Digital Sanskrit Buddhist Canon

१. श्रीत्रिरत्न भजनानुशंसावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
गुणकारण्डव्यूहसूत्र



१. श्रीत्रिरत्न भजनानुशंसावदानम्



ॐ नमः श्रीरत्नत्रयायः नमः सर्वबुद्धबोधिसत्त्वेभ्यः॥



यं श्रीघनो महाबुद्धः सर्वलोकाधिपो जिनः।

तं नाथं शरणं गत्वा वक्ष्ये लोकेशसत्कथाम्॥

या श्री भगवती देवी सर्वधर्माधिपेश्वरी।

तस्या भक्तिप्रसादेन वक्ष्यामि बोधिसाधनम्॥

येन संपालितं सर्वं त्रैधातुकमिदं जगत्।

तस्य लोकेश्वरस्याहं वक्ष्ये सर्वार्थसाधनम्।

तद्यथाभून्महासत्त्वो जिनश्रीराज आत्मवित्।

त्रिरत्नशरणं गत्वा यतिरर्हन् जिनात्मजः॥

एकस्मिन् समये सोऽर्हद् बोधिमण्डे जिनाश्रमे।

बोधिचर्याव्रतम् धृत्वा जगद्धित्वे समाश्रयत्॥

तदा तत्र महाभिज्ञो जयश्रीर्यतिरात्मवित्।

सद्धर्मं समुपादेष्टुं सभासने समाश्रयत्॥

तं दृष्ट्वा श्रावकाः सर्वे भिक्षवो ब्रह्मचारिणः।

तत्सद्धर्मामृतं पातुमुपेत्य समुपाश्रयन्॥

तथान्ये बोधिसत्त्वाश्च संबोधिव्रतसाधिनः।

सुभाषितामृतं पातुं तत्सभां समुपाश्रयन्॥

भिक्षुण्यश्चेलकाश्चैवमुपासका उपासिकाः।

व्रतिनोऽपि महासत्त्वाः सम्बुद्धभक्तिचारिकाः॥



ब्राह्मणाः क्षत्रियाश्चापि राजानो मन्त्रिणो जनाः।

अमात्याः श्रेष्ठिनः पौराः सार्थवाहा महाजनाः॥

तथा जानपदा ग्राम्याः पार्वतिकाश्च नैर्गमाः।

तथान्ये दैशिका लोकाः सद्धर्मगुणवांछिनः॥

सर्वे ते समुपागत्य तमर्हन्तं जयश्रियम्।

यथाक्रमं समभ्यर्च्य प्रणत्वा समुपाश्रिताः॥

तत्सद्धर्मामृतं पातुं कृतांजलिपुटा मुदा।

शास्तारं तं समालोक्य परिवृत्य निषेदिरे॥

तदा सोऽर्हन्महासत्त्वो बोधिसत्त्वो जिनात्मजः।

जिनश्रीराजन्नालोक्य सर्वांल्लोकान् सभाश्रीतान्॥

त्रिरत्नगुणमाहात्म्यं श्रोतुं समभिलाषिणः।

समुत्थायासनात्तस्य जयश्रियः पुरोऽग्रतः॥

उद्वहन्नुत्तरासंगं जानुभूमितलाश्रितः।

पादाब्जं सांजलिर्नत्वा प्रार्थयदेवमादरात्॥

भदन्त श्रोतुमिछामि त्रिरत्नोत्पत्तिसत्कथाम्।

तद्भगवान् समुपादिश्य सम्बोधयतु मां गुरो॥

इति संप्रार्थिते तेन जिनश्रीगुणसंभृता।

जयश्रीः सुमतिः शास्ता सभा वीक्ष्यैवमादिशत्॥

साधु शृणु समाधाय जिनश्रीराज सन्मते।

त्रिरत्नस्य समुत्पत्तिसत्कथागुणविस्तरम्॥

यथा मे गुरुणादिष्टं जिनकल्पेन योगिना।

उपगुप्तेन लोकानां हितार्थे वक्ष्यते मया॥

तद्यथाभून्महाराजश्चक्रवर्तीं नराधिपः।

अशोको नाम राजेन्द्रः सर्वलोकहितार्थभृत्॥

एकदा स महाराजः सद्धर्मगुणलालसः।

त्रिरत्नगुणमाहात्म्यं श्रोतुमैच्छज्जगद्धिते॥

ततः स भूपती राजा समन्त्रिजनपौरिकः।

पूजोपहारमादाय स संवाद्य महोत्सवैः॥



