Digital Sanskrit Buddhist Canon

५६ समन्तभद्रचर्याप्रणिधानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

56 samantabhadracaryāpraṇidhānam

५६ समन्तभद्रचर्याप्रणिधानम्।



अथ खलु सुधनः श्रेष्ठिदारकः त्रिसाहस्रमहासाहस्रलोकधातुपरमाणुरजःसमकल्याणमित्रपर्युपासितः सर्वज्ञतासंभारोपचितचेताः सर्वकल्याणमित्राववादानुशासनीषु प्रदक्षिणग्राहितया प्रतिपन्नः सर्वकल्याणमित्राशयसमताप्रसृतः सर्वकल्याणमित्रारागणाविरागणबुद्धिः सर्वकल्याणमित्राववादानुशासनीनयसमुद्रानुगतः महाकरुणाशयसागरसंभूतगर्भो महामैत्रीनयमेघसर्वजगद्विरोचनः महाप्रीतिवेगसंवर्धितशरीरः विपुलबोधिसत्त्वविमोक्षप्रशान्तविहारी समन्तसुखप्रसृतत्यागचक्षुः सर्वतथागतगुणसमुद्रप्रतिपत्तिसुपरिपूर्णः सर्वतथागताधिमुक्तिपथप्रसृतः सर्वज्ञतासंभारवीर्यवेगविवर्धितः सर्वबोधिसत्त्वचित्ताशयसुपरिणामितबुद्धिः सर्वत्र्यध्वतथागतपरंपरावतीर्णः सर्वबुद्धधर्मनयसागरानुबुद्धः सर्वतथागतधर्मचक्रनयसागरानुगतः सर्वलोकोपपत्तिप्रतिभाससंदर्शनगोचरः सर्वबोधिसत्त्वप्रणिधाननयसागरावतीर्णः सर्वकल्पबोधिसत्त्वचर्यासंप्रस्थितः सर्वज्ञताविषयावभासप्रतिलब्धः सर्वबोधिसत्त्वेन्द्रियविवर्धितः सर्वज्ञतामार्गावभासप्रतिलब्धः सर्वदिग्वितिमिरालोकप्राप्तः सर्वधर्मधातुनयप्रसृतबुद्धिः सर्वक्षेत्रनयावभाससंजातः सर्वसत्त्वप्रसारार्थक्रियाप्रतिस्रोतोनुगतः सर्वावरणप्रपातपर्वतविकिरणोऽनावरणधर्मतानुगतः समन्ततलभूमिधर्मधातुगर्भबोधिसत्त्वविमोक्षप्रशान्तविहारी सर्वतथागतगोचरमन्वेषमाणः सर्वतथागताधिष्ठितः समन्तभद्रस्य बोधिसत्त्वस्य गोचरं विचारयमाणः स्थितोऽभूत्। समन्तभद्रस्य बोधिसत्त्वस्य नामधेयं श्रुत्वा बोधिचर्यां श्रुत्वा प्रणिधानविशेषं च श्रुत्वा संभारसंभवप्रस्थानप्रतिष्ठितविशेषं च श्रुत्वा अभिनिर्हारनिर्याणपथविशेषं च श्रुत्वा समन्तभद्रभूम्याचारविचारं च श्रुत्वा भूमिसंभारं च श्रुत्वा लम्भविशेषं च श्रुत्वा भूमिप्रतिलम्भवेगं च श्रुत्वा भूम्याक्रमणं च श्रुत्वा भूमिप्रतिष्ठानं च श्रुत्वा भूमिपराक्रमविक्रमं च श्रुत्वा भूमिगौरवं च श्रुत्वा भूम्यधिष्ठानं च श्रुत्वा भूमिसंवासं च श्रुत्वा समन्तभद्रबोधिसत्त्वदर्शनपरितृषितस्तस्मिन्नेव वज्रसागरगर्भबोधिमण्डे तथागतसिंहासनाभिमुखः सर्वरत्नगर्भपद्मासननिषण्णः आकाशधातुविपुलेन चित्तेन सर्वाभिनिवेशोच्चलितेन, सुभावितया सर्वक्षेत्रसंज्ञया, सर्वसङ्गसमतिक्रान्तेन चित्तेन, सर्वधर्मानावरणगोचरेण अप्रतिहतेन चित्तेन, सर्वदिक्समुद्रस्फरणेन अनावरणेन चित्तेन, सर्वज्ञताविषयाक्रमणेन शुद्धेन चित्तेन, बोधिमण्डालंकारविपश्यनापरिशुद्धेन सुविभक्तेन चित्तेन, सर्वबुद्धधर्मसमुद्रावतीर्णेन विपुलेन चित्तेन, सर्वसत्त्वधातुपरिपाकविनयस्फरणेन महद्गतेन चित्तेन, सर्वबुद्धक्षेत्रपरिशोधनेन अपरिमाणेन चित्तेन, सर्वबुद्धपर्षन्मण्डलप्रतिभासप्राप्तेन सर्वकल्पसंवासापर्यादत्तेन अनन्तेन चित्तेन सर्वतथागतबलवैशारद्यावेणिकबुद्धधर्मपर्यवसानेन। एवं चित्तमनसिकारप्रयुक्तस्य खलु पुनः सुधनस्य श्रेष्ठिदारकस्य पूर्वकुशलमूलाभिष्यन्दितसर्वतथागताधिष्ठानेन च समन्तभद्रस्य बोधिसत्त्वस्य पूर्वकुशलमूलसभागतया समन्तभद्रस्य बोधिसत्त्वस्य दर्शनाय दश पूर्वनिमित्तानि प्रादुरभूवन्। कतमानि दश? यदुत सर्वबुद्धक्षेत्राणि विशुध्यन्ति स्म सर्वतथागतबोधिमण्डालंकारविशुद्ध्या। सर्वबुद्धक्षेत्राणि विशुध्यन्ति स्म सर्वाक्षणापायदुर्गतिपथविनिवृत्ततया। सर्वबुद्धक्षेत्राणि विशुध्यन्ति स्म धर्मनलिनीव्यूहबुद्धक्षेत्रविशुद्ध्या। सर्वबुद्धक्षेत्राणि विशुध्यन्ति स्म सर्वसत्त्वकायचित्तप्रह्लादनप्राप्ततया। सर्वबुद्धक्षेत्राणि विशुध्यन्ति स्म सर्वरत्नमयसंस्थानतया। सर्वबुद्धक्षेत्राणि विशुध्यन्ति स्म सर्वसत्त्वधातुलक्षणानुव्यञ्जनप्रतिमण्डितसंस्थानतया। सर्वबुद्धक्षेत्राणि विशुध्यन्ति स्म सर्वसत्त्वधातुलक्षणानुव्यञ्जनप्रतिमण्डितसंस्थानतया। सर्वबुद्धक्षेत्राणि विशुध्यन्ति स्म सर्वव्यूहालंकारमेघसंस्थानतया। सर्वबुद्धक्षेत्राणि विशुध्यन्ति स्म सर्वसत्त्वधात्वन्योन्यमैत्रहितचित्ताव्यापन्नचित्तसंस्थानतया। सर्वबुद्धक्षेत्राणि विशुध्यन्ति स्म बोधिमण्डालंकारव्यूहसंस्थानतया। सर्वबुद्धक्षेत्राणि विशुध्यन्ति स्म सर्वसत्त्वबुद्धानुस्मृतिमनसिकारप्रयुक्तसंस्थानतया। इमानि दश पूर्वनिमित्तानि प्रादुरभवन् समन्तभद्रस्य बोधिसत्त्वस्य महासत्त्वस्य दर्शनाय॥



