Digital Sanskrit Buddhist Canon

५४ मैत्रेयः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

54 maitreyaḥ

५४ मैत्रेयः।



अथ खलु सुधनः श्रेष्ठिदारकः कल्याणमित्रानुशासन्यभिष्यन्दितचित्तो येन समुद्रकच्छो जनपदस्तेनोपसंक्रान्तः तामेव बोधिसत्त्वचर्यानुशासनीमनुविचिन्तयन्, सम्यक्चर्यानिःसमर्थपूर्वान्तकोटीगतकायप्रणामसमन्वाहारेण कायबलं दृढीकुर्वाणः, पूर्वान्तकोटीगतकायचित्तपरिशुद्धिनिष्कारणसंसारिकचित्तप्रचारसमन्वाहारेण चित्तमनसिकारं गृह्णन्, पूर्वान्तकोट्यसत्कर्मलौकिककार्यप्रयुक्तः निष्प्रयोजनपरिष्यन्दसमन्वाहारेण प्रत्युत्पन्नप्रयोजनमहासामर्थ्यं विचिन्तयन्, पूर्वान्तभूतपरिकल्पसमुत्थितवितथसंकल्पसंदर्शितमनसिकारसमन्वाहारेण सर्वबोधिसत्त्वचर्यासम्यक्संकल्पाभिसंस्कारबलं समुत्थापयन्, अतीतात्मभावात्मार्थप्रयोगारम्भविषमतासमन्वाहारेण सर्वसत्त्वार्थारम्भवैशेषिकतया अध्याशयबलं दृढीकुर्वाणः, अतीतकायपर्येष्टिसमुदाचारस्वादतासमन्वाहारेण सर्वबुद्धधर्माप्रतिलम्भप्रयोगमहाश्वासप्रतिलम्भेन इन्द्रियवेगान् विवर्धयमानः, अतीताध्वविपर्याससंप्रयुक्तमिथ्यामययोगप्रयोगसमन्वाहारेण प्रत्युत्पन्नाध्वसम्यक्संदर्शनाविपर्याससंप्रयुक्तेन बोधिसत्त्वप्रणिधानेन संततिं परिशोधयन्, पूर्वान्तगतवीर्यारम्भकार्यापरिनिष्पन्नसमन्वाहारेण प्रत्युत्पन्नसर्वबुद्धधर्मसमुदागमप्रत्युपस्थानेन महावीर्यारम्भविक्रमेण कायचित्तसंप्रग्रहं जनयन्, पूर्वान्तकोटीपञ्चगत्यपायनिक्षिप्तात्मभावनिरुपणाख्यनिरुपजीव्यसमुच्छ्रायमपरान्तकोटीगतकल्पपरिग्रहप्रयुक्तस्य समन्वाहारेण सर्वबुद्धधर्मोत्थापकसर्वजगदुपजीव्यसर्वकल्याणसमर्थात्मभावपरिग्रहेण विपुलप्रीतिप्रामोद्यवेगान् विवर्धयमानः प्रत्युत्पन्नजन्माभिनिवृत्तं जराव्याधिमरणशोककरभूतं संयोगवियोगनिधानभूतं समुच्छ्रयमपरान्तकोटीगतकल्पबोधिसत्त्वचर्याचरणप्रयुक्तस्य सत्त्वपरिपाचनबुद्धधर्मपरिग्रहप्रयुक्तस्य तथागतदर्शनसर्वक्षेत्रानुचरणसर्वधर्मभाणकोपस्थानसर्वतथागतशासनसंधारणप्रयुक्तस्यसर्वधर्मपर्येष्टिसहायभूतस्य सर्वकल्याणमित्रदर्शनसर्वबुद्धधर्मसमुदानयनप्रयुक्तस्य बोधिसत्त्वप्रणिधानशरीरस्य हेतुप्रत्ययभूतमवलोक्य अचिन्त्यकुशलमूलेन्द्रियवेगान् विवर्धयमानः। एवंचित्तः एवंमनसिकारः एवंयोनिशःप्रयुक्तः सर्वबोधिसत्त्वप्रसादसमारोपितया श्रद्धया सर्वबोधिसत्त्वाशयसमारोपितेन प्रेम्णा सर्वबोधिसत्त्वाशयसमारोपितेन गौरवेण सर्वबोधिसत्त्वेन्द्रियप्रसादसमारोपितेन चित्रीकारेण सर्वबोधिसत्त्वशास्त्र्यधिमुक्तिसमुत्थितैरिन्द्रियप्रसादवेगैः सर्वबोधिसत्त्वगौरवनिर्यातेन चित्तप्रसादेन सर्वबोधिसत्त्वश्रद्धासमुत्थितैः कुशलमूलसंभारैः, सर्वबोधिसत्त्वाभिसंस्कारसमुत्थिताभिः पूजाविमात्रताभिः, सर्वबोधिसत्त्वसमैराश्रयैः कृताञ्जलिपुटैः सर्वजगच्छरीरसंभवाभिश्चक्षुर्विमात्रतावलोकनताभिः, सर्वजगत्संज्ञाजगत्समारोपिताभिः सर्वबोधिसत्त्वस्वराङ्गविशुद्धिसमुत्थितवर्णोदाहारव्यूहाभिनिर्हारैः, पूर्वान्तप्रत्युत्पन्नकोटीगतसर्वबोधिसत्त्वाधिष्ठानपरिपूर्णेन तथागतविहाराभिमुखीभावगतेन संज्ञागतेन सर्वत्रानुगतेन तथागतबोधिसत्त्वविकुर्वणासंबोधेन एकवालपथाव्यतिरिक्तेन सर्वबुद्धबोधिसत्त्वकायस्फरणानुगतेन सर्वबोधिसत्त्वचक्षुष्पथपरिशुद्धिसमारोपिताभिज्ञाज्ञानालोकविज्ञप्तिभिः, सर्वदिग्जालसंभेदानुगतेन मन‍आयतनेन धर्मधातुतलभेदस्फरणेन प्रणिध्यभिनिर्हारबलेन आकाशधातुपरमपर्यवसानेन सर्वत्रानुगतेन त्र्यध्वासंभिन्नेन अप्रतिप्रस्रब्धेन सर्वधर्मावतारमुखेन सर्वकल्याणमित्रानुशासन्यवभासदिक्प्रसृतेन श्रद्धाधिमुक्तिप्रवेशबलेन। इति हि सुधनः श्रेष्ठिदारकः एवं गौरवचित्रीकारपूजास्तवप्रणिपातोदीक्षमाणाधिष्ठानप्रणिधानसंज्ञानुगतमानसः एवमप्रमाणज्ञानगोचरभूमिप्रसृतेन ज्ञानचक्षुषा वैरोचनव्यूहालंकारगर्भस्य महाकूटागारस्य पुरस्ताद्द्वारमूले सर्वशरीरेण प्रणिपतितः। स इममेवंरूपमभिनिर्हारप्रयोगं मुहूर्तं विचार्य अधिमुक्तिश्रद्धासमुत्थितेन अध्याशयप्रणिध्यभिनिर्हारबलेन अप्रतिप्रस्रब्धमात्मानमध्यतिष्ठत् सर्वतथागतपादमूलेषु, एवं सर्वबोधिसंमुखीभावेषु सर्वकल्याणमित्रभवनेषु सर्वतथागतचैत्येषु सर्वतथागतविग्रहेषु सर्वबोधिसत्त्वेषु सर्वबुद्धावासेषु सर्वधर्मरत्नस्थानेषु सर्वश्रावकप्रत्येकबुद्धाश्रयचैत्यसंमुखीभावेषु सर्वार्यगणदक्षिणीयगुरुमातापितृपर्यन्तेषु अप्रतिप्रस्रब्धमात्मानमध्यतिष्ठत् सर्वजगत्कायसंमुखीभावेषु सर्वत्रानुगतेन ज्ञानशरीरासंभेदनयप्रवेशानुगतेन संज्ञाधिष्ठानज्ञानमनसिकारेण। यथा च वैरोचनव्यूहालंकारगर्भस्य महाकूटागारस्य पुरस्तात्, एवं पूर्वपरिकीर्तितेषु सर्वारम्बणेषु सर्वधर्मधातुस्फरणं प्रणिपातमध्यतिष्ठत्। एवमपरान्तकोटीगतान् कल्पानप्रतिप्रस्रब्धमधिष्ठाय आकाशधातुपर्यन्तप्रमाणसमतया धर्मधात्वनावरणसमतया सर्वत्रानुगतभूतकोटीसमतया तथागताविकल्पसमतया छायागतज्ञानसंज्ञास्फरणतया स्वप्नसमविचारसमतया प्रतिभाससमसर्वलोकजगद्विज्ञप्तिसमतया प्रतिश्रुत्कासमहेतुप्रत्ययसमुत्थानसमतया अनुत्पादसमतया संभवविभवसमतया अभावसमप्रत्ययप्रतीत्यावर्तनसमतया यथाकर्मसमुत्थितं विपाकमधिमुच्यमानो यथाहेतुसमुत्थितं फलमधिमुच्यमानो यथोपचयसमुत्थितां सर्वक्रियामधिमुच्यमानः श्रद्धासमुत्थितं सर्वतथागतोत्पादमधिमुच्यमानो यथाधिमुक्तिसमुत्थितानि सर्वबुद्धपूजानिर्माणान्यधिमुच्यमानो गौरवसमुत्थितानि सर्वतथागतनिर्माणान्यधिमुच्यमानः कुशलमूलोपचयसमुत्थितां सर्वबुद्धधर्मतामधिमुच्यमानः प्रज्ञोपायसमुत्थितान् सर्वमनोमयव्यूहोपचयानधिमुच्यमानः प्रणिधिसमुत्थितान् सर्वबुद्धधर्मानधिमुच्यमानः परिणामनासमुत्थितान् सर्वबोधिसत्त्वचर्यासर्वज्ञताविषयधर्मधातुविठपनस्फरणालंकारव्यूहानधिमुच्यमानः उच्छेदसंज्ञाविगतेन परिणामनाज्ञानेन शाश्वतसंज्ञाविभूतेन अनुत्पादज्ञानेन हेतुक्रियादृष्टिविगतेन सम्यक्-क्रियादृष्टिविगतेन समक्रियादृष्टिविगतेन समक्रियावतारहेतूपचयज्ञानेन, विपर्यासदृष्टिविगतेन अपरप्रत्ययज्ञानेन, आत्मपरसंज्ञादृष्टिविगतेन प्रतीत्यावतारज्ञानेन, अन्तग्राहदृष्टिविगतेन अनन्तमध्यधर्मधातुप्रवेशज्ञानेन, संक्रान्तिदृष्टिविगतेन प्रतिष्ठासमताभिनिर्वृत्तिज्ञानेन भवविभवदृष्टिविगतेन अनुत्पादनिरोधज्ञानेन, सर्वदृष्टिविगतेन शून्यतानुत्पादज्ञानेन, अनैश्वर्यधर्मताप्रतिबद्धेन प्रणिध्यभिनिर्हारज्ञानबलेन सर्वनिमित्तसंज्ञापनीतेन अनिमित्तकोटीमुखज्ञानेन बीजाङ्कुरविनाशधर्मतया मुद्राप्रतिमुद्रासमुत्थानसमधर्मतया प्रतिबिम्बदर्शनसमधर्मतया प्रतिश्रुत्कासमरुतघोषविज्ञप्तिधर्मतया स्वप्नसमविचारविज्ञप्तिधर्मतया प्रतिभासदर्शनसमधर्मतया मायागतसमकर्मसमुत्थानधर्मतया चित्तारूपिलोकोत्थापनधर्मतया यथाप्रत्ययहेतूपचयफलधर्मतया, यथाकर्मोपचयविपाकसमधर्मतया उपायकौशल्यविठपनधर्मतया धर्माधर्मसमतिसमताभिष्यन्दितधर्मतया। एवं ज्ञानप्रवेशाभिनिर्हृतेन संज्ञामनसिकारेण सुधनः श्रेष्ठिदारको वैरोचनव्यूहालंकारगर्भस्य महाकूटागारस्य पुरस्तात् प्रणिपातितः। सुचिरमतिनमय्य अचिन्त्यकुशलमूलवेगाभिष्यन्दितसंतानः प्रह्लादितकायचित्तः ततः कूटागारद्वारमूलादुत्थाय मुहूर्तमनिमिषाभ्यां नेत्राभ्यां वैरोचनव्यूहालंकारगर्भं महाकूटागारं संप्रेक्ष्य कृताञ्जलिपुटोऽनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य एवंसंज्ञामनसिकारसंप्रेषितचित्तो वाचमभाषत-अयं स शून्यतानिमित्ताप्रणिहितविहारविहारिणामावासः। अयं स सर्वधर्माविकल्पविहारविहारिणामावासः। धर्मधात्वसंभेदविहारविहारिणां सत्त्वधात्त्वनुपलम्भविहारविहारिणां सर्वधर्मानुत्पादविहारविहारिणां सर्वलोकानिकेतविहारविहारिणां सर्वजगदालयानिलयविहारविहारिणां सर्वावसिञ्चितविहारविहारिणां सर्वापाश्रयानिश्रितविहारविहारिणां सर्वसमुच्छ्रयानिश्रितविहारविहारिणां सर्वक्लेशसंज्ञागतविधूतविहारविहारिणां सर्वधर्मास्वभावविहारविहारिणां सर्वकल्पविकल्पाविकल्पविहारविहारिणां सर्वसंज्ञाचित्तमनोविविक्तविहारविहारिणां सर्वसंज्ञानायूहनिर्यूहविहारविहारिणां गम्भीरप्रज्ञापारमिताप्रवेशविहारविहारिणां समन्तमुखधर्मधातुस्फरणोपायविहारविहारिणां समन्तक्लेशशान्तोपायविहारविहारिणां सर्वदृष्टितृष्णामानप्रहीणप्रज्ञोत्तरविहारिणां सर्वध्यानविमोक्षसमाधिसमापत्त्यभिज्ञाविद्योत्पादविक्रीडितविहारविहारिणां सर्वबोधिसत्त्वसमाधिगोचरभावनाविहारविहारिणामयं सर्वबुद्धपादमूलोपनिश्रितविहारविहारिणामावासः। ये ते एककल्पसर्वकल्पसर्वकल्पैककल्पानुप्रवेशविहारविहारिणः। ये ते एकक्षेत्रसर्वक्षेत्रैकक्षेत्रासंभेदविहारविहारिणः। ये ते एकधर्मसर्वधर्मसर्वधर्मैकधर्माविरोधविहारविहारिणः। ये ते एकसत्त्वसर्वसत्त्वैकसत्त्वानानात्वविहारविहारिणः। ये ते एकबुद्धसर्वबुद्धसर्वबुद्धैकबुद्धाद्वयविहारविहारिणः। ये ते सर्वार्थैकक्षणप्रवेशविहारविहारिणः। ये ते सर्वक्षेत्रैकचित्तोत्पादगमनविहारविहारिणः। ये ते सर्वसत्त्वभवनप्रतिभासविहारविहारिणः। ये ते सर्वलोकहितसुखचित्तविहारविहारिणः। ये ते सर्वस्वाधीनप्रतिलम्भविहारविहारिणः, तेषामयं विहारः। ये ते लोकनिकेतोच्चलिताश्च सर्वजगद्भवनेषु संदृश्यन्ते सर्वसत्त्वपरिपाचनाय। ये ते सर्वक्षेत्रानिश्रिताश्च सर्वक्षेत्रेषु च अनुविचरन्ति तथागतपूजाकर्मणे। ये ते सर्वक्षेत्राणि च अनुविचरन्ति सर्वबुद्धक्षेत्रव्यूहपरिग्रहणतायै, न च स्थानाद्विचरन्ति। ये ते सर्वतथागतपादमूलगताश्च बुद्धसंज्ञाभिनिवेशविगताश्च। ये ते सर्वकल्याणमित्रोपनिश्रयविहारविहारिणश्च, न चैषां सर्वजगति समसमोऽस्ति ज्ञानेन। ये ते सर्वमारभवनविहारविहारिणश्च कामगुणरतिविप्रयुक्ताश्च। ये ते सर्वसंज्ञागतप्रवेशविहारविहारिणश्च सर्वसंज्ञागतविधूतमानसाश्च। ये ते सर्वजगच्छरीरानुगतकायाश्च न चात्मसत्त्वद्वयविहारिणः। ये ते सर्वलोकधात्वन्तर्गतकाया न च धर्मधातुसंभेदविहारिणः। ये ते सर्वानागतकल्पसंवासप्रणिधानाश्च, न च दीर्घह्रस्वकल्पसंज्ञागतविहारविहारिणः। ये ते एकवालपथाश्च न चलन्ति, सर्वलोकधातुषु च संदृश्यन्ते, तेषामयं दूरासदधर्मदिगनुप्रवेशविहारविहारिणां दुराज्ञेयविहारविहारिणां गम्भीरविहारविहारिणाम् अद्वयविहारविहारिणाम् अलक्षणविहारविहारिणां निःप्रतिपक्षविहारविहारिणाम् अनुपलम्भविहारविहारिणां निष्प्रपञ्चविहारविहारिणां महामैत्रीमहाकरुणाविहारविहारिणां सर्वश्रावकप्रत्येकबुद्धदुरवगाहविहारविहारिणां सर्वमारविषयसमतिक्रान्तविहारविहारिणां सर्वलोकविषयानुपलिप्तविहारविहारिणां सर्वबोधिसत्त्वपारमिताविहारविहारिणां सर्वबुद्धविहारानुकूलविहारविहारिणामयं विहारः। ये ते सर्वनिमित्तापगतविहारिणश्च, न च श्रावकनियाममवक्रामन्ति। ये ते सर्वधर्मानुत्पादविहारविहारिणश्च, न च अनुत्पादधर्मतायां पतन्ति। ये तेऽशुभाविहारविहारिणश्च, न च रागविरागधर्मतां साक्षात्कुर्वन्ति, न च रागधर्मैः सार्धं संवसन्ति। ये ते मैत्रीविहारविहारिणश्च, न च दोषमलोपगतचित्ताः। प्रतीत्यसमुत्पादविहारविहारिणश्च अत्यन्तासंमूढाश्च सर्वधर्मेषु। ये ते चतुर्ध्यानविहारिणश्च, न च ध्यानवशेनोपपद्यन्ते। ये ते चतुरप्रमाणविहारविहारिणश्च, न च रूपधातुगतिं गच्छन्ति सर्वसत्त्वपरिपाचनार्थम्।ये ते चतुरारूप्यसमापत्तिविहारविहारिणश्च, न चारूप्यधातुगतिं गच्छन्ति महाकरुणापरिगृहीतत्वात्। ये ते शमथविपश्यनाविहारविहारिणश्च, न चात्मना विद्याविमुक्तिं साक्षात्कुर्वन्ति सर्वसत्त्वपरिपाकाय। ये ते महोपेक्षाविहारविहारिणश्च, न च सत्त्वधातुं परित्यजन्ति। ये ते शून्यताविहारविहारिणश्च, न च दृष्टिगतसंनिश्रिताः। ये ते आनिमित्तगोचराश्च निमित्तचरितसत्त्वनयाभिमुक्ताश्च। ये ते सर्वप्रणिधानविगताश्च बोधिसत्त्वप्रणिधानव्यवच्छिन्नाश्च। ये ते सर्वकर्मक्लेशवशवर्तिनश्च, सत्त्वपरिपाकाय च कर्मक्लेशवशानुगाः संदृश्यन्ते। ये ते च्युत्युपपत्तिपरिज्ञाताविनश्च, जन्मच्युतिमरणं च संदर्शयन्ति। ये ते सर्वगतिव्यतिवृत्ताश्च, सर्वगतिषु च गच्छन्ति सर्वविनयवशेन। ये ते मैत्रीविहारिणश्च, न क्वचिदनुनयविहारिणः। ये ते करुणाविहारिणश्च, न क्वचिदनुसंशयदर्शनविहारिणः। ये ते मुदिताविहारिणश्च नित्योद्विग्नाश्च दुःखितसर्वव्यवलोकनतया। ये ते उपेक्षाविहारिणश्च परकार्येषु। ये ते नवानुपूर्वविहारसमापत्तिविहारिणश्च, न कामधातूपपत्तिविजुगुप्सकाः। ये ते सर्वोपपत्त्यनिश्रितविहारिणश्च, न च भूतकोटीसाक्षात्करणविहारिणः। ये ते त्रिविमोक्षविहारिणश्च, न च श्रावकविमुक्तिस्पर्शविहारिणः। ये ते चतुरार्यसत्यव्यवलोकनविहारिणश्च, न च फलसाक्षात्करणविहारिणः। ये ते गम्भीरप्रतीत्यसमुत्पादव्युपपरीक्षणविहारिणश्च, न चात्यन्तनिपतनविहारिणः। ये ते आर्याष्टाङ्गमार्गभावनाविहारिणश्च, न चात्यन्तनिर्याणविहारिणः। ये ते पृथग्जनभूमिसमतिक्रान्तविहारिणश्च, न च श्रावकप्रत्येकबुद्धभूमिपतनविहारिणः। ये ते पञ्चोपादानस्कन्धपरिज्ञानविहारिणश्च, न चात्यन्तस्कन्धनिरोधविहारिणः। ये ते चतुर्मारपथसमतिक्रान्तविहारिणश्च, न च मारकल्पनविहारिणः। ये ते षडायतनसमतिक्रान्तविहारिणश्च, न चात्यन्तानभिनिर्वृत्तिविहारिणः। ये ते तथताविहारिणश्च, न च भूतकोट्यायतनविहारिणः। ये ते सर्वयाननिर्याणसंदर्शनविहारिणश्च, न च महायानच्यवनविहारिणः तेषामयं सर्वगुणविहारिणां विहारः॥