विहारे कुक्कुटारामे प्रययौ संप्रमोदितः।

ततः प्राप्तः स राजेन्द्र प्रविश्य संप्रसादितः॥

उपगुप्तं महाभिज्ञं संददर्श ससांघिकम्।

तमर्हन्तं समालोक्य नत्वा स सांजलिर्मुदा॥

सहसा समुपागत्य यथाविधि समर्चयेत्।

ततः प्रदक्षिणीकृत्वा प्रवत्वा चरणाम्बुजे॥

सांजलिस्तस्य सद्धर्म श्रोतुं पुरः समाश्रयत्।

ततः सर्वेऽपि लोगकाश्च यथाक्रममुपागताः॥

तमर्हन्तं यतिं नत्वा परिवृत्य समाश्रयन्।

तदाशोकः स राजेन्द्रो दृष्ट्वा सभाश्रितान् जनान्॥

उत्थाय स्वासनाच्छास्तुः पुरतः समुपाश्रितः।

उद्वहन्नुत्तरासंगं जानुभ्यां भुवि संस्थितः॥

सांजलिस्तं यतिं नत्वा प्रार्थयेदेवमादरात्।

भदन्त श्रोतुमिछामि त्रिरत्नोत्पत्तिसत्कथाम्॥

किं त्रिरत्नमिति ख्यातम् तत्समादेष्टुमर्हसि।

इति संप्रार्थिते राज्ञा सोऽर्हन् जिनात्मजः सुधीः॥

उपगुप्तो नरेन्द्रं तं समालोक्यैवमादिशत्॥

साधु शृणु महाराज समाधाय जगद्धिते॥

यथा मे गुरुणादिष्टं तथा ते वक्ष्यते मया।

तद्यथादिसमुद्भूतो धर्मधातुस्वरुपकः॥

पंचबुद्धांशसंजातो जगदीशस्तथागतः।

महाबुद्धो जगन्नाथो जगच्छास्ता महेश्वरः॥

धर्मराजो मुनीन्द्रोऽर्हन्वैरोचनसमाधिधृक्।

सर्वज्ञः सद्गुणाधारः सर्वविद्याधिपो जिनः॥

समन्तभद्ररुपांगः सुगतः श्रीसुखाकरः।

षडभिज्ञो महावीरो वज्रसत्त्वविनायकः॥

मारदर्पतमोहन्ता संबोधिज्ञानभास्करः।

एष स भगवांल्लोके बुद्धरत्न इति स्मृतः॥



ये चैतच्छरणं गत्वा बोद्धिसत्त्वा जगद्धिते।

बोधिचर्याव्रतं धृत्वा चरन्तो भद्रचारिकान्॥

जित्वा मारगणान् सर्वानर्हन्तो निर्मलाशयाः।

सम्यक्संबोधिमासाद्य संबुद्धपदमागताः॥

तेऽपि सर्वे जगन्नाथास्तथागता मुनीश्वराः।

भगवन्तो महाभिज्ञा बुद्धरत्ना इति स्मृताः।

या श्री भगवती देवी प्रज्ञा सर्वगुणाश्रया।

जननी सर्वबुद्धानां संबोधिज्ञानभास्करी॥

मारदर्पतमोहन्त्री सद्धर्मगुणदायिनी।

सर्वविद्याधरी लक्ष्मी सर्वसत्त्वशुभंकरी॥

एषः सद्धर्मसम्भर्ता धर्मरत्न इति स्मृतः॥

ये चान्येऽपि महायानसूत्रादयः सुभाषिताः।

देशिताः सुगतैस्तेऽपि धर्मरत्न इति स्मृतः।

यश्च सद्धर्मसंभिर्ता बोधिसत्त्वो जगत्प्रभुः।

महासत्त्वो जगन्नाथः सर्वधर्माधिपेश्वरः॥

दुष्टक्लेशतमोहन्ता संबोधिगिणभास्करः।

विश्वरुपो महाभिज्ञः सर्वसत्त्वहितार्थभृत्॥

सर्वलोकाधिपः श्रीमान् धर्मराजो जिनात्मजः।

एष लोकेश्वरः शास्ता संघरत्न इति स्मृतः॥

ये चान्येऽपि महासत्त्वा बोधिसत्त्वा जितेन्द्रियाः।

अर्हन्तो निर्मलात्मानः संबोधिज्ञानसाधिनः॥

भद्रचर्यासमाचाराश्चतुर्ब्रह्मविहारिणः।

संबुद्धसांघिकास्तेऽपि संघरत्नाः स्मृता जिनैः॥

ये तेषां शरणं गत्वा भक्तिश्रद्धासमाहिताः।

भजन्ति सर्वदा नित्यं स्मृत्वापि च दिवानिशम्॥