अपरे दश महावभासाः प्रादुरभवन् समन्तभद्रस्य बोधिसत्त्वस्य महासत्त्वस्य दर्शनपूर्वनिमित्तम्। कतमे दश? यदुत सर्वलोकधातुपरमाणुरजःसु एकैकस्मिन् परमाणुरजसि सर्वतथागतजालानि विद्योतयन्ति स्म। सर्वलोकधातुपरमाणुरजोभ्य एकैकस्मात्परमाणुरजसः सर्वबुद्धप्रभामण्डलमेघा निश्चर्य अनेकवर्णा नानावर्णा अनेकशतसहस्रवर्णाः सर्वधर्मधातुं स्फरन्ति स्म। सर्वलोकधातुपरमाणुरजोभ्य एकैकस्मात्परमाणुरजसः सर्वरत्नमेघाः सर्वतथागतप्रतिभासविज्ञपनान्निश्चरित्वा सर्वधर्मधातुं स्फरन्ति स्म। सर्वलोकधातुपरमाणुरजोभ्य एकैकस्मात्परमाणुरजसः सर्वतथागतार्चिश्चक्रमण्डलमेघा निश्चरित्वा सर्वधर्मधातुं स्फरन्ति स्म। सर्वलोकधातुपरमाणुरजोभ्य एकैकस्मात्परमाणुरजसः सर्वगन्धपुष्पमाल्यविलेपनधूपमेघा निश्चरित्वा समन्तभद्रस्य बोधिसत्त्वस्य सर्वगुणधर्मसमुद्रमेघान्निगर्जमाणा दशदिक्सर्वधर्मधातुं स्फरन्ति स्म। सर्वलोकधातुपरमाणुरजोभ्य एकैकस्मात्परमाणुरजसः सर्वचन्द्रसूर्यज्योतिर्मेघा निश्चरित्वा समन्तभद्रबोधिसत्त्वप्रभां प्रमुञ्चमानाः सर्वधर्मधातुं स्फरन्ति स्म। सर्वलोकधातुपरमाणुरजोभ्य एकैकस्मात्परमाणुरजसः सर्वसत्त्वकायसंस्थानप्रदीपमेघा निश्चरित्वा बुद्धरश्मिवत्प्रभासमानाः सर्वधर्मधातुं स्फरन्ति स्म। सर्वलोकधातुपरमाणुरजोभ्य एकैकस्मात्परमाणुरजसः सर्वतथागतकायप्रतिभासमणिरत्नविग्रहमेघा निश्चरित्वा दशसु दिक्षु सर्वधर्मधातुं स्फरन्ति स्म। सर्वलोकधातुपरमाणुरजोभ्य एकैकस्मात्परमाणुरजसः सर्वतथागतकायसंस्थानरश्मिविग्रहमेघा निश्चरित्वा सर्वबुद्धाधिष्ठानप्रणिधानमेघानभिप्रवर्षमाणाः सर्वधर्मधातुं स्फरन्ति स्म। सर्वलोकधातुपरमाणुरजोभ्य एकैकस्मात्परमाणुरजसः सर्वरूपगतवर्णावभासा बोधिसत्त्वकायप्रतिभासमेघसमुद्राः सर्वसत्त्वनिर्माणकार्यप्रयोगाः सर्वसत्त्वसर्वाभिप्रायपरिपूरिनिष्पादना निश्चरित्वा सर्वधर्मधातुं स्फरन्ति स्म। इमे दश महावभासाः प्रादुरभूवन् समन्तभद्रस्य बोधिसत्त्वस्य दर्शनपूर्वनिमित्तम्॥



