Digital Sanskrit Buddhist Canon

२. अवीचि संशोषण श्रीधर्मराजाभिबोधन प्रकरणम्

Technical Details
२. अवीचि संशोषण श्रीधर्मराजाभिबोधन प्रकरणम्



अथ धीमान् महासत्त्वो जिनश्रीराज आत्मवित्।

जयश्रियं यतिं नत्वा सांजलिरेवमब्रवीत्।

भदन्त श्रोतुमिछामि संघरत्नस्य सन्मतेः।

श्रीमतो लोकनाथस्य माहात्म्यगुणमुत्तमम्॥

तच्छ्रीमद्बोधिसत्त्वस्य त्रैलोक्याधितेः प्रभोः।

गुणमाहात्म्यमाख्यातुमर्हसि त्वं जगद्धिते॥

इति संप्रार्थ्यमानोऽसौ जयश्रीर्मतिमान् यतिः।

जिनश्रीराजमालोक्य तं यदिमेवमब्रवीत्॥

साधु शृणु महाभाग यथा मे गुरुणोदितम्।

तथाहं ते समासेन प्रवक्ष्यामि जगद्धिते॥

तद्यथासौ महाराजा भूयोऽशोको नराधिपः।

विहारे कुक्कुटारामे धर्मं श्रोतुदाचरत्॥

तत्र स समुपाविश्य समन्त्रिनपौरिकाः।

उपगुप्तं तमर्हन्तं प्रणत्वा समुपाश्रयत्॥

तत्र स समुपागम्य तमर्हन्तं यतिं मुदा।

अभ्यर्च्य सांजलिर्नत्वा प्रार्थयदेवमादरात्॥

भदन्त श्रोतुमिच्छामि लोकेशस्य जगत्प्रभोः।

सद्धर्मगुणमाहात्म्यं तत्समादेष्तुमर्हसि॥

एवं तेन महीन्द्रेण प्रार्थ्यमानः स सन्मतिः।

उपगुप्तो महीपालं तमालोक्यैवमादिशत्॥

साधु शृणु महाराज यथा शृतं मया गुरोः।

तथाहं ते प्रवक्ष्यामि माहात्म्यं त्रिजगप्रभोः॥

१५

तद्यथासौ महाबुद्धः शाक्यमुनिर्जगद्गुरुः।

धर्मराजो महाभिज्ञः सर्वज्ञोऽर्हन् मुनीश्वरः॥

भगवांछ्रीघनः शास्ता तथागतो विनायकः।

मारजित्सुगतो नाथयैधातुकाधिपो जिनः॥

श्रीमतोऽनाथनाथस्य गृहस्थस्य महामतेः।

विहारे जेतकोध्याने विजहार ससांघिकः॥

तदा तत्र महासत्त्वा बोधिसत्त्वा जिनात्मजाः।

मैत्रेयप्रमुखास्सर्वे सद्धर्मं श्रोतुमागताः॥

तत्र तं श्रीघनं दृष्ट्वा सुप्रसन्नाशया मुदा।

तत्पादाब्जं प्रणत्वा तत्सभायां समुपाश्रयन्॥

सर्वे प्रत्येकबुद्धाश्च अर्हन्तः समुपागताः।

भगवन्तं तमानम्य तत्रैकान्ते समाश्रयन्॥

श्रावका भिक्षवश्चापि यतयो ब्रह्मचारिणः।

शास्तारं तं प्रणत्वा तत्सभायां समुपाश्रयन्॥

ऋषयोऽपि महासत्त्वाः सर्वे सद्धर्मवांछिनः।

दुरात्तं श्रीघनं दृष्ट्वा प्रणम्य समुपागताः॥

ब्रह्मादयो महाभिज्ञा भासयन्तः समन्ततः।

दूरात्तं सुगतं दृट्वा प्रणमन्तः समागताः॥

इन्द्रादयः सुराः सर्वे धर्मामृतलालसाः।

पश्यन्तो दूरतो नत्वा शास्तारं तं समागताः॥

तथाग्निप्रमुखाः सर्वे लोकपालाः प्रमोदिताः।