ते भवन्ति महासत्त्वा बोधिसत्त्वा गुणाकराः।

सच्छ्रीसंपत्समापन्नाः सर्वसत्त्वहितोत्सवाः॥

बोधिचर्याव्रतं दृत्वा कृत्वा लोके शुभं सदा।

सुखान्येव सदा भुक्त्वा प्रान्ते यान्ति सुखावतीम्॥



इत्येवं संघरत्नस्य भजनं पुण्यमुत्तमम्।

मत्वा तच्छरणं गत्वा भजन्त्येतद्गुणार्थिनः॥

एतत्पुण्यविशुद्धात्मा कदाप्येति न दुर्गतिम्।

सर्वदा सद्गतिष्वेव जातो धर्माधिपो भवेत्॥

ये चापि धर्मरत्नस्य प्रगत्वा शरणं सदा।

भजन्ति श्रद्धया भक्त्या श्रुत्वाप्येतत्सुभाषितम्॥

तेऽपि सन्तो महासत्त्वा बोधिसत्त्वा गुणाश्रयाः।

संबोधिश्रीसुखाधाराः सर्वसत्त्वशुभारताः॥

संबोधिचारिकां धृत्वा कृत्वा सत्त्वहितं सदा।

सत्सुखान्येव भुक्त्वान्ते संयान्ति सुगतालयम्॥

इत्येवं धर्मरत्नस्य भजनार्थं वरं वृषम्।

विज्ञाय शरणं गत्वा भजन्त्वेतच्छुभार्थिनः॥

एतद्धर्मविशुद्धात्मा दुर्गतिं नैव याति सः।

सद्गतिष्वेव संजातो प्रान्ते याति जिनालयम्॥

इति विज्ञाय ये मर्त्याः सद्धर्मसुखवांछिनः।

त्रिरत्नशरणं गत्वा भजन्तु ते सदा भवे॥

एतत्पुण्यानुभावेन परिशुद्धाशया नराः।

संबोधिचित्तमासाद्य चरन्ति बोधिसंवरम्॥

बोधिचर्यां चरन्तस्ते पूर्य पारमिताः क्रमात्॥

चतुर्मारान् विनिर्जित्य निःक्लेशा विमलाशयाः।

अर्हन्तं प्राप्य संबोधिं संबुद्धपदमाप्नुयुः॥

इति विज्ञाय यो मर्त्यः संबुद्धपदमिच्छति।

स आदौ शरणं गत्वा सद्गुरोः समुपाश्रयेत्॥

आराध्य सद्गुरुं भक्त्या सन्तोष्य संप्रसादयन्।

तदुपदेशमासाद्य तीर्थ स्नात्वा व्रतं चरेत्॥

व्रतानां पोषधं श्रेष्ठं समाख्यातं मुनीश्वरैः।

एतत्पुण्यानुभावेन संप्राप्नोति बोधिमुत्तमाम्॥

अतीता अपि संबुद्धा एतत्पुण्यानुभावतः।

जित्वा मारान् समासाद्य संबोधिमभवन् जिनाः।



ये चैतर्हि स्थिताः सर्वे तेऽप्येतत्पुण्यभावतः।

अर्हन्तं प्राप्य संबोधिं भवन्ति सुगताः खलु॥

ये चाप्यनागताः सर्वे बोधिसत्त्वा व्रतोपमाः।

तेऽप्येतत्पुण्यपाकेन भविष्यन्ति मुनीश्वराः॥

एवमन्येतत्पुण्यपाकेन भविष्यन्ति मुनीश्वराः॥

एवमन्येऽपि सत्त्वाश्च ये येऽप्येतद्व्रतंचराः।

ते ते सर्वे महासत्त्वा भवेयुर्बोधिभागिनः॥

श्रीमन्तः सद्गुणाधारा निःक्लेशा विजितेन्द्रियाः।

सर्वसत्त्वहितोद्युक्ताश्चतुर्ब्रह्मविहारिणः॥

दुर्गतिं ते न गच्छन्ति कदापि हि भवालये॥

सदापि सद्गतावेव संजाताः सत्सुखान्विताः।

बोधिसत्त्वाः सुधीमन्तःसद्धर्मगुणसाधिनः॥

क्रमेण बोधिसंभारं पूरयित्वा समाहिताः।

त्रिविधां बोधिमासाध निर्वृतिपदमाप्नुयुः॥

इति विज्ञान ये मर्त्या निर्वृतिपदकांक्षिणः।

ते एतद् व्रतमाधाय संचरन्तो यथाविथि॥।

एतत्पुण्यविशुद्धा हि नैव गच्छन्ति दुर्गतिम्।