अथ खलु सुधनः श्रेष्ठिदारक इमान् दश पूर्वनिमित्तावभासान् दृष्ट्वा समन्तभद्रस्य बोधिसत्त्वस्य दर्शनावकाशप्रतिलब्धः स्वकुशलमूलबलोपस्तब्धः सर्वतथागताधिष्ठानसर्वबुद्धधर्मावभाससंजातः समन्तभद्रबोधिसत्त्वप्रणिधानाविष्टः सर्वतथागतगोचराभिमुखः उदारबोधिसत्त्वगोचरनिश्चयबलाधानप्राप्तः समन्तभद्रबोधिसत्त्वदर्शनसर्वज्ञताप्रभालाभसंज्ञी समन्तभद्रबोधिसत्त्वदर्शनाभिमुखेन्द्रियः समन्तभद्रबोधिसत्त्वदर्शनमहावीर्यवेगप्राप्तः समन्तभद्रबोधिसत्त्वपरिगवेषमाणाविवर्त्यवीर्यप्रयोगः सर्वदिगभिमुखेनेन्द्रियचक्रेण समन्तभद्रचक्षुर्विषयावक्रमणेन बोधिसत्त्वशरीरेण सर्वतथागतारम्बणसंप्रेषितेन अनवशेषबुद्धपादमूलगतसमन्तभद्रबोधिसत्त्वानुबद्धेन चित्तेन समन्तभद्रबोधिसत्त्वारम्बणपरिगवेषणाविप्रवसितेनाशयेन सर्वारम्बणेषु समन्तभद्रबोधिसत्त्वदर्शनसंज्ञागतगर्भः समन्तभद्रबोधिसत्त्वपथप्रसृतेन ज्ञानचक्षुषा आकाशधातुविपुलेनाशयेन महाकरुणावज्रसुसंगृहीतेनाध्याशयेन अपरान्तकोटीगतकल्पाधिष्ठानेन समन्तभद्रबोधिसत्त्वानुबन्धनप्रणिधानेन समन्तभद्रबोधिसत्त्वचर्यासमतानुगतया क्रमविक्रमविशुद्ध्या सर्वतथागतविषयसंवसनेन समन्तभद्रबोधिसत्त्वभूमिप्रतिष्ठानज्ञानविहारेण समन्वागतोऽद्राक्षीत् समन्तभद्रं बोधिसत्त्वं भगवतो वैरोचनस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य पुरतो महारत्नपद्मगर्भे सिंहासने निषण्णं बोधिसत्त्वपर्षन्मण्डलसमुद्रगतं बोधिसत्त्वगणपरिवृतं बोधिसत्त्वसंघपुरस्कृतं सर्वपर्षमण्डलानुसृताभ्युद्गतकायं सर्वलोकानभिभूतं सर्वबोधिसत्त्वानुव्यवलोकितमपर्यन्तज्ञानविषयमसंहार्यगोचरमचिन्त्यविषयं त्र्यध्वसमतानुगतं सर्वतथागतसमतानुप्राप्तम्। स तस्य सर्वरोमविवरेभ्यः एकैकस्माद्रोमविवरात् सर्वलोकधातुपरमाणुरजःसमान् रश्मिमेघान्निश्चरित्वा धर्मधातुपरमाकाशधातुपर्यवसानान् सर्वलोकधातूनवभास्य सत्त्वानां दुःखं प्रशमयमानानपश्यत्। स तस्य कायात् सर्वबुद्धक्षेत्रपरमाणुरजःसमान् प्रभामण्डलमेघान्निश्चरित्वा नानावर्णान् सर्वबोधिसत्त्वानुदारप्रीतिप्रामोद्यवेगान् विवर्धयमानानपश्यत्। मूर्धतोंऽसकूटाभ्यां सर्वरोमविवरेभ्यश्च नानावर्णान् गन्धार्चिमेघान्निश्चार्य सर्वतथागतपर्षन्मण्डलानि स्फरित्वा अभिप्रवर्षमाणानपश्यत्। सर्वरोमविवरेभ्य एकैकस्माद्रोमविवरात्सर्वबुद्धक्षेत्रपरमाणुरजःसमान् सर्वपुष्पमेघान्निश्चार्य सर्वतथागतपर्षन्मण्डलानि स्फरित्वा अभिप्रवर्षमाणानपश्यत्। सर्वरोमविवरेभ्य एकैकस्माद्रोमविवरात् सर्वबुद्धक्षेत्रपरमाणुरजःसमान् सर्वगन्धवृक्षमेघान्निश्चार्य आकाशधातुपर्यवसानं सर्वधर्मधातुं गन्धवृक्षमेघालंकारांलंकृतं कृत्वा अक्षयगन्धचूर्णविलेपनकोशप्रयुक्तान् सर्वतथागतपर्षन्मण्डलानि स्फरित्वा अभिप्रवर्षमाणानपश्यत्। सर्वरोमविवरेभ्य एकैकस्माद्रोमविवरात्सर्ववस्त्रमेघान्निश्चार्य आकाशधातुपर्यवसानं सर्वधर्मधातुं संछाद्य अलंकुर्वाणानपश्यत्। सर्वरोमविवरेभ्य एकैकस्माद्रोमविवरात्सर्वबुद्धक्षेत्रपरमाणुरजःसमान् सर्वपट्टदाममेघान् सर्वभारणमेघान् सर्वमुक्ताहारमेघांश्चिन्तामणिरत्नमेघान्निश्चार्य सर्वतथागतपर्षन्मण्डलानि स्फरित्वा अभिप्रवर्षमाणानपश्यत् सर्वसत्त्वानां सर्वाभिप्रायपरिनिष्पत्तये। सर्वरोमविवरेभ्य एकैकस्माद्रोमविवरात् सर्वबुद्धक्षेत्रपरमाणुरजःसमान् रत्नद्रुममेघान्निश्चार्य आकाशधातुपर्यवसानं सर्वधर्मधातुं स्फरित्वा विस्फुटरत्नद्रुममेघालंकारालंकृतं कृत्वा सर्वतथागतपर्षन्मण्डलानि महारत्नवर्षैरभिप्रवर्षमाणानपश्यत्। सर्वरोमविवरेभ्य एकैकस्माद्रोमविवरात्सर्वबुद्धक्षेत्रपरमाणुरजःसमान् रूपधातुदेवनिकायमेघान्निश्चार्य बोधिसत्त्वं संवर्णयतः सर्वलोकधातुं स्फरमाणानपश्यत्। सर्वरोमविवरेभ्य एकैकस्माद्रोमविवरात् सर्वब्रह्मगतिपर्यापन्नदेवनिकायनिर्मितमेघान्निश्चार्य अभिसंबुद्धान् तथागतान् धर्मचक्रप्रवर्तनायाध्येषमाणानपश्यत्। सर्वरोमविवरेभ्य एकैकस्माद्रोमविवरात् सर्वकामधातुदेवेन्द्रकायमेघान्निश्चर्य सर्वतथागतधर्मचक्राणि संप्रतीच्छमानानपश्यत्। सर्वरोमविवरेभ्य एकैकस्माद्रोमविवरात् प्रतिचित्तक्षणं सर्वबुद्धक्षेत्रपरमाणुरजःसमान् त्र्यध्वपर्यापन्नसर्वबुद्धक्षेत्रमेघान्निश्चर्य आकाशधातुपर्यवसानं सर्वधर्मधातुं स्फरित्वा अलयनानामत्राणानामप्रतिशरणानां सत्त्वानां लयनत्राणप्रतिशरणभूतानपश्यत्। सर्वरोमविवरेभ्य एकैकस्माद्रोमविवरात् प्रतिचित्तक्षणं सर्वबुद्धक्षेत्रपरमाणुरजःसमान् सर्वबुद्धोत्पादबोधिसत्त्वपर्षन्मडलपरिपूर्णपरिशुद्धक्षेत्रमेघान्निश्चर्य आकाशधातुपर्यवसानं सर्वधर्मधातुं स्फरित्वा उदाराधिमुक्तिकानां सत्त्वानां विशुद्धये वर्तमानानपश्यत्। सर्वरोमविवरेभ्य एकैकस्माद्रोमविवरात्प्रतिचित्तक्षणं सर्वबुद्धक्षेत्रपरमाणुरजःसमान् विशुद्धसंक्लिष्टक्षेत्रमेघान्निश्चर्य आकाशधातुपर्यवसानं सर्वधर्मधातुं स्फरित्वा संक्लिष्टानां सत्त्वानां विशुद्धये संवर्तमानानपश्यत्। सर्वरोमविवरेभ्य एकैकस्माद्रोमविवरात्प्रतिचित्तक्षणं सर्वबुद्धक्षेत्रपरमाणुरजःसमान् संक्लिष्टचित्तविशुद्धक्षेत्रमेघान्निश्चर्य आकाशधातुपर्यवसानं सर्वधर्मधातुं स्फरित्वा एकान्तसंक्लिष्टानां विशुद्धये संवर्तमानानपश्यत्। सर्वरोमविवरेभ्य एकैकस्माद्रोमविवरात्प्रतिचित्तक्षणं सर्वबुद्धक्षेत्रपरमाणुरजःसमान् सर्वबोधिसत्त्वकायमेघान्निश्चर्य आकाशधातुपर्यवसानं सर्वधर्मधातुं स्फरित्वा सर्वसत्त्वचर्यामनुवर्तमानाननुत्तरायां सम्यक्संबोधौ सर्वसत्त्वानां परिपाचयमानानपश्यत्। सर्वरोमविवरेभ्य एकैकस्माद्रोमविवरात्प्रतिचित्तक्षणं सर्वलोकधातुपरमाणुरजःसमान् बोधिसत्त्वकायमेघान्निश्चर्य आकाशधातुपर्यवसानं सर्वधर्मधातुं स्फरित्वा सर्वसत्त्वकुशलमूलविवर्धनतायै सर्वबुद्धनामान्युदीरयमाणानपश्यत्। सर्वरोमविवरेभ्य एकैकस्माद्रोमविवरात्सर्वबुद्धक्षेत्रपरमाणुरजःसमान् बोधिसत्त्वकायमेघान्निश्चर्य आकाशधातुपर्यवसानं सर्वधर्मधातुं स्फरित्वा सर्वबुद्धक्षेत्रप्रसरेषु प्रथमचित्तोत्पादमुपादाय सर्वबोधिसत्त्वानां सर्वकुशलमूलाभिनिर्हारमुपसंहरमाणानपश्यत्। सर्वरोमविवरेभ्य एकैकस्माद्रोमविवरात् सर्वबुद्धक्षेत्रपरमाणुरजःसमान् बोधिसत्त्वमेघान्निश्चरित्वा सर्वबुद्धक्षेत्रेषु एकैकस्मिन् बुद्धक्षेत्रे समन्तभद्रबोधिसत्त्वचर्याविशुद्धये सर्वबोधिसत्त्वप्रणिधानसागरानभिद्योतयमानानपश्यत्। सर्वरोमविवरेभ्य एकैकस्माद्रोमविवरात् सर्वबुद्धक्षेत्रपरमाणुरजःसमान् सर्वसत्त्वाभिप्रायपरिपूरणान् सर्वज्ञतासमुदागमप्रीतिवेगविवर्धनान् समन्तभद्रबोधिसत्त्वचर्यामेघान्निश्चर्य अभिप्रवर्षमाणानपश्यत्। स तस्य सर्वरोमविवरेभ्य एकैकस्माद्रोमविवरात्सर्वबुद्धक्षेत्रपरमाणुरजःसमान् सर्वबुद्धक्षेत्राभिसंबोधिसंदर्शनान् सर्वज्ञतासमुदागममहाधर्मवेगविवर्धनानभिसंबोधिमेघान्निश्चरमाणानपश्यत्॥