भगवन्तं समालोक्य दूरन्नत्वा समागताः॥

तथा सर्वे च गन्धर्वा धृतराष्ट्रादयोऽपि ते।

सुदूरात् सनिरीक्षान्ता नमन्तः सहसागताः॥

विरुढकादयः सर्वे कुम्भाण्डाश्च प्रमोदिताः।

तेऽपि सुदूरतो दृष्ट्वा नमन्तः सहसागताः॥

विरुपाक्षादयश्चापि सर्वनागाधिपास्तथा।

तेऽपि दृष्ट्वा सुदूरात्तं जिनण् समागताः॥

१६

वैश्रवणादयश्चापि यक्षाः सर्वप्रमोदिताः।

पश्यन्तो दूरतो नत्वा तं मुनिं समुपागताः॥

एतं सूर्यादयः सर्वे ग्रहाधिपाः समागताः।

सर्वास्तारागणाश्चापि सर्वे विधाधरा अपि॥

सिद्धाः साध्याश्च रुद्राश्च वायवश्च महेश्वराः।

कामधात्वीश्वराः सर्वे श्रीपतिप्रमुखा अपि॥

गरुडेन्द्राश्च सर्वेऽपि किन्नरेन्द्रा द्रुमादयः।

वेमचित्रादयः सर्वे दैत्येन्द्रा राक्षसा अपि॥

महोरगाश्च नागाश्च सर्वेऽपि जलचारिणः।

सर्वेऽपि देवपुत्राश्च सर्वे षोषप्सरोगणाः॥

सर्वा गन्धर्वकन्याश्च सर्वाः किन्नरकन्यकाः।

नाजकन्याश्च दिव्यांगा रक्षोकन्याश्च भद्रिकाः॥

यक्षकन्या असंख्येया तथा च दैत्यकन्यकाः।

असंख्येयास्तथा विधाधरकन्या मनोहराः॥

सिद्धकन्यास्तथा साध्यकन्याश्चातिमनोहराः।

देवकन्यादयश्चान्यकन्याः सर्वाः प्रमोदिताः॥

समीक्ष्य संप्रभासन्तमुपतस्थुः सभान्तिके॥

तथा च ब्रह्मचारिणो भिक्षुण्यश्चैलका अपि।

व्रतिन उपासकाश्चापि तथा चोपासिका अपि॥

ऋषिकन्यास्तथा चान्याः सद्धर्मं श्रोतुमागताः।

तथा च ब्राह्मणा विज्ञास्तीर्थिकाश्च तपस्विनः॥

राजानः क्षत्रियाश्चापि सर्वे राजकुमारकाः।

अमात्या मन्त्रिणश्चापि श्रेष्ठिनश्च महाजनाः॥

सैन्या योधृगणाश्चापि भृत्याः परिजना अपि।

गृहस्था धनिनः सार्थवाहादयो वणिग्गणाः॥

शिल्पिनं कॄषिणश्चापि सर्वे कुटुम्बिनोऽपि च।

सर्वे वैश्याश्च शूद्राश्च तथान्ये सर्वजातिकाः॥



१७

नागराः पौरिकाश्चापि जानपदाश्च नैगमाः।

ग्राम्याः प्रत्यन्तदेशस्थाः कार्पटिकाश्च पार्वताः॥

एवं सर्वेऽपि लोकाश्च संबुद्धभत्तिमानसाः।

त्रिरत्नगुणमाहात्यं पीयुषं पातुमागताः॥

तत्र सर्वेऽपि ते लोका ब्रह्मादय उपागताः।

तं मुनीन्द्रं समालोक्य प्रणमन्तः पुरोगताः॥

यथाविधि समभ्यर्च्य प्रणत्वा च यथाक्रमम्।

तिस्त्रः प्रदक्षिणीकृत्य कृतांजलिपुटा मुदा॥

तत्सद्धर्मामृतं पातुं परिवृत्य समन्ततः।

पुरस्कृत्य समाधाय पश्यन्तः समुपाश्रयन्॥

तत्र स भगवांस्तान् दृष्ट्वा सर्वान् समाश्रितान्।

