Digital Sanskrit Buddhist Canon

३. सूचीमुखोदर पर्वत प्रेतोद्धारण प्रकरण

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
३. सूचीमुखोदर पर्वत प्रेतोद्धारण प्रकरण



अथ सर्वनीवरणविष्कम्भी सुगतात्मजः।

बोधिसत्त्वो मुनीन्द्रं तं संपश्यंचैवमब्रवीत्॥

कदासौ भगवंछास्तर् लोकेश्वरो जिनात्मजः।

बोधिसत्त्व इहागच्छेत्तत्समादेष्टुमर्हति॥

इति तदुक्तमाकर्ण्य भगवान् स मुनीश्वरः।

बोधिसत्त्वं तमालोक्य पुनरेवं समादिशत्॥

असौ श्रीमान् महासत्त्वः कुलपुत्र ततश्चरन्।

प्रेतलोकान् समुद्धर्तुं प्रेतालयेऽभिगच्छति॥

तत्र प्रेतालये गत्वा प्रेतान् पश्यन् स दूरतः।

शीतरश्मि समुत्सृज्य प्रविवेश प्रभासयन्॥

तद्रश्मीः संप्रभासन्तीः समवभास्य सर्वतः।

तत्प्रेतभुवनं सर्वं करोति शीततान्वितम्॥

तदा ते प्रेतिकाः सर्वे शीतरश्मिसमन्विताः।

किमेतदिति संचिन्त्य तिष्ठन्ति विस्मयान्विताः॥

यदा तत्र प्रविष्टोऽसौ लोकेश्वरः प्रभासयन्।

तदा वज्राशनिर्भूमि उपशान्ता समन्ततः॥

२८

तदद्भुतं समालोक्य द्वारपालः स विस्मितः।

किमतेतदिति संचिन्त्य लोहिताक्षो विलोकयन्॥

उत्थाय सहसादाय कालकूटमहाविषम्।

भिण्डिपालं धनुर्बाणं धृत्वा संत्रसते रुषा॥

तत्र तं रत्नपद्मस्थं शीतरश्मिप्रभास्वरम्।

विलोक्यासौ महारौद्रचित्तोऽपि विस्मयान्वितः॥

तद्रश्मिसंपरिस्पृष्टः कारुण्यचित्तमाप्तवान्।

स्वपापसाधनं कर्म संभाव्यैवं विचिन्तते॥

धिग्मां यदीदृशे पापसाधने दुष्टकर्मणि।

संरक्तो द्वारपालोऽत्र भूत्वा करोमि पापकान्॥

नैव मे ईदृशं कर्म पालयतः शुभं भवेत्।

नूनमेतन्महत्पापफ़लं तुह्यां भवे सदा॥

किमीदृग्कर्म साधव्यं केवलदुःखसाधनम्।

तदहं नात्र तिष्ठेयं ह्युक्त्वा गेहं व्रजान्यपि॥

इति विचिन्त्य स द्वारपालोऽतिकरुणान्वितः।

पुरतस्तं महासत्त्वं प्रणत्वा चरते ततः॥

तत्र तं समुपायातं सुधांशुसंप्रभासितम्।

समीक्ष्य प्रेतिकाः सर्वे धावन्ति पुरतो द्रुतम्॥

तस्य ते पुर आगत्य क्षुत्पिपासाग्नितापिताः।

पानीयमभियाचन्तस्तिष्ठन्ति परिवृत्य वै॥

तान् दृष्ट्वा स महासत्त्वः सूचीमुखानगोदरान्।

दग्धस्थूणाश्रयानस्थियन्त्रवदतिमूर्च्छितान्॥

स्वकेशरोमसंच्छन्नाः कृशांगान् विकृताननान्।

क्षुप्तिपासाग्निसन्दग्धान् विण्मूत्रश्लेष्मभोजिनः॥

ईदृशान् पापिनो दुष्टान् प्रेतान् सर्वान् विलोकयन्।