अथ खलु सुधनः श्रेष्ठिदारकः समन्तभद्रस्य बोधिसत्त्वस्य इदमृद्धिविषयविकुर्वितं दृष्ट्वा हृष्टः तुष्टः उदग्रः आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो भूयस्या मात्रया समन्तभद्रस्य बोधिसत्त्वस्य कायमुपनिध्यायन् अद्राक्षीत् समन्तभद्रस्य बोधिसत्त्वस्य एकैकस्मादङ्गादेकैकाङ्गविभक्तितः एकैकस्माच्छरीरावयवात् एकैकस्याः शरीरावयवविभक्तेः एकैकस्मादङ्गप्रदेशात् एकैकतोऽङ्गप्रदेशविभक्तितः एकैकस्माद्देहात् एकैकस्माद्देहविभक्तितः एकैकस्माद्रोमविवरात् एकैकस्माद्रोमविभक्तेरिमं त्रिसाहस्रमहासाहस्रं लोकधातुं सवायुस्कन्धं सपृथिवीस्कन्धं सतेजःस्कन्धं ससागरं सद्वीपं सनदीकं सरत्नपर्वतं ससुमेरुं सचक्रवालं सग्रामनगरनिगमराष्ट्रराजधानिं सवनं सभवनं सजनकायं सनरकलोकं सतिर्यग्योनिलोकं सयमलोकं सासुरलोकं सनागलोकं सगरुडलोकं समनुजलोकं सदेवलोकं सब्रह्मलोकं सकामधातुविषयं सारूप्यधातुविषयं साधिष्ठानं सप्रतिष्ठानं ससंस्थानं समेघं सविद्युतं सज्योतिषं सरात्रिंदिवसार्धमासं समासर्तुं ससंवत्सरं सान्तरकल्पं सकल्पम्। यथा चेमं लोकधातुम्, एवं पूर्वस्यां दिशि सर्वलोकधातूनद्राक्षीत्। यथा पूर्वस्यां दिशि, एवं दक्षिणायां पश्चिमायामुत्तरस्यामुत्तरपूर्वायां पूर्वदक्षिणायां दक्षिणपश्चिमायां पश्चिमोत्तरायामधः ऊर्ध्वं समन्तात्सर्वदिग्विदिक्षु सर्वलोकधातूनद्राक्षीत् प्रतिभासयोगेन सर्वबुद्धोत्पादान् सबोधिसत्त्वपर्षन्मण्डलान् ससत्त्वान्, याश्चेह सहायां लोकधातौ पूर्वान्तकोटीगताः सर्वलोकधातुपरंपराः ता अपि सर्वाः समन्तभद्रस्य बोधिसत्त्वस्य एकस्मान्महापुरुषलक्षणादद्राक्षीत् सर्वबुद्धोत्पादाः सर्वबोधिसत्त्वपर्षन्मण्डलाः ससत्त्वाः सभवनाः सरात्रिंदिवाः सकल्पाः। एवमपरान्तकोटीगतानपि सर्वबुद्धक्षेत्रप्रसरानद्राक्षीत्। यथा चेह सहायां लोकधातौ पूर्वान्तापरान्तकोटीगताः सर्वलोकधातुपरंपरा अद्राक्षीत्, एवं दशसु दिक्षु सर्वलोकधातुषु पूर्वान्तापरान्तकोटीगताः सर्वलोकधातुपरंपराः समन्तभद्रस्य बोधिसत्त्वस्य कायादेकैकस्मान्महापुरुषलक्षणादेकैकस्माद्रोमविवरादद्राक्षीत् सुविभक्ता अन्योन्यासंभिन्नाः। यथा च समन्तभद्रं बोधिसत्त्वं भगवतो वैरोचनस्य तथागतस्य पुरतो महारत्नपद्मगर्भसिंहासने निषण्णमद्राक्षीत् एतद्विक्रीडितं संदर्शयमानम्, एवं पूर्वस्यां दिशि भगवतो भद्रश्रियस्तथागतस्य पद्मश्रियां लोकधातावेतदेव विक्रीडितं संदर्शयमानमद्राक्षीत्। यथा च पूर्वस्यां दिशि, एवं समन्तात्सर्वदिग्विदिक्षु सर्वलोकधातुषु सर्वतथागतपादमूलेषु समन्तभद्रं बोधिसत्त्वं महारत्नपद्मगर्भसिंहासने निषण्णमेतदेव विक्रीडितं संदर्शयमानमद्राक्षीत्। यथा च दशसु दिक्षु, एवं सर्वलोकधातुषु तथागतपादमूलेषु महारत्नपद्मगर्भसिंहासने निषण्णमेतदेव विक्रीडितं संदर्शयमानमद्राक्षीत्। एवं समन्ताद्दशसु दिक्षु सर्वबुद्धक्षेत्रपरमाणुरजःसमेषु एकैकस्मिन् परमाणुरजसि धर्मधातुविपुलेषु बुद्धधर्मपर्षन्मण्डलेषु सर्वतथागतपादमूलेषु समन्तभद्रं बोधिसत्त्वमद्राक्षीत्। एकैकतश्च अस्यात्मभावात्र्यध्वप्राप्तानि सर्वारम्बणानि अभिविज्ञप्यमानानि अपश्यत्प्रतिभासयोगेन, सर्वक्षेत्राण्यपि सर्वसत्त्वानपि सर्वबुद्धोत्पादानपि सर्वबोधिसत्त्वपर्षन्मण्डलान्यभिविज्ञप्यमानानपश्यत् प्रतिभासयोगेन। सर्वसत्त्वरुतानि च सर्वबुद्धाघोषांश्च सर्वतथागतधर्मचक्रप्रवर्तनानि च सर्वानुशासन्यादेशनप्रातिहार्याणि च सर्वबोधिसत्त्वसमुदागमांश्च सर्वबुद्धविक्रीडितानि चाश्रौषीत्॥



स तदचिन्त्यं समन्तभद्रमहाबोधिसत्त्वविक्रीडितं दृष्ट्वा श्रुत्वा च दश ज्ञानपारमिताविहारान् प्रत्यलभत। कतमान् दश? यदुत एकचित्तक्षणे सर्वबुद्धक्षेत्रकायस्फरणज्ञानपारमिताविहारं प्रत्यलभत। सर्वतथागतपादमूलोपसंक्रमणासंभिन्नज्ञानपारमिताविहारं प्रत्यलभत। सर्वतथागतपूजोपस्थानज्ञानपारमिताविहारं प्रत्यलभत। सर्वतथागतेभ्य एकैकस्मात्तथागतात्सर्वबुद्धधर्मप्रश्नपरिपृच्छासंप्रतीच्छनज्ञानपारमिताविहारं प्रत्यलभत। सर्वतथागतधर्मचक्रप्रवर्तननिध्यप्तिज्ञानपारमिताविहारं प्रत्यलभत। अचिन्त्यबुद्धविकुर्वितज्ञानपारमिताविहारं प्रत्यलभत। सर्वधर्माक्षयप्रतिसंविदपरान्तकोटीगतकल्पाधिष्ठानैकधर्मपदनिर्देशज्ञानपारमिताविहारं प्रत्यलभत। सर्वधर्ममुद्राप्रत्यक्षज्ञानपारमिताविहारं प्रत्यलभत। सर्वधर्मधातुनयसागरज्ञानपारमिताविहारं प्रत्यलभत। सर्वसत्त्वसंज्ञागतसंवसनज्ञानपारमिताविहारं प्रत्यलभत। एकक्षणसमन्तभद्रबोधिसत्त्वचर्याप्रत्यक्षज्ञानपारमिताविहारं प्रत्यलभत। तस्यैवं ज्ञानपारमिताविहारसमन्वागतस्य सुधनस्य श्रेष्ठिदारकस्य समन्तभद्र बोधिसत्त्वो दक्षिणं पाणिं प्रसार्य मूर्ध्नि प्रतिष्ठापयामास। समनन्तरप्रतिष्ठापितश्च सुधनस्य श्रेष्ठिदारकस्य समन्तभद्रेण बोधिसत्त्वेन मूर्ध्नि पाणिः, अथ तावदेवास्य सर्वबुद्धक्षेत्रपरमाणुरजःसमानि समाधिमुखान्यवक्रान्तानि। एकैकेन च समाधिना सर्वबुद्धक्षेत्रपरमाणुरजःसमांल्लोकधातुमुद्रानवतीर्णोऽभूत्। अदृष्टपूर्वा सर्वबुद्धक्षेत्रपरमाणुरजःसमाश्चास्य सर्वज्ञतासंभारा उपचयमगमन्। सर्वबुद्धक्षेत्रपरमाणुरजःसमाश्चास्य सर्वज्ञताधर्मसंभवाः प्रादुरभवन्। सर्वबुद्धक्षेत्रपरमाणुरजःसमैश्च सर्वज्ञतामहाप्रस्थानैरम्युत्थितः। सर्वबुद्धक्षेत्रपरमाणुरजःसमांश्च प्रणिधानसागरानवतीर्णः। सर्वबुद्धक्षेत्रपरमाणुरजःसमैश्च सर्वज्ञतानिर्याणपथैर्निर्यातः। सर्वबुद्धक्षेत्रपरमाणुरजःसमासु च बोधिसत्त्वचर्यासु प्रसृतः। सर्वबुद्धक्षेत्रपरमाणुरजःसमैश्च सर्वज्ञतावेगैर्विवर्धितः। सर्वबुद्धक्षेत्रपरमाणुरजःसमैश्च सर्वबुद्धज्ञानावभासैः प्रभावभासितः। यथा चेह सहायां लोकधातौ भगवतो वैरोचनस्य पादमूलगतः समन्तभद्रो बोधिसत्त्वो दक्षिणं पाणिं प्रसार्य सुधनस्य मुर्ध्नि प्रतिष्ठापयामास, तथा सर्वलोकधातुषु सर्वतथागतपादमूलेषु निषण्णः समन्तभद्रो बोधिसत्त्वो दक्षिणं पाणिं प्रसार्य सुधनस्य श्रेष्ठिदारकस्य मूर्ध्नि प्रतिष्ठापयामास। एवं समन्तात् सर्वदिग्विदिक्षु सर्वलोकधातुपरमाणुरजोन्तर्गतेष्वपि सर्वलोकधातुषु सर्वतथागतपादमूलेषु निषण्णः समन्तभद्रो बोधिसत्त्वो दक्षिणं पाणिं प्रसार्य सुधनस्य श्रेष्ठिदारकस्य मूर्ध्नि प्रतिष्ठापयामास। यथा भगवतो वैरोचनस्य पादमूलगतेन समन्तभद्रेण बोधिसत्त्वेन पाणिना स्पृष्टस्य सुधनस्य श्रेष्ठिदारकस्य धर्ममुखान्यवक्रान्तानि, एवं सर्वसमन्तभद्रात्मभावप्रसृतैः पाणिमेघैः स्पृष्टस्य सुधनस्य श्रेष्ठिदारकस्य धर्ममुखान्यवक्रान्तान्यभूवन् नानानयैः॥