सदा सद्गतिसंजाताः प्रान्ते ययुः सुनिर्वृतिम्॥

एवं मे गुरुणादिष्टं मुनीन्द्रैदेशितं यथा।

तथाहं ते मया राजन् गदितं संप्रध्यताम्॥

त्वमप्येवं सदा राजन् दुर्गतिं न यदीच्छसि॥

सदा सद्गतिसंजातो निर्वृतिं हि यदीच्छसि॥

चरस्वैतद्व्रतं राजन् पोषधाख्यं यथाविधि।

एतत्पुण्यविशुद्धात्मा नूनं यायाः सुनिर्वृतिम्॥

इति तेनार्हता शाया समादिष्टं निशम्य सः।

अशोको नृपती राजा तद्व्रतं धर्तुमैच्छत॥

ततः स नृपती राजा कृतांजलिरुपाश्रितः।

उपगुप्तं तमर्हन्तं नत्वैवं प्रार्थयन्मुदा॥

भवन्ते भवतादिष्टं श्रुत्वा मे रोचते मनः।

तथाहं संचरिष्येदं पोषधं व्रतमुत्तमम्॥



तद्विधानं समाख्याहि तत्फलं च विशेषतः।

त्रिरत्नभजनोत्पन्नं पुण्यफ़लं च विस्तरम्॥

इति संप्रार्थिते राज्ञा स शास्तार्हन्यतिः सुधिः।

अशोकं तं महाराजं समालोक्यैवमादिशत्॥

साधु शृणु महाराज यदिच्छसि समाहितः।

यथा मे गुरुणाख्यातं तथा ते संप्रवक्ष्यते॥

तद्याथायं प्रसन्नात्मा व्रतं चरितुमिच्छति।

स आदौ प्रातरुत्थाय तीर्थ स्नात्वा यथाविधि॥

शुद्धक्यावृतः शुद्धचित्तो ब्रह्मविहारिकः।

अष्टांगविधिसंयुक्तं पोषधं व्रतमादधत्॥

श्रीमदमोपाशस्य लोकेश्वरस्य मण्डलम्।

सगणं वर्तयेद्रंगैः पंचभिः परिशोभितम्॥

यथाविधि प्रतिष्ठाप्य शुचिशीलः समाहितः।

तथैव मद्यमांसाद्या रसुनाद्या विवर्जयेत्॥

आदौ गुरुं समभ्यर्च्य यथाविधि प्रणामयेत्।

ततयिरत्नमभ्यर्च्य प्रणमेच्छरणं गतः॥

ततश्चामोघपाशाख्यं लोकेश्वरं जगत्प्रभुम्॥

निध्याय मनसावाह्य दत्वा पाद्यार्घमादरात्॥

संस्थाप्य मण्डले तत्र सगणं संप्रमोदितः।

यथाविथि समाराध्य श्रद्धाभक्तिसमन्वितः॥

धूपैर्गन्धैः सुपुष्पैश्च दीपैः पंचामृताशनैः।

सर्वैर्द्रव्यैः सरत्नैश्च समभ्यर्च्याभितोषयेत्॥

जपस्तोत्रादिभिः स्तुत्वा कृत्वा नैकप्रदक्षिणाम्।

अष्टांगैः सांजलिर्नत्वा प्रार्थयेद्भद्रसंवरम्॥

ततश्च सांजलिः स्थित्वा कुर्यात् स्वपापदेशनाम्।

पुण्यानुमोदनां चापि सुचिरं चापि संस्थितिम्।

एवं स सुप्रसन्नात्मा संप्रार्थ्य बोधिसंवरम्।

ततः क्षमार्थनां कृत्वा तन्मण्डलं विसर्जयेत्॥



ततोऽह्नेः तृतीये यामे पंचामृतादिभोजनम्।

निरामिषं यथाकामं भुक्त्वा चरेत् समाहितः॥

एवं तद्व्रतसंपूर्णं कृत्वा संपालयन् मुदा।

सर्वसत्त्वहितं कृत्वा चरेत्संबोधिमानसः॥

एतत्पुण्यविशुद्धात्मा निःक्लेशः स जितेन्द्रियः।

बोधिसत्त्वो महासत्त्वः स्वपरात्महितार्थभृत्॥

श्रीमान् सद्गुणसंवासो बोधिचर्याव्रतं दधत्।

सदा सद्गतिसंजातो भुक्त्वा भोयं यथेप्सितम्॥

त्रिविधां बोधिमासाद्य प्रान्ते यायात् सुनिर्वृतिम्॥

एवमेवद्व्रतोद्भूतं पुण्यफ़लं महत्तरम्।