अथ खलु सुधनः श्रेष्ठिदारकस्तस्यां वेलायामिमा गाथा अभाषत—



इह सो महाकरुण लाभि विशुद्धबुद्धि-

र्मैत्रेय मैत्रशिरि लोकहिताभियुक्तः।

अभिषेकभूमिस्थित ज्येष्ठसुतो जिनानां

विहराति बुद्धविषयं अनुचिन्तयन्तः॥१॥



सर्वेष यो जिनसुतान महायशानां

महाज्ञानगोचर विमोक्षप्रतिष्ठितानाम्।

ये धर्मधातु विचरन्ति असज्जमाना

आवासु तेषमयमप्रतिपुद्गलानाम्॥२॥



दमदानशीलक्षमवीर्यबलोद्गतानां

ध्यानैरभिज्ञबलपारगतिंगतानाम्।

प्रज्ञा‍उपायप्रणिधानबलस्थितानां

महायानपारमिगतानमयं विहारः॥३॥



एषो असङ्गमतिनां विपुलाशयानां

आकाशगोचररतानमनिश्रितानाम्।

सर्वत्रियध्वस्फरणानमनावृतानां

आवासु सर्वभवभावविभावितानाम्॥४॥



ये सर्वधर्म‍अनुत्पादनयप्रविष्टा

विमृशन्ति धर्मप्रकृतिं गगनस्वभावाम्।

न करोन्ति निश्रयु क्वचिद्गगने व पक्षी

तेषां विहारु अयु ज्ञानविशारदानाम्॥५॥



ये रागदोषमथ मोहस्वभाव ज्ञात्वा

संकल्पहेतुजनितां वितथप्रवृत्तिम्।

निर्विकल्पयन्ति च विरागमयीह तेषां

शान्तप्रशान्त्युमगतानमयं विहारः॥६॥



ये ते विमोक्षमुखसत्यनयार्थमार्ग-

स्कन्धांस्तथायतनसत्त्वप्रतीत्यतां च।

प्रपरीक्षमाण न पतन्ति विदू प्रशान्ति-

प्रज्ञा‍उपायकुशलानमयं विहारः॥७॥



ये ते अनावरणज्ञानदिशं प्रविष्टा

जिनक्षेत्र सत्त्वपरिकल्पविकल्पशान्ता।

भावस्वभावरहिता न विमृषन्ति धर्मान्

आवासु तेषमय शान्तिपरायणानाम्॥८॥



ये ते असङ्गचरिता इम धर्मधातुं

विचरन्ति भावविगता खगवायुभूताः।

सर्वं निकेतविगता अनिकेतचारी

तेषामनिश्रितमतीनमयं विहारः॥९॥



ये दृष्टिदुर्गतिगतां जनतामखिन्नां

दुःखान्तरां कटुक वेदन वेदयन्तीम्।

मैत्रप्रभाय शमयन्ति अपाय सर्वान्

आवासु तेषमय मैत्रकृपाशयानाम्॥१०॥



संसारसंकटगतार्यपथप्रनष्टं

जात्यन्धसार्थमिव दैशिकविप्रहीणम्।

ये प्रेक्ष्य लोकमिह मोक्षपथे प्रणेन्ति

सार्थातिवाहसदृशानमयं विहारः॥११॥



ये जातिशोकजरमृत्युवशोपनीतं

दृष्ट्वा जगन्नमुचिस्कन्धवपाशबद्धम्।

संप्रापयत्यभयक्षेमदिशं विमोच्य

शूराण तेषमयमा(वा)सु सुदुर्जयानाम्॥१२॥



क्लेशातुरं जनमिमं व्यवलोकयित्वा

समुदानयन्त्यमृतज्ञानमहौषधानि।

परिमोचयन्ति विपुलां करुणां जनित्वा

महवैद्यराजदृशानमयं विहारः॥१३॥



ये ते निशाम्य जनतां दुखितामत्राणां

शोकाकरे पतित मृत्युसमुद्रगामि।

तारेन्ति कृव महतीं शुभधर्मनावं

तेषां विहारमय दाशसुतोपमानाम्॥१४॥



ये क्लेशसागरचरां जनतां निशाम्य

सर्वज्ञचित्तरतनाशयशुद्धसत्त्वा।

अभ्युद्धरन्ति भवसागरमोतरित्वा

कैवर्तपुत्रसदृशानमयं विहारः॥१५॥



प्रणिधान‍आलयगता कृपमैत्र्यदृष्ट्या

ये सर्वसत्त्वभवनान्यवलोकयित्वा।

अभ्युद्धरन्ति जनतां भवसागरस्थां

गरुडेन्द्रपोतसदृशानमयं विहारः॥१६॥



ये धर्मधातुगगने शशिसूर्यभूता

विचरन्ति सत्त्वभवनप्रतिभासप्राप्ताः।

प्रणिधानमण्डल* * * * ज्ञानरश्मी

लोकप्रभासकरणानमयं विहारः॥१७॥



ये एकसत्त्वपरिपाचनताय धीरा

तिष्ठन्ति कल्पनयुतानपरान्तनिष्ठा।

यथ एकि सत्त्वि तथ सर्वजगत्यशेषम्

आवासु तेषमय लोकपरायणानाम्॥१८॥



ये एकक्षेत्रप्रसरे अपरान्तकल्पान्

विचरन्ति चारिक जगार्थमखिन्नवीर्याः।

यथ एकक्षेत्रि तथ सर्वदशद्दिशासु

आवासु तेषमय वज्रदृढाशयानाम्॥१९॥



ये धर्ममेघ सुगतान दशद्दिशासु

एकासने स्थित पिबन्ति असंप्रमूढाः।

अपरान्तकल्पनियुतान्यवितृप्तचित्ता

सहबुद्धिसागरसमानमयं विहारः॥२०॥



ये क्षेत्रसागर व्रजन्ति अनाभिलाप्यान्

प्रविशन्ति चो परिषसागर नायकानाम्।

ये पूजसागर विचित्र जिने करोन्ति

तेषामसङ्गचरणानमयं विहारः॥२१॥



ये चार्यसागरप्रविष्टमनन्तमध्यात्

प्रणिधानसागर विगाहयमान धीराः।

बहुकल्पसागर चरन्ति जगद्धितार्था

तेषां विहारु अयु सर्वगुणाकराणाम्॥२२॥



ये एकि वालपथि उत्तरमान क्षेत्रात्

बुद्धांश्च सत्त्व तथ कल्प अनन्तमध्यान्।

प्रविशन्ति एन्त न पुना च उपेन्ति सीमां

तेषामसङ्गनयनानमयं विहारः॥२३॥



ये एकचित्तक्षणि कल्पमहासमुद्रान्

प्रविशन्ति क्षेत्र तथ बुद्धजगत्प्रचारान्।

तेषामनावरणज्ञानमतिस्थितानाम्

एषो विहार गुणपारमितोद्गतानाम्॥२४॥



ये सर्वक्षेत्रपरमाणुरजान् गणित्वा

बिन्दुप्रमाण तुलयित्व जलौघ सर्वम्।

तावत्प्रमाणप्रणिधीनभिनिर्हरन्ति

तेषामसङ्गतगतानमयं विहारः॥२५॥



प्रणिधानधारणिसमाधिमुखप्रवेशान्

ध्याना विमोक्ष प्रणिधानमुखानि चैव।

अभिनिर्हरन्ति विचरन्ति अनन्तकल्पान्

इह ते प्रविष्ट सुगतान सुताः स्मृतीमाः॥२६॥



इह ते स्थिता जिनसुता विविधा विचित्रा

अभिनिर्हरन्ति बहुशास्त्रकथार्थयुक्ताः।

सौख्यावहानि जगतामिह शिल्पस्थाना-

न्यनुचिन्तयन्त विहरन्ति सतां विहारः॥२७॥



इह ते स्थिता मह‍अभिज्ञ‍उपायज्ञाने

यावन्त सत्त्वगतिभेद दशद्दिशासु।

सर्वत्र जन्मच्युतिभेद विदर्शयन्ति

मायागते स्थित विमोक्ष असङ्गचर्याः॥२८॥



इह ते स्थिता प्रथमचित्तसमुद्भवाद्यां

दर्शेन्ति धर्मचर्यां वसुधर्मनिष्ठाम्।

आपूर्य निर्मितघनैरपि धर्मधातुम्

एवं विकुर्वितशतान्युपदर्शयन्ति॥२९॥



ये एकचित्तप्रसरेण विबुद्ध बोधिं

प्रविशन्ति ज्ञानमतिकर्म अनन्तमध्या।

संमोहकेत्वव्रजि लोकु य चिन्तयान

एवं दुरासदगतानमयं विहारः॥३०॥



एषो असङ्गमतिनामनावरणधर्मधातुचरणानाम्।

अनिलम्भगोचराणां विहारु विमलाशयमतीनाम्॥३१॥



ये ते असङ्गचारी अनिकेतविहारि सर्वक्षेत्रेषु।

अद्वयज्ञानविहारी अयु तेष विहारु असमानाम्॥३२॥



खप्रकृतिसमान् य एते धर्माननालयान् शान्तान्।

विहरन्ति गगनगोचर तेषयमावासु विरजानाम्॥३३॥



इह ते कृपाशयमती स्थित्वा जगदीक्ष्य दुःखशोकहतम्।

लोकहितचिन्तनपरा विहरन्ति महकरुणलाभी॥३४॥



इह ते अनन्तरहिता दृश्यन्ते सर्वसत्त्वभवनेषु।

शशिसूर्यमण्डलसमाधि मुक्त संसारपाशेभ्यः॥३५॥



इह ते स्थिता जिनसुताः सर्वजिनानां च पादमूलेषु।

दृश्यन्ति सर्वक्षेत्रेष्वनन्तकल्पान् क्षपयमाणाः॥३६॥



इह ते जगदण्डसमैः सर्वजिनसुताश्रयप्रमाणैश्च।

सर्वदिशोऽनवशेषाः स्फरन्ति निर्माणमेघेभिः॥३७॥



इह ते प्रविष्ट शूराः सर्वं जिनगोचरं तुलयमाना।

विहरन्ति कल्पनयुतान्न चापि तृप्तिं समुपयान्ति॥३८॥



इह ते समाधिनयुतानभिलाप्यानि प्रतिक्षणं बुद्ध्या।

दर्शेन्ति बुद्धविषयं यथा समाधिप्रवेशेन॥३९॥



इह ते क्षणावलम्बा कल्पक्षेत्राणि बुद्धनामानि।

प्रविशन्ति विपुलबुद्धी कल्पान् क्षपयन्त्यपरिमाणान्॥४०॥



इह ते स्थिताप्रमेयाकल्पान् प्रविशन्ति एकचित्तेन।

परिकल्पसंज्ञविगता जगतः संज्ञावशगतेन॥४१॥



इह ते समाधिभवनप्रतिष्ठ पश्यन्ति त्रयोऽध्वानः।

एकक्षणकोटिप्राप्ता विमोक्षभवने विचरमाणाः॥४२॥



इह ते स्थिता विहारे पर्यङ्कनिषण्णानुच्चलितकायाः।

सर्वेषु क्षेत्रेषु युगपद्दृश्यन्ति सर्वगताः॥४३॥



इह विहरन्तो वृषभी धर्मसमुद्रात्पिबन्ति सुगतानाम्।

अवतीर्ण ज्ञानसागरमक्षयगुणपारमिताप्राप्ताः॥४४॥



इह सर्वक्षेत्रसंख्यां कल्पानां चैव धर्मसंख्यां च।

सर्वजिनानां संख्यां चिन्तेन्ति अनावरणचिन्ती॥४५॥



इह ते स्थिता जिनसुता यावत् क्षेत्रास्त्रियध्वसंख्याताः।

एकक्षणेन तेषां संभवविभवं विचिन्वन्ति॥४६॥



इह ते स्थिता जिनानां चर्यां प्रणिधिं च इन्द्रियं जगताम्।

पश्यन्तसमतायो जिनसुतभवने विचरमाणाः॥४७॥



एकरजाग्रगतान् ये सर्वरजसमाननावरण अस्याम्।

पश्यन्ति पर्षसागरक्षेत्रान् सत्त्वानि कल्पांश्च॥४८॥



सर्वरजाग्रेषु एवं परिषक्षेत्राणि सत्त्वकल्पांश्च।

प्रतिभासगतान् सर्वान् सुविभक्तान् संप्रपश्यन्ति॥४९॥



इह ते धर्मस्वभावं सर्वक्षेत्राध्वकल्पसंबुद्धान्।

भावस्वभावविगतानसंभवनयैर्विचिन्वन्ति॥५०॥



स्थित्वेह सत्त्वसमतां धर्मेषु बुद्धसमतां च प्रेक्ष्य।

त्र्यध्वनि क्षेत्रसमतां प्रणिधानसमतां च प्रविशन्ति॥५१॥



विनयन्ति सत्त्वनयुतानन्ये महयन्ति बुद्धनयुतानि।

विमृषन्त्यपरे धर्मानिह ते भवनवरे स्थिता धीराः॥५२॥



कल्पनयुतैर्न येषां प्रणिधानज्ञानविषयमतिकल्पाः।

शक्या मया हि वक्तुं विस्तीर्णोऽनन्तु बुद्धीनाम्॥५३॥



तेषामनिन्दितानां अनावरणगोचरं च निरतानाम्।

आवासं वन्देऽहं कृतकरणकोशः प्रणतकायः॥५४॥



तमपि जिनज्येष्ठसुतं निरावरणचर्यमार्यमैत्रेयन्।

निरुपमविशुद्धबुद्धिं तदनु स्मृतिमां प्रणिपतामि॥५५॥



इति हि सुधनः श्रेष्ठिदारको वैरोचनव्यूहालंकारगर्भमहाकूटागारनिवासिनो बोधिसत्त्वानेवं च अप्रमाणैर्बोधिसत्त्वस्तवैरभिष्टुत्य वन्दित्वा नमस्कृत्य प्रणिपत्य उद्वीक्ष चित्रीकृत्य आमुखीभूय अभिसंपूज्य वैरोचनव्यूहालंकारगर्भस्य महाकूटागारस्य मूलेऽतिष्ठन्मैत्रेयस्य बोधिसत्त्वस्य महासत्त्वस्य दर्शनमभिलषमाणो मैत्रेयस्य बोधिसत्त्वस्य समवधानमाकाङ्क्षमाणः। सोऽद्राक्षीन्मैत्रेयं बोधिसत्त्वं बहिर्धा कूटागारस्य अन्यतमस्मात्प्रदेशादागच्छन्तमनेकप्राणिशतसहस्रपरिवारमनेकदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगेन्द्रपुरस्कृतं वामदक्षिणाभ्यां शक्रब्रह्मलोकपालैर्नमस्यमानं जन्मभूमिकैश्च बहुभिर्ज्ञातिसंबन्धिभिर्ब्राह्मणशतसहस्रैः परिवृतं पुरस्कृतं वैरोचनव्यूहालंकारगर्भकूटागाराभिमुखमागच्छन्तम्। दृष्ट्वा च तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो येन मैत्रेयो बोधिसत्त्वस्तेनाभिमुखो भूत्वा दूरत एव मैत्रेयस्य बोधिसत्त्वस्य सर्वशरीरेण प्रणिपतितः॥



अथ खलु मैत्रेयो बोधिसत्त्वः सुधनं श्रेष्ठिदारकं व्यवलोक्य सर्वपर्षदो दक्षिणेन हस्तेनोपदर्श्य भूतैर्गुणैः संवर्णयन् गाथाभिरध्यभाषत—