अथ खलु समन्तभद्रो बोधिसत्त्वो महासत्त्वः सुधनं श्रेष्ठिदारकमेतदवोचत्-दृष्टं ते कुलपुत्र मम विकुर्वितम्? आह-दृष्टमार्य। अपि तु तथागतः प्रजानन् प्रजानीयात्तावदचिन्त्यमिदं विकुर्वितम्। सोऽवोचत्-अहं कुलपुत्र अनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमान् कल्पान् विचरितः सर्वज्ञताचित्तमभिलषमाणः। एकैकस्मिंश्च महाकल्पेऽनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमास्तथागता आरागिता बोधिचित्तं परिशोधयता। एकैकस्मिंश्च महाकल्पे सर्वत्यागसमायुक्ताः सर्वलोकविघुष्टा महायज्ञा यष्टाः। सर्वसत्त्वप्रतिपादना सर्वज्ञतापुण्यसंभारता। एकैकस्मिंश्च महाकल्पे अनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमास्त्यागा महात्यागाः कृताः, अत्यर्थत्यागाः कृताः सर्वज्ञताधर्मानभिप्रार्थयता। एकैकस्मिंश्च महाकल्पेऽनभिलाप्यानभिलाप्यानत्मभावाः परित्यक्ताः, महाराज्यानि च परित्यक्तानि, ग्रामनगरनिगमजनपदराष्ट्रराजधान्यः परित्यक्ताः, प्रियमनापा दुस्त्यजाः परिवारसंघाः परित्यक्ताः, पुत्रदुहितृभार्याः परित्यक्ताः। स्वशरीरमांसानि परित्यक्तानि, स्वकायेभ्यो रुधिरं याचनकेभ्यः परित्यक्तम्, अस्थिमज्जाः परित्यक्ताः। अङ्गप्रत्यङ्गानि परित्यक्तानि। कर्णनासाः परित्यक्ताः। चक्षूंषि परित्यक्तानि। स्वमुखेभ्यो जिह्वेन्द्रियाणि परित्यक्तानि बुद्धज्ञानावेक्षया कायजीवितनिरपेक्षेण। एकैकस्मिंश्च महाकल्पेऽनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमानि स्वशिरांसि परित्यक्तानि स्वकायेभ्यः सर्वलोकाभ्युद्गतमनुत्तरसर्वज्ञताशीर्षमभिप्रार्थयता। यथा च एकैकस्मिन् महाकल्पे, तथा अनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमेषु महाकल्पसागरेषु। एकैकस्मिंश्च महाकल्पेऽनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमास्तथागताः परमेश्वरभूतेन सत्कृता गुरुकृता मानिताः पूजिताः, चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः प्रतिपादिताः। तेषां च अस्मिंस्तथागतानां शासने प्रव्रजिता सर्वबुद्धानुशासनीषु प्रतिपन्नः शासनं च मे तेषां संधारितम्॥



नाभिजानामि कुलपुत्र तावद्भिः कल्पसमुद्रेरेकचित्तोत्पादमपि तथागशासने विलोपमुत्पादयितुं नाभिजानामि। तावद्भिः कल्पसमुद्रैरेकचित्तोत्पादमपि प्रतिघसहगतमुत्पादयितुमात्मग्रहचित्तं वा आत्मग्रहपरिग्रहचित्तं वा आत्मपरनानात्वचित्तं वा बोधिमार्गविप्रवासचित्तं वा संसारसंवासपरिखेदचित्तं वा अवलीनचित्तं वा आवरणसंमोहचित्तं वा उत्पादयितुमन्यत्र अपराजितज्ञानदुर्योधनगर्भबोधिचित्तात् सर्वज्ञतासंभारेषु। इति हि कुलपुत्र सर्वकल्पसागराः क्षयं व्रजेयुः तान्निर्दिशतो ये मम पूर्वयोगसंबुद्धक्षेत्रपरिशुद्धिप्रयोगाः, ये मम महाकरुणाप्रतिलब्धचित्तस्य सर्वपरित्राणपरिपाचनपरिशोधनप्रयोगाः। एवं ये बुद्धपूजोपस्थानप्रयोगाः, ये सद्धर्मपर्येष्टिहेतोर्गुरुशुश्रूषाप्रयोगाः, ये सद्धर्मपरिग्रहहेतोरात्मभावपरित्यागप्रयोगाः, ये सद्धर्मारक्षणनिदानाः स्वजीवितपरित्यागप्रयोगाः, तावद्भ्यो मे कुलपुत्र धर्मसमुद्रेभ्यो न किंचिदेकपदव्यञ्जनमपि यन्न चक्रवर्तिराज्यपरित्यागेन क्रीतम्, यन्नास्ति सर्वास्तिपरित्यागेन क्रीतं सर्वसत्त्वपरित्राणप्रयुक्तेन स्वसंततिचित्तनिध्यप्तिप्रयुक्तेन अभिमुखपरधर्मसंप्रापणप्रयुक्तेन सर्वलौकिकज्ञानालोकप्रभावनाप्रयुक्तेन सर्वलोकोत्तरज्ञानप्रभावनाप्रयुक्तेन सर्वसत्त्वसंसारसुखसंजननप्रयुक्तेन सर्वतथागतगुणसंवर्णनगुणप्रयुक्तेन। एवमनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमाः कल्पसागराः क्षयं व्रजेयुर्मम स्वपूर्वयोगसंपदं निर्दिशतः॥