प्रमातुं शक्यते नैव सर्वैरपि मुनीश्वरैः॥

तत्पूजाकृतपुण्यानां विशेषं फलमुच्यते।

तच्छृणुष्व महाराज समाधाय सुचेतसा॥

ये पुण्यकामा मनुजायिरत्नं समीक्ष्य हर्षाच्छरणं प्रयान्ति।

ते धर्मरक्ताः शुभलक्ष्मीमन्तः सम्बोधिचर्याभिरता भवन्ति॥

पंचामृतैः पंचसुगन्धितोयैर्ये स्नापयन्ति प्रमुदा त्रिरत्नम्।

मन्दाकिनीदिव्यसुगन्धितोये स्नात्वा सुखं ते दिवि संरमन्ते॥

ये च त्रिरत्नेषु सुगन्धिधूपं प्रधुपयन्ति प्रतिमोदयन्तः।

ते शुद्धचिताः शुचिगन्धितांगा रत्नोपमाः श्रीगुणिता भवन्ति॥

ये पंचगन्धैरनुपयन्ति त्रिरत्नदेहे परिशुद्धचित्ताः।

ते रत्नवन्तः क्षितिपाधिराजा भवन्ति सर्वार्थहितार्थकामाः॥

ये दूष्यपट्टादिवराम्बराणि त्रिरत्ननथाय मुदार्पयन्ति।

कौशेयरत्नाभरणावृतांगा धर्माधिपास्ते सुधियो भवन्ति॥

ये च त्रिरत्नम् स्थलजैः सुपुष्पैर्जलोद्भवैश्चापि समर्चयन्ति।

ते दिव्यलक्ष्मीसुखभोग्यवन्तः श्रीसिद्धिमन्तः सुभगा भवन्ति॥

त्रिरत्नबिम्बवरे पुष्पमाला ये धर्मकामा अवलम्बयन्ति।

ते देवराजा वरलक्ष्मीमन्तः संबोधिकामाः सुभगा भवन्ति॥

सर्वाणि पुष्पाणि सुगन्धिमन्ति त्रिरत्नबिम्बे प्रकिरन्ति ये च।

देवाधिपाः स्वर्गगता भवन्ति महीगतास्ते क्षितिपाधिराजाः॥



ये दीपमालां रचयन्ति ये च रत्नत्रयाग्रे हतमोहजालाः।

ते कान्तरुपा गुणरत्नवन्तो भवन्ति भूपार्चितपादपद्माः॥

प्रकुर्वते ये च प्रदीपदानं रत्नत्रयाग्रे घृततैलदीप्तम्।

ते शुद्धनेत्राः प्रबला गुणाढ्या देवाधिराजाः क्षितिपाधिपाश्च॥

भोज्यं प्रणीतं सुरसं सुवर्णं रत्नत्रयाय प्रतिपादयन्ति।

ये भक्तियुक्ता दिवि ते भवन्ति सुराधिपा भूतपयश्च धीराः॥

पानं नरा येऽमृतसद्गुणाढ्यं रत्नत्रयाय प्रतिपादयन्ति।

ते भूराजा नीरुजो बलिष्ठा भवन्ति स्वर्गे त्रिदिशाधिपाश्च॥

शाकानि मूलानि फ़लानि ये च रत्नत्रयाय प्रतिपादयन्ति।

यथेष्टभोग्यं सततं प्रभुक्त्वा गच्छन्ति तत्ते सुगतालये च॥

ये च त्रिरत्नाय समर्पयन्ति सुपथ्यभैषज्यगणानि भक्त्या।

श्रीसमृद्धाः क्षितिपाधिनाथा भुक्त्वा सुखं यान्ति जिनालयं ते॥

ताम्बूलपूगादिरसायनानि ये च त्रिरत्नाय समर्पयन्ति।

दिव्यांगसौन्दर्यगुनाभिरामा भवन्ति ते श्रीगुणिनः सुराश्च॥

वितानमुच्चैर्वितनोति यश्च रत्नत्रये सर्वनृपाभिवन्द्यः।

विशालवंशो गुणवान् सुधीरो महानुभावप्रथितो भवेत् सः॥

ध्वजान् विचित्रानवरोपयन्ति ये च त्रिरत्नालय उत्सवार्थम्।

ते श्रीसमृद्धाः सुगुणाभिरामा भवन्ति नाथा दिवि भूतले च॥

श्रीमत्पताका अवलम्बयन्ति रत्नत्रये ये रसाभियुक्ताः।

लक्ष्मीश्वरास्ते जितदुष्टसंघा भवन्त्यधीशा दिवि भूतले च॥

छत्राणि सौवर्णमयानि ये च कौशेयदूष्टै रचितानि वा च।