सर्वसंशोधनं नाम समाधिं विदधे तदा॥

तस्मिन्नवसरे तत्र रश्मयः संप्रभास्वराः।

अवभास्य दिशः सर्वा भासयन्तः समागताः॥

तदा तद्रश्मिसंस्पृष्टे विहारे तत्र सर्वतः।

हेमरत्नमया आसन् स्तम्भाः सर्वे प्रशोभिताः॥

कूटागाराश्च सर्वेऽपि सुवर्णरत्नशोभिताः।

द्वाराणि तत्र सर्वाणि हेमरुप्यमयानि च॥

सोपानान्यपि सर्वाणि स्वर्णरुप्यमयानि च।

वातायनानि सर्वाणि हेमरत्नमयानि च॥

कपाटानि च सर्वाणि रुप्यरत्नमयाण्यपि।

भित्तयोऽपि तथा सर्वाः स्वर्णरत्नमया बभुः॥

पटलानि सुवर्णानि रत्नाभिमण्डितानि च।

वेदिकास्तत्र सर्वाश्च सुवर्णरत्नमण्डिताः॥

तोरणान्यपि सर्वाणि स्वर्णरत्नमयानि च।

एवं सर्वेऽपि प्रासादाः सुवर्णरत्नमण्डिताः॥

भूतलान्यपि सर्वाणि वैडूर्यसंनिभानि च।

समतलानि शुद्धानि कोमलानि विरेजिरे॥

१८

एवं तज्जातकारामे विहारं परिशोभितम्।

दिव्यसुवर्णरत्नश्रीमण्डितं समरोचत॥

बहिश्च जेतकारामे विहारस्य समन्ततः।

कल्पवृक्षाः समुद्भूताः सर्वार्थिसुखदायिनः॥

सुवर्णस्कन्धशाखाढ्या रुप्यपत्राभिच्छादिताः।

दिव्यचीवरक्यादिलम्बिता परिशोभिताः॥

समुज्ज्वलदुदारश्रीरत्नमालाप्रलम्बिताः।

सर्वालंकारमुक्तादिरत्नहारप्रलम्बिताः॥

अनेका पुष्पवृक्षाश्व समुद्भूताः समन्ततः।

दिव्यसौरभ्यागन्धाद्यप्रच्छन्नपुष्पभारिणः॥

अनेकफलवृक्षाश्च समुद्भूताः समन्ततः।

दिव्यमृतरसस्वादसुपथ्यफ़लभारिणः॥

सर्वा औषधयश्चापि रसवीर्यगुणान्विताः।

सर्वा रोगनिहन्तारः प्रादुरासन् समन्ततः॥

अनेकाः पुष्करिण्यश्च शुद्धाम्बुपरिपूरिताः।

पद्मोत्पलादिपुष्पाढ्याः प्रादुरासन् मनोरमाः॥

एवं सर्वाणि वस्तूनि भद्राभिशोभितानि च।

श्रीसमृद्धप्रसन्नानि बभूवुस्तत्र सर्वतः॥

एवं तदा महानन्दसुखधर्मगुणान्वितम्।

सर्वसत्त्वमनोह्लादि महोत्साहं प्रवर्तते॥

एतन्महाद्भूतं दॄष्ट्वा सर्वे लोकाः सुरादयः।

विस्मयाक्रान्तचित्तास्ते पश्यन् तस्तस्थुरुन्मुखाः॥

अथ सर्वनीवरणविष्कम्भी नाम सन्मतिः।

बोधिसत्त्वो महासत्त्वस्तान् पश्यन् विस्मयान्वितः॥

दृष्ट्वा सर्वान् सभासीनान् विस्मयोद्धतमानसान्।

तं मुनीन्द्रं समालोक्य तस्थौ तद्धेतुं चिन्तयन्॥

तदा स भगवांच्छास्ता लोकान् सर्वासुरानपि।

तदद्भुतं महद्धेतुं परिज्ञातुं समाहितः॥

१९

गत्वा पश्यन् समाधाय तत्समाधेः समुत्थितः।

तदद्भुतमहाहेतुं समुपादेष्टुमैच्छत॥