तेभ्योऽतिकरुणार्तात्मा दादत्यब्जाद्भवं जलम्॥

तदम्बु ते निपीयापि प्रेतास्सर्वे न तृप्तिताः।

भूयोऽपि पातुमिच्छन्त उपतिष्ठिन्त तत्पुरः॥

२९

तानतृप्तान् समालोक्य लोकेशोऽतिदयाकुलः।

दशभ्यः स्वांगुलीभ्योऽपि निश्चारयति निम्नगाः॥

तच्छ्रवन्तीः समालोक्य सर्वे ते प्रेतिका मुदा।

यथेच्छा संपिबन्तोऽपि नैव तृप्तिसमागताः॥

भूयोऽपि पातुमिच्छन्तः सर्वे ते समुपाश्रिताः।

तमेवं समुपालोक्य विभ्रमन्ते तृषातुराः॥

भ्रमतस्तान् विलोक्यासौ लोकेशोऽतिदयान्वितः।

दशपादांगुलीभ्योऽपि निश्यारयति चापराः॥

ताश्च महानदीर्दृष्ट्वा प्रेतास्सर्वेऽपि ते मुदा।

समुपेत्य पिबन्तोऽपि नैव तृप्तिं समागताः॥

तानतृतान् विलोक्यासौ लोकेशोऽतिकृपान्वितः।

सर्वेभ्यो रोमकूपेभ्यो निश्चारयति चापगाः॥

तांश्चापि ते समालोक्य सर्वाप्रेताः तृषार्दिताः।

सहसा समुपाश्रीत्य प्रपिबन्ते यथेप्सितम्॥

यदा ते प्रेतिकाः सर्वे तदुदकं सुधानिभम्।

अष्टांगगुणसंपन्नं पिबन्त्यास्वाध्यमोदिताः॥

तदा सर्वेऽपि ते पूर्णगात्रा विपुलकण्ठकाः।

परिपुष्टेन्द्रियास्तृप्ता भवन्ति संप्रमोदिताः॥

ततश्चासौ महासत्त्वो दृष्ट्वा तान् जलतोषितान्।

भूयोऽपि करुणात्मा तैस्तोषयितुं समीहते॥

तत्र स करुणासिन्धुर्मेघानुत्थाप्य सर्वतः।

प्रणीतसुरसाहारा संप्रवर्षयतेऽनिशम्॥

तान् दिव्यसुरसाहारान् प्रवर्षितान् समन्ततः।

दृष्ट्वा ते प्रेतिकाः सर्वे सविस्मयप्रमोदिताः॥

समीक्ष्य स्वेछयादाय यथाकामं प्रभुंजते।

ततः सर्वेऽपि ते सत्त्वा तदाहाराभितोषिताः॥

ततस्ते सर्वे आहारैः पानैश्चाप्यमृतोपमैः।

सन्तर्पिता महानन्दसुखोत्साहसमन्विताः॥

३०

तदा ते सुखिताः सन्तः सद्धर्मगुणभाषिणः।

परिशुद्धाशयाः सर्वे संचिन्त्यैवं वदन्त्यपि॥

अहो ते सुखिनो लोका ये जाम्बुद्वीपिका नराः।

आश्रित्य शीतलां छायां ध्यात्वा तिष्ठन्ति सद्गुरोः॥

सुखितास्ते मनुष्या ये मातापित्रोर्यथासुखम्।

परिचर्यां सदा कृत्वा भजन्ति समुपस्थिताः॥

सुखितास्ते मनुष्या ये सन्मित्रं समुपस्थिताः।

सुभाषितं सदा श्रुत्वा चरन्ति सर्वदा शुभे॥

सुखिनस्ते महासत्त्वा ये संबोधिव्रतचारिणः।

सर्वसत्त्वहितं कृत्वा संचरन्ति सदा शुभे॥

सुखितास्ते महाभागा ये सुशीलाः शुभार्थिनः।

स्वपरात्महितार्थेन चरन्ति पोषधं व्रतम्॥