पश्यथेमु सुविशुद्ध‍आशयं

सूधनं दृढधनान आत्मजम्।

एषमाणु वरबोधिचारिका-

मागतो मम समीपि पण्डितः॥५६॥



स्वागतं ति कृपमैत्रसंभव

स्वागतं विपुलमैत्रमण्डला।

स्वागतं प्रशमशान्तिलोचन

मा किलाम्यसि चरन्तु चारिकाम्॥५७॥



एहि स्वागतु विशुद्ध‍आशया

एहि स्वागतमखिन्नमानसा।

एहि स्वागतमलीन‍इन्द्रिया

मा किलाम्यासि चरन्तु सूरत॥५८॥



सर्वधर्मविचराय उत्थिता

सर्वसत्त्वविनयाय उत्सुका।

सर्वमित्रभजनाय प्रस्थिता

स्वागतं ति अचला दृढव्रता॥५९॥



स्वागतं शुभपथेन आगता

स्वागतं गुणपथे प्रतिष्ठिता।

स्वागतं जिनपथेन प्रस्थिता

मा श्रमं किल समर्थस्व क्वचित्॥६०॥



एहि स्वागतु गुणेषु तन्मया

स्वागतं ति कुशलानि(भि)स्यन्दित(?)।

साधु स्वागतमनन्तगोचरा

दर्शनं तव सुदुर्लभं जगे॥६१॥



लाभालाभसमतुल्यमानसा

निन्ददुःख‍अयशोविवर्जिता।

लोकधर्मिकमलोत्पलोपमा

साधु स्वागतमभ्रान्तमानसा॥६२॥



मायशाठ्यविगता शुभाशय

मानदर्पविगता सुभाजन।

क्रोधरोषविगता अनुन्नत

साधु ते दर्शनं सुदर्शनम्॥६३॥



एहि सर्वदिशगोचरामुखा

एहि सर्वदिशकोशसंभवा।

एहि सर्वजिनकोशवर्धना

स्वागतं ति अकिलान्तमानसा॥६४॥



एहि स्वागतु त्रियध्वगोचरा

धर्मधातु‍अधिमुक्तिमण्डला।

सर्वबुद्धगुणगर्भसंभवा

स्वागतं ति अकिलान्त सूरत॥६५॥



एहि मञ्जुशिरिज्ञानपङ्कज

एहि मेघशिरितोयवर्धित।

एहि सर्वजिनपुत्रप्रेषित

दर्शयामि ति अनावृतां दिशम्॥६६॥



पश्यथ प्रणिधिजालु कीदृशं

धर्मधातुस्फरणं अचिन्तियम्।

बोधिसत्त्वचरिमार्गकर्षणं

विस्तरन्तु सुधनो इहागतः॥६७॥



एषमाणु सुगतान गोचरं

मार्गमाणु विरजान चारिकाम्।

पृच्छमान प्रणिधानसागरं

आगतो अयमखिन्नमानसः॥६८॥



यत्र शिक्षित अतीत नायकाः

शिक्षिषेन्ति तथ ये अनागताः।

तिष्ठतां च सुगतान या चरी

पृच्छमाणु अयु तामिहागतः॥६९॥



एति मित्र मम धर्मभाणकाः

सर्वधर्मप्रतिपत्तिदेशकाः।

बोधिसत्त्वचरिमार्गदेशका

एवचित्त अयमागतो इह॥७०॥



बोधिसत्त्व मम बुद्धिवर्धिका

बुद्धपुत्र मम बोधिदायकाः।

एति मित्र मम बुद्धवर्णिता

एवचित्तकुशलो इहागतः॥७१॥



मातृभूत जनकायिमे मम

धात्रिभूत गुणस्तन्यदायकाः।

बोधि‍अङ्गपरिपालकाः सदा

एति मित्र अहितान्निवारकाः॥७२॥



वैद्यभूत जरमृत्युमोचकाः

शक्रभूत अमृताभिवर्षिकाः।

चन्द्रभूत शुभपूर्णमण्डलाः

सूर्यभूत शिवमार्गदर्शकाः॥७३॥



मेरुभूत सम मित्रशत्रुषु

सागरोपम अक्षोभ्यचेतसः।

कर्णधारपरिपालकोपमा

एवचिन्ति सुधनो इहागतः॥७४॥



शूरभूत अभयप्रदायकाः

सार्थवाह शरणं परायणम्।

नायका मम सुखंददा इमे

एवचित्त अयु मित्र सेवते॥७५॥



सर्वधर्मदिशसुदर्शकाः सदा

सर्वबुद्धगुणज्ञानदर्शकाः।

सर्वदुर्गति‍अपायशोधका

एति मित्र मम साधु दर्शकाः॥७६॥



एति सर्वजिनकोशदायका

एति सर्वजिनगञ्जरक्षकाः।

एति सर्वजिनगुह्यधारका

एव मित्र भजतेष पण्डितः॥७७॥



ज्ञानसंपद अतो विशुध्यते

रूपभोगकुलजन्मसंपदः।

* * * *अतो न दुर्लभा

एवमाशय अयमिहागतः॥ ७८॥



पश्यथा अयमुदार‍आशयः

सेवमान इम मित्र पण्डितः।

यादृशीं प्रतिजनेति सूरत

एव यूयमनुशिक्षथो सदा॥७९॥



एष पूर्वशुभपुण्यहेतुना

दृष्टमञ्जुशिरि बोधिप्रस्थितः।

अनुशास्ति अयु तस्य कुर्वतो

पश्यथा कथमटत्यखेदवान्॥८०॥
एष सर्वसुखसौख्य उज्झिय

उत्सृजित्व अमरोपमं गृहम्।

धात्रिमातृपितृभोगविस्तरं

दासभूत इम मित्र सेवते॥८१॥



एष आशय विशोध्य पण्डितः

स्वाश्रयं जहिय मानुषं इमम्।

सर्वबुद्धभवनं प्रवेक्ष्यते

ईदृशं फलमतो भविष्यति॥८२॥



एष दृष्ट्व जनव्याधिपीडितान्

प्राणिनो दुखशतैरुपद्रुतान्।

जन्ममृत्युभयशोकतापिनः

तेषु अर्थि चरते कृपाशयः॥८३॥



दुःखयन्त्रपरिपीडितं जगद्

दृष्ट्व पञ्चगतिचक्रमण्डले।

ज्ञानवज्रमयमेषते दृढं

दुःखयन्त्रगतिचक्रभेदनम्॥८४॥



रागदोषतृणथाणुकण्टकं

दृष्टिसङ्गबहुकं क्षताङ्कुरम्।

सत्त्वक्षेत्रपरिशोधनार्थिकः

प्रज्ञलाङ्गल दृढं गवेषते॥८५॥



मोहविद्यगहनाशयं जगत्

प्रज्ञचक्षुहत नष्टदैशिकम्।

तस्य क्षेमदिशदर्शनप्रभुः

सार्थवाहु जगतो भविष्यति॥८६॥



क्षान्तिधर्मत्रिविमोक्षवाहनो

ज्ञानखङ्ग रिपुक्लेशधर्षकः।

शूरभूत अभयस्य दायको

देशिको हि जगतां भविष्यति॥८७॥



धर्मनाव समुदानयत्ययं

ज्ञानसागरपथे सुशिक्षितः।

शाण्तिरत्नवरद्वीपनायकः

कर्णधार त्रिभवार्णवे अयम्॥८८॥



ज्ञानरश्मिप्रणिधानमण्डलः

सर्वसत्त्वभुवनावभासनः।

धर्मधातुगगने महाप्रभो

बुद्धसूर्य समुदेष्यते अयम्॥८९॥



मैत्रचन्दनसमानशीतलः

सर्वसत्त्वसमचित्त सुप्रभः।

शुक्लधर्मपरिपूर्णमण्डलो

बुद्धचन्द्र समुदेष्यते अयम्॥९०॥



आशये दृढतलप्रतिष्ठितो

बोधिचर्य अनुपूर्व उद्गतः।

सर्वधर्मरतनाकरो ह्ययं

ज्ञानसागरवरो भविष्यति॥९१॥



बोधिचित्तभुजगेन्द्रसंभवो

धर्मधातुगगने समुद्गतः।

धर्ममेघयुगपत्प्रवर्षणे

सर्वशुक्लफलसस्यवर्धनम्॥९२॥



शुद्धवर्ति त्रिमलं तमोहरं

मैत्रस्नेहस्मृतिभाजनं दृढम्।

बोधिचित्तविमलाग्निसुप्रभं

धर्मदीपमयु जालयिष्यति॥९३॥



बोधिचित्तकललः कृपार्बुदो

मैत्रपेशि रण्वनाशयो घनः।

बोधि‍अङ्ग‍अनुपूर्वसंभवो

बुद्धगर्भु अयु संप्रवर्धते॥९४॥



पून्यगर्भमभिवर्धयिष्यति

ज्ञानगर्भमपि शोधयिष्यति

ज्ञानगर्भु समुद्दिश्यते अयं

यादृशः प्रणिधिगर्भसंभवः॥९५॥



ईदृशः करुणमैत्रवर्मितः

सत्त्वमोचनमती हिताशयः।

दुर्लभो जगि सदेवमानुषे

यादृशो अयु विशुद्धमानसः॥९६॥



ईदृशाशयसुमूलसंस्थितो

ईदृशो दृढप्रयोगवर्धितः।

ईदृशस्त्रिभवछादनप्रभो

ज्ञानवृक्ष फलदः सुदुर्लभः॥९६॥



एषा गुणसंभवनार्थिकः

सर्वधर्मपरिपृच्छनार्थिकः।

सर्वसंशयविदारणार्थिकः

सर्व मित्र भजते अतन्द्रितः॥९७॥



एष मारकलिक्लेशसूदनो

एष दृष्टिमलतृष्णशोधनः।

एष सर्वजगमोक्षणोद्यतः

एष ते सदविशेषपण्डितः॥९८॥



एष दुर्गति विशोधयिष्यति

एष स्वर्गमुपदर्शयिष्यति।

मोक्षमार्गमुपनेष्यते जगत्

यादृशे गुणपथे प्रतिष्ठितः॥९९॥



एष सर्वगतिदुःखमोचको

एष सर्वगतिसौख्यदायकः।

एष सर्वभवपाशछेदनो

भेष्यते भवगतीनिषूदनः॥१००॥



दृष्टिसंकट विमोचयिष्यति

तृष्णजाललत छेदयिष्यति।

नन्दिरागमुपशोधयिष्यति

भेष्यते तृभवमार्गदर्शकः॥१०१॥



एष लोकशरणं परायणं

एष सर्वजगति प्रभाकरः।

नायकस्त्रिभुवने भविष्यति

सर्वतो भवविभावकोविदः॥१०२॥



क्लेशसुप्तजनताविशोधकः

कामपङ्कतरुतारको विदुः।

संज्ञसक्तपरिमोचको अयं

बन्धमोक्षकरणो भविष्यति॥१०३॥



धर्मधातुतलभेदभासनो

लोकधातुतलभेदशोधनः।

सर्वधर्मतलभेदपारगो

भेष्यसे सुधन प्रीतिमान् भव॥१०४॥



यादृशं तव प्रयोग सूरतः

श्रद्ध यादृश तवा अनिन्दितः।

यादृशश्च गुणवांस्तवाशयः

सर्व आप परिपूरयिष्यति॥१०५॥



सर्वबुद्ध नचिरेण द्रक्ष्यसि

सर्वक्षेत्र नचिरेण यास्यसि।

सर्वधर्म नचिरेण ज्ञास्यसि

तादृशं ति शुभमात्मना कृतम्॥१०६॥



क्षेत्रसागर विशोधयिष्यसे

सत्त्वसागर विमोचयिष्यसि।

चर्यसागर प्रपूरयिष्यसि

तादृशो* * प्रतिपत्तिसागरः॥१०७॥



त्वं भविष्यसि गुणान् भाजनं

त्वं भविष्यसि शुभान संभवः।

त्वं भविष्यसि जिनौरसैः समो

यादृशं ति अधिमुक्तिमण्डलम्॥१०८॥



मारमण्डल पराजितं त्वया

कर्ममण्डल विशोधितं च ते।

क्लेशमण्डल विशोधितं त्वया

यादृशं ति प्रणिधानमण्डलम्॥१०९॥



ज्ञानवर्तनि विशोधयिष्यसे

धर्मवर्तनि प्रभावयिष्यसि।

कर्मक्लेशदुखयन्त्रवर्तनिं

नोचिरेण विनिवर्तयिष्यसि॥११०॥



लोकचक्रभवचक्रमाश्रितं

पञ्चगण्डगतिचक्रमोहितम्।

सर्वसत्त्वदुखचक्रच्छेदनं

धर्मचक्रतरु वर्तयिष्यसि॥१११॥



बुद्धवंशमनुधारयिष्यसि

धर्मवंश परिशोधयिष्यसि।

संघवंश परिकर्षयिष्यसे

रत्नसंभवकरो भविष्यसि॥११२॥



तृष्णजाल विनिवर्तयिष्यसे

दृष्टिजालगहनं तथैव च।

दुःखजाल जगु मोचयिष्यसे

तादृशः प्रणिधिजालु शोधितः॥११३॥



सत्त्वधातु परिपाचयिष्यसे

लोकधातु परिशोधयिष्यसि।

ज्ञानधातुमुत्थापयिष्यसे

आशयस्य तव धातु तादृशः॥११४॥



सर्वसत्त्वहितप्रीतिनन्दनो

बोधिसत्त्वकुलवंशनन्दनः।

सर्वबुद्धप्रणिधाननन्दनो

भेष्यसे सुधन नन्दिवर्धनः॥११५॥



सर्वसत्त्वगतिवासदर्शनः

सर्वक्षेत्रप्रतिभासदर्शनः।

सर्वधर्म‍अवभासदर्शन-

स्त्वं भविष्यसि जिनः सुदर्शनः॥११६॥



धर्मधातु‍अवभासनप्रभः

सर्वदुर्गतिशमंकरप्रभः।

भेष्यसे त्रिभवदुःखशंकरः

* * * * *॥११७॥



स्वर्गद्वारमुपदर्शयिष्यसे

बुद्धद्वारु विवरिष्यसे जगे।

मोक्षद्वारमुपनेष्यसे जगत्

द्वारु तादृशु विशोधितं त्वया॥११८॥



मिथ्यमार्ग विनिवर्तयिष्यसे

आर्यमार्ग जनतां विनेष्यसि।

बोधिमार्ग तथ त्वं अनुद्धतो

मार्गसे दृढमते अतन्द्रितः॥११९॥



त्वं भवार्णवगतान देहिनां

दुःखपारगमनाय उत्सुकम्।

तारयिष्यसि जगद्भवार्णवा-

त्तादृशं भव महागुणार्णवः॥१२०॥



क्लेशसागर विशोष्य देहिनां

ज्ञानसूर्यवररश्मिसागरैः।

तान्निवेश्य प्रतिपत्तिसागरे

ज्ञानसागर प्रतिष्ठपेष्यसि॥१२१॥



बुद्धिसागर विवर्धयिष्यसि

चर्यसागर विशोधयिष्यसि।

सर्वबुद्धप्रणिधानसागरं

नोचिरेण अवगाहयिष्यसि॥१२२॥



क्षेत्रसागर बहु प्रवेक्ष्यसि

द्रक्ष्यसे परिषसागरान् बहून्।

बुद्धिसागरबलेन पण्डितः

* * * *॥१२३॥



बुद्धमेघनयुतानि द्रक्ष्यसे

पूजमेघ विपुलां करिष्यसि।

धर्ममेघनयुतानि श्रोष्यसि

तादृशा प्रणिधिमेघ कुर्वसि॥१२४॥



सर्वसत्त्वभवना स्फरिष्यसे

सर्वक्षेत्रभवनानि यास्यसि।

सर्वबुद्धभवनं प्रवेक्ष्यसे

तादृशाय दिशाय प्रस्थितः॥१२५॥



त्वं समाधिभवनं प्रवेक्ष्यसे

त्वं विमोक्षभवनानि लप्स्यसे।

* * * * *

धर्मधातुभवनप्रतिष्ठितः॥१२६॥



सर्वसत्त्वभवने उदेष्यसे

चन्द्रसूर्यप्रतिभाससादृशः।

उद्गमिष्यसि जिनान संमुखं

तादृशस्तव महापथोद्गमः॥१२७॥



त्वं चरिष्यसि नतः सुगोचरे

सर्वलोक‍अनिकेतगोचरे।

त्वं भविष्यसि प्रशान्तगोचरः

तादृशस्तव अभिज्ञगोचरः॥१२८॥



इन्द्रजालतलभेदने विदुः

क्षेत्रजालतलभेद यावतः।

नोचिरेण स्फरमाणु पश्यसे

मारुतो व गगने असङ्गवान्॥१२९॥



धर्मधातुप्रसरं प्रवेक्ष्यसे

लोकधातुप्रसरान् गमिष्यसे।

सर्वबुद्धप्रसरांस्त्रियध्वगान्

द्रक्ष्यसे सुधन प्रीति विन्दहि॥१३०॥



मैव खेद जनयाहि सूरता

तुष्टि विन्दि विपुलां निरामिषम्।

येन ते इमु विमोक्षु ईदृशो

दृष्टु पश्यसि च भूयु द्रक्ष्यसे॥१३१॥



त्वं सुभाजन गुणान् सूधना

* * * * जिनानुशास्तिषु।

त्वं समर्थ इमु धारितुं नयं

तेन पश्यसि इदं विकुर्वितम्॥१३२॥



येष कल्पनयुतैः सुदुर्लभं

दर्शनं कुतु गुणप्रभावन।

तेहि दृष्ट चरतो सुचारिकां

बुद्धपुत्र अनिकेतगोचराः॥१३३॥



लाभ भूय विपुला अचिन्तिया

स्वागतं च तव मानुषो भव।

येन मञ्जुशिरि दृष्ट संमुख-

मीदृशं कृतु गुणान् भाजनम्॥१३४॥



सर्वदुर्गतिपथा विवर्धिताः

सर्व‍अक्षण‍अपायशोधकाः।

दुःखधर्म त्वयि सर्व उज्झिताः

सर्वखेद च विवर्जिता भव॥१३५॥



बालभूमि विनिवर्तिता त्वया

बोधिसत्त्वगुणभूमिसुस्थितः।

ज्ञानभूमि परिपूर्य उत्तमा

बुद्धभूमि नचिरेण लप्स्यसे॥१३६॥



बोधिसत्त्वचरि सागरोपमा

बुद्धज्ञानविधि आकाशसादृशम्।

तत्प्रमाणप्रणिधानसागरा

एष तानि भव तुष्टमानसः॥१३७॥



ईदृशो अपरिखिन्न‍इन्द्रिया

आशयदृढप्रयोगनिश्चिताः।

ये भजन्ति इम मित्र ईदृशाः

ते भवन्ति नचिरेण नायकाः॥१३८॥



दृष्ट्व सत्त्व विनयंगता बहु

बोधिसत्त्वचरि चित्र यावत्।

मा तु जातु विमतिं करिष्यसे

सर्वधर्ममुख बोधिचारिकम्॥१३९॥



पुण्यसंपद अचिन्तिया तव

अर्थधर्मगुणश्रद्धसंपदः।

येन संपद इमा त्वमीदृशी

बुद्धपुत्र इह अद्य पश्यसि॥१४०॥



पश्य लाभ तव कीदृशो महान्

पश्यतो जिनसुता निरन्तरम्।

दर्शयन्ति प्रणिधी स्वकस्वकां-

स्त्वं च तानखिलतोऽनुगच्छसि॥१४१॥



दुर्लभा भवशतैरपीदृशा

बोधिसत्त्वचरितेषु भाजना।

तेन चो जिनसुता निरन्तरं

ते विमोक्षनय दर्शयन्ति माम्॥१४२॥



कल्पकोटिनयुतानि ते जना

संवसन्ति सुगतात्मजैः सह।

तेऽपि तेषु न विदन्ति गोचरं

नात्म तैर्हि गुणभाजनं कृतम्॥१४३॥



त्वं शृणोषि इम ईदृशं नयं

पश्यसे च सुदुर्लभं जगे।

बोधिसत्त्वमहतां विकुर्वितं

सूधना भव अग्रमानसः॥१४४॥



सर्वबुद्ध समन्वाहरन्ति ते

बोधिसत्त्व तव संग्रहस्थिताः।

त्वं च तेष अनुशासनिस्थितः

साधु सूधन सुजीवितं तव॥१४५॥



बोधिसत्त्वकुलधर्मि वर्तसे

शिक्षसे जिनसुतान त्वं गुणैः।

भेष्यसे सुगतवंशवर्धनः

प्रीति विन्दहि उदार सुधना॥१४६॥



सर्वबुद्ध पितरस्तवासमा

बोधिसत्त्व तव सर्वि भ्रातरः।

बोधि‍अङ्ग तव सर्वि ज्ञातयः

त्वं सुजातु सुगतान ओरसः॥१४७॥



धर्मराजकुलवंशधारिणो

बोधिसत्त्वकुलवंशवर्धनः।

धर्मराजमचिरेण लप्स्यसे

सूधना तुष्ट भव प्रीणितेन्द्रियः॥१४८॥



सर्वबुद्धमभिषेकमुत्तमं

नोचिरेण* * * लप्स्यसेऽद्भुतम्।

भेष्यसेऽसमसमैर्जिनौरसैः

तादृशो भव सभागतो भव॥१४९॥



यादृशं वपति बीज यो नरो

तादृशं लभति तस्य सो फलम्।

प्रीति विन्द विपुलामचिन्तियां

एष तेऽद्य समन्वासयाम्यहम्॥१५०॥



चीर्ण कल्पनयुतान ये चरी

बोधिसत्त्वनयुता अचिन्तिया।

तऽपि संपद लभन्ति नेदृशी-

मेकजन्मि प्रतिलब्ध या त्वया॥१५१॥



सर्वमेतदिह मुक्तितः फलं

आशयस्य दृढवीर्यताय च।

यस्य चारिक भवेदियं प्रिया

सो धरेय सुधनस्य या चरी॥१५२॥



सर्वचर्य प्रणिधानसंभवा

सर्वधर्म अधिमुक्तिसंभवा।

सुधन एव समुदानितास्त्वया

नित्यमेष हि विशेषचारिका॥१५३॥



यातुका भुजगचेतनोद्भवा-

स्तातुको भवति वारिसंभवः।

यातुका प्रणिधिज्ञानगोचर-

स्तातुका स्फरति बोधिचारिका॥१५४॥



एष भोतु तव दर्शितो तया

भद्रनामचरियाय सूधन।

एत ज्ञात्व स कदाचि भेष्यते

सेवमान इह मित्र तन्मयः॥१५५॥



कायकोटि स्मर पूर्विका त्वया

कामहेतु क्षयिता निरर्थकम्।

अद्य बोधिय मार्गणो ह्ययं

काय तर्जतु व्रतेन सुव्रतः॥१५६॥



कल्पकोटि अतिनामितास्त्वया

सर्वदुःखमनुभूतु संस्कृते।

गङ्गवालिकसमता विरागिता

बुद्ध नो च श्रुत ईदृशो नयः॥१५७॥



सो इदानि क्षण लब्ध मानुषो

बुद्धपादु इमु मित्रु ईदृशाः।

श्रूयते च वरबोधिचारिका

विशुद्धि न भविष्यते कथम्॥१५८॥



भोति भूय सुगतान संभवो

मित्रधर्मश्रवणं च श्रूयते।

नो च श्रूयति अयं पुनर्नयो

आशयो यदि न भोति शोधितः॥१५९॥



तेन श्रद्धमधिमुक्ति‍आशयं

संजनित्व गुरुगौरवं परम्।

काङ्क्षदृष्टिपरिखेदवर्जितो

भूय भूय नयमीदृशं शृणु॥१६०॥



तेष लाभ परमा अचिन्तिया-

स्तेष मानुषभवः सु‍आगतः।

यैरियं चरि प्रवेशमीदृशं

श्रुत्व एव प्रणिधी भिर्निर्हृता॥।१६१॥



तस्य सर्वि सुगता न दुर्लभा

तस्य सर्वि जिनपुत्र नारतः।

तस्य बोधयि न भूयु संशयो

येन एव अधिमुक्ति शोधिता॥१६२॥



तेन सर्वि विनया न वर्जिताः

तेन सर्वदुखधर्म उज्झिताः।

तेन सर्वगुणसंग्रहः कृतः

यो इमं नयु प्रविष्ट ईदृशम्॥१६३॥



नोचिरेण इमु कायु उज्झिया

बुद्धक्षेत्र परिशुद्ध यास्यसि।

बोधिसत्त्वभवनं प्रवेक्ष्यसि

द्रक्ष्यसे दशदिशे तथागतान्॥१६४॥



पूर्वहेतुघन तुभ्य सूधन

प्रत्युत्पन्न अधिमुक्ति निश्चिता।

मित्र सेवसि विशेष‍अर्थिकः

तेन वर्धयि जले यथोत्पलम्॥१६५॥



सर्वमित्र‍अभिराधनाशया

सर्वबुद्ध‍आरागणाशयाः।

सर्वधर्मपरिपृच्छनाशया

उत्थिहो किलमथो न सुव्रता॥१६६॥



सर्वधर्मप्रतिपत्तिमुत्थितः

सर्वमार्ग‍अनुमार्गसुस्थितः।

बुद्धपुत्र प्रणिधानसुस्थित

उत्थि सर्वगुणधर्मभाजन॥१६७॥



यादृशाय अधिमुक्तिसंपदा

वन्दनं कृतमिदं त्वया मम।

सर्वबुद्धपरिषासु संमुखं

नोचिरेण हि समुद्गमिष्यसि॥१६८॥



साधु सूधन अखिन्नमानसः

सर्वबुद्धप्रणिधानचेतनः।

त्वं भविष्यसि दृढव्रताचिरं

सर्वबुद्धगुणपारमिंगतः॥ १६९॥



सत्त्व मञ्जुशिरि पृच्छ सूधन

ज्ञानगोचरविमोक्षपारगम्।

भद्रनाम वर चर्य उत्तमां

तनुमन्तिमे प्रवेशयिष्यति॥१७०॥



एव मैत्रकु असङ्गगोचरो

दृष्ट सूधन गुणैः समुद्गतम्।

दर्शयित्व परिषाय संमुखं

वर्णकोशमिमु तस्य व्याहरि॥१७१॥



श्रुत्व सूधन तदानुशासनी-

मीदृशीं च अनुशास्ति उत्तमाम्।

प्रीतिवेग अभिष्यन्दितेन्द्रिया

अश्रुवेग विपुलान् प्रमुञ्चति॥१७२॥



सर्वरोमहरिषोद्गताश्रयो

निश्वसन्तु परिप्रीणितेन्द्रियः।

उत्थिहित्व सुधनः कृताञ्जलिः

मैत्र नाम कुरुते प्रदक्षिणम्॥१७३॥



तस्य मञ्जुशिरि तेन तेजसा

पुष्पहाररतना च पाणिषु।

संस्थिता सुरुचिरा मनोरमा

बोधिसत्त्वप्रणिधानसंभवाः॥१७४॥



सूधनो वरप्रहृष्टमानसो

मैत्रकस्य क्षिपि तानि हर्षितः।

तस्य शीर्षु परिमार्जते तदा

मैत्रनाथ सुधनं च भाषते॥१७५॥



साधु साधु जिनपुत्र सूधन

यस्य ते अपरिखेद ईदृशः।

त्वं भविष्यसि गुणान भाजनं

मञ्जुघोषु यथ यादृशो व हम्॥१७६॥



श्रुत्व सूधन उदानुदानयि

दुर्लभा भवशतेषु ईदृशाः।

मित्र येभिरिह मे समागमः

सादु आगमनमद्य मे इह॥१७७॥



साधु सत्त्वगुणपारमिंगतो

मञ्जुघोष भवतोऽनुभावतः।

मित्र लब्ध मय दुर्लभा इमे

भोतु मे लघु समागमस्वयि॥१७८॥
अथ खलु सुधनः श्रेष्ठिदारको मैत्रेयस्य बोधिसत्त्वस्य पुरतः प्राञ्जलिः स्थित्वा एवमाह-अहमार्य अनुत्तरायां सम्यक्संबोधावभिसंप्रस्थितः। न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्। आर्यमैत्रेयो व्याकृतः सर्वतथागतैरेकजातिप्रतिबद्धतया अनुत्तरायां सम्यक्संबोधौ। यश्चैकजतिप्रतिबद्धोऽनुत्तरायां सम्यक्संबोधौ, स समतिक्रान्तः सर्वबोधिसत्त्वव्यवस्थानानि, सोऽवक्रान्तो बोधिसत्त्वनियामम्। तेन परिपूरिताः सर्वपारमिताः। सोऽवतीर्णः सर्वाशाक्षान्तिमुखाणि। तेन प्रतिलब्धाः सर्वबोधिसत्त्वभूमयः। स विक्रीडितः सर्वविमोक्षमुखेषु। तेन परिनिष्पादिताः सर्वसमाधयः। स गतिंगतः सर्वबोधिसत्त्वगतिषु। तेन प्रतिलब्धाः सर्वधारणीप्रतिभाना आलोकनयाः। स वशिप्राप्तः सर्वबोधिसत्त्ववशितासु। तेन समुपार्जिताः सर्वबोधिसत्त्वसंभाराः। स विक्रीडितः प्रज्ञोपायकौशल्यनयेषु। तेनोत्पादिता महाभिज्ञाविद्याज्ञानालोकनयाः। स निर्यातः सर्वशिक्षासु। तेन परिशोधिताः सर्वबोधिसत्त्वचर्याः। तेनाभिनिर्हृतानि सर्वप्रणिधाननिर्याणमुखानि। तेन प्रतीष्टानि सर्वतथागतव्याकरणानि। सोऽभिज्ञः सर्वयाननिर्याणमुखानाम्। तेन संधारितानि सर्वतथाधिष्ठानानि। तेन संगृहीता सर्वबुद्धबोधिः। तेनाधारिताः सर्वतथागतकोशाः। स गञ्जधरः सर्वतथागतगुह्यानाम्। स मूर्धप्राप्तः सर्वबोधिसत्त्वगुह्यमण्डलस्य। स शूरः सर्वक्लेशवंशविक्षोभितासु। स दैशिकः संसाराटवीप्राप्तानाम्। स वैद्यः क्लेशातुराणाम्। सोऽग्रः सर्वसत्त्वानाम्। स इन्द्रः, स ज्येष्ठः सर्वार्यपुद्गलानाम्। स उत्तमः सर्वार्यश्रावकप्रत्येकबुद्धानाम्। स कर्णधारः संसारसागरप्राप्तानाम्। तेनाकर्षितं महत्त्वसत्त्वविनयोपायजालम्। तेन व्यवलोकितानि परिपक्वजगदिन्द्रियाणि। स संप्रयुक्तः सर्वसत्त्वानाम्, परिपालनयुक्तः सर्वबोधिसत्त्वानाम्। स संगायनप्रयुक्तः सर्वबोधिसत्त्वक्रियासु। स संस्थितः सर्वतथागतपर्षन्मण्डलेषु। स प्रतिभासप्राप्तः सर्वजगद्भवनेषु। सोऽनुपलिप्तः सर्वलोकधर्मैः। स समतिक्रान्तः सर्वमारविषयेभ्यः। सोऽनुगतः सर्वबुद्धविषयम्। सोऽनावरणप्राप्तः सर्वबोधिसत्त्वविषये। स पूजाप्रयुक्तः सर्वतथागतानाम्। स एकोतीभावगतः सर्वबुद्धधर्मेषु। तस्यावबद्धोऽभिषेकपट्टः। तेनाध्यासितं महाधर्मराज्यम्। सोऽभिषिक्तः सर्वज्ञज्ञानविषये। ततः प्रभवः सर्वबुद्धधर्माणाम्। तस्य बोधिप्राप्तं सर्वज्ञज्ञानाधिपत्यम्। तद्वदतु मे आर्यः-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्, यथा प्रतिपद्यमानो बोधिसत्त्वो बोधिमधिगच्छति, सर्वबुद्धधर्मान् प्रतिमानयति, यथानिमन्त्रितं सत्त्वधातुमुत्तारयति, यथाभिरूढां प्रतिज्ञां निस्तारयति, महाबोधिचर्यारम्भं समाश्वासयति सदेवकं लोकं न विसंवदति, आत्मना सर्वबुद्धधर्मसंघान् व्यवच्छिनत्ति। बुद्धावंशमशून्यीकरोति बोधिसत्त्वकुलम्। संधारयति तथागतनेत्रीम्॥