तेन मया कुलपुत्र अनेन एवंरूपेण संभारबलेन मूलहेतूपचयबलेन उदाराधिमुक्तिबलेन गुणप्रतिपत्तिबलेन सर्वधर्मयथावन्निध्यप्तिबलेन प्रज्ञाचक्षुर्बलेन तथागताधिष्ठानबलेन महाप्रणिधानबलेन महाकरुणाबलेन सुपरिशोधिताभिज्ञाबलेन कल्याणमित्रपरिग्रहबलेन अत्यन्तपरिशुद्धो धर्मकायः प्रतिलब्धः सर्वत्र्यध्वासंभिन्नः। अनुत्तरश्च रूपकायः परिशोधितः सर्वलोकाभुद्गतः सर्वजगद्यथाशयविज्ञपनः सर्वत्रानुगतः सर्वबुद्धक्षेत्रप्रसृतः समन्तप्रतिष्ठानः सर्वतः सर्वविकुर्वितसंदर्शनः सर्वजगदभिलक्षणीयः। प्रेक्षस्व कुलपुत्र इमामात्मभावप्रतिलाभसंपदमनन्तकल्पसागरसंभूतां बहुकल्पकोटीनियुतशतसहस्रदुर्लभप्रादुर्भावां दुर्लभसंदर्शनाम्। नाहं कुलपुत्र अनवरोपितकुशलमूलानां सत्त्वानां श्रवणपथमप्यागच्छामि प्रागेव दर्शनम्। सन्ति कुलपुत्र सत्त्वाः, ये मम नामधेयश्रवणमात्रेण अवैवर्तिका भवन्त्यनुत्तरायां सम्यक्संबोधौ। सन्ति दर्शनमात्रेण, सन्ति स्पर्शनमात्रेण, सन्त्यनुव्रजनमात्रेण, सन्त्यनुबन्धनमात्रेण, सन्ति स्वप्नदर्शनेन, सन्ति स्वप्ने नामधेयश्रवणेन अवैवर्तिका भवन्त्यनुत्तरायां सम्यक्संबोधौ। केचित्सत्त्वा मामेकरात्रिंदिवसमनुस्मरमाणाः परिपाकं गच्छन्ति। केचिदर्धमासं केचिन्मासं केचिद्वर्षं केचिद्वर्षशतं केचित्कल्पं केचित्कल्पशतं केचिद्यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमान् कल्पान् मामनुस्मरमाणाः परिपाकं गच्छन्ति। केचिदेकजात्या परिपाकं गच्छन्ति मामनुस्मरमाणाः। केचिज्जातिशतेन, केचिद्यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमैर्जातिपरिवर्तैः। केचित्सत्त्वा मम प्रभादर्शनेन परिपाकं गच्छन्ति। केचिद्रश्मिप्रमोक्षसंदर्शनेन, केचित्क्षेत्रप्रकम्पनेन, केचिद्रूपकायसंदर्शनेन, केचित्संप्रहर्षणेन परिपाकं गच्छन्ति। इति हि कुलपुत्र बुद्धाक्षेत्रपरमाणुरजःसमैरुपायैः सत्त्वा अवैवर्तिका भवन्त्यनुत्तरायां सम्यक्संबोधौ। ये खलु पुनः कुलपुत्र सत्त्वा मम बुद्धक्षेत्रपरिशुद्धिं शृण्वन्ति, ते परिशुद्धेषु बुद्धाक्षेत्रेषूपपद्यन्ते। ये ममात्मभावपरिशुद्धिं पश्यन्ति, ते ममात्मभावे उपपद्यन्ते। पश्य कुलपुत्र इमां ममात्मभावपरिशुद्धिम्॥



अथ खलु सुधनः श्रेष्ठिदारकः समन्तभद्रस्य बोधिसत्त्वस्य कायमुपनिध्यायन्नद्राक्षीत् एकैकस्मिन् रोमविवरेऽनभिलाप्यबुद्धक्षेत्रसागरान् बुद्धोत्पादपरिपूर्णान्। एकैकस्मिंश्च बुद्धक्षेत्रसागरे तथागतान् बोधिसत्त्वपर्षत्सागरपरिवृतानद्राक्षीत्। सर्वांश्च तान् क्षेत्रसागरान् नानाप्रतिष्ठानान् नानासंस्थानान् नानाव्यूहान् नानाचक्रवालान् नानामेघगगनसंछन्नान् नानाबुद्धोत्पादान् नानाधर्मचक्रनिर्घोषानपश्यत्। यथा च एकैकस्मिन् रोमविवरे, तथा अनवशेषतः सर्वरोमविवरेषु सर्वलक्षणेषु सर्वानुव्यञ्जनेषु सर्वाङ्गप्रत्यङ्गेषु। एकैकस्मिंश्च क्षेत्रसागरान् सर्वबुद्धक्षेत्रपरमाणुरजःसमान् बुद्धकायनिर्मितमेघान्निर्गम्य दशसु दिक्षु सर्वलोकधातून् स्फरित्वा अनुत्तरायां सम्यकंबोधौ सत्त्वान् परिपाचयमानानपश्यत्॥



अथ खलु सुधनः श्रेष्ठिदारकः समन्तभद्रबोधिसत्त्वाववादानुशासन्यनुशिष्टः समन्तभद्रबोधिसत्त्वकायान्तर्गतेषु सर्वलोकधातुष्ववतीर्य सत्त्वान् परिपाचयामास। ये च खलु पुनः सुधनस्य श्रेष्ठिदारकस्य बुद्धक्षेत्रपरमाणुरजःसमकल्याणमित्रोपसंक्रमदर्शनपर्युपासनज्ञानालोककुशलमूलोपचयाः, ते समन्तभद्रबोधिसत्त्वसहदर्शनेन कुशलमूलोपचयस्य शततमीमपि कलां नोपयान्ति, सहस्रतमीमपि शतसहस्रतमीमपि कोटीशतसहस्रतमीमपि। संख्यामपि कलामपि गणनामपि उपमामपि उपनिसामपि न क्षमन्ते सप्रथमचित्तोत्पादाय यावत्समन्तभद्रस्य बोधिसत्त्वस्य दर्शनम्। अस्मिन्नन्तरे यावतीर्बुद्धक्षेत्रसागरपरंपरा अवतीर्णस्ततोऽनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमगुणाः समन्तभद्रबोधिसत्त्वस्यैकस्मिन् रोमविवरे बुद्धक्षेत्रसागरपरंपराः प्रतिचित्तक्षणमवतरन्ति स्म। यथा चैकस्मिन् रोमविवरे, तथैव सर्वरोमविवरेषु प्रतिचित्तक्षणमनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमलोकधातुं परेण अपरान्तकोटीगतकल्पाधिष्ठानलोकधातुं परेण विक्रमेण पर्यन्तं नोपजगाम। क्षेत्रसागरपरंपराणां क्षेत्रसागरगर्भाणां क्षेत्रसागरसंभेदानां क्षेत्रसागरसमवसरणानामनभिलाप्यानभिलाप्यबुद्धक्षेत्रसागरसंभवानां क्षेत्रसागरविभवानां क्षेत्रसागरव्यूहानां बुद्धोत्पादसागरगर्भाणां बुद्धोत्पादसागरसमवसरणानां बुद्धोत्पादसागरसंभवानां बुद्धोत्पादसागरविभवानां बोधिसत्त्वसागरपर्षन्मण्डलसागराणां बोधिसत्त्वपर्षन्मण्डलसागरपरंपराणां बोधिसत्त्वपर्षमण्डलसागरगर्भाणां बोधिसत्त्वपर्षन्मण्डलसागरसंभेदानां बोधिसत्त्वपर्षन्मण्डलसागरसमवसरणानां बोधिसत्त्वपर्षन्मण्डलसागरसंभवानां बोधिसत्त्वपर्षन्मण्डलसागरविभवानां सत्त्वधातुप्रवेशानां सत्त्वेन्द्रियप्रतिक्षणज्ञानप्रवेशानां सत्त्वेन्द्रियज्ञानप्रतिवेधानां सत्त्वपरिपाकविनयानां गम्भीरबोधिसत्त्वविकुर्वितविहाराणां बोधिसत्त्वभूम्यवक्रमणविक्रमसागराणां पर्यन्तं नोपजगाम। स क्वचित्क्षेत्रे कल्पं विचरति स्म। स क्वचित्क्षेत्रे यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमान् कल्पान् विचरति स्म। ततश्च क्षेत्रान्न चलति स्म। चित्तक्षणे चित्तक्षणे च अनन्तमध्यान् क्षेत्रसागरानवतरति स्म, सत्त्वांश्च परिपाचयति स्म अनुत्तरायां सम्यक्संबोधौ। सोऽनुपूर्वेण यावत्समन्तभद्रबोधिसत्त्वचर्याप्रणिधानसागरसमतामनुप्राप्तः सर्वतथागतसमतां सर्वक्षेत्रकायपारणसमतां चर्यापरिपूरणसमतामभिसंबोधिविकुर्वितसंदर्शनपारणसमतां धर्मचक्रप्रवर्तनसमतां प्रतिसंविद्विशुद्धिसमतां घोषोदाहारसमतां सर्वस्वराङ्गसागरसंप्रयोगसमतां बलवैशारद्यसमतां बुद्धविहारसमतां महामैत्रीमहाकरुणासमतामचिन्त्यबोधिसत्त्वविमोक्षविकुर्वितसमतामनुप्राप्तः इति॥