सत्पुरुषाः महाभागास्ते ये संघसमुपस्थिकाः।

धर्मगण्डीं यथाकालमाकोटयन्ति सर्वदा॥

ये विहारं प्रतिष्ठाप्य त्रिरत्नशरणं गताः।

उपासकव्रतं धृत्वा चरन्ति तेऽपि भागिनः॥

सुखितास्ते महासत्त्वा ये विहारं विशीर्णितम्।

संस्कृत्य संप्रतिष्ठाप्य कुर्वन्ति संप्रशोभितम्।

ये पूर्वस्तूपबिम्बानि विशिर्णस्फुटितानि च।

संस्कृत्य प्रतिसंस्थाप्य भजन्ति ते सुभागिनः॥

सद्धर्मभाणकान् ये च संमान्य समुपस्थिताः।

सुभाषितानि शृण्वन्ति ते सुभाग्याः सुखान्विताः॥

बुद्धानां प्रातिहार्याणि पश्यन्ति विविधानि ये।

चंक्रमाणि च पश्यन्ति ये ते सर्वेऽपि भागिनः॥

ये च प्रत्येकबुद्धानां विविधर्द्धिविकुर्वितम्।

चंक्रमाणि च पश्यन्ति तेऽपि सर्वे सुभागिनः॥

येऽर्हतां प्रातिहार्याणि पश्यन्ति चंक्रमाणि च।

तेऽपि धन्या सुखापन्नाः संसारधर्मचारिणः॥

३१

ये चापि बोधिसत्त्वानां पश्यन्ति चंक्रमाण्यपि।

प्रातिहार्याणि ये चापि तेऽपि धन्याः सुभागिनः॥

ये बुद्धशरणं गत्वा स्मृत्वा भजन्ति सर्वदा।

ते एव सुभगा धन्याः सद्धर्म्मगुणलाभिनः॥

ये च शृण्वन्ति सद्धर्मं भजन्ति श्रावयन्त्यपि।

तेऽपि सर्वे महाभागाः संबोधिधर्मभागिनः॥

ये संघान् च शरणं गत्वा भजन्ति समुपस्थिताः।

ते सर्वे सुभगा धन्याः संबोधिप्रतिलाभिनः॥

ये च दत्वा प्रदानानि पालयन्तः परिग्रहान्।

कृत्वा सत्वहितर्थानि चरन्ते ते सुभागिनः॥

पापतो विरता ये च परिशुद्धत्रिमण्डलाः।

चरन्ति व्रतमष्टांगं भद्रिकास्ते सुभाविनः॥

ये च क्षान्तिव्रतं धृत्वा सुप्रसन्नाशयाः सदा।

सर्वसत्त्वहितार्थेषु चरन्ति ते सुभाविनः॥

ये च सद्धर्मरत्नानि साधयन्तो जगद्धिते।

सदा लोकहितार्थानि कुर्वंते ते महाजनाः॥

ये च तत महासत्त्वा सर्वविद्यान्तपारगाः।

कृत्वा सत्त्वशुभार्थानि चरन्ते ते सुभागिनः॥

ये चापि शासने बौद्धे श्रद्धया शरणं गताः।

प्रवज्यासंवरं धृत्वा चरन्ते ते सुनिर्मलाः॥

ये च बौद्धाश्रमे नित्यं शोधयन्ति समाहिताः।

ते सुश्रीमत्सुभद्रांगाः सद्धर्मसुखसंयुताः॥

ये चापि सततं स्निग्धा हितं कृत्वा परस्परम्।

साधयन्ति यशोधर्मं ते सभाग्या सुभाविनः॥

ये चरन्ति सदा भद्रे विरम्य दशपापतः।

ते धन्या विमलात्मानः सद्गुणसुखलाभिनः॥

ये चरन्ति तपोऽरण्ये त्यक्त्वा सर्वान् परिग्रहान्।

ते सुभद्राः शुभात्मानः सदा सद्गतिचारिणः॥

३२