तदालोक्य सुधीमान् स बोधिसत्त्वो जिनात्मजः।

कृती सर्वनीवरणविष्कम्भी संविलोकयन्॥

समुत्थायोपसंगच्छन् जानुभूमितलाश्रितः।

उद्वहन्नुत्तरासंगं कृतांजलिपुटो मुदा॥

संपश्यंस्तं जगन्नाथं शास्तारं त्रिजगद्गुरुम्।

सर्वज्ञं श्रीघनं नत्वा प्रार्थयदेवमादरात्॥

भगवन् परमाश्चर्यप्राप्तोऽस्मीदं विलोकयन्।

कुत इते सुपुण्याभा रश्मयोऽत्र समागताः॥

कस्य पुण्यात्मनश्चायं सद्धर्मविषयो महान्।

प्रभाव इदृशोऽस्माभिर्दृश्यति न कदाचन॥

तद्भवांस्त्रिगजच्छास्ता सर्वज्ञो भगवान् जिनः।

तदेतन्नः समादिश्य प्रबोधयितुमर्हति॥

इति संप्रार्थ्यमानोऽसौ भगवान् धर्माधिपो जिनः।

दृष्ट्वा सर्वनीवरणविष्कम्भिनं तमब्रवीत्॥

यः श्रीमान्महाभिज्ञ आर्यावलोकितेश्वरः।

बोधिसत्त्वो महासत्त्वः सर्वलोकाधिपेश्वरः॥

स जिनस्यामिताभस्य धृताज्ञः करुणामयः।

लोकधातोः सुखावत्याः सत्त्वानुद्धर्तुमागतः॥

सांप्रतं नरकेऽवीचौ सत्त्वान् तेनाभिपाचितान्।

प्रसमीक्ष्य समुद्धर्तुं प्रसारयन् करानागतः॥

तत्प्रभा नरके तत्र स्पृष्ट्वा सर्वान् सुखान्वितान्।

कृत्वा ततः समुद्धत्य समवभास्य सर्वतः॥

इहागता इमास्तस्य लोकेशस्यात्मजाः प्रभाः॥

एवमसौ महासत्त्वो महत्पुण्यसमृद्धिमान्।

इहापि पापिनः सत्त्वान् समुद्धर्तुं समागतः॥

इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स सुगतात्मजः।

धिमान् सर्वनीवरणविष्कम्भी विस्मयान्वितः॥

२०

भगवन्तं मुनीन्द्रं तं समालोक्य सकौतुकः।

लोकेशपुण्यमाहात्म्यं प्रष्टुमेवमभाषत॥

भगवन्नकेऽवीचौ महानग्निः सदोज्वलः।

वीचिर्न ज्ञायते तस्य ज्वाला या महदर्च्चिषः॥

तत्कथं स महासत्त्वो लोकेश्वरः कृपान्वितः।

तत्र सत्त्वान् समुद्धर्तुं प्रविशति जगद्गुरुः॥

यत्र प्राकारपर्यन्तमयोमयं महीतलम्।

महदग्निखदा तत्र प्रोज्वलाग्निशिखाकुला॥

तस्यां संस्थापिता कुम्भी महती तैलपूरिता।

तस्यां सत्त्वा दुरात्मानः पापिष्ठा दुरितारताः।

अप्रमेया असंख्येयाः क्वाथमाना दिवानिशम्।

खिद्यत्यह्ने विशीर्णांगास्तिष्ठिन्ते प्राणिनः खराः॥

एवं ते प्राणिनो दुष्टा असह्यवेदनातुराः।

स्वदुष्कृतान् अभिभुंजन्तस्तिष्ठिन्ति पारितापिताः॥

तत्राप्यसौ महासत्त्वो लोकेनाथो जिनात्मजः।

प्रविष्टः कथमुद्धत्य संप्रेषयेच्च तान् कुह॥

भगवन् सर्वविच्छास्तरेतत्सर्वं सुविस्तरम्।

समादिश्य भवानस्मान् प्रबोधयितुमर्हसि॥