अथ खलु समन्तभद्रो बोधिसत्त्वो महासत्त्वः एवमेव लोकधातुपरंपरानभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमान् कल्पान् कल्पप्रसरानभिद्योतयमानो भूयस्या मात्रया गाथाभिगीतेन प्रणिधानमकार्षीत्—



यावत केचि दशद्दिशि लोके

सर्वत्रियध्वगता नरसिंहाः।

तानहु वन्दमि सर्वि अशेषान्

कायतु वाच मनेन प्रसन्नः॥१॥



क्षेत्ररजोपमकायप्रमाणैः

सर्वजिनान करोमि प्रणामम्।

सर्वजिनाभिमुखेन मनेन

भद्रचरीप्रणिधानबलेन॥२॥



एकरजाग्रि रजोपमबुद्धा

बुद्धसुतान निषण्णकु मध्ये।

एवमशेषत धर्मतधातुं

सर्वाधिमुच्यमि पूर्ण जिनेभिः॥३॥



तेषु च अक्षयवर्णसमुद्रान्

सर्वस्वराङ्गसमुद्ररुतेभिः।

सर्वजिनान गुणान् भणमान-

स्तान् सुगतान् स्तवमी अहु सर्वान्॥४॥



पुष्पवरेभि च माल्यवरेभि-

र्वाद्यविलेपनछत्रवरेभिः।

दीपवरेभि च धूपवरेभिः

पूजन तेष जिनान करोमि॥५॥



वस्त्रवरेभि च गन्धवरेभि-

श्चूर्णपुटेभि च मेरुसमेभिः।

सर्वविशिष्टवियूहवरेभिः

पूजन तेष जिनान करोमि॥६॥



या च अनुत्तर पूज उदारा

तानधिमुच्यमि सर्वजिनानाम्।

भद्रचरी‍अधिमुक्तिबलेन

वन्दमि पूजयमी जिन सर्वान्॥७॥



यच्च कृतं मयि पापु भवेय्या

रागतु द्वेषतु मोहवशेन।

कायतु वाच मनेन तथैव

तं प्रतिदेशयमी अहु सर्वम्॥८॥



यच्च दशद्दिशि पुण्य जगस्य

शैक्ष अशैक्षप्रत्येकजिनानाम्।

बुद्धसुतानथ सर्वजिनानां

तं अनुमोदयमी अहु सर्वम्॥९॥



ये च दशद्दिशि लोकप्रदीपा

बोधिविबुद्ध असङ्गतप्राप्ताः।

तानहु सर्वि अध्येषमि नाथां

चक्रु अनुत्तरु वर्तनतायै॥१०॥



येऽपि च निर्वृति दर्शितुकामा-

स्तानभियाचमि प्राञ्जलिभूतः।

क्षेत्ररजोपमकल्प स्थिहन्तु

सर्वजगस्य हिताय सुखाय॥११॥



वन्दनपूजनदेशनताय

मोदनध्येषणयाचनताय।

यच्च शुभं मयि संचितु किंचि-

द्बोधयि नामयमी अहु सर्वम्॥१२॥



पूजित भोन्तु अतीतक बुद्धा

ये च घ्रियन्ति दशद्दिशि लोके।

ये च अनागत ते लघु भोन्तु

पूर्णमनोरथ बोधिविबुद्धाः॥१३॥



यावत् केचि दशद्दिशि क्षेत्रा-

स्ते परिशुद्ध भवन्तु उदाराः।

बोधिद्रुमेन्द्रगतेभि जिनेभि-

र्बुद्धसुतेभि च भोन्तु प्रपूर्णाः॥१४॥



यावत् केचि दशद्दिशि सत्त्वा-

स्ते सुखिताः सद भोन्तु अरोगाः।

सर्वजगस्य च धर्मिकु अर्थो

भोन्तु प्रदक्षिणु ऋध्यतु आशा॥१५॥



बोधिचरिं च अहं चरमाणो

भवि जातिस्मरु सर्वगतीषु।

सर्वसु जन्मसु च्युत्युपपत्ती

प्रव्रजितो अहु नित्यु भवेय्या॥१६॥



सर्वजिनाननुशिक्षयमाणो

भद्रचरिं परिपूरयमाणः।

शीलचरिं विमलां परिशुद्धां

नित्यमखण्डमच्छिद्र चरेयम्॥१७॥



देवरुतेभि च नागरुतेभि-

र्यक्षकुम्भाण्डमनुष्यरुतेभिः।

यानि च सर्वरुतानि जगस्य

सर्वरुतेष्वहु देशयि धर्मम्॥१८॥



ये खलु पारमितास्वभियुक्तो

बोधियि चित्तु म जातु विमुह्येत्।

येऽपि च पापक आवरणीया-

स्तेषु परिक्षयु भोतु अशेषम्॥१९॥



कर्मतु क्लेशतु मारपथातो

लोकगतीषु विमुक्तु चरेयम्।

पद्म यथा सलिलेन अलिप्तः

सूर्य शशी गगनेव असक्तः॥२०॥



सर्वि अपायदुखां प्रशमन्तो

सर्वजगत् सुखि स्थापयमानः।

सर्वजगस्य हिताय चरेयं

यावत क्षेत्रपथा दिशतासु॥२१॥



सत्त्वचरिं अनुवर्तयमानो

बोधिचरिं परिपुरयमाणः।

भद्रचरिं च प्रभावयमानः

सर्वि अनागतकल्प चरेयम्॥२२॥



ये च सभागत मम चर्याये

तेभि समागमु नित्यु भवेय्या।

कायतु वाचतु चेतनतो वा

एकचरि प्रणिधान चरेयम्॥२३॥



येऽपि च मित्रा मम हितकामा

भद्रचरीय निदर्शयितारः।

तेभि समागमु नित्यु भवेय्या

तांश्च अहं न विरागयि जातु॥२४॥



संमुख नित्यमहं जिन पश्ये

बुद्धसुतेभि परीवृतु नाथान्।

तेषु च पूज करेय उदारां

सर्वि अनागतकल्पमखिन्नः॥२५॥



धारयमाणु जिनान सद्धर्मं

बोधिचरिं परिदीपयमानः।

भद्रचरिं च विशोधयमानः

सर्वि अनागतकल्प चरेयम्॥२६॥



सर्वभवेषु च संसरमाणः

पुण्यतु ज्ञानतु अक्षयप्राप्तः।

प्रज्ञ‍उपायसमाधिविमोक्षैः

सर्वगुणैर्भवि अक्षयकोशः॥२७॥



एकरजाग्रि रजोपमक्षेत्रा

तत्र च क्षेत्रि अचिन्तिय बुद्धान्।

बुद्धसुतान निषण्णकु मध्ये

पश्यिय बोधिचरिं चरमाणः॥२८॥



एवमशेषत सर्वदिशासु

बालपथेषु त्रियध्वप्रमाणान्।

बुद्धसमुद्र थ क्षेत्रसमुद्रा-

नोतरि चारिककल्पसमुद्रान्॥२९॥



एकस्वराङ्गसमुद्ररुतेभिः

सर्वजिनान स्वराङ्गविशुद्धिम्।

सर्वजिनान यथाशयघोषान्

बुद्धसरस्वतिमोतरि नित्यम्॥३०॥



तेषु च अक्षयघोषरुतेषु

सर्वत्रियध्वगतान जिनानाम्।

चक्रनयं परिवर्तयमानो

बुद्धिबलेन अहं प्रविशेयम्॥३१॥



एकक्षणेन अनागत सर्वान्

कल्पप्रवेश अहं प्रविशेयम्।

येऽपि च कल्प त्रियध्वप्रमाणा-

स्तान् क्षणकोटिप्रविष्ट चरेयम्॥३२॥



ये च त्रियध्वगता नरसिंहा-

स्तानहु पश्यिय एकक्षणेन।

तेषु च गोचरिमोतरि नित्यं

मायगतेन विमोक्षबलेन॥३३॥



ये च त्रियध्वसुक्षेत्रवियूहा-

स्तानभिनिर्हरि एकरजाग्रे।