अथ खलु मैत्रेयो बोधिसत्त्वः सर्वं तत्पर्षन्मण्डलमवलोक्य सुधनं श्रेष्ठिदारकमुपदर्शयन्नेवमाह-पश्यथ कुलपुत्रा इमं श्रेष्ठिपुत्रम्, योऽयं मां बोधिसत्त्वचर्यागुणपरिनिष्पत्तिं परिपृच्छति। एष मार्षाः श्रेष्ठिदारकः अनेन वीर्यारम्भेण, अनया अर्थिकतया, एतेन च्छन्दसमादानेन, एतया दृढाशयतया, अनिवर्त्यवीर्यतया, एतया बुद्धधर्मातृप्ततया, एतया विशेषपरिमार्गणतया, एतया दीप्तशिरश्चैलोपमतया, एतया कल्याणमित्रदर्शनकामतया, एतया कल्याणमित्रपर्युपासनापरिखेदतया सर्वकल्याणमित्राणि परिमार्गमाणः परिपृच्छन् पर्युपासीनो मञ्जुश्रिया कुमारभूतेन संप्रेषितो धन्याकरान्नगरादुपादाय सर्वदक्षिणापथमटन् दशोत्तरं कल्याणमित्रशतं परिपृच्छन् यावन्ममान्तिकमनुप्राप्तः सर्वपरिखेदविगतेनाध्याशयेन। दुर्लभं कुलपुत्रा एवंरूपाणां महायानसंप्रस्थितानां महाप्रतिज्ञासमारूढानां महारम्भव्यवसितमानसानां महाकरुणासंनद्धगात्राणां महामैत्रीसत्त्वपरित्राणमतीनां महावीर्यपारमितोद्युक्तानां महासत्त्वसार्थपरिपालनाभियुक्तानां महासंसारसागरसत्त्वतारणप्रतिपन्नानां सर्वज्ञतामार्गसंप्रस्थितानां महाधर्मनौसमुदानयनोद्युक्तानां महाधर्मरत्नपुण्यसमुदानयनकृतव्यवसायानां महाधर्मयज्ञसंभारोपचयोद्युक्तानां नामधेयश्रवणं वा रूपकायदर्शनं वा गोचरसंवासो वा चर्यासभागता वा। तत्कस्य हेतोः? एष हि कुलपुत्राः सत्पुरुषः सर्वजगत्परित्राणाय अभ्युत्थितः, सर्वदुःखसत्त्वपरिमोचनतायै सर्वदुर्गतिसमुच्छोषणाय सर्वाक्षणविनिवर्तनाय सर्वविषममार्गपरिवर्तनतायै सर्वाज्ञानतमोन्धकारविधमनतायै सर्वसंसारकान्तारसमतिक्रमणतायै सर्वगतिचक्रविनिवर्तनतायै सर्वमारविषयसमतिक्रमणतायै सर्वनिकेतस्थानोच्चलनतायै सर्वालयनिलयोन्नोदनतायै कामपङ्कसमुद्धरणतायै नन्दीरागप्रहाणाय दृष्टिबन्धननिर्हारणाय सत्कायाभिष्वङ्गविनिवर्तनतायै संज्ञापाशसमुच्छेदनतायै विपर्यासपथविनिवर्तनतायै अनुशल्यसमाबृंहणतायै निवरणकवाटनिर्भेदनतायै आवरणपर्वतविकिरणतायै तृष्णाजालोद्धरणतायै अविद्यासंयोजनविश्लेषकरणतायै भवोद्द्योतकरणतायै मायाशाठ्यप्रहाणाय चित्तकालुष्यप्रसादनाय संशयविमतिविलेखनसमुद्धरणतायै अज्ञानमहौघोत्तरणतायै सर्वसंसारदोषविजुगुप्सनतायै प्रतिपन्नः॥



एष हि कुलपुत्राः सत्पुरुषः सत्त्वानां चतुरोघोत्तरणतायै महादानं महाधर्मनावं समुदानेतुकामो दृष्टिपङ्कनिमग्नानां महाधर्मसेतुं स्थापयितुकामो मोहान्धकारप्राप्तानां ज्ञानालोकं कर्तुकामः संसारकान्तारप्रनष्टानामार्यमार्गं संदर्शयितुकामः महाक्लेशव्याधिप्रपीडितानां धर्मभैषज्यं प्रदातुकामो जातिजरामरणोपद्रुतानाममृतधातुं दातुकामः त्रिविधाग्निसंप्रदीप्तानां शमथसलिलेन प्रह्लादयितुकामः शोकपरिदेवदुःखदौर्मनस्योपायाससंतप्तानां महाश्वासं दातुकामो भवचारकावरुद्धानां ज्ञानप्रहाणं दातुकामो दृष्टिबन्धनबद्धानां प्रज्ञाशस्त्रमुपसंहर्तुकामः त्रैधातुकनगरावरुद्धानां मोक्षद्वारं दर्शयितुकामः त्रैधातुकनगरावरुद्धानां मुक्तिद्वारं दर्शयितुकामः अक्षेमदिगभिमुखानां क्षेमां दिशमुपदर्शयितुकामः क्लेशसंस्कारोपद्रुतानां महाश्वासं दातुकामो दुर्गतिप्रपातभयभीतानां हस्तालम्बं दातुकामः स्कन्धवधकप्रघातितानां निर्वाणनगरमुपदर्शयितुकामो धातूरगपरिवृतानां निःसरणमाख्यातुकामः आयतनशून्यग्रामसंनिश्रितानां प्रज्ञालोकेन निष्काशयितुकामः कुतीर्थप्रतिपन्नान् सम्यक्तीर्थमवतारयितुकामः अमित्रहस्तगतानां भूतकल्याणमित्राणि दर्शयितुकामो बालधर्मगोचराभिरतानामार्यधर्मेषु प्रतिष्ठापयितुकामः संसारपुराभिरतानुच्चाल्य सर्वज्ञतापुरं प्रवेशयितुकामः॥



स एष कुलपुत्राः सत्पुरुषः एवं सत्त्वपरित्राणाय अप्रतिप्रस्रब्धो बोधिचित्तोत्पादविशुद्धिं परिमार्गमाणोऽयमपरिखिन्नो महायानसमुदानयाय, अपरितृप्तः, सर्वधर्ममेघयानैः, नित्योद्युक्तः सर्वसंभारपरिपूरणाय, अनिक्षिप्तधुरः सर्वधर्ममुखपर्यवदापनाय, असंश्रितवीर्यः सर्वबोधिसत्त्वचरणतायै, अनिवर्तप्रयोगः सर्वप्रणिधानाभिनिर्हाराय, अवितृप्तः सर्वकल्याणमित्रदर्शनेन, अक्लान्तकायः सर्वकल्याणमित्रपर्युपासनेन, प्रदक्षिणग्राही सर्वकल्याणमित्राववादानुशासनीषु॥



दुर्लभाः कुलपुत्रास्ते सत्त्वाः सर्वलोके, येऽनुत्तरायां सम्यक्संबोधौ प्रणिदधति। अतस्ते दुर्लभतराः सत्त्वाः, येऽनुत्तरां सम्यक्संबोधिमभिसंप्रस्थिताः। ईदृशेन वीर्यारम्भप्रयोगेन बुद्धधर्मान् समुदानयन्ति। ईदृश्या तीव्रच्छन्दिकतया बोधिसत्त्वमार्गं पर्येषन्ते। ईदृश्या अर्थिकतया बोधिसत्त्वचर्यां परिशोधयन्ति। ईदृशेन श्रमेण कल्यानमित्राणि पर्युपासते। ईदृश्या दीप्तशिरश्चैलोपमतया कल्याणमित्रज्ञानं न विलोमयन्ति। ईदृश्या दृढाध्याशयप्रतिपत्त्या कल्याणमित्रानुशासनीषु प्रतिपद्यन्ते। ईदृश्या प्रदक्षिणग्राहितया सर्वबोध्यङ्गानि समार्जयन्ति। ईदृश्या सर्वलाभसत्कारश्लोकानर्थिकतया बोधिसत्त्वाध्याशयधातुमविकोपक्रियया ईदृश्या गृहभोगकामरतिसुखमातापितृज्ञातिसर्ववस्त्वनपेक्षपरित्यागतया बोधिसत्त्वमहायानान् पर्येषन्ते। ईदृश्या कायजीवितनिरपेक्षतया सर्वज्ञतामभिलषन्ते। न हि कुलपुत्रस्तामन्ये बोधिसत्त्वाः कल्पकोटीनियुतशतसहस्रैर्बोधिसत्त्वचर्याप्रणिधिपरिपूरिमधिगमिष्यन्ते बुद्धबोधौ वसन्तो भविष्यन्ति बुद्धक्षेत्रपरिशुद्धौ वा, सत्त्वपरिपाकविनये वा, धर्मधातुज्ञानप्रवेशे वा, पारमितासमुदागमे वा, चर्याजालप्रविस्तारे वा, प्रणिधानाभिनिर्हारपरिपूर्यां वा, मारकर्मसमतिक्रमणे वा, कल्याणमित्रारागणे वा, सर्वबोधिसत्त्वचर्यासमुदानयपरिशोधने वा, समन्तभद्रबोधिसत्त्वचर्याभिनिर्हारबलपरिनिष्पत्तौ वा समुदागमिष्यन्ति, यदेषोऽनेन एकजन्मप्रतिलम्भेन अधिगमिष्यति॥



अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वः सुधनस्य श्रेष्ठिदारकस्य भूतगुणवर्णकीर्तनं कृत्वा तदारम्बणं च प्राणिशतसहस्राणां बोध्यङ्गाशयं दृढीकृत्य सुधनं श्रेष्ठिदारकमेतदवोचत्-साधु साधु कुलपुत्र, येन ते सर्वलोकहितसुखाय सर्वसत्त्वधातुपरित्राणाय सर्वबुद्धधर्मप्रतिलम्भाय अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्। सुलब्धास्ते कुलपुत्र लाभाः, स्वागतश्च त्वं मनुष्यप्रतिलम्भः। सुजीवितं ते जीवलोकेषु। आराधितश्च ते बुद्धोत्पादः। सुदृष्टश्च ते मञ्जुश्रीः कल्याणमित्रम्। सुभाजनता च ते संतानस्य। स्वभिष्यन्दितश्च त्वं कुशलमूलैः। सूपस्तब्धश्च शुक्लधर्मैः। सुविशोधिता च ते उदाराधिमुक्तिकल्याणाध्याशयता। समन्वाहृतश्चासि सर्वबुद्धैः। सुपरिगृहीतश्च त्वं कुलपुत्र कल्याणमित्रैः, येन तेऽध्याशयेन अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्। तत्कस्य हेतोः? बोधिचित्तं हि कुलपुत्र बीजभूतं सर्वबुद्धधर्माणाम्। क्षेत्रभूतं सर्वजगच्छुक्लधर्मविरोहणतया, धरणिभूतं सर्वलोकप्रतिशरणतया, वारिभूतं सर्वक्लेशमलनिर्धावनतया, वायुभूतं सर्वलोकानिकेततया, अग्निभूतं सर्वदृष्ट्युपादानकक्षनिर्दहनतया, सूर्यभूतं सर्वसत्त्वभवनावभासनतया, चन्द्रभूतं शुक्लधर्ममण्डलपरिपूरणतया, प्रदीपभूतं धर्मालोककरणतया, चक्षुर्भूतं समविषमसंदर्शनतया, मार्गभूतं सर्वज्ञतानगरप्रवेशनतया, तीर्थभूतं कुतीर्थविवर्जनतया, यानभूतं सर्वबोधिसत्त्वाभिरोहणतया, द्वारभूतं सर्वबोधिसत्त्वचर्यामुखप्रवेशनतया, विमानभूतं समाधिभावनाध्याशनतया, उद्यानभूतं धर्मरत्यनुभावनतया, लयनभूतं सर्वजगत्परित्राणतया, प्रतिशरणभूतं सर्वलोकहितवहनतया, निश्रयभूतं सर्वबोधिसत्त्वचरणतया, पितृभूतं सर्वबोधिसत्त्वारक्षणतया, जनयित्रीभूतं सर्वसत्त्वानाम्, धात्रीभूतं सर्वतः परिपालनतया, राजभूतं सर्वशैक्षाशैक्षप्रत्येकबुद्धचित्ताभिभवनतया, अधिपतिभूतं सर्वप्रणिधानविशिष्टतया, महासागरभूतं सर्वगुणरत्नसमवसरणतया, महामेरुभूतं सर्वसत्त्वसमचित्ततया, चक्रवालभूतं सर्वलोकप्रतिशरणतया, हिमवद्भूतं ज्ञानौषधिविवर्धनतया, गन्धमादनभूतं सर्वगुणगन्धाश्रयतया, गगनभूतं महागुणविस्तीर्णतया, पद्मभूतं सर्वलोकधर्मानुपलिप्ततया, नागभूतं दान्ताजानेयतया, आजानेयाश्वभूतं सर्वखटुङ्कताविगततया, सारथिभूतं महायानप्रतिलयनपूर्वंगमनतया, भैषज्यभूतं क्लेशव्याधिचिकित्सनतया, पातालभूतं सर्वाकुशलधर्मपर्यवदानकरणतया, वज्रभूतं सर्वधर्मनिर्वेधनतया, गन्धकरण्डकभूतं गुणगन्धकरणतया, महापुष्पभूतं सर्वलोकाभिरुचितदर्शनतया, हिमचन्दनभूतं रागसंतापप्रह्लादनतया, कलापभूतं सर्वधर्मधातुस्फरणतया, सुदर्शनमहाभैषज्यराजभूतं सर्वक्लेशव्याधिनिर्घातनतया, विगमभैषज्यभूतं सर्वानुशयशल्यसमुद्धातनतया, इन्द्रभूतं सर्वेन्द्रियाधिपतेयतया, वैश्रवणभूतं सर्वदारिद्र्यसमुच्छेदनतया, श्रीभूतं सर्वगुणालंकारतया, विभूषणभूतं सर्वबोधिसत्त्वोपशोभनतया, कल्पोद्दाहाग्निभूतं सर्वदुष्कृतनिर्दहनतया, अनिर्वृत्तमूलमहाभैषज्यराजभूतं सर्वबुद्धधर्मविवर्धनतया, नागमणिभूतं सर्वक्लेशविषनिवर्तनतया, उदकप्रसादमणिरत्नभूतं सर्वकालुष्यापनयनतया, चिन्तामणिराजभूतं सर्वार्थसंसाधनतया, भद्रघटभूतं सर्वाभिप्रायपरिपूरणतया, कामंददवृक्षभूतं सर्वगुणालंकाराभिप्रवर्षणतया, हंसलक्षणवस्त्रभूतं सर्वसंसारदोषासंसृष्टतया, कर्पासतन्तुभूतं प्रकृतिप्रभास्वरतया, लाङ्गलभूतं सत्त्वाशयक्षेत्रविशोधनतया, नाराचभूतं सत्कायधर्मनिस्ताडनतया, बाणभूतं दुःखलक्ष्यनिर्वेधनतया, शक्तिभूतं क्लेशशत्रुविजयाय, वर्मभूतमयोनिशोमनस्कारसंछादनतया, खङ्गभूतं क्लेशशिरःप्रपातनतया, असिपत्रभूतं मानमददर्पसंनाहच्छेदनतया, क्षुरप्रभूतमनुशयधर्मनिर्वेधनतया, शूरध्वजभूतं मानध्वजप्रपातनतया, शस्त्रभूतमज्ञानतरुप्रपातनतया, कुठारभूतं दुःखवृक्षसंछेदनतया, प्रहरणभूतं सर्वोपद्रवपरित्राणतया, हस्तभूतं पारमिताशरीरपरिपालनतया, चरणभूतं सर्वगुणज्ञानप्रतिष्ठानतया, शलाकीभूतमविद्याकोशपटलपरिशोधनतया, आबृंहणभूतं सत्कायशल्यसमाबृंहणतया, एषणीभूतमनुशयकण्टककर्षणतया, मित्रभूतं संसारबन्धनपरिमोक्षणतया, द्रव्यभूतं सर्वानर्थप्रतिबाधनतया, शास्तृभूतं सर्वबोधिसत्त्वचर्यानिर्याणपथाभिज्ञतया, निधानभूतमक्षयपुण्यतया, उत्सभूतमक्षयज्ञानतया, आदर्शमण्डलभूतं सर्वधर्ममुखप्रतिभाससंदर्शनतया, पुण्डरीकभूतमनाविलतया, महानदीभूतं पारमितासंग्रहवस्तुस्रोतःप्रवहनतया, महाभूजगेन्द्रभूतं धर्ममेघाभिप्रवर्षणतया, जीवितेन्द्रियभूतं सर्वबोधिसत्त्वमहाकरुणासंधारणतया, अमृतभूतममरधातुसंप्रापणतया, समन्तपाशजालभूतं सर्वविनेयसत्त्वसंग्रहाकर्षणतया, गन्धकरण्डभूतं सर्वगुणगन्धाधारणतया, अगदभूतमत्यन्तारोग्यकरणतया, प्रतिविषभूतं कामरतिविषनिर्विषीकरणतया, मन्त्रधारणीभूतं सर्वायोनिशोविषपर्यादानतया, वातमण्डलीभूतं सर्वावरणनिवरणबृंहणतया, रत्नद्वीपभूतं सर्वबोधिपक्ष्यधर्मरत्नाकरतया, गोत्रभूतं सर्वशुक्लधर्मसंभावनतया, आकरभूतं सर्वगुणधर्मायद्वारतया, पत्तनभूतं सर्वबोधिसत्त्ववणिक्संसेवनतया, रसधातुभूतं सर्वकर्मक्लेशावरणसंशोधनतया, मधुकल्पभूतं सर्वज्ञतासंभारपरिपूरणतया, मार्गभूतं सर्वबोधिसत्त्वसर्वज्ञतापुरोपगमनतया, भाजनभूतं सर्वशुक्लधर्मसंधारणतया, वृष्टिभूतं क्लेशरजःप्रशमनतया, प्रतिष्ठानभूतं सर्वबोधिसत्त्वव्यवस्थाननिर्देशनतया, अयस्कान्तभूतं श्रावकविमुक्त्यसंश्लेषणतया, वैडूर्यभूतं स्वभावविमलतया, इन्द्रनीलभूतं सर्वश्रावकप्रत्येकबुद्धसर्वलोकज्ञानपर्यादानाभिभवनतया, यामभेरीभूतं क्लेशप्रसुप्तसत्त्वप्रबोधनतया, प्रसन्नोदकभूतमनाविलतया, जाम्बूनदसुवर्णालंकारभूतं सर्वसंस्कृतावचरकुशलमूलोपचयजिह्मीकरणतया, महाशैलेन्द्रराजभूतं सर्वत्रैलोक्याच्युततया, त्राणभूतं शरणगतापरित्यागितया, अर्थभूतमर्थप्रतिवहनतया, चित्तभूतं हृदयसंतुष्टिकरणतया, यज्ञोपकरणभूतं सर्वजगत्संतर्पणतया, बुद्धिभूतं सर्वजगच्चित्तज्येष्ठश्रेष्ठतया, निधानभूतं सर्वबुद्धधर्मोद्ग्रहणतया, उद्दानभूतं सर्वबोधिसत्त्वचर्याप्रणिधानसंग्रहणतया, पालकभूतं सर्वलोकानुपालनतया, आरक्षकभूतं सर्वपापविनिवर्तनतया, इन्द्रजालभूतं क्लेशासुराकर्षणतया, वरुणपाशभूतं विनेयाकर्षणतया, इन्द्राग्निभूतं सर्ववासनानुशयक्लेशनिर्दहनतया, चैत्यभूतं सदेवमानुषासुरस्य लोकस्य। इति हि कुलपुत्र बोधिसत्त्वश्चान्यैश्चाप्रमाणैर्गुणविशेषैः समन्वागतः। संक्षिप्तेन कुलपुत्र यावन्तः सर्वबुद्धधर्माः सर्वबुद्धगुणाश्च, तावन्तो बोधिचित्तगुणाश्च तावन्तो बोधिचित्तगुणानुशंसा अनुगन्तव्याः। तत्कस्य हेतोः? अतः प्रभवति सर्वबोधिसत्त्वचर्यामण्डलम्। अतो निर्यान्ति अतीतानागतप्रत्युत्पन्नाः सर्वतथागताः। तस्मात्तर्हि कुलपुत्र येन अनुत्तरायां समक्संबोधौ चित्तमुत्पादितम्, सोऽप्रमाणगुणसमुदितो भवति सर्वज्ञताचित्ताध्याशयसुसंगृहीतत्वात्॥
तद्यथापि नाम कुलपुत्र, अस्त्यभया नामौषधिः। तया पञ्च भयानि न भवन्ति। तद्यथा-अग्निना न दह्यते, विषस्य न आक्रमति, शस्त्रेण न क्षण्यते, उदकेन नोह्यते, धूमेन न म्रियते। एवमेव कुलपुत्र सर्वज्ञताचित्तौषधिपरिगृहीतो बोधिसत्त्वो रागाग्निना न दह्यते, विषयविषमस्य नाक्रमति, क्लेशशस्त्रेण न क्षण्यते, भवौघेन नोह्यते, संकल्पधूमेन न म्रियते। तद्यथा कुलपुत्र अस्त्यनिर्मुक्ता नामौषधिः। तया गृहीतया सर्वपरोपक्रमभयानि न भवन्ति। एवमेव बोधिचित्तज्ञानौषधिपरिगृहीतस्य बोधिसत्त्वस्य सर्वसंसारोपक्रमभयानि न भवन्ति। तद्यथा कुलपुत्र, अस्ति मघी नामौषधिः। तया गृहीतया गन्धेनैव सर्वाशीविषाः पलायन्ते। एवमेव बोधिचित्तगन्धेनैव सर्वक्लेशाशीविषाः पलायन्ते। तद्यथा कुलपुत्र अपराजितभैषज्यगृहीतः पुरुषोऽजयो भवति सर्वशत्रुमण्डलेन, एवमेव सर्वज्ञताचित्तापराजितभैषज्यगृहीतो बोधिसत्त्वो दुर्घर्षो भवति सर्वमारप्रत्यर्थिकमण्डलेन। तद्यथा कुलपुत्र अस्ति विगमो नाम भैषज्यम्। तेन सर्वशल्याः पतन्ति। एवमेव बोधिचित्तविगमभैषज्यपरिगृहीतस्य बोधिसत्त्वस्य सर्वरागदोषमोहदृष्टिशल्याः पतन्ति।