इति संप्रार्थिते तेन बोधिसत्त्वेन धीमता।

भगवान्स्तं महासत्त्वं समालोक्यैवमादिशत्॥

साधु शृणु महासत्त्व समाधाय यदीच्छसि।

लोकेश्वरर्द्धिमाहात्म्यं प्रवक्ष्यामि जगद्धिते॥

तद्यथा भूपती राजा चक्रवर्ती नृपाधिपः।

महद्राज्यर्द्धिसंपन्नमहोत्साहैः समन्वितः॥

वसन्तसमये रन्तुं सर्वत्र पुष्पमण्डिते।

महोद्याने मनोरम्ये प्रविशति प्रमोदितः॥

तथा स त्रिजगन्नाथ पुण्यर्द्धिश्रीसमन्वितः।

तत्रावीचौ समालोक्य प्रविशति प्रभासयन्॥

२१

तस्य कायेऽन्यथाभावं भवति नैव किंचन।

सुखमेव महानन्दमहोत्साप्रमोदनम्॥

यदा स त्रिजगन्नाथः स्वदेहरश्मिमुत्सृजन्।

तदवीचिमुक्रान्तश्चरते संप्रभासयन्॥

तदादौ निरयोऽवीचिर्महदग्निशिखाकुलः।

शीतीभूतो महानन्दं सुखांगो भवति क्षणात्॥

यमपालास्तदालोक्य संवेगोद्विग्नमानसाः।

किमत्राशुभनैमित्तं जातमिति विषादिताः॥

को देवोऽत्र महावीरो दैत्यो वा समुपागतः।

इत्युक्त्वा ते च तद्द्रष्टुं प्रचरन्ते समन्ततः॥

तत्र तं समुपासीनं दिव्यरुपं महत्प्रभम्।

सौम्यरुपं सुभद्रांगं दिव्यालंकारमण्डितम्॥

महच्छ्रीमणिसंयुक्तं जटामकुटशोभितम्।

पश्यन्ते ते समालोक्य तिष्ठन्ते विस्मयान्विताः॥

ततोऽसौ सर्वपालेन्द्रो लोकेश्वरो जिनात्मजः।

संभासयन् विशुद्धाभैः प्रविशते विलोकयन्॥

यदा तत्र प्रविष्टोऽसौ बोधिसत्त्वजगत्प्रभुः।

तदा तत्र महापद्मं प्रादुर्भूतं प्रभास्वरम्॥

सप्तरत्नमयं तत्र समाश्रित्य स तिष्ठति।

तदा विस्फोटिता कुम्भी सा सोऽपि प्रशमितोऽनलः॥

तत्रानलखदामध्ये प्रादुर्भूतं सरोवरम्।

तदा ते पापिनः सत्त्वास्तद्रश्मिस्पर्शताश्रयाः॥

निर्गतवेदनादुःखा महत्सौख्यसमन्विताः।

विस्मिताः सुप्रसन्नात्माः संपश्यन्ते तमीश्वरम्॥

समीक्ष्य सहसोपेत्य कृतांजलिपुटा मुदा।

तत्पादाब्जे प्रणत्वा ते स्तुत्वा भजन्त आदरात्॥

ततः सर्वेऽपि ते सत्त्वा निःशेषत्यक्तपातकाः।

शुद्धांगा विमलात्मानः संप्रयान्ति सुखावतीम्॥

२२

सुखावत्यां च ते सर्वे संगताः संप्रमोदिताः।

मुनीन्द्रस्यामिताभस्य सर्वदा शरणं गताः।

बोधिचर्याव्रतं धृत्वा संचरन्ते जगद्धिते॥

तदा नरकपारास्ते सर्व उद्विग्नमानसाः।

विलोक्य तं महाश्चर्यं सविस्मयभयाकुलाः।

प्रगृह्य स्वस्वशयाणि पलायन्ते ततो द्रुतम्॥

ततस्ते सहसा गत्वा यमराजस्य सन्निधौ।

प्रणत्वेतत्प्रवृतान्तं निवेदयन्ति विस्तरम्॥