एवमशेषत सर्वदिशासु

ओतरि क्षेत्रवियूह जिनानाम्॥३४॥



ये च आनागत लोकप्रदीपा-

स्तेषु विबुध्यन चक्रप्रवृत्तिम्।

निर्वृतिदर्शननिष्ठ प्रशान्तिं

सर्वि अहं उपसंक्रमि नाथान्॥३५॥



ऋद्धिबलेन समन्तजवेन

ज्ञानबलेन समन्तमुखेन।

चर्यबलेन समन्तगुणेन

मैत्रबलेन समन्तगतेन॥३६॥



पुण्यबलेन समन्तशुभेन

ज्ञानबलेन असङ्गगतेन।

प्रज्ञ‍उपायसमाधिबलेन

बोधिबलं समुदानयमानः॥३७॥



कर्मबलं परिशोधयमानः

क्लेशबलं परिमर्दयमानः।

मारबलं अबलंकरमाणः

पूरयि भद्रचरीबल सर्वान्॥३८॥



क्षेत्रसमुद्र विशोधयमानः

सत्त्वसमुद्र विमोचयमानः।

धर्मसमुद्र विपश्ययमानो

ज्ञानसमुद्र विगाहयमानः॥३९॥



चर्यसमुद्र विशोधयमानः

प्रणिधिसमुद्र प्रपूरयमाणः।

बुद्धसमुद्र प्रपूजयमानः

कल्पसमुद्र चरेयमखिन्नः॥४०॥



ये च त्रियध्वगतान जिनानां

बोधिचरिप्रणिधानविशेषाः।

तानहु पूरयि सर्वि अशेषान्

भद्रचरीय विबुध्यिय बोधिम्॥४१॥



ज्येष्ठकु यः सुतु सर्वजिनानां

यस्य च नाम समन्ततभद्रः।

तस्य विदुस्य सभागचरीये

नामयमी कुशलं इमु सर्वम्॥४२॥



कायतु वाच मनस्य विशुद्धि-

श्चर्यविशुद्ध्यथ क्षेत्रविशुद्धिः।

यादृश नामन भद्र विदुस्य

तादृश भोतु समं मम तेन॥४३॥



भद्रचरीय समन्तशुभाये

मञ्जुशिरिप्रणिधान चरेयम्।

सर्वि अनागत कल्पमखिन्नः

पूरयि तां क्रिय सर्वि अशेषाम्॥४४॥



नो च प्रमाणु भवेय्य चरीये

नो च प्रमाणु भवेय्य गुणानाम्।

अप्रमाण चरियाय स्थिहित्वा

जानमि सर्वि विकुर्वितु तेषाम्॥४५॥



यावत निष्ठ नभस्य भवेय्या

सत्त्व अशेषत निष्ठ तथैव।

कर्मतु क्लेशतु यावत निष्ठा

तावतनिष्ठ मम प्रणिधानम्॥४६॥



ये च दशद्दिशि क्षेत्र अनन्ता

रथ‍अलंकृतु दद्यु जिनानाम्।

दिव्य च मानुष सौख्यविशिष्टां

क्षेत्ररजोपम कल्प ददेयम्॥४७॥



यश्च इमं परिणामनराजं

श्रुत्व सकृज्जनयेदधिमुक्तिम्।

बोधिवरामनुप्रार्थयमानो

अग्रु विशिष्ट भवेदिमु पुण्यम्॥४८॥



वर्जित तेन भवन्ति अपाया

वर्जित तेन भवन्ति कुमित्राः।

क्षिप्रु स पश्यति तं अमिताभं

यस्यिमु भद्रचरिप्रणिधानम्॥४९॥



लाभ सुलब्ध सुजीवितु तेषां

स्वागत ते इमु मानुष जन्म।

यादृश सो हि समन्ततभद्र-

स्तेऽपि तथा नचिरेण भवन्ति॥५०॥



पापक पञ्च अनन्तरियाणि

येन अज्ञानवशेन कृतानि।

सो इमु भद्रचरिं भणमानः

क्षिप्रु परिक्षयु नेति अशेषम्॥५१॥



ज्ञानतु रूपतु लक्षणतश्च

वर्णतु गोत्रतु भोतिरुपेतः।

तीर्थिकमारगणेभिरघृष्यः

पूजितु भोति स सर्वत्रिलोके॥५२॥



क्षिप्रु स गच्छति बोधिद्रुमेन्द्रं

गत्व निषीदति सत्त्वहिताय।

बुध्यति बोधि प्रवर्तयि चक्रं

धर्षति मारु ससैन्यकु सर्वम्॥५३॥



यो इमु भद्रचरिप्रणिधानं

धारयि वाचयि देशयितो वा।

बुद्ध विजानति योऽत्र विपाको

बोधि विशिष्ट म काङ्क्ष जनेथ॥५४॥



मञ्जुशिरी यथ जानति शूरः

सो च समन्ततभद्र तथैव।

तेषु अहं अनुशिक्षयमाणो

नामयमी कुशलं इमु सर्वम्॥५५॥



सर्वत्रियध्वगतेभि जिनेभि-

र्या परिणामन वर्णित अग्रा।

ताय अहं कुशलं इमु सर्वं

नामयमी वरभद्रचरीये॥५६॥



कालक्रियां च अहं करमाणो

आवरणान् विनिवर्तिय सर्वान्।

संमुख पश्यिय तं अमिताभं

तं च सुखावतिक्षेत्र व्रजेयम्॥५७॥



तत्र गतस्य इमि प्रणिधाना

आमुखि सर्वि भवेय्यु समग्रा।

तांश्च अहं परिपूर्य अशेषान्

सत्त्वहितं करि यावत लोके॥५८॥



तहि जिनमण्डलि शोभनि रम्ये

पद्मवरे रुचिरे उपपन्नः।

व्याकरणं अहु तत्र लभेय्या

संमुखतो अभिताभजिनस्य॥५९॥



व्याकरणं प्रतिलभ्य त तस्मिन्

निर्मितकोटिशतेभिरनेकैः।

सत्त्वहितानि बहून्यहु कुर्यां

दिक्षु दशस्वपि बुद्धिबलेन॥६०॥



भद्रचरिप्रणिधान पठित्वा

यत्कुशलं मयि संचितु किंचित्।

एकक्षणेन समृध्यतु सर्वं

तेन जगस्य शुभं प्रणिधानम्॥६१॥



भद्रचरिं परिणाम्य यदाप्तं

पुण्यमनन्तमतीव विशिष्टम्।

तेन जगद्व्यसनौघनिमग्नं

यात्वमिताभपुरिं वरमेव॥६२॥



इदमवोचद्भगवानात्तमनाः। सुधनः श्रेष्ठिदारकस्ते च बोधिसत्त्वा आर्यमञ्जुश्रीपूर्वंगमाः, ते च भिक्षवः आर्यमञ्जुश्रीपरिपाचिताः, ते च आर्यमैत्रेयपूर्वंगमाः सर्वभद्रकल्पिका बोधिसत्त्वाः, ते चार्यसमन्तभद्रबोधिसत्त्वप्रमुखा यौवराज्याभिषिक्ताः परमाणुरजःसमा महाबोधिसत्त्वा नानालोकधातुसंनिपतिताः, ते चार्यशारिपुत्रमौद्गल्यायनप्रमुखा महाश्रावकाः, सा च सर्वावती पर्षत्, सदेवमानुषासुरगन्धर्वश्च लोको भगवतः समन्तभद्रस्य बोधिसत्त्वस्य भाषितमभ्यनन्दन्निति॥



आर्यगण्डव्यूहान्महाधर्मपर्यायाद्यथालब्धः सुधनकल्याणमित्रपर्युपासनचर्यैकदेशः आर्यगण्डव्यूहो महायानसूत्ररत्न‍राजः समाप्तः॥



ये धर्मा हेतुप्रभावा हेतुं तेषां तेथागतो ह्यवदत्।

तेषां च यो निरोधो एवं वादी महाश्रमणः॥



सहस्राणि द्वादश॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project