बोधिचर्याव्रतं धृत्वा ये चरन्ति जगद्धिते।

ते पुमांसो महासत्त्वाः संबुद्धपदलाभिनः॥

इत्येवं ते समाभाष्य सर्वसंपरिनन्दिताः।

महासत्त्वं तमानम्य प्रार्थयन्त्येमादरात्॥

साधो भवान् हि नो नाथयाता स्वामी सुहृत्प्रभुः।

नैवान्यो विद्यते कश्चिदेवं रक्ष्यहितार्थभृत्॥

यद् भवान् स्वयमालोक्य पापिनोऽस्मान् सुदुःखितान्।

समागत्यामृतैर्भोग्यैस्तोषयन्नभिरक्षति॥

तद्वयं भवतामेव सर्वदा शरणं गताः।

सत्कारैस्समुपस्थानं कर्तुच्छामहेऽधुना॥

तद् भवान्नो हिताधाने संयोजयितुमर्हति।

भवता यत्समादिष्टं तत्करिष्यामहे ध्रुवन्॥

इति तै प्रार्थितं सर्वै लोकेश्वरो निशम्य सः।

कृपादृष्ट्या समालोक्य समादिशति तान् पुनः॥

शृणुध्वं तन्मयाख्यातं युष्माकं हितसाधनम्।

संचरध्वं तथा नित्यं सदा भद्रं यदीच्छथ॥

तद्यथादौ त्रिरत्नानां प्रयात शरणं मुदा।

सर्वदा मनसा स्मृत्वा भजध्वं च समादरात्॥

नमो बुद्धाय धर्माय संघाय च नमो नमः।

इति त्रिभ्यो नमस्कारं कृत्वा चरत सर्वतः॥

एतत्पुण्यानुभावेन सर्वत्रापि शुभं भवेत्।

निरुत्पातं महोत्साहं सर्वदा च भवे ध्रिवम्॥

ततो यूयं क्रमेणापि परिशुद्धत्रिमण्डलाः।

बोधिचित्तं समासाध्य व्रतं चरितुमैक्ष्यथ॥

तदेतत्पुण्यभावेन सर्वे यूयमितश्च्युताः।

त्रिरत्नस्मृतिमाधाय सुखावतीं प्रयास्यथ॥

तत्रामिताभनाथस्य शरणे समुपस्थिताः।

सर्वदा भजनं कृत्वा चरिष्यथ महासुखम्॥

३३

तदा यूयं समदाय पोषधं व्रतमुत्तमम्।

विधिवत्संचरित्वैत्पुण्यैर्लप्स्यथ सन्मतिम्॥

ततोऽपि विमलात्मानः सर्वसत्त्वहितोत्सुकाः।

बोधिचर्याव्रतं धृत्वा चरिष्यथ जगद्धिते॥

ततः पारमिताः सर्वाः पूरयित्वा यथाक्रमम्।

दुष्टान् मारगणान् सर्वान् जित्वार्हन्तो भविष्यथ॥

ततः संसारसंचारनिस्पृहा विजितेन्द्रियाः।

त्रिविधां बोधिमासाध्य निर्वृतिपदमाप्स्यथ॥

एवं सत्त्वास् त्रिरत्नानां गच्छन्तः शरणं सदा।

स्मृत्वा नाम् समुच्च्चार्य नत्वा भजध्वं नाभवम्॥

इति लोकेश्वरेणैवं समादिष्टं निशम्य ते।

सर्वे तथेति विज्ञाप्य प्रतिमोदन्ति नन्दिताः॥

ततो लोकेश्वरो मत्वा तेषां मनोऽभिशुद्धितम्।

निश्चारयति कारण्डव्यूहसूत्रसूभाषितम्॥

तत्सुभाषितमाकर्ण्य सर्वे ते संप्रमोदिताः।

त्रिरत्नभजनोत्साहसौख्यं वांछन्ति साधितुम्॥

ततस्ते मुदिताः सर्वे त्रिरत्नशरणं गताः।