तैर्निवेदितमाकर्ण्य यमराजोऽतिविस्मितः।

पुरतः समुपामन्त्र्य पृच्छते तान् समादरात्॥

किमेवं यूयमायाताः सर्वेऽप्युद्विग्नमानसा।

कुतो भयं समायातं केत युयं प्रखेटिताः॥

सर्वमेतत्प्रवृत्तान्तं युयं मे यदि भक्तिकाः।

विस्तरेण समाख्यातुमर्हथ मे पुनः पुनः॥

इत्युक्ते यमराजेन सर्वे ते यमकिंकराः।

प्रणत्वा यमराजं च निवेदयन्ति विस्तरात्॥

यत्खलु देव जानीयाद्भवानेव जगत्प्रभुः।

तत्रावीचौ महोत्पातं जायेते तन्निगद्यते॥

प्रथमं तस्मिन् सुगन्धश्चरते शीतलोऽनिलः।

ततः प्रह्लादिनी कान्तिर्भासयन्ति समागताः॥

तत्प्रभास्पर्शितः सोऽग्निरवीचिरपि शाम्यते।

ततो विस्फोटिता कुम्भी खण्डीभूता विचूर्णिता॥

तत्राप्यग्निखदामध्ये प्रादुर्भूतं सरोवरम्।

ततस्तत्र महासत्त्वः कामरुपोऽतिसुन्दरः॥

भद्रमूर्त्तिर्विशुद्धात्मा जटामकुटशोभितः।

श्रीमान् महर्द्धिको धीरो दिव्यालंकारमण्डितः॥

दयाकारुण्यभद्रांशः शीतरश्मिप्रभास्वरः।

समीक्षन् पापिनस्सत्त्वान् प्रविशते प्रभासयन्॥

२३

तदा तत्र महापद्मं सप्तरत्नसमुज्ज्वलम्।

प्रादुर्भूतं तदाश्रित्य तिष्ठते स प्रभासयन्॥

तमासीनं समालोक्य पापिनस्ते सविस्मयाः।

उपेत्य शरणं गत्वा सम्भजन्ते समादरात्॥

ततस्ते प्राणिनः सर्वे शुधकायाः प्रमोदिताः।

तत्पादाब्जे प्रणतिं कृत्वा सर्वे यान्ति ततश्च्युताः॥

इत्यसौ नरकोऽवीचिर्निःशेषं प्रलयं गतः।

तदत्र देव संवीक्ष्य विचारयितुमर्हति॥

इति तैर्निवेदितं श्रूत्वा यमराजः स विस्मितः।

किमेतदद्भुतं जातमित्युक्त्वैवं विचिन्तते॥

कोऽसौ देवः समायात ईदृग्रूपो महर्द्धिकः।

महेश्वरोऽथवा विष्णुर्ब्रह्माथ त्रिदशाधिपः॥

वाडवो वा महानग्निरुत्थितः प्रलये यथा।

गन्धर्वो वा सुरेन्द्रो वा किन्नरो वाथ राक्षसः॥

किमुत्थितो महावायुरतिवीर्यपराक्रमः।

यक्षो वाथ महासत्त्वो वज्रपाणिः स गुह्यराट्॥

राक्षसेन्द्रो महावीरो रावणो मम स्पर्धी च।

यक्षाधिपो महावीरो राजराजोऽथवान्यतः॥

किं वा भूतेश्वरो रुद्र ईशानः प्रमथाधिपः।

कोऽस्ति लोकाधिप वीर ईदृग्बलसमृद्धिमान्॥

एतेषामपि सर्वेषां महद्वीर्यानुभाविनी॥

ईदृग्विर्यप्राभावो हि कस्यचिन्नैव दृश्यते॥

अथवा तापसः कश्चिदृषिर्वापि नराधिप।

तपःसिद्धिबलाधानमहद्वीर्यमृद्धिमान्॥

कस्य देवस्य देव्या वा कस्या वा भक्तिमान् कृती।

साधको वरमासाद्य मामपि जेतुमागतः॥