सुशुद्धरंगैर्मयनैश्च पुष्पै रत्नत्रये येऽभ्यवरोपयन्ति॥

ते भूपराजा वरसिद्धिमन्तो लक्ष्मीश्वराः सर्वहितार्थकायाः।

सद्धर्मकामा गुणरत्नपूर्ना वन्द्या भवन्ति प्रवरर्द्धिमन्तः॥

संगीतिवाद्यैर्मुरुजादिभिश्च मुकुंदढक्काप्रानवानकैश्च।

मड् मृदंगपटहादिभिश्च मनोज्ञघोषैः श्रोतिचित्तरम्यैः॥

स दुन्दुभिडिण्डमझर्झरैश्च प्रणादिभिर्मर्दनवादनैश्च।

तथान्यकैर्मंगलशब्दवाद्यै रत्नत्रये ये रचयन्ति पूजाम्॥

१०

तथा च वीणादिमनोज्ञनादैर्वशैः सुरावैरपि काहरैश्च।

भेरीभिरुच्चैः परिवादिनीभि रत्नत्रयं येसुरसा भजन्ति॥

तौर्यत्रिकैर्भद्रसुघोषशंखैः शृंगादिभिश्चापि मनोज्ञनादैः।

नृत्यादिभिश्चापि प्रमोदयन्तो रत्नत्रयं ये सुरसा भजन्ति॥

ते दिव्यश्रोत्राः सुमनोज्ञशब्दाः सर्वार्थसम्पत्यपरिपूर्णकोशाः।

सद्धर्म्मपुण्यानुगुणाभिरक्ताः सुखानि भुक्त्वा प्रचरन्ति स्वर्गे॥

क्षिपन्ति लाजाक्षतपुष्पकाणि रत्नत्रये ये परिहर्षमाणाः।

न दुर्गतिं ते सततं व्रजन्ति स्वर्गे प्रयाताः सुभगा रमन्ते॥

सुधातुरत्नानि सदक्षिणानि रत्नत्रये ये च समर्पयन्ति।

सुलब्धकामार्थसुखाभिरामाः पूर्णेन्द्रियास्ते सुधियो भवन्ति॥

प्रदक्षिणानि प्रविधाय भक्त्या भजन्ति ये चापि मुदा त्रिरत्नम्।

ते शुद्धकायाः प्रतिलब्धसौख्या भवन्ति देवा मनुजाधिपाश्च॥

ये च त्रिरत्नम् स्तुतिभिर्भजन्ति गद्यत्मिकैः पद्यमयैश्च शुद्धैः।

वागीश्वरास्ते सुसमृद्धकोषा भवन्ति नाथा दिवि भूतले च॥

ये च त्रिरत्नं शरणं प्रयाता अष्टाभिरगैः प्रनमन्ति भ्क्त्या।

भवन्ति ते श्रीगुणवर्णपूर्णाः सद्धर्मकामाः नृपतीश्वराश्च॥

ये चापि नित्यं मनसा विचित्य भजन्ति भक्त्या शरणं प्रयाताः।

ते पापनिर्मुक्तविशुद्धकायाः सद्धर्मकामाः दुर्गतिं व्रजन्ति॥

ये च त्रिरत्नं मनसा विचिन्त्य तन्नाम नित्यं समुदीरयन्ति।

ते शुद्धचित्ता विमलात्मकाश्च संबुद्धधर्माभिरता भवन्ति॥

ये च त्रिरत्नानि सुदूरतोऽपि दृट्वा प्रसन्नाः प्रणमन्ति भक्त्या।

ते चापि सद्धर्मगुणाभिलाषाः शुद्धत्रिकायाः सुभगा भवन्ति॥

इत्येतदादीनि महत्तराणि पुण्यानि श्रीसद्गुणासाधनानि।

त्रिरत्नपूजाभजनोद्भवानि मत्वा भजन्तु त्रिगुणात्मकं तम्॥

आख्यातमेतत्सुगतैश्च सर्वेः त्रिरत्नसेवाभजनोद्भवं तत्।

पुण्यं महत्तस्य समं क्वचिन्न सर्वत्र लोकेष्वपि सत्येमेव॥

एवम् महत्पुण्यमुदारमग्रम् बद्धप्रमेयं गणनानभिज्ञम्।

मत्वा त्रिरत्नं शरणं प्रयातो राजन् यदि बोद्धिमिच्छसि॥

११

ये ये त्रिरत्नं शरणं प्रयाता भजन्ति सत्कृत्य सदा प्रसन्नाः।

ते सर्व एवं त्रिगुणाभिरामा सद्धर्मकामाः सुगतात्मजाः स्युः॥

दत्वा सदार्थिभ्य उदारदानं संबोधिकामाः सुवृषे चरेयुः।