तद्यथा कुलपुत्र अस्ति सुदर्शनो नाम महाभैषज्यराजः। तद्गृहीतः सर्वव्याधीन्निर्घातयति। एवमेव बोधिचित्तसुदर्शनमहाभैषज्यराजगृहीतो बोधिसत्त्वः सर्वक्लेशाज्ञानव्याधीन्निर्घातयति। तद्यथा कुलपुत्र अस्ति संतानो नाम महाभैषज्यवृक्षः। तस्य सहनिपातिता त्वक् सर्वव्रणान् संरोहयति, यथोत्पाटितास्य त्वक् संभवति। एवमेव बोधिसत्त्वबीजसंभूतः सर्वज्ञतासंतानवृक्षः सहदर्शनेन श्राद्धानां कुलपुत्राणां कर्मक्लेशव्रणान् संरोहयति। स च सर्वज्ञतावृक्षः सर्वलोकेन अक्षतोऽनुपहतः। तद्यथा कुलपुत्र अस्त्यनिर्वृत्तमूला नाम महाभैषज्यजातिः, यस्याः प्रभावेन सर्वजम्बुद्वीपका वृक्षा सर्वा विवर्धन्ते, एवमेव बोधिचित्तनिर्वृत्तमूलमहाभैषज्यप्रभावेन सर्वशैक्षाशैक्षप्रत्येकबुद्धबोधिसत्त्वधर्मतरवो विवर्धन्ते। तद्यथा कुलपुत्र अस्ति रतिलम्भा नामौषधिः। सा यस्य शरीरगता भवति, तस्य कायचित्तकल्यता जायते। एवमेव सर्वज्ञताचित्तोत्पादरतिलम्भौषधिः सर्वबोधिसत्त्वानां कायचित्तकल्यतां संजनयति। तद्यथा कुलपुत्र अस्ति स्मृतिलब्धा नामौषधिः। तया चित्तस्मृतिर्विशुध्यति। एवमेव सर्वज्ञताचित्तोत्पादस्मृतिलम्भौषधिर्बोधिसत्त्वानां सर्वबुद्धधर्मानावरणस्मृतिविशुद्धये संवर्तते। तद्यथा कुलपुत्र अस्ति महापद्मा नामौषधिः। तया कल्पमायुःप्रमाणं भवति। एवमेव बोधिचित्तमहाधर्मौषधिप्रसितो बोधिसत्त्वोऽसंख्येयकल्पायुर्वशिताप्राप्तो भवति। तद्यथा कुलपुत्र अस्ति अदृश्या नामौषधिः। तया गृहीतया सर्वमनुष्यामनुष्यैर्न दृश्यते। एवमेव बोधिचित्तादृश्यमहौषधिगृहीतो व्यवकीर्णविहारी बोधिसत्त्वः सर्वमारविषये न दृश्यते। तद्यथा कुलपुत्र अस्ति सर्वमणिरत्नसमुच्चयं नाम महामणिरत्न‍राजं महासमुद्रे। तस्य अन्यलोकधात्वसंक्रान्तस्य अस्थानमनवकाशो यन्महासमुद्रस्य सर्वकल्पोद्दाहाग्निना शक्यं तालमात्रमपि परिशोषयितुम्। एवमेव सर्वज्ञताचित्तोत्पादसर्वमणिरत्नसमुच्चयमहामणिरत्न‍राजाध्याशयसंतानगतानां बोधिसत्त्वानामस्थानमनवकाशो यदेककुशलमपि सर्वज्ञतापरिणामितं प्रणश्येत् नेदं स्थानं विद्यते। उत्सृष्टे च पुनः सर्वज्ञताचित्तोत्पादे सर्वकुशलमूलान्युपशुष्यन्ति। तद्यथा अस्ति सर्वप्रभाससमुच्चयं नाम महामणिरत्नम्। तेन कण्ठावसक्तेन सर्वमणिरत्नालंकारा जिह्मीभवन्ति।



एवमेव बोधिसत्त्वसर्वप्रभाससमुच्चयमहामणिरत्नाशयालंकारावबद्धो बोधिसत्त्वः सर्वश्रावकप्रत्येकबुद्धचित्तोत्पादरत्नालंकारानभिभवति। तद्यथा कुलपुत्र अस्ति उदकप्रसादकं महामणिरत्नम्। तद्वारिप्रक्षिप्तं सर्वकर्दमकालुष्यं प्रसादयति। एवमेव बोधिचित्तोदकप्रसादकमहामणिरत्नं सर्वक्लेशकर्दमकालुष्यं प्रसादयति। तद्यथा कुलपुत्र उदकसंवासमणिरत्नावबद्धः कैवर्त उदके न म्रियते, एवमेव सर्वज्ञताचित्तोदकसंवासमणिरत्नगृहीतो बोधिसत्त्वः सर्वसंसारसागरे न म्रियते। तद्यथा कुलपुत्र अस्ति नागमणिवर्ममहारत्नम्। तेन सहगते कैवर्तादयो जलजीविनः सर्वनागभवनानि प्रविशन्तोऽधृष्या भवन्ति सर्वनागोरगैः। एवमेव सर्वज्ञताचित्तोत्पादज्ञाननागमणिधर्मधारी बोधिसत्त्वः सर्वकामधातुभवनानि प्रविशन्न क्षण्यते। तद्यथा कुलपुत्र शक्राभिलग्नमणिरत्नावबद्धः शक्रो देवराजो सर्वदेवगणानभिभवति, एवमेव सर्वज्ञताचित्तशक्राभिलग्नमहामणिरत्न‍राजप्रणिधिमकुटावबद्धो बोधिसत्त्वः सर्वत्रैधातुकमभिभवति। तद्यथा कुलपुत्र चिन्ताराजमहामणिरत्नगृहीतः पुरुषः सर्वदारिद्र्यान्न बिभेति, एवमेव सर्वज्ञताचित्तोत्पादचिन्ताराजमहामणिरत्नगृहीतो बोधिसत्त्वः सर्वोपकरणजीविकाभयेभ्यो न बिभेति। तद्यथा कुलपुत्र सूर्यकान्तमणिरत्नं सूर्यदर्शितमग्निं प्रमुञ्चति, एवमेव सर्वज्ञताचित्तोत्पादसूर्यकान्तमणिरत्नं प्रज्ञारत्न‍रश्मिसंसृष्टं ज्ञानाग्निं प्रमुञ्चति। तद्यथा कुलपुत्र चन्द्रकान्तं नाम महामणिरत्नं चन्द्राभया स्पृष्टमुदकधारां प्रमुञ्चति, एवमेव बोधिचित्तोत्पादचन्द्रकान्तमहामणिरत्नं कुशलमूलपरिणामनाचन्द्रप्रभास्पृष्टं सर्वकुशलमूलप्रणिधितोयधाराः प्रमुञ्चति। तद्यथा कुलपुत्र चिन्ताराजमणिमकुटावबद्धानां महानागराजानां नास्ति परोपक्रमभयम्, एवमेव बोधिचित्तमहाकरुणाचिन्ताराजमणिमकुटावबद्धानां नास्ति दुर्गत्यपायोपसंक्रमभयम्।



तद्यथापि नाम कुलपुत्र जगद्व्यूहगर्भं नाम महामणिरत्नं सर्वसत्त्वाभिप्रायपरिपूरणतया न कदाचित्क्षयमुपैति, एवमेव बोधिसत्त्वचित्तोत्पादसर्वजगद्व्यूहगर्भमहामणिरत्नं सर्वसत्त्वाभिप्रायबोधिप्रणिधिपरिपूरणतया न कदाचित्क्षयमुपैति। तद्यथा कुलपुत्र राज्ञश्चक्रवर्तिनो महामणिरत्नः स तमोन्धकारविधमं गच्छति, अन्तःपुरमध्यगतं च प्रभासयति, एवमेव सर्वज्ञताचित्तोत्पादचक्रवर्तिमहामणिरत्नं सर्वमविद्यान्धकारविधमं सत्त्वगतिषु गच्छति, कामधातुस्थितं च महाज्ञानालोकमवमुञ्चति। तद्यथा कुलपुत्र ये इन्द्रनीलमहामणिरत्नाभया स्पृश्यन्ते, सर्वे ते इन्द्रनीलमहामणिरत्नवर्णा भवन्ति, एवमेव सर्वज्ञताचित्तोत्पादेन्द्रनीलमहामणिरत्नं येषु विचार्यते प्रेष्यते, यानि च कुशलमूलानि सर्वज्ञताचित्तोत्पादेन परिणम्यन्ते, तानि सर्वाणि सर्वज्ञतामहामणिरत्नवर्णानि भवन्ति। तद्यथा कुलपुत्र वैडूर्यमणिरत्नं वर्षशतसहस्रमपि अमेध्यमध्यगतं तिष्ठत् सर्वदौर्गन्ध्येन सार्धं न संवसति, एवमेव सर्वज्ञताचित्तोत्पादात्यन्तविमलविशुद्धप्रभमणिरत्नं सर्वपृथग्जनशैक्षाशैक्षप्रत्येकबुद्धगुणरत्नाकरानभिभवति। तद्यथा कुलपुत्र एकमाग्नेयं नाम महामणिरत्नं सर्वतमोन्धकारं विधमति, एवमेव एकसर्वज्ञताचित्तोत्पादाग्नेयमहामणिरत्नं विपश्यनासंप्रयुक्तं योनिशो मनसिकारतः सर्वमज्ञानतमोन्धकारं विधमति। तद्यथा कुलपुत्र महासमुद्रे पोतारोपितमनर्ध्येयमणिरत्नं वणिग्घस्तगतं नगरप्रतिष्ठानि काचमणिशतसहस्राण्यभिभवति वर्णतश्च आयतश्च, एवमेव संसारमहासमुद्रगतमपि सर्वज्ञताचित्तोत्पादानर्घमहामणिरत्नं प्रणिधिपोतारोपितं प्रथमचित्तोत्पादिकबोधिसत्त्वाध्याशयसंतानगतमप्राप्तमेव सर्वज्ञतानगरं विमुक्तिनगरं प्रविष्टान् सर्वश्रावकप्रत्येकबुद्धकाचमणिकानभिभवति। तद्यथास्ति वशिराजं नाम मणिरत्नं यज्जम्बुद्वीपगतमेव चत्वारिंशद्योजनसहस्रस्थितानां चन्द्रसूर्यमण्डलानां भवनविमानप्रतिभासव्यूहान् संदर्शयति, एवमेव सर्वगुणपरिशोधितं सर्वज्ञताचित्तोत्पादवशिराजमणिरत्नं संसारगतमेव धर्मधातुगगनगोचराणां तथागतमहाज्ञानसूर्यचन्द्रमसां सर्वबुद्धविषयमण्डलप्रतिभासव्यूहान् संदर्शयति।



तद्यथा कुलपुत्र यावच्चन्द्रसूर्यमण्डलानि प्रभयावभासयन्ति, अत्रान्तरे ये केचिद्धनधान्यरत्नजातरूपरजतपुष्पगन्धमाल्यवस्त्रपरिभोगाः, सर्वे ते वशिराजमणिरत्नस्य मूल्यं न क्षमन्ते, एवमेव यावत् त्र्यध्वसु सर्वज्ञज्ञानं धर्मधातुविषयमवभासयति, अत्रान्तरे यानि कानिचिद्देवमनुष्यसर्वश्रावकप्रत्येकबुद्धकुशलानि सास्रवाण्यनास्रवाणि वा, सर्वाणि तानि बोधिचित्तोत्पादवशिराजमहामणिरत्नस्य मूल्यं न क्षमन्ते। तद्यथा कुलपुत्र अस्ति सागरव्यूहगर्भं नाम महामणिरत्नं यत्सर्वमहासागरव्यूहान् संदर्शयति, एवमेव बोधिचित्तोत्पादसागरव्यूहगर्भमहामणिरत्नं सर्वज्ञज्ञानविषयसागरव्यूहं संदर्शयति। तद्यथा कुलपुत्र चिन्ताराजमणिरत्नं स्थापयित्वा नास्ति किंचित्प्रतिविशिष्टतरं दिव्येन जाम्बूनदसुवर्णेन, एवमेव सर्वज्ञज्ञानचिन्ताराजमहामणिरत्नं स्थापयित्वा नास्ति किंचित्प्रतिविशिष्टतरं बोधिचित्तोत्पाददिव्यजाम्बूनदसुवर्णेन। तद्यथा कुलपुत्र नागमण्डलसिद्ध आहितुण्डिकः सर्वनागोरगान् वशे स्थापयति, एवमेव सर्वज्ञताचित्तोत्पादप्रतिपत्तिनागमण्डलसिद्धो बोधिसत्त्वाहितुण्डिकः सर्वक्लेशनागोरगान् वशे स्थापयति। तद्यथा कुलपुत्र प्रहरणगृहीतः शूरो दुर्घर्षो भवति शत्रुमण्डलेन, एवमेव सर्वज्ञताचित्तोत्पादप्रहरणगृहीतो बोधिसत्त्वो दुर्घर्षो भवति सर्वक्लेशशत्रुमण्डलेन।



तद्यथा कुलपुत्र दिव्योरगसारचन्दनस्य एकचूर्णधारणं साहस्रं लोकधातुं गन्धेन स्फरति, कर्षप्रमाणं सर्वत्रिसाहस्रे लोकधातुरत्नपरिपूर्णेन मूल्यं न क्षमते, एवमेव सर्वज्ञताचित्तोत्पाददिव्योरगसारचन्दनस्यैकाध्याशयधातुः सर्वधर्मधातुं गुणगन्धेन स्फरति, सर्वशैक्षाशैक्षप्रत्येकबुद्धचित्तानि चाभिभवति। तद्यथा कुलपुत्र हिमवच्चन्दनं नाम महाचन्दनरत्नं सर्वदाहं प्रशमयति, सर्वं चाश्रयं शीतलीकरोति, एवमेव सर्वज्ञताचित्तोत्पादहिमवच्चन्दनरत्नं सर्वक्लेशसंकल्परागदोषमोहदाहं प्रशमयति, ज्ञानाश्रयं च प्रह्लादयति। तद्यथा कुलपुत्र ये सुमेरुं पर्वतराजमुपसंक्रामन्ति, सर्वे ते एकवर्णा भवन्ति यदुत सुवर्णवर्णाः, एवमेव ये सर्वज्ञताचित्तोत्पादसमान् बोधिसत्त्वानुपसंक्रामन्ति, सर्वे ते एकवर्णा भवन्ति यदुत सर्वज्ञतावर्णाः। तद्यथा कुलपुत्र यः पारियात्रकस्य कोविदारस्य च्छविगन्धः प्रवाति, स सर्वजम्बुद्वीपे सर्ववार्षिकाजातिसुमनादीनां पुष्पजातीनां न संविद्यते, एवमेव यो बोधिसत्त्वस्य सर्वज्ञताचित्तोत्पादबीजप्रणिधिवृक्षगुणज्ञानत्वचो गन्धः प्रवाति, स सर्वप्रत्यवरकुशलमूलानां सर्वश्रावकप्रत्येकबुद्धवार्षिकाजातिसुमनानामनास्रवशीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनानां न संविद्यते। तद्यथा कुलपुत्र पारियात्रकस्य कोविदारस्य शुङ्गीभूतस्य वेदितव्यं बहूनां पुष्पशतसहस्राणामायद्वारं भविष्यतीति, एवमेव सर्वज्ञताचित्तोत्पादपारियात्रकवृक्षस्य कुशलमूलशुङ्गीभूतस्य वेदितव्यमसंख्येयानां देवमनुष्याणां सास्रवनास्रवबोधिकुसुमायद्वारं भविष्यतीति। तद्यथा कुलपुत्र यः एकदिवसपरिभावितस्य पारियात्रकुसुमैर्वस्त्रस्य तैलस्य वा गन्धः प्रवाति, स दिवसतसहस्रपरिभावितस्य चम्पकवार्षिकासुमनाभिवस्त्रस्य वा तैलस्य वा न संविद्यते।



एवमेव य एकजन्मपरिभावितस्य सर्वज्ञताचित्तसंतानस्य बोधिसत्त्वगुणज्ञानगन्धो दशसु दिक्षु सर्वबुद्धपादमूलेषु प्रवाति, स कल्पशतसहस्रपरिभावितानां सर्वश्रावकप्रत्येकबुद्धचित्तानामनास्रवकुशलधर्मज्ञानगन्धो न संविद्यते। तद्यथा कुलपुत्र अस्ति नालीकेरी नाम वृक्षजातिः उद्यतके समुद्रे संभूता। सा मूलत उपादाय यावत्पुष्पफलपर्यन्तात्सर्वकालं सर्वसत्त्वानां न कदाचिन्नोपजीव्या भवति। एवमेव महाकरुणाप्रणिधिमूलसंजातो बोधिसत्त्वस्य प्रथमसर्वज्ञताचित्तोत्पादो यावत्सद्धर्मस्थितिपर्यवसानात् सदेवकस्य लोकस्य न कदाचिन्नोपजीव्यो भवति। तद्यथा कुलपुत्र अस्ति हाटकप्रभासं नाम रसजातम्। तस्य एकपलं लोहपलसहस्रं स्वर्णीकरोति। न च तद्रसपलं शक्यं तेन लोहपलसहस्रेण पर्यादातुं न लोहीकर्तुम्। एवमेव एकसर्वज्ञताचित्तोत्पादरसधातुः कुशलमूलपरिणामनाज्ञानसंगृहीतः सर्वकर्मक्लेशावरणलोहानि पर्यादाय सर्वधर्मान् सर्वज्ञतावर्णान् करोति। न च सर्वज्ञताचित्तोत्पादरसधातुः शक्यं सर्वकर्मक्लेशलोहैः संक्लेशयितुं पर्यादातुं वा। तद्यथा कुलपुत्र कियत्परीत्तोऽप्यग्निर्यावदुपादानं लभते तावतीं ज्वालां प्रमुञ्चति, एवमेव कियत्परीत्तोऽपि सर्वज्ञताचित्तोत्पादाग्निरारम्बणव्यवकीर्णतया यावत् संभारोपादानं लभते, तावद्विवर्धते ज्ञानार्चिःप्रमोचनतया। तद्यथा कुलपुत्र एकस्मात्प्रदीपादनेकानि प्रदीपकोटीशतसहस्राण्यादीप्यन्ते, अक्षय एव प्रदीपो भवत्यपर्यादत्तः सर्वप्रदीपनिर्याणैः एवमेव एकस्मात्सर्वज्ञताचित्तोत्पादप्रदीपादतीतानागतप्रत्युत्पन्नानां सर्वतथागतानां सर्वज्ञताचित्तोत्पादप्रदीपानां दीप्यमानानामक्षय एव स एकः सर्वज्ञताचित्तोत्पादप्रदीपोऽवभाति अपर्यादत्तः सर्वज्ञताचित्तोत्पादप्रदीपनिर्याणैः। तद्यथा कुलपुत्र एकः प्रदीपो यादृशे गृहे वातायने वा प्रवेश्यते, सहप्रवेशितो वर्षसहस्रसंचितमपि तमोन्धकारं विधमति अवभासं च करोति, एवमेव एकसर्वज्ञताचित्तोत्पादप्रदीपो यादृशे सत्त्वाशयगृहगहनेऽविद्यातमोन्धकारानुगते प्रवेश्यते, स सहप्रवेशितोऽनभिलाप्यकल्पशतसहस्रसंचितमपि क्लेशावरणतमोन्धकारं विधमति, ज्ञानालोकं च संजनयति। तद्यथा कुलपुत्र यादृशी प्रदीपवर्तिर्भवति तादृशं प्रदीपोऽवभासं करोति, यावांश्च स्नेहसंचयो भवति तावद्दीप्यते।



एवमेव यस्य बोधिसत्त्वस्य यादृशी प्रणिधानवर्तिविशेषता भवति, तादृशं सर्वज्ञताचित्तोत्पादप्रदीपो धर्मधात्ववभासं करोति। यावच्च महाकरुणाचर्यास्नेहसंचयो भवति, तावत्सत्त्वविनयक्षेत्रविशुद्धिबुद्धकार्यप्रभावना भवति। तद्यथा कुलपुत्र दिव्यजाम्बूनदसुवर्णालंकारो वशवर्तिनो देवराजस्य मूर्ध्नावबद्धोऽसंहार्यो भवति सर्वकामावचरैर्देवपुत्रैः, एवमेव प्रतिपत्तिगुणप्रतिष्ठितः सर्वज्ञताचित्तोत्पाददिव्यजाम्बूनदसुवर्णालंकारोऽविनिवर्तनीयानां बोधिसत्त्वानां महाप्रणिधानमूर्ध्नावबद्धोऽसंहार्यो भवति सर्वबालपृथग्जनशैक्षाशैक्षप्रत्येकबुद्धैः। तद्यथा कुलपुत्र सिंहस्य मृगराजस्य नादेन अचिरजाताः सिंहपोताः पुष्यन्ति, सर्वमृगाश्च विलयं गच्छन्ति, एवमेव तथागतपुरुषसिंहस्य बोधिचित्तसंवर्णनसर्वज्ञतानादेन प्रयुक्तेन सर्वादिकर्मिकबोधिसत्त्वसिंहपोताः पुष्यन्ति बुद्धधर्मैः, सर्वोपलम्भसंनिश्रिताश्च सत्त्वा विलयं गच्छन्ति। तद्यथा कुलपुत्र सिंहस्नायुकृतवीणातन्त्रीशब्देन सर्ववीणातन्त्र्यः संछिद्यन्ते, एवमेव पारमिताशरीरतथागतसिंहबोधिचित्तोत्पादस्नायुतन्त्रीगुणवर्णशब्देन सर्वकामगुणरतिवीणातन्त्र्यः संछिद्यन्ते, सर्वश्रावकप्रत्येकबुद्धचर्यागुणकथाश्च संनिरूध्यन्ते। तद्यथा कुलपुत्र गोमहिष्यजाक्षीरपूर्णमहासमुद्रे एकसिंहदुग्धबिन्दुप्रक्षेपेण सर्वक्षीराण्यपक्रामन्ति, न संधयति, एवमेव कल्पशतसहस्रसंचितः कर्मक्लेशक्षीरमहासमुद्रः तथागतमहापुरुषसिंहसर्वज्ञताचित्तोत्पाददुग्धैकबिन्दुप्रक्षेपेण सर्वोऽनवशेषः क्षयं गच्छन्ति, सर्वश्रावकप्रत्येकबुद्धविमुक्तयश्च न संतिष्ठन्ते, न संवसति। तद्यथा कुलपुत्र अण्डकोशादनिर्गतस्य कलविङ्कपोतस्य यो नादबलविशेषः सर्वबलवेगसंपन्नानां हिमवन्निवासिनां सर्वपक्षिगणानां न संविद्यते, एवमेव यः संसाराण्डकोशगतस्यादिकर्मिकबोधिसत्त्वकलविङ्कपोतस्य महाकरुणाबोधिचित्तनादबलविशेषः सर्वश्रावकप्रत्येकबुद्धानां न संविद्यते। तद्यथा कुलपुत्र योऽचिरजातस्य महागरुडेन्द्रपोतस्य पक्षवातबलपराक्रमो नयनपरिशुद्धिगुणश्च, स सर्वशरीरप्रवृद्धानां तदन्येषां पक्षिणां न संविद्यते, एवमेव यः प्रथमचित्तोत्पादिकस्य तथागतमहागरुडेन्द्रस्य कुलगोत्रसंभवस्य बोधिसत्त्वमहागरुडेन्द्रपोतस्य सर्वज्ञताचित्तोत्पादबलपराक्रमो महाकरुणाध्याशयनयनपरिशुद्धिगुणश्च, स कल्पशतसहस्रनिर्यातानां सर्वश्रावकप्रत्येकबुद्धानां न संविद्यते। तद्यथा कुलपुत्र महापुरुषहस्तगतो नाराचः कियद्दृढमपि वर्म निर्भिनत्ति, एवमेव दृढवीर्यबोधिसत्त्वहस्तगतः सर्वज्ञताचित्तोत्पादनाराचः सर्वदृष्ट्यनुशयवर्माणि निर्भिनत्ति। तद्यथा कुलपुत्र क्रोधाविष्टस्य महानग्नस्य यावल्ललाटे पिटकास्तिष्ठन्ति, तावदघृष्यो भवति सर्वजम्बुद्वीपकैर्मनुष्यैः, एवमेव महामैत्रीमहाकरूणाविष्टस्य बोधिसत्त्वमहानग्नस्य यावदध्याशयवदने सर्वज्ञताचित्तोत्पादपिटका न विगच्छन्ति, तावदघृष्यो भवति सर्वलोकधातुपर्यापन्नैः सर्वमारैः सर्वकर्मभिश्च।