कस्तदन्यो महावीर्यः पुरुषो विद्यते कुह।

योऽवीचिं वहिनमुज्ज्वालं शमयितुं प्रशक्नुयात्॥

२४

ईदृक्सत्त्वो महेशाख्यो महत्पुण्यसमृद्धिमान्।

नैवात्र दृश्यते क्वापि त्रैधातुभुवनेष्वपि॥

एवं विचिन्त्य सन्त्रस्तो यमराट् सोऽतिविस्मितः।

अवीचौ नरके तत्र पश्चते दिव्यचक्षुषा॥

तत्र रत्नयोदारपद्मासनसमाश्रितम्।

दिव्यातिसुन्दरं कान्तं दिव्यालंकारभूषितम्॥

समन्तभद्ररुपांगं जटामणिकिरीटिनम्।

सौम्यकान्तिप्रभासन्तं सौम्यं पुण्यगुणाश्रयम्॥

तं श्रीमन्तं समालोक्य लोकेश्वरं जिनात्मजम्।

बोधिसत्त्वं महासत्त्वं विदित्वा स प्रमोदितः॥

यमराट् सहसोत्थाय त्वरंस्तत्र समागतः।

उमेत्य सांजलिर्नत्वा स्तौत्येवं तं जिनात्मजम्॥

नमस्ते बोधिसत्त्वाय महासत्त्वाय तायिने।

आर्यावलोकितेशाय महेश्वराय सुश्रीये॥

पद्मश्रीभूषितांगाय सद्धर्मवरदाय ते।

नमो वंशकराय भुवरदृष्टिकराय ते॥

सर्वदा जगदाश्वासवरदानप्रदाय च।

शतसहस्त्रहस्ताय कोटीलक्षणाय च॥

असंख्यानन्तरुपाय विश्वरुपाय ते नमः।

सर्वभूतात्मरुपाय आदिनाथाय ते नमः॥

वडवामुखपर्यन्तशशिदिगाननाय च।

सर्वधर्मानुरुपाय धर्मप्रियाय सिद्धये॥

सर्वसत्त्वमहदुःखसंमोक्षणकराय च।

मत्स्याद्यम्बुजजन्तूनामाश्वासनकराय च।

ज्ञानराश्युत्तमांगाय धर्मार्थप्रियदायेने।

रत्नश्रीभूषितांगाय सद्गुणश्रीप्रदाय च॥

सर्वनरकभूमीनां संशोषणकराय च।

ज्ञानश्रीसंप्रभासाय ज्ञानलक्ष्मीप्रदाय च॥

२५

सामरैः सासुरेन्द्रैश्च लोकैः संपूजिताय च।

नमस्कृताय सभक्त्या वन्दिताय नमस्सदा॥

अभयदानदत्ताय पारमितोपदेशिने॥

सूर्यरोचनदीप्ताय धर्मदीपंकराय च॥

कामरुपाय गन्धर्वसुरुपाय सुरुपिणे।

हेमनगाधिरुढाय परमार्थयोगं बिभ्रते॥

अब्धिगम्भीरधर्माय संमुखदर्शनाय च।

सर्वसमाधिप्राप्ताय स्वभिरतिकराय च॥

संविच्छुरितगात्राय मुनिपुंगवरुपिणे।

वध्यबन्धनबद्धानां संमोक्षणकराय च॥

सर्वभावस्नुरुपाय समुपचितकारणे।

बहुपरिजनाढ्याय चिन्तामणिसरुपिणे॥

निर्वाणमार्गसंचारसंदर्शनप्रदाय च।

भूतप्रेतपिशाचादिनिलयोच्छोषकारिणे॥

छत्रीभूताय लोकानां त्रैधातुकनिवासिनाम्।

सर्वाधिव्याधियुक्तानां परिमोचनकारिणे॥

नन्दोपनन्दनागेन्द्रनागेयज्ञोपवीतबिभ्रते॥

श्रीमतोऽमोघपाशस्य रुपसन्दर्शनाय च।

सर्वमन्त्रगुणाभिज्ञप्राप्ताय सद्गुणाय च॥

वज्रपाणिमहायक्षविद्रापणकराय च।