क्रमेण सम्बोधिव्रतं चरन्तो बोधिं समासाद्य जिना भवेयुः।

ततः ससंघायिजगद्धितार्थं विज्ञाय सुधर्ममुपादिशन्तः।

समाप्य सर्वं त्रिषु बौद्धकार्यं संययुरन्ते परिनिर्वृतिं ते॥

एवम् हि विज्ञाय यदीच्छसि त्वं निर्वृतिसौख्यमधिगन्तुमेवम्।

सदा त्रिरत्नं शरणं प्रयातः श्रद्धाप्रसन्नः सततं भजस्व॥

मा निन्द राजन्नवमन्यमोहो त्रैधातुनाथं शुभदं त्रिरत्नम्।

अनिन्दनीयं हि जगत्प्रधानं सद्धर्मराजं भजनीयमेव॥

ये चाप्यधिक्षिप्य मदाभिमाना दुष्ट कुलेष्वेप्रि विहतात्मधैर्याः।

आलोक्य निन्दन्ति सदा प्रसन्नाः त्रिलोकभद्रार्थप्रदं त्रिरत्नम्॥

ते सर्व एनोऽभिरताः प्रमत्ताः सद्धर्मनिन्दाभिरताः प्रदुष्टाः।

नष्टाः परद्रोहमदाभिमानाः सत्त्वविघाताभिरता भवेयुः॥

ततश्च ते तदुरिताभिषक्ता महत्सु पापेष्वपि निर्विशंकाः।

सर्वाणि धर्मार्थसुभाषितानि श्रुत्वा प्रसन्नाः परिभाषयेयुः॥

एवं सुघोराणि बहूनि कृत्वा पापानि नित्यं समुदाचरन्तः।

भूयोऽतिपापेष्वपि ते चरन्तो दुःखानि भुक्त्वा निरये व्रजेयुः॥

गत्वापि तेऽपायनिमग्नदेहाः क्षुधाग्निसन्दग्धविमोहिताश्च।

भुक्त्वाप्यमेध्यानि तृषाभितप्ताः पीत्वापि मूत्राणि च नैव तुष्टाः॥

जिघत्सितास्तेऽतिपिपासिताश्च क्लेशाग्निसंतप्तविमोहिताश्च।

तीव्रातिदुःखार्ताविलुप्तधैर्या भ्रमन्त एनोऽभिरता वसेयुः॥

नैवापि तस्यापि विमुक्तिमार्गं लभेयुरेनोऽभिनिबन्ध्यमानाः।

सदापि तत्रैव वसेयुरेवं तीव्रव्यथाक्रान्तविमोतास्ते॥

ये चापि लोभेन बलेन चापि द्रव्यं त्रिरत्नस्य धनाशनादि।

हत्वा मुषित्वाप्यपहत्य वापि प्रभुंजते क्लेशविलुतधैर्याः॥

ते दुष्टसत्त्वा दुरताभिरक्ता कृत्वैव घोराण्यपि पातकानि।

प्रभुंजमानाः सुचिरं सुदुःखं कृच्छ्रेण मृत्वा नरकं व्रजेतुः॥

१२

तत्रापि ते क्लेशविलुप्तधैर्याः क्षुधातितृष्णाग्निप्रतापितांगाः।

पुरीषमूत्रादिप्रभुंजमाना भ्रमन्त एवं निरये वसेयुः॥

कालान्तरे ते प्रतिलब्धधैर्याः स्वदुष्कृतं कर्म विभावयन्तः।

स्मृत्वा त्रिरत्नं मनसानुतप्ता ध्यात्वा प्रसन्नाः प्रणतिं विदध्युः॥

ततस्तदेनःपरिमुक्तदेहाः समुत्थितान्नरकात् कदाचित्।

मानुष्यजातिं समाप्नुवन्तो दीना दरिद्रा कृपणा भवेयुः॥

तत्रापि ते दुष्टजानुसक्ताः सद्धर्मनिन्दादुरितानुरक्ताः।

भूयोऽपि पापानि महान्ति कृत्वा व्रजेयुरेवं नरकेषु भूयः॥

भ्रमन्त एवं बहुधा भवे ते दुःखानि भुक्त्वा सचिरं रुजार्ताः।

किंचित्सुखं नैव लभेयुरेनोनिबन्धचिता नरके वसन्ते॥

एवं त्रिरत्नेष्वपकारजातं पापं सुघोरं कथितं मुनीन्द्रैः।

मत्वेति राजन्नपकारमत्र रत्नत्रये मा विदधातु किंचित्॥

भक्त्वा प्रसन्नः शरणं प्रयातयिरत्नमेव सततं भजस्व।