तद्यथा कुलपुत्र यः शिक्षितस्येष्वस्त्रान्तेवासिन इष्वस्त्रज्ञाने कृताभ्यासस्य शिल्पस्थानयोगबलविशेषः, स सर्वशिक्षितस्य इष्वस्त्राचार्यस्य न संविद्यते, एवमेव यः सर्वादिकर्मिकस्य सर्वज्ञताभूम्या कृताभ्यासस्य बोधिसत्त्वाजानेयस्य प्रणिधिज्ञानाधिमुक्तिचर्याबलविशेषः, सोऽनुत्पादितबोधिचित्तानां सर्वशैक्षाशैक्षप्रत्येकबुद्धानां च न संविद्यते। तद्यथा कुलपुत्र इष्वस्त्रं शिक्षमाणस्य प्रथमः पदबन्धयोग्याभ्यासः पूर्वंगमो भवति सर्वेष्वस्त्रज्ञानस्य, एवमेव बोधिसत्त्वस्य सर्वज्ञभूमौ शिक्षमाणस्य प्रथमं सर्वज्ञताचित्ताध्याशयसंप्रस्थानं पूर्वगमं भवति सर्वबुद्धधर्माधिगमाय। तद्यथा कुलपुत्र मायाकारस्य मायागतविषयं संदर्शयमानस्य प्रथममन्त्रपदसिद्ध्यभिनिर्हारमेव मनसिकुर्वाणस्य सर्वक्रियासिद्धिर्भवति, एवमेव बोधिसत्त्वस्य सर्वबुद्धबोधिसत्त्वविषयविकुर्वाः संदर्शयतः प्रथमचित्तोत्पादप्रणिधानाभिनिर्हार एवोत्थापको भवति सर्वबुद्धबोधिसत्त्वविषयस्य। तद्यथा कुलपुत्र सर्वमायाविद्यामन्त्राश्चारूपिणोऽनिदर्शनाः सर्वमायानिर्माणरूपगतानि संदर्शयन्ति चित्तोत्पादेन, एवमेव सर्वज्ञताचित्तोत्पादश्चारूप्यानिदर्शनः सर्वधर्मधातुं विठपयति सर्वगुणालंकारव्यूहैश्चित्तोत्पादवशितामात्रेण। तद्यथा कुलपुत्र मार्जारस्य सहदृष्टविचारमात्रेण सर्वमूषिका विलयमापद्यन्ते, एवमेव बोधिसत्त्वस्य सर्वज्ञताचित्तोत्पादाध्याशयप्रयोगविचारमात्रेण सर्वकर्मक्लेशा विलयमापद्यन्ते। तद्यथा कुलपुत्र जाम्बूनदसुवर्णालंकार आबद्धः सर्वाभरणानि जिह्मीकरोति, एवमेव बोधिचित्तजाम्बूनदसुवर्णालंकाराध्याशयावबद्धो बोधिसत्त्वः सर्वश्रावकप्रत्येकबुद्धगुणालंकारानभिभवति जिह्मीकरोति। तद्यथा कुलपुत्र अयस्कान्तराजस्य कियत्परीत्तोऽपि धातुः सर्वदृढमायसं बन्धनं स्फोटयति, एवमेव कियत्परीत्तोऽप्यध्याशयोत्पादितः सर्वज्ञताचित्तोत्पादधातुः सर्वदृष्टिकृताविद्यातृष्णाबन्धनानि स्फोटयति।



तद्यथा कुलपुत्र यत्र यत्रैव अयस्कान्तधातुर्विचार्यते, तत्र तत्रैव सर्वाणीतराण्ययांसि पलायन्ते, न तिष्ठन्ते न संदधति। एवमेव यत्र यत्रैव सर्वज्ञताचित्तोत्पादधातुर्विचार्यते कार्मेषु वा क्लेशेषु वा श्रावकप्रत्येकबुद्धविमुक्तौ वा, ततस्तत एव कर्मक्लेशाः सर्वश्रावकप्रत्येकबुद्धविमुक्तयश्च पलायन्ते न तिष्ठन्ति, न संदधति। तद्यथा कुलपुत्र मकरविद्धाश्रितः कैवर्तः सर्वोदकप्राणिभयविनिर्वृतो भवत्यनुपघातशरीरो मकरमुखगतोऽपि, एवमेव अध्याशयबोधिचित्तविद्धाश्रितो बोधिसत्त्वः सर्वसंसारकर्मक्लेशभयविनिवृत्तो भवति सर्वश्रावकप्रत्येकबुद्धाभिसमयान्तरप्राप्त्यनुघात्यो भूतकोटीसाक्षात्क्रियाप्रणाशपथापतनतया। तद्यथा कुलपुत्र अमृतपानपीतः पुरुषः सर्वपरोपक्रमैर्न म्रियते, एवमेव सर्वज्ञताचित्तोत्पादामृतपानपीतो बोधिसत्त्वः सर्वश्रावकभूमिषु न म्रियते, न चोपरमति बोधिसत्त्वमहाकरुणाप्रणिधानात्। तद्यथा कुलपुत्र अञ्जनसिद्धः पुरुषः सर्वमनुष्यभवनेषु चानुविचरति न च सर्वमनुष्यैर्दृश्यते, एवमेव बोधिचित्तोत्पादप्रज्ञाप्रणिध्युपस्तब्धो बोधिसत्त्वः सर्वमारविषयेषु चानुविचरति, सर्वमारैश्च न दृश्यते। तद्यथा कुलपुत्र महाराजसंनिश्रितः पुरुषः सर्वप्राकृतजनात् न बिभेति, एवमेव सर्वज्ञताचित्तोत्पादमहाधर्मराजसंनिश्रितो बोधिसत्त्वः सर्वावरणनिवरणदुर्गतिभ्यो न बिभेति। तद्यथा कुलपुत्र पर्वतगृहेषु सर्वभूम्यन्तर्गतपानीयभयान्नास्त्यग्निभयम्, एवमेव बोधिचित्तकुशलमूलाभिष्यन्दितसंतानस्य बोधिसत्त्वस्य नास्ति श्रावकप्रत्येकबुद्धविमुक्तिज्ञानाग्निभयम्। तद्यथा कुलपुत्र शूरसंनिश्रितः पुरुषः सर्वशत्रुभ्यो न बिभेति, एवमेव सर्वज्ञताचित्तोत्पादशूरसंनिश्रितो बोधिसत्त्वः सर्वदुश्चरितशत्रुभ्यो न बिभेति।



तद्यथा कुलपुत्र वज्रप्रहरणगृहीतः शक्रो देवेन्द्रः सर्वासुरगणं प्रमर्दयति, एवमेव सर्वज्ञताचित्तोत्पाददृढाध्याशयवज्रप्रहरणगृहीतो बोधिसत्त्वः सर्वमारपरप्रवाद्यसुरगणं प्रमर्दयति। तद्यथा कुलपुत्र रसायनोपयुक्तः पुरुषो दीर्घमायुः पालयति न च दुर्बलीभवति, एवमेव सर्वज्ञताचित्तोत्पादरसायनसंभारप्रयुक्तो बोधिसत्त्वोऽसंख्येयान् कल्पान् संसारे संसरन्न परिखिद्यते, न च संसारदोषैर्लिप्यते। तद्यथा कुलपुत्र सर्वभैषज्यरससंप्रयोगेषु पानीयं पूर्वंगमं न क्वचिद्दुष्यति, एवमेव सर्वबोधिसत्त्वचर्याप्रणिधानसंभारयोगेषु सर्वज्ञताचित्तोत्पादः पूर्वंगमो भवति, न क्वचिद्दुष्यति। तद्यथा कुलपुत्र पुरुषस्य सर्वकार्येषु जीवितेन्द्रियं पूर्वंगमम्, एवमेव बोधिसत्त्वस्य सर्वबुद्धधर्मादानेषु बोधिचित्तं पूर्वंगमम्। तद्यथा कुलपुत्र जीवितेन्द्रियविमुक्तः पुरुषो निरुपजीव्यो भवति मातापितृज्ञातिवर्गस्य सर्वकर्मासमर्थत्वात्, एवमेव सर्वज्ञताचित्तोत्पादवियुक्तो बोधिसत्त्वः सर्वज्ञतागुणनिरुपजीव्यो भवति सर्वसत्त्वानां बुद्धज्ञानप्रतिलम्भासमर्थत्वात्। तद्यथा कुलपुत्र महासमुद्रः सर्वविषैरदूष्यो भवति, एवमेव सर्वज्ञताचित्तोत्पादमहासमुद्रोऽदूष्यो भवति सर्वकर्मक्लेशश्रावकप्रत्येकबुद्धचित्तोत्पादविषैः। तद्यथा कुलपुत्र सूर्यमण्डलमपर्यन्तः सर्वतारावभासैः, एवमेव सर्वज्ञताचित्तोत्पादसूर्यमण्डलमपर्यापन्नं भवति, सर्वश्रावकप्रत्येकबुद्धतारानास्रवगुणानभिभवति। तद्यथा कुलपुत्र अचिरजातो राजपुत्रो मूर्धप्राप्तान् सर्ववृद्धामात्यानभिभवति कुलाभिजात्याधिपत्येन, एवमेव अचिरोत्पादितबोधिचित्तस्तथागतधर्मराजकुलप्रत्याजात आदिकर्मिको बोधिसत्त्वश्चिरचरितब्रह्मचर्यान् वृद्धश्रावकानभिभवति बोधिचित्तमहाकरुणाधिपत्येन। तद्यथा कुलपुत्र कियद्वृद्धेनाप्यमात्येन कियद्बालस्यापि राजकुमारस्य प्रणिपतितव्यम्, न च राजपुत्रेण वृद्धामात्यस्य गौरवं न करणीयम्, एवमेव कियद्वृद्धैरपि चिरचरितब्रह्मचर्यैः श्रावकप्रत्येकबुद्धैरादिकर्मिकस्य बोधिसत्त्वस्य अवनमितव्यम्, न च बोधिसत्त्वेन प्रत्येकबुद्धेषु गौरवं न करणीयम्।



तद्यथा कुलपुत्र सर्वापरिभूतो राजपुत्रोऽविरहितो राजलक्षणेन सर्वाग्रताप्राप्तैरपि राजामात्यैर्न समो जात्यध्यक्षत्वात्, एवमेव कियत्कर्मक्लेशोपादानपरिभूत आदिकर्मिको बोधिसत्त्वः सर्वज्ञताचित्तोत्पादलक्षणेनाविरहितः सर्वाग्रप्राप्तैरपि सर्वश्रावकप्रत्येकबुद्धैर्न समो बुद्धकुलाधिपत्याध्यक्षत्वात्। तद्यथा कुलपुत्र परिशुद्धमणिरत्नं चक्षुस्तिमिरदोषेणापरिशुद्धमित्याभासमागच्छति, एवमेव प्रकृतिपरिशुद्धं सर्वज्ञताचित्तोत्पादरत्नं सत्त्वा अश्रद्धानयनाज्ञानतिमिरदोषेणापरिशुद्धमिति संजानन्ति। तद्यथा कुलपुत्र सर्वविद्यौषधिसंग्रहसंप्रयुक्तो भैषज्यविग्रहो दर्शनस्पर्शनसंवासनैः सत्त्वानां व्याधीन् शमयति, एवमेव सर्वकुशलमूलोपचयप्रज्ञोपायविद्यौषधिसंगृहीतं बोधिचित्तसंप्रयुक्तं बोधिसत्त्वप्रणिधिज्ञानशरीरं श्रवणदर्शनसंवासनानुस्मृतिप्रयोगेन सत्त्वानां क्लेशव्याधीन् प्रशमति। तद्यथा कुलपुत्र हंसलक्षणं वस्त्रं सर्वकर्दमदोषैर्न क्लिश्यते, एवमेव बोधिचित्तोत्पादहंसलक्षणवस्त्रं संसारक्लेशकर्दमदोषैर्न क्लिश्यते। तद्यथा कुलपुत्र मूर्धशल्यसंगृहीतो दारुविग्रहो न विकीर्यते, सर्वक्रियाश्चानुभवति, एवमेव बोधिचित्तोत्पादप्रणिधिमूर्धशल्यसंगृहीतं सर्वज्ञताप्रणिधिज्ञानशरीरं बोधिसत्त्वक्रियासमर्थं भवति, न च विकीर्यते सर्वज्ञताप्रणिधिशरीरत्वात्। तद्यथा कुलपुत्र शल्यविमुक्तं यन्त्रमकार्यसमर्थं भवति तान्येव दारुप्रत्यङ्गानि, एवमेव सर्वज्ञताचित्तोत्पादाध्याशयवियुक्तो बोधिसत्त्वो बुद्धधर्मपरिनिष्पादनासमर्थो भवति, एवं च ते बोध्यङ्गसंभाराः। तद्यथा कुलपुत्र राज्ञश्चक्रवर्तिनो हस्तिगर्भं नाम कालागरुरत्नम्।



तेन सह धूपितमात्रः सर्वराज्ञश्चतुरङ्गबलकायो विहायसे तिष्ठति। एवमेव सर्वज्ञताचित्तोत्पादागरुधूपितानि बोधिसत्त्वस्य कुशलमूलानि सर्वत्रैधातुकव्यतिवृत्तानि भवन्ति असंस्कृतसर्वतथागतज्ञानगगनगोचरपर्यवसानानि। तद्यथा कुलपुत्र वज्रं नेतराद्रत्नाकरादुत्पद्यतेऽन्यत्र वज्राकरात्सुवर्णाकराद्वा, एवमेव वज्रोपमः सर्वज्ञताचित्तोत्पादः। स नेतरात्सत्त्वाशयकुशलमूलरत्नाकरादुत्पद्यतेऽन्यत्र सत्त्वपरित्राणमहाकरुणावज्राकरात् सर्वज्ञज्ञानाध्यालम्बनमहासुवर्णाकराद्वा। तद्यथा कुलपुत्र अस्त्यमूला नाम वृक्षजातिः। तस्य मूलप्रतिष्ठानं नोपलभ्यते सर्वशाखापत्रपलाशसंकुसुमिता च वृक्षेषु जालीभूता च संदृश्यते, एवमेव सर्वज्ञताचित्तोत्पादस्य मूलप्रतिष्ठानं नोपलभ्यते, सर्वपुण्यज्ञानाभिज्ञासंकुसुमितश्चस सर्वलोकोपपत्तिषु महाप्रणिधानजालीभूतः संदृश्यते। तद्यथा कुलपुत्र वज्रं नेतरे भाजने तिष्ठच्छोभते, नापि च्छिद्रशुषिरभाजनेन शक्यं संधारयितुमन्यत्र अच्छिद्रभाजऽनेन, एवमेव सर्वज्ञताचित्तोत्पादवज्रं न हीनाधिमुक्तिकेषु सत्त्वभाजनेषु मत्सरिषु दुःशीलेषु व्यापन्नचित्तेषु कुसीदेषु मुषितस्मृतिषु दुःप्रज्ञेषु शोभते, नाध्याशयविपन्नचलाचलबुद्धिसर्वभाजनेन शक्यं संधारयितुमन्यत्र बोधिसत्त्वाध्याशयरत्नभाजनेन। तद्यथा कुलपुत्र वज्रं सर्वरत्नानि निर्विध्याति, एवमेव सर्वज्ञताचित्तोत्पादवज्रं सर्वधर्मरत्नानि निर्विध्यति। तद्यथा वज्रं सर्वशैलानि भिनत्ति, एवमेव सर्वज्ञताचित्तोत्पादवज्रं सर्वदृष्टिगतशैलानि भिनत्ति। तद्यथा कुलपुत्र भिन्नमपि वज्ररत्नं सर्वरत्नप्रतिविशिष्टं सुवर्णालंकारमभिभवति, एवमेव आशयविपत्तिभिन्नमपि सर्वज्ञताचित्तोत्पादवज्ररत्नं सर्वश्रावकप्रत्येकबुद्धगुणसुवर्णालंकारानभिभवति। तद्यथा कुलपुत्र भिन्नमपि वज्ररत्नं सर्वदारिद्र्यं विनिवर्तयति, एवमेव प्रतिभिन्नमपि सर्वज्ञताचित्तोत्पादवज्ररत्नं सर्वसंसारदारिद्र्यं विनिवर्तयति। तद्यथा कुलपुत्र कियत्परीत्तोऽपि वज्रधातुः सर्वमणिपाषाणभेदलक्षणः, एवमेव कियत्परीत्तारम्बणप्रसृतोऽपि सर्वज्ञताचित्तोत्पादवज्रधातुः सर्वाज्ञानभेदलक्षणः। तद्यथा कुलपुत्र वज्ररत्नं न प्राकृतजनहस्तगतं भवति, एवमेव सर्वज्ञताचित्तोत्पादवज्ररत्नं न प्राकृताध्याशयानामित्वरकुशलमूलानां देवमनुष्याणां हस्तगतं भवति। तद्यथा कुलपुत्र रत्नपरीक्षानभिज्ञः पुरुषो वज्रमणिरत्नगुणानजानन् नास्य गुणविशेषमनुभवति, एवमेव दुष्प्रज्ञजातीयः पुरुषपुद्गलो बोधिसत्त्वचित्तमहाप्रज्ञावज्ररत्नगुणानभिज्ञो नास्य गुणविशेषमनुभवति।



तद्यथा कुलपुत्र वज्रं न शक्यं जरयितुम्, एवमेव सर्वज्ञताहेतुभूतं बोधिचित्तोत्पादवज्रं न शक्यं जरयितुम्। तद्यथा कुलपुत्र वज्रं महाप्रहरणं न शक्यं महानग्नेनापि संधारयितुमन्यत्र महानारायणस्थामबलवेगेन, एवमेव सर्वज्ञताचित्तोत्पादमहावज्रप्रहरणं न शक्यं सर्वश्रावकप्रत्येकबुद्धमहानग्नैरपि संधारयितुमन्यत्र सर्वज्ञताहेतुबलोपस्तब्धाप्रमाणकुशलमूलमहानारायणस्थामप्रतिविशिष्टैर्महावभासप्राप्तैर्महाबोधिसत्त्वैः। तद्यथा कुलपुत्र यत्र सर्वप्रहरणानि न प्रसहन्ते तत्र वज्रं प्रसहते, न प्रतिहन्यते, एवमेव यत्र सर्वश्रावकप्रत्येकबुद्धप्रणिधिज्ञानप्रहरणानि न प्रसहन्ते सत्त्वपरिपाकविनये वा त्र्यध्वकल्पचर्यादुःखसंवासे वा, तत्र सर्वज्ञताचित्तोत्पादमहावज्रप्रहरणगृहीतो बोधिसत्त्वोऽपरिखिन्नमानसः प्रसहते, न प्रतिहन्यते। तद्यथा कुलपुत्र वज्रं न शक्यं केनचित्पृथिवी प्रदेशेन संधारयितुमन्यत्र वज्रतलेन, एवमेव सर्वश्रावकप्रत्येकबुद्धैर्बोधिसत्त्वनिर्याणप्रणिधानसंभारवज्रं न शक्यं संधारयितुमन्यत्राध्याशयबोधिचित्तोत्पादवज्रदृढपृथिवीतलेन। तद्यथा कुलपुत्र दृढवज्रतलाच्छिद्रभाजनत्वान्महासमुद्रे पानीयं न विसरति, एवमेव बोधिसत्त्ववज्राच्छिद्रदृढतलपरिणामनाप्रतिष्ठितानि बोधिसत्त्वस्य कुशलमूलानि न क्षीयन्ते सर्वभवोपपत्तिषु। तद्यथा कुलपुत्र वज्रतलप्रतिष्ठिता महापृथिवी न विदीर्यते न संसीदति, एवमेव बोधिचित्तोत्पादवज्रदृढतलप्रतिष्ठितानि बोधिसत्त्वप्रणिधानानि सर्वत्रैधातुके न विदीर्यन्ते न संसीदन्ति। तद्यथा कुलपुत्र वज्रमुदकेन न क्लिद्यते, एवमेव बोधिचित्तोत्पादवज्रं सर्वकर्मक्लेशोदकेन सर्वकर्मसंवासैर्न क्लिद्यते न स्विद्यते। तद्यथा कुलपुत्र वज्रं सर्वाग्निदाहैर्न दह्यते न संतप्यते, एवमेव सर्वज्ञताचित्तोत्पादवज्रं सर्वसंसारदुःखाग्निदाहैर्न दह्यते, सर्वक्लेशाग्नितापैर्न संतप्यते। तद्यथा कुलपुत्र तथागतानामर्हतां सम्यक्संबुद्धानां बोधिमण्डे निषीदतां मारं योधयतां सर्वज्ञताभिसंबुद्धमानानां नान्येन पृथिवीप्रदेशेन शक्यमासनं संधारयितुमन्यत्र त्रिसाहस्रमहासाहस्रवज्रनाभिधरणितलेन, एवमेव बोधिसत्त्वानामनुत्तरायां सम्यक्संबोधौ प्रणिदधतां चर्यां चरतां पारमिताः परिपूरयतां क्षान्तिमवक्रामतां भूमिं प्रतिलभमानानां कुशलमूलानि परिणामयतां व्याकरणं संप्रतीच्छतां सर्वबोधिसत्त्वमार्गसंभारमुपस्तम्भयतां सर्वतथागतानां महाधर्ममेघान् संधारयतां ते महाकुशलमूलबलाधानवेगा नान्येन चित्तेन शक्याः संधारयितुमन्यत्र सर्वप्रणिधानज्ञानवज्रदृढनाभिना सर्वज्ञताचित्तोत्पादेन।



इति हि कुलपुत्र एभिश्च अन्यैश्च अप्रमाणैर्यावदनभिलाप्यानभिलाप्यैर्गुणविशेषैः समन्वागतः सर्वज्ञताचित्तोत्पादः। तेऽपि सत्त्वा एवंगुणधर्मसमन्वागता भूताश्च भविष्यन्ति च, यैरनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादितानि। तस्मात्तर्हि कुलपुत्र सुलब्धास्ते लाभाः, यस्त्वमनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य बोधिसत्त्वचर्यां परिमार्गसि एषां गुणानां प्रतिलाभाय॥



अपि च कुलपुत्र यद्वदसि-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यमिति। गच्छ कुलपुत्र, अस्य वैरोचनव्यूहालंकारगर्भस्य महाकूटागारस्य अभ्यन्तरं प्रविश्य व्यवलोकय। अत्र ज्ञास्यसि यथा बोधिसत्त्वचर्यायां शिक्षितव्यम्, शिक्षमाणस्य च यादृशी गुणपरिनिष्पत्तिर्भवति॥
अथ खलु सुधनः श्रेष्ठिदारको मैत्रेयं बोधिसत्त्वं प्रदक्षिणीकृत्वा एवमाह-विवृणु आर्य अस्य कूटागारस्य द्वारम्। प्रवेक्ष्यामि। अथ खलु मैत्रेयो बोधिसत्त्वो वैरोचनव्यूहालंकारगर्भस्य कूटागारस्य द्वारमूलमुपसंक्रम्य दक्षिणेन पाणिना अच्छटाशब्दमकार्षीत्। तस्य द्वारं विवृतमभूत्। स आह-प्रविश कुलपुत्र एतत्कूटागारम्। अथ खलु सुधनः श्रेष्ठिदारकः परमाश्चर्यप्राप्तस्तत्कूटागारं प्राविशत्। तस्य समनन्तरप्रविष्टस्य तद्द्वारं संवृतमभूत्। सोऽद्राक्षीत् तं कूटागारं विपुलविस्तीर्णं बहुयोजनशतसहस्रविस्तीर्णं गगनतलाप्रमाणं समन्तादाकाशधातुविपुलम् असंख्येयच्छत्रध्वजपताकालंकारम् असंख्येयरत्नालंकारम्। असंख्येयमुक्ताहारप्रलम्बितालंकारम् असंख्येयरत्नहारप्रलम्बितालंकारम् असंख्येयलोहितमुक्ताहारप्रलम्बितालंकारम् असंख्येयसिंहमुक्ताहारप्रलम्बितालंकारम् असंख्येयसिंहध्वजालंकारम् असंख्येयचन्द्रार्धचन्द्रालंकारम् असंख्येयविचित्रपट्टदामाभिप्रलम्बितालंकारम् असंख्येयविविधपट्टपट्टालंकारम् असंख्येयमणिजालप्रभालंकारम् असंख्येयहेमजालालंकारम् असंख्येयरत्नपट्टालंकारम्