नमो बुद्धाय धर्माय संघायेति वदन्ति ते॥

ततः सर्वेऽपि ते सत्वायिरत्नस्मृतिसंरताः।

संसारविरतोत्साहा भवन्ति धर्मलालसाः॥

ततो ज्ञानासिना भित्त्वा सत्कायदृष्टिपर्वतम्।

त्यक्त्वा देहं ततः सर्वे तेऽभियान्ति सुखावतीम्॥

तत्रामिताभनाथस्य शरणे समुपस्थिताः।

निर्देशं शिरसा धृत्वा प्रचरन्ति शुभे मुदा॥

ततः सर्वे भवेयुस्ते चतुर्ब्रह्मविहारिणः।

बोधिसत्त्वा महासत्त्वा आकांक्षितमुखाभिधाः॥

इत्येवं स महासत्त्वो लोकेश्वरो जिनात्मजः।

सर्वान् प्रेतान् समुद्धृत्य प्रेषयति सुखावतीम्॥

३४

एवं त्रैलोक्यनाथोऽसौ महाकारुणिकः कृती।

कृपया स्वयमालोक्य संरक्ष्याभ्यवते जगत्॥

ये ये सत्त्वाः सदा तस्य लोकेशस्य महात्मनः।

स्मृत्वा नाम समुच्चार्य भजन्ते शरणं गताः॥

ते ते सर्वेऽपि निष्पापाः श्रीमन्तः सद्गुणाकराः।

सर्वसत्त्वहितं कृत्वा प्रचरन्तः शुभे सदा॥

बोधिचर्याव्रतं धृत्वा भुक्त्वा धर्मयशःसुखम्।

त्रिरत्नभजनोत्साहं धृत्वा यायुः सुखावतीम्॥

न ते सर्वेऽपि गच्छन्ति दुर्गतिं च कदाचन।

सदा सद्गतिसंजाता भद्रश्रीसद्गुणाश्रयाः॥

परिशुद्धेन्द्रिया धीरा बोधिचर्याव्रतंधराः।

स्वपरात्महितं कृत्वा यायुरन्ते जिनालये॥

इत्येवं स महासत्त्वः सर्वसत्त्वहितार्थभृत्।

कृपाकारुण्यसद्धर्मगुणमाहात्म्यसागरः॥

असंख्यं पुण्यमाहात्म्यं तस्य लोकेश्वरस्य हि।

सर्वैरपि मुनीन्द्रैस्तत्प्रमातुं नैव शक्यते॥

इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स सुगतात्मजः।

सुधीः सर्वनीवरणविष्कम्भी चैवमब्रवीत्॥

भगवन् स महासत्त्वो नागच्छति कदा व्रजत्।

तस्याहं दर्शनं कर्तुमिच्छामि त्रिजगत्प्रभोः॥

इति तेनोदितं श्रुत्वा भगवान् स मुनीश्वरः।

विकम्भिनं तमालोक्य पुनरेवं समादिशत्॥

एवं तान् कुलपुत्रासौ लोकेश्वरः प्रबोधयन्।

प्रेषयित्वा सुखावत्यां ततो निष्क्रम्य गच्छति॥

अन्यत्रापि समुद्धर्तुं पापिनो नरकाश्रितान्।

करुणासुदृशा पश्यंश्चरंस्ते संप्रभासयन्॥

दिने दिने स आगत्य सर्वेषु नरकेष्वपि।

निमग्नान् पापिनो दुष्टान् समालोक्य प्रभासयन्॥

स्वयमुद्धृत्य सर्वान्स्तान् सुखीकृत्वा प्रबोधयन्।

बोधिमार्गे प्रतिष्ठाप्य संप्रेषयेत् सुखावतीम्॥



॥इति श्रीगुणकारण्डव्यूहे सूचीमुखोदरपर्वतप्रेतोद्धारनप्रकरणम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project