एतद्विपाकेन सदा शुभानि कृत्वा प्रयायाः सुगतालयं ते॥

इत्येवं तत्समादिष्टं श्रुत्वाशोकः स भूपतिः।

तमर्हन्तं गुरुं नत्वा सांजलिरेवमब्रवीत्॥

भदन्त भवतादिष्टं श्रुत्वा मे रोचते मनः।

तथा तच्छरणं गत्वा भजामि सर्वदाप्यहम्॥

सदाप्यस्य त्रिरत्नस्य व्रतं चापि समादरात्।

धर्तुमिच्छाम्यहं शास्तस्तत्समादेष्टुमर्हति॥

कस्मिन् मासे चरेदेतद् व्रतं कस्मिन्स्तिथावपि।

एतत् सम्यक्तमादिश्य प्रबोधयतु मां भवान्॥

इति बिज्ञापितं राज्ञा श्रुत्वा सोऽर्हन्महामतिः।

उपगुप्तो नरेन्द्रं तं समालोक्यैवमादिशत्॥

साधु शृणु महाराज यद्येतद् व्रतमिच्छसि।

तथाहं ते प्रवक्ष्यामि यथा मे गुरुणोदितम्॥

तद्यथा सर्वमासेषु चरेत् पंचसु पर्वसु।

शुक्लाष्टम्यां विशेषेन पूर्णमास्यां जगुर्जिनाः॥

१३

मासेषु श्रोवणे श्रेष्ठं कार्तिके च विशेषतः।

कृतकर्मैविपाकत्वं बद्धसंख्यं महत्तरम्॥

इति मत्वा महाराज यावज्जीवं समाहितः।

त्रिरत्नं शरणं गत्वा व्रतमेतत्सदा चर॥

एतत्पुण्यमहोदारं संबोधिज्ञानदायकम्।

अक्षयं ह्यनुपमं चेति सर्वबुद्धैर्निगद्यते॥

इति तेनार्हतादिष्टं श्रुत्वा राजा स मोदितः।

तदुपदेशमासाध्य तद् व्रतं कर्तुमैच्छत॥

ततं स नृपति राजा सभर्यात्मजबान्धवः।

यथाविधि समाधाय चचारैतद् व्रतं सदा॥

तन्नृपादेशमाधाय सर्वे मन्त्रिजना अपि।

भृत्याः सैन्यगणाश्चापि पौरा ग्राम्या द्विजादयः॥

सर्वलोकास्तथा भक्त्या त्रिरत्नशरणं गताः।

सत्कारैः श्रद्धयाभ्यर्च्य प्राभजन् सर्वदा मुदा॥

तदा तत्र सदाभद्रः महोत्साहं समन्ततः।

प्रावर्तत निरुपातमेतद्धर्मानभावतः॥

एवं मे गुरुणाख्यातं श्रुतं मया तथोच्यते।

अनुमोद्य भवन्तोऽपि चरतैतद् व्रतं सदा॥

एतत्पुण्यविशुद्धा हि परिशुद्धत्रिमण्डलाः।

अर्हन्तो निर्मलात्मानः संबोधिं समवाप्नुयुः॥

इति तेन समाख्यातं जयश्रिया सुधीमता।

श्रुत्वा ते श्रावकाः सर्वे प्राभ्यनन्दन् प्रबोधिताः॥

तदारभ्य प्रसन्नात्मा जिनश्रीराज उन्मनाः।

त्रिरत्नशरणं गत्वा चचारैतद् व्रतं सदा॥

तत्संघा यतयश्चापि चतुर्ब्रह्मविहारिणः।

त्रिरत्नभजनं कृत्वा व्रतमेतत् सदाचरन्॥

ततस्ते व्रतिनः सर्वे परिशुद्धत्रिमण्डलाः।

अर्हन्तो निर्मलात्मानो बभूवुर्बोधिभागिनः॥

ये चापीदं त्रिरत्नं प्रथितगुणगणं श्रावयन्तीह लोकान्।

श्रद्धाभक्तिप्रसन्नाः प्रमुदितमनसा ये च शृण्वन्ति मर्त्याः॥

ते सर्वे बोधिसत्त्वा सकलगुणभृतः श्रीसमृद्धाः सुधिराः।

भक्त्वा सौख्यं सदान्ते दशबलभुवने संप्रयाता रमेयुः॥

भुक्त्वा सौख्यं सदान्ते दशबलभुवने संप्रयाता रमेयुः॥



॥इति श्रीत्रिरत्नभजनानुशंसावदानं प्रथमोऽद्यायः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project