असंख्येयरत्नसुवर्णसूत्रप्रत्युप्तालंकारम् असंख्येयघण्टामधुरनिर्घोषालंकारम् असंख्येयरत्नकिङ्किणीजालसमीरितमनोज्ञशब्दालंकारम् असंख्येयदिव्यपुष्पौघाभिप्रवर्षणालंकारम् असंख्येयदिव्यमाल्यदामाभिप्रलम्बितालंकारम् असंख्येयगन्धघटिकानिर्धूपितोपचारालंकारम् असंख्येयसुवर्णचूर्णसंप्रवर्षणालंकारम् असंख्येयहर्म्यजालालंकारम् असंख्येयगवाक्षालंकारम् असंख्येयतोरणालंकारम् असंख्येयनिर्यूहालंकारम् असंख्येयादर्शमण्डलंकारम् असंख्येयरत्नेष्टकानिचितालंकारम् असंख्येयरत्नभित्त्यलंकारम् असंख्येयस्थूणालंकारम् असंख्येयरत्नवस्त्रमेघालंकारम् असंख्येयरत्नवृक्षालंकारम् असंख्येयरत्नवेदिकालंकारम् असंख्येयरत्नपथालंकारम् असंख्येयरत्नच्छदनसर्वव्यूहालंकारम् असंख्येयभूमितलप्रतिष्ठानविचित्रव्यूहालंकारम् असंख्येयरत्ननिचितप्रासादालंकारम् असंख्येयरत्नासनालंकारम् असंख्येयमणिकन्यालंकारम् असंख्येयरत्नपट्टसंस्तृतचंक्रमालंकारम् असंख्येयजाम्बूनदसुवर्णवर्णकदलीस्तम्भसुविभक्तालंकारम् असंख्येयसर्वरत्नविग्रहालंकारम् असंख्येयबोधिसत्त्वात्मभावालंकारम् असंख्येयपक्षिगणविचित्रमनोज्ञरुतानुरवितालंकारम् असंख्येयरत्नपद्मालंकारम् असंख्येयरत्नयष्टिसंधारणालंकारम् असंख्येयपुष्करिण्यलंकारम् असंख्येयपुण्डरीकालंकारम् असंख्येयरत्नसोपानालंकारम् असंख्येयरत्नवामकविरचनालंकारम् असंख्येयविचित्ररत्ननिचितभूम्यलंकारम् असंख्येयमहामणिरत्नप्रभाप्रमुक्तालंकारम् असंख्येयसर्वरत्नव्यूहालंकारम् असंख्येयगुणवर्णसमुदितालंकारम्। तस्य च महाकूटागारस्य अभ्यन्तरे तदन्यानि कूटागारशतसहस्राण्येवंरूपव्यूहालंकृतान्येवापश्यत् असंख्येयरत्नच्छत्रध्वजपताकालंकाराणि यावदसंख्येयगुणवर्णसमुदितालंकाराणि च। तानि कूटागाराणि विपुलविस्तीर्णान्यप्रमाणाकाशकोशभूतान्यपश्यत् समन्तात् सुविभक्तानि। ते चास्य कूटागारव्यूहा अन्योन्यासंभिन्ना अन्योन्यामैत्रीभूता अन्योन्यासंकीर्णाः प्रतिभासयोगेन आभासमगमन् एकस्मिन्नारम्बणे। यथा च एकस्मिन्नारम्बणे, तथा शेषसर्वारम्बणेषु॥



अथ खलु सुधनः श्रेष्ठिदारको वैरोचनव्यूहालंकारगर्भस्य महाकूटागारस्य इदमेवंरूपमचिन्त्यविषयविकुर्वितं दृष्ट्वा अतुलप्रीतिवेगविवर्धितेन महाहर्षप्रामोद्येन अभिष्यन्दितकायचित्तः सर्वसंज्ञागतविधूतमानसः सर्वावरणविवर्तितचित्तः सर्वमोहविगतोऽसंप्रमोषदिव्यनयनः सर्वशब्दासङ्गस्मृतिविज्ञप्तिश्रोत्रः सर्वमनसिकारविक्षेपविगतोऽनावरणविमोक्षनयनानुसरणबुद्धिः सर्वदिक्स्रोतोभिमुखेन कायप्रशमेन सर्वारम्बणानावरणसंप्रेषितचक्षुः सर्वत्रानुगतेन अभिनिर्हारबलेन सर्वशरीरेण प्रणिपतितः॥



समनन्तरप्रणिपतितमात्रश्च सुधनः श्रेष्ठिदारको मैत्रेयस्य बोधिसत्त्वस्य अधिष्ठानबलेन सर्वेषु तेषु कूटागारेष्वभ्यन्तरप्रविष्टमात्मानं संजानीते स्म। तेषु च सर्वकूटागारेषु विविधवैमात्र्यगतान्यचिन्त्यविषयविकुर्वितान्यद्राक्षीत्। क्वचित्कूटागारे यत्र मैत्रेयेण बोधिसत्त्वेन प्रथमं प्रणिधानचित्तमुत्पादितमनुत्तरायां सम्यक्संबोधौ, यन्नामगोत्रोपपन्नेन येन कुशलमूलेन यया समादापनया येन कल्याणमित्रसंचोदनेन यदायुःप्रमाणेन यन्नामके कल्पे यत्रतथागते यद्व्यूहे यादृश्यां पर्षदि यादृशेन प्रणिधानविशेषाभिनिर्हारेण, तत्सर्वमद्राक्षीत्, संजानीते अनुसरति। यावच्च तेषां सत्त्वानां तस्य च तथागतस्य तेन समयेनायुःप्रमाणमभूत्, तावत्काले तस्य तथागतस्य पादमुलगतमात्मानं संजानीते स्म। तां च सर्वां क्रियामपश्यत्॥



क्वचित्कूटागारे यत्र मैत्रेयेण बोधिसत्त्वेन प्रथमो मैत्रसमाधिः प्रतिलब्धः, यत उपादाय अस्य मैत्रेय इति संज्ञोदपादि तदद्राक्षीत्। क्वचिद्यत्र चर्याः चीर्णाः, क्वचिद्यत्र पारमिताः परिपूरिताः, क्वचिद्यत्र क्षान्तिरवतीर्णा, क्वचिद्यत्र भूमिरवक्रान्ता, क्वचिद्यत्र बुद्धक्षेत्रव्यूहाः परिगृहीताः, क्वचिद्यत्र तथागतशासनं संधारितम्, क्वचिद्यत्र अनुत्पत्तिकेषु धर्मेषु क्षान्तिः प्रतिलब्धा, क्वचिद्यत्र व्याकृतोऽनुत्तरायां सम्यक्संबोधौ, यथा व्याकृतो येन व्याकृतो यावच्चिरेण च व्याकृतस्तत्सर्वमद्राक्षीत्। स क्वचित्कूटागारे मैत्रेयं बोधिसत्त्वं चक्रवर्तिराजभूतं सत्त्वान् दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयमानमपश्यत्। क्वचिल्लोकपालभूतं सर्वलोकहितसुखं सत्त्वानामुपसंहरमाणम्, क्वचिच्छक्रभूतं कामगुणरतिं सत्त्वानां विनिवर्तयमानम्, क्वचिद्ब्रह्मभूतं ध्यानाप्रमाणरतिं सत्त्वानां संवर्णयमानम्, क्वचित्सुयामदेवाधिपतिभूतमप्रमाणगुणान् सत्त्वानां संवर्णयमानम्, क्वचित् संतुषितदेवेश्वरभूतमेकजातिप्रतिबद्धबोधिसत्त्वगुणानुद्भावयमानम्, क्वचित्सुनिर्मितदेवराजभूतं सर्वबोधिसत्त्वनिर्माणव्यूहं देवपर्षदि संदर्शयमानम्, क्वचिद्वशवर्तिदेवराजभूतं सर्वधर्मवशवर्तितां देवानां संप्रकाशयमानम्, क्वचिन्मारत्वं कारयमाणम्, सर्वसंपत्त्यनित्यतां देवानां देशयमानम्, क्वचिदसुरेन्द्रभवनोपपन्नं सर्वमानमददर्पप्रहाणाय महाज्ञानसागरविगाहनाय धर्मज्ञानसागरविगाहनाय धर्मज्ञानमायाप्रतिलम्भाय असुरपर्षदि धर्मं देशयमानमपश्यत्। क्वचित्कूटागारे यमलोकमद्राक्षीत्। तत्र मैत्रेयं बोधिसत्त्वं प्रभया महानरकानवभास्य नरकोपपन्नानां सत्त्वानां सर्वनिरयदुःखं प्रशमयमानमद्राक्षीत्। क्वचित्कूटागारे प्रेतभवनमद्राक्षीत्। तत्र मैत्रेयं बोधिसत्त्वं प्रेतभवनोपपन्नानां सत्त्वानां विपुलमन्नपानमुपसंहृत्य क्षुत्पिपासां प्रशमयमानमद्राक्षीत्। क्वचित्कूटागारे तिर्यग्योनौ विविधोपपत्यायतनविमात्रतया तिर्यग्योनिगतान् सत्त्वान् विनयन्तमद्राक्षीत्। क्वचित्कूटागारे महाराजिकदेवपर्षदि लोकपालानां धर्मं देशयमानमपश्यत्। कचिच्छक्रदेवराजपर्षदि क्वचित्सुयामदेवराजपर्षदि क्वचित्संतुषितदेवराजपर्षदि क्वचित्सुनिर्मितदेवराजपर्षदि क्वचिद्वशवर्तिदेवराजपर्षदि क्वचित्कूटागारे ब्रह्मेन्द्रपर्षदि मैत्रेयं बोधिसत्त्व महाब्रह्मभूतं धर्मं देशयमानपश्यत्।



क्वचिन्नागमहोरगपर्षदि क्वचिद्यक्षराक्षसपर्षदि क्वचिद्गन्धर्वकिन्नरपर्षदि क्वचिदसुरदानवेन्द्रपर्षदि क्वचिन्महोरगेन्द्रपर्षदि क्वचिन्मनुष्येन्द्रपर्षदि क्वचित्कूटागारे देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यपर्षदि मैत्रेयं बोधिसत्त्वं धर्मं देशयमानमपश्यत्। क्वचिच्छ्रावकपर्षदि क्वचित्प्रत्येकबुद्धपर्षदि क्वचिद्बोधिसत्त्वपर्षदि क्वचित्कूटागारे प्रथमचित्तोत्पादिकानामादिकर्मिकाणां बोधिसत्त्वानां मैत्रेयं बोधिसत्त्वं धर्मं देशयमानमपश्यत्। क्वचिच्चर्याप्रतिपन्नानां क्वचित्क्षान्तिप्रतिलब्धानामविनिवर्तनीयानां क्वचिदेकजातिप्रतिबद्धानामभिषेकप्राप्तानां क्वचित्कूटागारे प्रथमभूमिस्थितानां बोधिसत्त्वानां भूमिवैशेषिकतां संवर्णयमानमपश्यत्। क्वचिद्यावद्दशभूमिस्थितैर्बोधिसत्त्वैः सह मैत्रेयं बोधिसत्त्वं सर्वभूमिवैशेषिकतां संगायन्तमपश्यत्। क्वचित्सर्वपारमितापरिपूरयेऽप्रमाणतां क्वचित्सर्वशिक्षाभिमुखावतारसमतां क्वचित्समाधिमुखप्रवेशविस्तीर्णतां क्वचिद्विमोक्षनयगम्भीरतां क्वचिच्छान्तध्यानसमाधिसमापत्त्यभिज्ञाविषयस्फरणतां क्वचिद्बोधिसत्त्वचर्याविनयोपायमुखप्रवेशतां क्वचित्प्रणिधानाभिनिर्हारविस्तीर्णतां क्वचित्कूटागारे मैत्रेयं बोधिसत्त्वं चंक्रमाभियुक्तं सभागचरितैर्बोधिसत्त्वैः सार्धं लोकहितक्रियार्थं विविधशिल्पशानशास्त्रविशेषां सर्वसत्त्वहितसुखाधानोपसंहिततां संगायमानमपश्यत्। क्वचिदेकजातिप्रतिबद्धैर्बोधिसत्त्वैः सार्धं सर्वबुद्धज्ञानाभिषेकमुखं संगायन्तमपश्यत्। क्वचित्कूटागारे मैत्रेयं बोधिसत्त्वं चंक्रमाभियुक्तं वर्षशतसहस्रैरनिक्षिप्तधुरमपश्यत्। क्वचिदुद्देशस्वाध्यायप्रयुक्तं क्वचिद्धर्ममुखप्रत्यवेक्षणप्रयुक्तं क्वचिद्धर्मसंगायनप्रयुक्तं क्वचिद्धर्मलेखनप्रयुक्तं क्वचिन्मैत्रीसमाधिसमापन्नं क्वचित्सर्वध्यानाप्रमाणानि समापन्नं क्वचिसर्वकृत्स्नायतनविमोक्षसमापन्नं क्वचित्कूटागारे बोधिसत्त्वाभिज्ञाभिनिर्हारप्रयोगसमाधिसमापन्नं मैत्रेयं बोधिसत्त्वमपश्यत्॥



क्वचित्कूटागारे निर्माणवतीं बोधिसत्त्वसमाधिं समापन्नान् बोधिसत्त्वानपश्यत्। तेषां च सर्वशरीररोममुखेभ्यः सर्वनिर्माणमेघान्निश्चरतोऽपश्यत्। केषांचित्सर्वरोममुखेभ्यो देवनिकायमेघान्निश्चरतोऽपश्यत्। केषांचिन्नागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगशक्रब्रह्मलोकपालचक्रवर्तिमेघान् केषांचित्कोट्टराजमेघान् केषांचिद्राजकुमारमेघान् केषांचिच्छ्रेष्ठ्यमात्यगृहपतिमेघान् केषांचिच्छ्रावकप्रत्येकबुद्धबोधिसत्त्वमेघान् केषांचित्तथागतकायमेघान् केषांचित्सर्वशरीररोममुखेभ्योऽप्रमाणान् सर्वसत्त्वनिर्माणमेघान्निश्चरतोऽपश्यत्। केषांचित्सर्वरोममुखेभ्यो विविधानि धर्ममुखानि निश्चरमाणान्यश्रौषीत्-यदुत बोधिसत्त्वगुणवर्णमुखानि दानपारमितामुखानि शीलक्षान्तिवीर्यध्यानप्रज्ञोपायप्रणिधानबलज्ञानपारमितामुखानि संग्रहवस्तुध्यानाप्रमाणसमाधिसमापत्त्यभिज्ञाविद्याधारणीप्रतिभानसत्यप्रतिसंविच्छमथविपश्यनाविमोक्षमुखप्रतीत्यसमुत्पादप्रतिशरण-धर्मोद्दानस्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गश्रावकयानकथाप्रत्येकबुद्धयानकथामहायानकथाभूमिक्षान्तिचर्याप्रणिधानमुखानि एवं सर्वधर्ममुखप्रवेशशब्दान्निश्चरतोऽश्रौषीत्। क्वचित्कूटागारे तथागतपर्षन्मण्डलसंनिपातानद्राक्षीत्। तेषां च तथागतानां नानाविमात्रतां जन्मकुलविमात्रतां कायव्यूहाप्रमाणविमात्रतामायुर्विमात्रतां क्षेत्रविमात्रतां कल्पविमात्रतां धर्मदेशनाविमात्रतां निर्माणमुखविमात्रतां सद्धर्मस्थितिविमात्रतां यावदशेषसर्वाकारपर्षन्मण्डलविमात्रतामद्राक्षीत्॥



मध्ये च वैरोचनव्यूहालंकारगर्भस्य महाकूटागारस्य एकमुदारतरं विस्तीर्णतरं च तदन्यसर्वकूटागाराशेषसर्वव्यूहातिरिक्ततरव्यूहसमलंकृतं कूटागारमद्राक्षीत्। स तस्य कूटागारस्याभ्यन्तरे त्रिसाहस्रमहासाहस्रं लोकधातुमद्राक्षीत्। तस्मिंश्च त्रिसाहस्रमहासाहस्रे लोकधातौ कोटीशतं चातुर्द्वीपिकानां कोटीशतं जम्बुद्वीपकानां कोटीशतं तुषितभवनानामद्राक्षीत्। स तत्र जम्बुद्वीपेषु मैत्रेयं बोधिसत्त्वं पद्मगर्भगतं जायमानमपश्यत्। शक्रब्रह्माभ्यां प्रतीक्ष्यमाणं सप्तपदानि प्रक्रान्तं दश दिशो व्यवलोकयमानं महासिंहनादं नदन्तं सर्वकुमारभूमिं संदर्शयमानं अन्तःपुरमध्ये गतमुद्यानभूमिं निष्क्रान्तं सर्वज्ञताभिमुखमभिनिष्क्रम्य प्रव्रजन्तं दुष्करचर्यां संदर्शयन्तमाहारं परिभुञ्जानं बोधिमण्डमुपसंक्रान्तं मारं धर्षयमाणं बोधिं विबुध्यमानं बोधिवृक्षमनिमिषं निरीक्षमाणं महाब्रह्मणाध्येष्यमाणं धर्मचक्रं प्रवर्तयमानं देवभवनेषु प्रविशन्तमद्राक्षीत्। नानाभिसंबोधिधर्मचक्रप्रवर्तनविषयसंदर्शनविमात्रताभिर्नानाकल्पनामप्रवर्तनविमात्रताभिर्नानायुःप्रमाणविमात्रताभिर्नानापर्षन्मण्डलव्यूह-विमात्रताभिर्नानाक्षेत्रविशुद्धिनयसंदर्शनविमात्रताभिः नानाचर्याप्रणिधानप्रभावनाविमात्रताभिः नानाधर्मदेशनाव्यवस्थानसर्वपरिपाचनोपायविमात्रताभिः नानाधातुविभङ्गशासनस्थित्यधिष्ठानसंदर्शन विमात्रताभिः। सर्वत्र च तत्र सुधनः श्रेष्ठिदारकः पादमूलगतमात्मानं संजानीते स्म॥



स सर्वपर्षन्मण्डलेषु सर्वक्रियासंदर्शनेषु सर्वायुःप्रमाणविमात्रतासु असंप्रमुषितेन स्मृत्यधिष्ठानज्ञानेन सर्वसंज्ञागतव्यवसितायां ज्ञानभूमौ स्थितो यावन्ति तेषु सर्वकूटागारेषु घण्टाकिङ्किणीजालतूर्यसंगीतिप्रभृतीन्यारम्बणानि सत्त्वेभ्यस्तेभ्योऽचिन्त्यमेघनिगर्जितनिर्घोषशब्दं निश्चरन्तमश्रौषीत्। क्वचिद्बोधिचित्तविमात्रतां क्वचित्पारमिताचर्याप्रणिधानविमात्रतां क्वचिद्भूम्यप्रमाणविमात्रतां क्वचिदभिज्ञाचिन्त्यविकुर्वितविमात्रतां क्वचित्तथागतपूजाविमात्र्यविमात्रतां क्वचिद्बुद्धक्षेत्रव्यूहविमात्रतां क्वचिदप्रमाणतथागतधर्ममेघविमात्रताम् एवं सर्वधर्मनिर्घोषान् यथापूर्वपरिकीर्तितानश्रौषीत्। क्वचित्सर्वज्ञताप्रस्थानशब्दमश्रौषीत्-अमुष्मिन् लोकधातावमुको नाम बोधिसत्त्वो बोधिचित्तमुत्पादयति अमुकं धर्ममुखं श्रुत्वा अमुकेन कल्याणमित्रेण समादापितोऽमुकस्य तथागतस्य पादमूले एवंनाम्नि कल्पे ईदृशे बुद्धक्षेत्रे ईदृक्पर्षन्मध्यगते ईदृशं कुशलमूलमूलमवरोप्य ईदृशांस्तथागतगुणान् श्रुत्वा ईदृशेनाध्याशयेन ईदृश्या प्रणिधानविमात्रतया। इयतः कल्पान् बोधिसत्त्वचर्यां चरित्वा इयद्भिः कल्पैरनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते। ईदृग्नामधेयः ईदृशेन आयुःप्रमाणेन ईदृश्या बुद्धक्षेत्रगुणव्यूहासंपदा।



ईदृशेन प्रणिधानविशेषेण ईदृशेन सत्त्वविनयेन ईदृशेन श्रावकप्रत्येकबुद्धबोधिसत्त्वसंनिपातेन। तस्य परिनिर्वृतस्य इयतः कल्पान् सद्धर्मः स्थास्यति, इयान् समर्थो भविष्यति। क्वचिन्निर्घोषमश्रौषीत्-अमुष्मिंल्लोकधातावमुको नाम बोधिसत्त्वो दानपारमितायां चरन्नीदृशानि दुष्करपरित्यागशतानि करोति। अमुको बोधिसत्त्वः शीलं रक्षति, क्षान्तिं भावयति, वीर्यमालभते, ध्यानानि समापद्यते प्रज्ञाविचयप्रयुक्तः। अमुको बोधिसत्त्वः सद्धर्मपर्येष्टिहेतो राजपरित्यागं करोति, रत्नपरित्यागं पुत्रपरित्यागं भार्यापरित्यागं हस्तपादनयनोत्तमाङ्गपरित्यागं करोति, अग्निप्रपतनं करोति। अमुको नाम बोधिसत्त्वः तथागतशासनमभ्युद्गतो धर्मभाणकत्वं करोति, धर्मदानं ददाति, धर्मयज्ञं यजति, धर्मध्वजमुच्छ्रयति, धर्मभेरीं पराहन्ति, धर्मशङ्खमापूरयति, धर्मवर्षं प्रवर्षति, तथागतशासनं धारयति, तथागतचैत्यान्यलंकरोति, तथागतविग्रहान् कारयति, सत्त्वसुखोपधानमुपसंहरति, सद्धर्मकोशमारक्षति। क्वचिन्निर्घोषमश्रौषीत्-अमुष्मिंल्लोकधातावमुको नाम तथागत एतर्हि तिष्ठति ध्रियते यापयति, धर्मं च देशयति एवंनाम्नाभिषेकेण ईदृश्यां पर्षदि ईदृशे बुद्धक्षेत्रे ईदृशे कल्पे ईदृशेनायुःप्रमाणेन ईदृश्या धर्मदेशनया ईदृशेन सत्त्वविनयेन ईदृक्प्रणिध्यभिसंबोधेन। एवमेकैकस्माद् घण्टाकिङ्किणीजालतूर्यादिकादारम्बणादप्रमाणधर्ममुखविमात्रतानिर्घोषानश्रौषीत्। सर्वेषां च तेषां निर्घोषाणां श्रवेण सुधनः श्रेष्ठिदारको विपुलप्रीतिवेगाभिष्यन्दित चित्तस्तानि धर्ममुखानि शृणोति। क्वचिद्धारणीमुखानि प्रत्यलभत, क्वचित्प्रणिधानमुखानि, क्वचित्क्षान्तिमुखानि, क्वचिच्चर्यामुखानि, क्वचित्प्रणिधानमुखानि, क्वचित्पारमितामुखानि, क्वचिदभिज्ञामुखानि, क्वचिद्विद्याज्ञानालोकमुखानि, क्वचिद्विमोक्षमुखानि, क्वचित्समाधिप्रवेशमुखानि प्रत्यलभत॥