त्रैलोक्यदुष्टसत्त्वानां भीषणमूर्तिधारिणे॥

भूतवेताडकुम्भाण्डरक्षोयक्षादिभीददे।

नीलोत्पलसुनेत्राय गम्भीरधीरबुद्धये॥

सर्वविद्याधिनाथाय सर्वक्लेशापहारिणे।

विविधधर्मसंबोधिमार्गोपचिताय च॥

मोक्षमार्गाभिरुढाय प्रबलधर्मबिभ्रते।

प्राप्तसंबोधिसच्चित्तसन्मार्गोपचिताय च॥

प्रेतादिदुर्गतिक्लेशपरिमोक्षणकराय च।

परमाणुरजोसंख्यं समाधिं दधते नमः॥

२६

नमस्ते लोकनाथाय बोधिसत्वाय ते सदा।

महासत्त्वाय सद्धर्मगुणसंपत्तिदायिने॥

नमामि ते जगच्छास्तः सदाहं शरणं व्रजन्।

भजानि सततं भक्त्या तत्प्रसीद जगत्प्रभो॥

क्षन्तव्यं मेऽपराधत्वं यन्मयापकृतं भवेत्।

अद्यारभ्य सदा शास्तर्भवे त्वच्छरणाश्रीतः॥

भवदाज्ञां शिरो धृत्वा चरिष्यामि जगद्धिते।

तथात्राहं करिष्यामि भवता दिश्यते यथा॥

तद् भवान् मे सदालोक्य प्रसीदतु जगत्प्रभो।

भवदभिमतं कार्यं तस्करिष्याम्यहं भवे॥

इत्येवं धर्मराजोऽसौ स्तुत्वा संप्रार्थयन् मुदा।

तं पुनः सांजलिर्नत्वा समुपतिष्ठते पुनः॥

ततो लोकेश्वरोऽसौ तं धर्मराजं विलोकयन्।

समादिशति संबोधिमार्गे नियोक्तुमादरत्॥

यम त्वं धर्मराजोऽसि सर्वलोकानुशासकः।

तत्सम्पद्भिर्गयित्वैव सत्त्वान् धर्मेऽनुशासय॥

ये चापि प्राणिनो दुष्टाः पापिष्ठा अपि दुर्धियः।

तेऽपि धर्मे प्रतिष्ठाप्य बोधयित्वा प्रयत्नतः॥

ये चापि श्रद्धया भक्त्या त्रिरत्नं शरणं गताः।

भजन्ति सर्वदा नित्यं संबोधिधर्मवांछिनः॥

ते सर्वेऽपि समालोक्य पालनीयास्त्वया सदा॥

बोधयित्वा समालोक्य पालनीयास्त्वाय्र सदा॥

बोधयित्वा च ते सर्वे चारयित्वा शुभे व्रते।

बोधिमार्गे प्रतिष्ठाप्य प्रेषणीयाः सुखावतीम्॥

ये चापि पापिनो दुष्टास्तानपि त्वं प्रयत्नतः।

प्रबोधय समालोक्य चारयस्व शुभे सदा॥

इत्येवं मे वचनं श्रुत्वा संबोधिं यदि वांछसि।

बोधिचर्याव्रतं धृत्वा संचरस्व जगद्धिते॥

यद्येवं कुरुषे लोके दयाधर्मं समाचरन्।

धर्मराजाभिधानं ते यथार्थ्यसफलं व्रजेत्॥

इत्येवं समुपादिष्टं तेन लोकेश्वरेण सः।

धर्मराजः समाकर्ण्य तथेति परिबुध्यते॥

ततः स धर्मराजस्तं लोकेश्वर जिनात्मजम्।

समीक्ष्य सांजलिर्नत्वा संप्रयाति स्वमालयम्॥

ततोऽसौ लोकनाथोऽपि संप्रस्थिति कृपाकुलः।

अन्यत्रापि समुद्धर्तुं सत्त्वान् संचरते पुनः॥



॥इत्यवीचिसंशोषणधर्मराजाभिबोधनप्रकरणम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project