्॥

इति तस्य जगद्भर्तुः पुण्यस्कन्धं महत्तरम्।

स्मृत्वा नाम समुच्चार्य ध्यात्वापि भजतां सदा॥

तस्य नाम समुच्च्चार्य स्मृत्वा ध्यात्वा भजन्ति ये।

ते सर्वे विमलात्मानः संयास्यन्ति सुखावतीम्॥

तत्रामिताभनाथस्य पीत्वा धर्मामृतं सदा।

बोधिचर्याव्रतं धृत्वा संचरन्तो जगद्धिते॥

बोधिसत्त्वा महाभिज्ञाः परिशुद्धत्रिमण्डलाः।

त्रिविधां बोधिमासाध्य निर्वृतिपदमाप्नुयुः॥

इत्यादिष्टं मुनीन्द्रेण श्रीघनेन स पार्षदः।

श्रुत्वा सर्वनीवरणविष्कम्भी प्राभ्यनन्दत॥



॥इति श्रीसर्वाकारसर्वप्रबोधनसद्धर्मसंचारणं प्रकरणम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project