तेभ्यश्च आदर्शमण्डलेभ्योऽपरिमाणप्रतिभासव्यूहविज्ञप्तिमपश्यत्। क्वचित्तथागतपर्षन्मण्डलप्रतिभासविज्ञप्तिं क्वचिद्बोधिसत्त्वपर्षन्मण्डलप्रतिभासविज्ञप्तिं क्वचिच्छ्रावकपर्षन्मण्डलप्रतिभासविज्ञप्तिं क्वचित्प्रत्येकबुद्धपर्षन्मण्डलप्रतिभासविज्ञप्तिं क्वचित्तथागतपर्षन्मण्डलप्रतिभासविज्ञप्तिं क्वचित्संक्लिष्टक्षेत्रप्रतिभासविज्ञप्तिं क्वचिद्विशुद्धक्षेत्रप्रतिभासविज्ञप्तिं क्वचित्संक्लेष्टविशुद्धक्षेत्रप्रतिभासविज्ञप्तिं क्वचित्सर्वबुद्धैकलोकधातुप्रतिभासविज्ञप्तिं क्वचिद्बुद्धलोकधातुप्रतिभासविज्ञप्तिं क्वचित्परीत्तलोकधातुप्रविभासविज्ञप्तिं क्वचिन्महद्गतलोकधातुप्रतिभासविज्ञप्तिं क्वचित्सूक्ष्मलोकधातुप्रतिभासविज्ञप्तिं क्वचिदुदारलोकधातुप्रतिभासविज्ञप्तिं क्वचिदिन्द्रजालप्रवेशलोकधातुप्रतिभासविज्ञप्तिं क्वचिद्व्यत्यस्तलोकधातुप्रतिभासविज्ञप्तिं क्वचिदधमूर्ध्वंलोकधातुप्रतिभासविज्ञप्तिं क्वचित्समधरणीतलप्रवेशलोकधातुप्रतिभासविज्ञप्तिं क्वचिन्नरकतिर्यक्प्रेतावभासलोकधातुप्रतिभासविज्ञप्तिं क्वचिद्देवमनुष्याकीर्णलोकधातुप्रतिभासविज्ञप्तिमद्राक्षीत्। तेषु च चंक्रमेषु निषद्य स्वासनेषु च असंख्येयान् बोधिसत्त्वान् नानाकार्यप्रयुक्तानपश्यत्। कांश्चिच्चंक्रम्यमाणान् कांश्चिद्व्यायच्छतः कांश्चिद्विपश्यतः कांश्चिन्महाकरुणया स्फरमाणान् कांश्चिद्विविधान् शास्त्रनयान् लोकार्थसंप्रयुक्तानभिनिर्हरमाणान् कांश्चिदुद्दिशतः कांश्चित्स्वाध्यायमानान् कांश्चिल्लिखितः कांश्चित्परिप्रश्नयतः कांश्चित्र्त्रिस्कन्धदेशनापरिणमनाभियुक्तान् कांश्चित्प्रणिधानान्यभिनिर्हरमाणान्॥



तेभ्यश्च स्तम्भेभ्यः सर्वमणिराजप्रभाजालानि निश्चरन्ति व्यपश्यत्। क्वचिन्नीलवर्णानि क्वचित्पीतवर्णानि क्वचिल्लोहितवर्णानि क्वचिदवदातवर्णानि क्वचित्स्फटिकवर्णानि क्वचित्तपनीयवर्णानि क्वचिदिन्द्रनीलवर्णानि क्वचिदिन्द्रायुधवर्णानि क्वचिज्जाम्बूनदसुवर्णवर्णानि क्वचित्सर्वप्रभासवर्णानि कायचित्तप्रीतिसंजननपरमनयनाभिरामाणि। तांश्च जाम्बूनदसुवर्णवर्णकदलीस्तम्भान् सर्वरत्नविग्रहांश्च पुष्पमेघावलम्बितापाणीनद्राक्षीत्। माल्यदामपाणीन् छत्रध्वजपताकापाणीन् गन्धधूपविलेपनपाणीन् विविधरत्नविचित्रसुवर्णसूत्रपाणीन् विविधमुक्ताहारपाणीन् नानारत्नहारपाणीन् सर्वव्यूहपरिगृहीतपाणीन्। कांश्चिदवनतचूडामणिमकुटान् अनिमिषनयनान् कृताञ्जलिपुटान् नमस्यतोऽपश्यत्। तेभ्यश्च मुक्ताहारेभ्यः सर्वगन्धपरिभाविताष्टाङ्गोपेतसूक्ष्मजलधरान् प्रस्रवमाणानपश्यत्। तेभ्यश्च वैडूर्यमणिहारजालेभ्यो दीर्घपङ्क्तीन् क्षरन्तीनपश्यत्। तानि च रत्नच्छत्राणि सर्वालंकारव्यूहोपशोभितान्यपश्यत्। तां च रत्नघण्टाकिङ्किणीजालपट्टदामकलापमणिशलाकाविचित्रमणिरत्नकोशसमलंकृतगर्भामपश्यत्। ताभ्यश्च पुष्किरिणीभ्योऽसंख्येयानि रत्नपद्मोत्पलकुमुदपुण्डरीकान्यभ्युद्गतान्यपश्यत्। कानिचिद्वितस्तिप्रमाणमात्राणि कानिचिद्व्यामप्रमाणमात्राणि कानिचिच्छकटचक्रप्रमाणमात्राणि। तेषु च नानारूपान् व्यूहानपश्यत्। यदुत स्त्रीरूपान् पुरुषरूपान् दारकरूपान् दारिकारूपान् शक्र‍रूपान् ब्रह्मरूपान् लोकपालरूपान् देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगरूपान् श्रावकप्रत्येकबुद्धबोधिसत्त्वरूपान् सर्वजगद्रूपसंस्थानशरीरान् विचित्रनानावर्णान् कृताञ्जलिपुटानवनतकायान्नमस्यतोऽपश्यत्। द्वात्रिंशन्महापुरुषलक्षणसमलंकृतकायांश्च तथागतविग्रहान् पर्यङ्कनिषण्णानपश्यत्॥



या च सा वैडूर्यतलाष्टापदमहापृथिवी, तत्र एकैकतोऽष्टापदादचिन्त्याः प्रतिभासविज्ञप्तीरपश्यत्। क्वचित्क्षेत्रप्रतिभासविज्ञप्तिं क्वचिद्बुद्धप्रतिभासविज्ञप्तिम्। यावन्तश्च तेषु कूटागारेष्वलंकारव्यूहाः, तान् सर्वानेकैकस्मिन्नष्टापदे प्रतिभासप्राप्तानपश्यत्। तेषां च रत्नवृक्षाणां सर्वत्र पुष्पफलकोशेभ्यो नानासंस्थानविचित्रसुवर्णरूपार्धकायानपश्यत्। क्वचिद्बुद्धार्धकायान् क्वचिद्बोधिसत्त्वार्धकायान् क्वचिद्देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगार्धकायान् क्वचिच्छक्रब्रह्मलोकपालार्धकायान् क्वचिच्चक्रवर्तिमनुष्येन्द्रार्धकायान् क्वचिद्राजकुमारश्रेष्ठिगृहपत्यमात्यस्त्रीपुरुषदारकदारिकाभिक्षुभिक्षुण्युपासकोपासिकार्धकायान् कांश्चित्पुष्पदामावलम्बितपाणीन् कांश्चिद्रत्नहाराभिप्रलम्बितपाणीन् कांश्चित्सर्वव्यूहपरिगृहीतपाणीन् कांश्चिदवनतकायान् कृताञ्जलिपुटाननिमिषनयनान् नमस्यतः कांश्चिदभिष्टुवतः कांश्चित्समापन्नान् कांश्चित्सुवर्णवर्णावभासान् कांश्चिद्रूप्यवर्णावभासान् कांश्चित्तुषारसुकुमारवर्णावभासान् कांश्चिदिन्द्रनीलमणिवर्णावभासान् कांश्चिद्विरोचनमणिरत्नावभासान् कांश्चित्सर्वरत्नवर्णावभासान् कांश्चिच्चम्पकपुष्पवर्णावभासान् कांश्चित्प्रभाकायावभासान् कांश्चिल्लक्षणविचित्रात्मभावानपश्यत्। तेभ्यश्च अर्धचन्द्रेभ्योऽसंख्येयांश्चन्द्रसूर्यग्रहनताराप्रतिभासान् निश्चर्य दशदिशोऽवभासयमानानपश्यत्॥



ताश्च प्रासादविमानकूटागारभित्तीः सर्वरत्नाष्टापदविचित्रा अपश्यत्। तेषु च सर्वरत्नाष्टापदेषु मैत्रेयस्य बोधिसत्त्वस्य सर्वबोधिसत्त्वचर्याक्रममपश्यत् यथा पूर्वं बोधिसत्त्वाश्चर्यामचरन्। क्वचिदष्टापदे मैत्रेयस्य बोधिसत्त्वस्य शिरःप्रदानमपश्यत्। क्वचिन्नेत्रप्रदानं क्वचिद्वस्त्रप्रदानं क्वचिच्चूडामणिरत्नप्रदानं क्वचित्सद्धर्मचूडामणिप्रदानं क्वचिद्दन्तप्रदानं क्वचिज्जिह्वाप्रदानं कचित्कर्णनासाप्रदानं क्वचिद्धृदयप्रदानं क्वचिन्मज्जमांसप्रदानं क्वचिद्रुधिरप्रदानं क्वचिच्छविचर्मप्रदानं क्वचिन्मांसनखप्रदानं क्वचित्सजालाङ्गुलिप्रदानं क्वचित्सर्वशरीरप्रदानं क्वचित्पुत्रदुहितृभार्याप्रदानं क्वचिद्रत्न‍राशिप्रदानं क्वचिद्ग्रामनगरनिगमजनपदराष्ट्रराजधानीप्रदानं क्वचिज्जम्बुद्वीपप्रदानं क्वचिच्चतुर्द्वीपप्रदानं क्वचित्सर्वराज्यैश्वर्यप्रदानं क्वचिद्भद्रराजासनप्रदानं क्वचिद्दासदासीप्रदानं क्वचिदन्तःपुरप्रदानं क्वचिदुद्यानतपोवनप्रदानं क्वचिच्छत्रध्वजपताकाप्रदानं क्वचित्पुष्पमाल्यगन्धानुलेपनप्रदानं क्वचिद् ग्लानप्रत्ययभैषज्यप्रदानं क्वचित्सर्वान्नपानविधिप्रदानं क्वचित्सर्वोपकरणप्रदानं क्वचित्सर्वोपाश्रयप्रदानं क्वचिद्रत्नकांस्यपात्रीप्रदानं क्वचिद्वररथप्रदानं क्वचिद्बन्धनागारगतान् विमोक्षयन्तं क्वचिद्वध्यान् निर्मोक्षयन्तं क्वचिद्बालांश्चिकित्समानं क्वचित्प्रनष्टमार्गाणां मार्गमुपदर्शयन्तं क्वचिद्दाशभूतं नदीपथे नावं वाहयमानं क्वचिद्बालाहाश्वराजभूतं महासमुद्रे राक्षसीद्वीपगतान् सत्त्वान् परित्रायमाणं क्वचिन्महर्षिभूतं शास्त्राण्यभिनिर्हरमाणं क्वचिच्चक्रवर्तिभूतं दशकुशलेषु कर्मपथेषु सत्त्वान् प्रतिष्ठापयमानं क्वचिद्वैद्यभूतमातुराणां चिकित्सां प्रयोजयमानं क्वचिन्मातापितरमुपतिष्ठन्तं क्वचित्कल्याणमित्राणि शुश्रूषन्तं क्वचिच्छ्रावकवर्णरूपेण सत्त्वविनयेन प्रयुक्तं क्वचित्प्रत्येकबुद्धवर्णरूपेण क्वचिद्बोधिसत्त्ववर्णरूपेण क्वचिद्बुद्धवर्णरूपेण क्वचित्सत्त्वविनयप्रयुक्तं क्वचित्सत्त्वजातकविशेषैरुपपत्तिं संदर्श्य सत्त्वान् परिपाचयमानं क्वचिद्धर्मभाणकरूपेण तथागतशासनोपगतमुद्दिशन्तं स्वाध्यायमानं योनिशोमीमांसाप्रयुक्तं तथागतचैत्यान्यलंकुर्वाणं तथागतविग्रहान् कारयमाणं बुद्धपूजायां सत्त्वान् समादापयमानं गन्धानुलेपनप्रदानं सुगन्धतैलाभ्यञ्जनपुष्पमाल्यारोपणादिसर्वाकारबुद्धपूजाप्रयुक्तं दशसु कुशलमूलेषु कर्मपथेषु सत्त्वान् प्रतिष्ठापयमानं पञ्चसु शिक्षापदेषु अष्टाङ्गपोषधेषु बुद्धधर्मसंघशरणगमनेषु प्रव्रज्यायां धर्मश्रवणे उद्देशस्वाध्याययोनिशोमनसिकारेषु सत्त्वान्नियोजयमानं धर्मसांकथ्याय सिंहासनसंनिषण्णं बुद्धबोधिंविवृण्वन्तम्। इति हि यावन्मैत्रेयो बोधिसत्त्वोऽसंख्येयैः कल्पकोटीनियुतशतसहस्रैः षट्सु पारमितासु चीर्णचरितः, तत्सर्वं सुधनः श्रेष्ठिदारकस्तत एकैकस्मादष्टापदादपरापरैराकारैरद्राक्षीत्। स क्वचित्कूटागारे यावन्ति मैत्रेयेण बोधिसत्त्वेन कल्याणमित्राणि पर्युपासितानि तेषां विकुर्वितव्यूहानद्राक्षीत्। सर्वेषु च तेषु कल्याणमित्रेषु उपसंक्रान्तमाभाष्यमाणमात्मानं संजानीते स्म-एहि सुधन स्वागतम्। मासि क्लान्तः। पश्येमां बोधिसत्त्वाचिन्त्यताम्॥



इति हि सुधनः श्रेष्ठिदारकस्तत एकैकस्मात्कूटागारादेकैकस्मादारम्बणादिमानि च अन्यानि च अविचिन्त्यव्यूहविषयविकुर्वितान्यद्राक्षीत्। असंप्रमुषितेन स्मृतिबलाधानेन समन्तदिग्व्यवचारितया चक्षुःपरिशुद्ध्या अनावरणेन विपश्यनाकौशल्यज्ञानेन बोधिसत्त्वज्ञानाधिष्ठानवशिताप्रतिलम्भेन बोधिसत्त्वसंज्ञागतप्रसृतायां ज्ञानभूमौ स्थितः, तत्सर्वमनन्तव्यूहविषयविकुर्वितमद्राक्षीत्। तद्यथा पुरुषः सुप्तः स्वप्नान्तरगतो विविधान् रूपारम्बणविशेषान् पश्येत् यदुत गृहविमानरमणीयानि वा ग्रामनगरनिगमजनपदरमणीयानि वा वस्त्रान्नपानपरिभोगरमणीयानि वा गीतवाद्यतूर्यसंगीतिविविधरतिक्रीडारमणीयानि वा पश्येत्। उद्यानारामतपोवनरमणीयानि वा वृक्षनदीपुष्किरिणीपर्वतरमणीयानि वा मातापितृमित्रज्ञातिसालोहितसमवधानगतं वा आत्मानं संजानीते। महासमुद्रं वा पश्येत् सुमेरुं वा पर्वतराजानं सर्वदेवभवनानि वा जम्बुद्वीपं वा, अनेनकयोजनशतस्थितं वा आत्मानं संजानीते। तच्च गृहं वा अवचरकं वा विपुलं पश्येत्। सर्वगुणालंकारसमवसृतं दिवसमेव संजानीते। न रात्रिदीर्घं च संजानीते न ह्रस्वम्, न स्वप्न इति संजानीते। सुखोपस्थानं चात्मनः पश्येत्। स प्रस्रब्धकायसंस्कारो विगतस्त्यानमिद्धः सर्वरत्यपकर्षितो विपुलप्रीतिसुखसंवेदी दीर्घं च विपुलं च संजानीते। दिवसं वा सप्ताहं वा अर्धमासं वा संवत्सरं वा वर्षशतं वा ततो वा उत्तरि संजानीते। प्रतिविबुद्धश्च तत्सर्वमनुस्मरेत्। एवमेव सुधनः श्रेष्ठिदारकः बोधिसत्त्वाधिष्ठानेन सर्वत्रैधातुकस्वप्नसमवसरणज्ञानेन परीत्तसंज्ञागतनिरुद्धचेता विपुलमहद्गतानावरणबोधिसत्त्वसंज्ञागतविहारी बोधिसत्त्वविषयानुगतोऽचिन्त्यबोधिसत्त्वनयप्रवेशानुसृतबुद्धिस्तत्सर्वव्यूहविकुर्वितमपश्यत् संजानीतेऽनुभवति विचारयति निमित्तीकरोति आलक्षयति, तत्र च स्थितमात्मानं संजानीते। तद्यथा ग्लानः पुरुषश्चरमे चित्तोत्पादे वर्तमान उपपत्यानन्तर्यचित्ते प्रत्युपस्थिते कर्मभवे आमुखीभूते यथाकृतकर्मोपचयविपाकेन अशुभकर्मप्रत्ययेन नरकं वा पश्येत्, तिर्यग्योनिं वा प्रेतविषयं वा यमपुरुषान् वा दृढप्रहरणगृहीतान् रुषितानाक्रोशतो रुदिताक्रोशितशब्दं च नारकाणां श्रुणुयात्।



तां च क्षारनदीं पश्येत्, तांश्च क्षुरधारापर्वतान्, तां च कूटाशाल्मलीम्, तच्च असिपत्रवनं पश्येत्। तांश्च महानरकानादीप्तान् संप्रज्वलितानेकज्वालीभूतान्, ताश्च लोहकुम्भीः पश्येत्, ताः कारणाः कार्यमाणान्, तांश्च वेदनामनुभूयमानान् संजानीत्। तानि च नैरयिकान्यग्निसंतापदुःखानि पश्येदनुभवेत्। शुभकर्मोपचयेन वा देवभवनं पश्येत्। देवपर्षदप्सरोगणं सर्वव्यूहालंकारांश्च पश्येत्, उद्यानविमाननदीपुष्करिणीरत्नपर्वतकल्पवृक्षपरिभोगान् वा पश्येदनुभवेत्, तदायुःकालं च संजानीयात्-इतश्च्युतस्तत्र वोपपन्नोऽनन्तर्हित एव कर्मविषयाचिन्त्यतया एतां क्रियां पश्येत् संजानीत अनुभवेत्। एवमेव सुधनः श्रेष्ठिदारको बोधिसत्त्वकर्मविषयाचिन्त्यतया तत्सर्वव्यूहविकुर्वितमद्राक्षीत्। तद्यथा भूतग्रहाविष्टः पुरुषो विविधानि रुपगतानि पश्यति। यच्च परिपृच्छते, तद्व्याकरोति। एवमेव सुधनः श्रेष्ठिदारको बोधिसत्त्वज्ञानाधिष्ठानबलेन तान् सर्वव्यूहानद्राक्षीत्। तद्यथा नागभवनप्रविष्टः पुरुषो नागसंज्ञागतप्रवेशेन दिवसं वा सप्ताहं वा अर्धमासं वा मासं वा संवत्सरं वा वर्षशतं वा संज्ञामात्रं संजानीते, नागसंज्ञागतोत्सृष्टो मनुष्यसंज्ञागतेन मुहूर्तमात्रं पश्येत्। एवमेव सुधनः श्रेष्ठिदारको बोधिसत्त्वसंज्ञागतानुस्मृतबुद्धिस्तन्मैत्रेयस्य बोधिसत्त्वस्य अधिष्ठानवशेन तन्मुहूर्तं बहूनि कल्पकोटीनियुतशतसहस्राणि संजानीते स्म। तद्यथास्ति सर्वजगद्वरव्यूहगर्भं नाम महाब्रह्मणो विमानम्। तत्र सर्वत्रिसाहस्रमहासाहस्रो लोकधातुराभासमागच्छति प्रतिभासयोगेन सर्वारम्बणामिश्रीभूतः। एवमेव सुधनः श्रेष्ठिदारकः तान् सर्वान् व्यूहानन्योन्यासंकीर्णान् सर्वारम्बणेषु प्रतिभासप्राप्तः तद्यथा कृत्स्नायतनसमापत्तिविहारी भिक्षुरेकोऽद्वितीयः शयने वा चंक्रमे वा निषद्यायां वा उत्थितो वा निषण्णो वा यथाकृत्स्नसमापत्तिविषयावतारेण सर्वलोकं संजानीते पश्यत्यनुभवति ध्यायिविशेषाचिन्त्यतायै। एवमेव सुधनः श्रेष्ठिदारकः तान् सर्वान् व्यूहान् यथाविषयावतारेण पश्यति संजानीते। तद्यथा गन्धर्वनगराणां सर्वव्यूहालंकारा गगनतले संदृश्यन्ते, न च कस्यचिदावरणत्वाय कल्पन्ते। तद्यथा यक्षविमानप्रविष्टानि मनुष्यविमानानि यक्षविमानान्तर्गतान्यन्योन्यासंभिन्नानि यथाकामविषयपरिशुद्ध्या संदृश्यन्ते। तद्यथा महासमुद्रे सर्वस्य त्रिसाहस्रमहासाहस्रस्य लोकधातोः प्रतिभाससमुद्राः संदृश्यन्ते। तद्यथा मायाकारो मन्त्रविद्यौषधिबलाधिष्ठानेन सर्वरूपगतानि सर्वक्रियाश्च संपश्यति। एवमेव सुधनः श्रेष्ठिदारको मैत्रेयस्य बोधिसत्त्वस्याधिष्ठानज्ञानमायाचिन्त्यप्रदेशेन तानि सर्वव्यूहविकुर्वितान्यद्राक्षीत् धर्मज्ञानमायाबलाभिनिर्हृतेन बोधिसत्त्ववशिताधिष्ठानज्ञानमायागतेन॥



अथ खलु मैत्रेयो बोधिसत्त्वस्तत्कूटागारं प्रविश्य तदधिष्ठानमवसृज्य सुधनं श्रेष्ठिदारकमच्छटाशब्दं कृत्वा एतदवोचत-उत्तिष्ठ कुलपुत्र। एषा धर्माणां धर्मता। अविष्ठपनप्रत्युपस्थानलक्षणाः कुलपुत्र सर्वधर्मा बोधिसत्त्वज्ञानाधिष्ठिताः। एवं स्वभावापरिनिष्पन्ना मायास्वप्नप्रतिभासोपमाः। अथ खलु सुधनः श्रेष्ठिदारकः तेनाच्छटाशब्देन ततः समाधेर्व्युत्थितः। तं मैत्रेयो बोधिसत्त्व आह-दृष्टा ते कुलपुत्र बोधिसत्त्वाधिष्ठानविकुर्वाः? दृष्टास्ते बोधिसत्त्वसंभारबलनिष्यन्दाः? दृष्टा ते बोधिसत्त्वप्रणिधिज्ञानविठपना? दृष्टास्ते बोधिसत्त्वचर्यासमुदागमाः? श्रुतं ते बोधिसत्त्वनिर्याणमुखम्? दृष्टा ते बुद्धक्षेत्रव्यूहाप्रमाणता? दृष्टा ते तथागतप्रणिधिवैशारद्यवैशेषिकता? अनुगता ते बोधिसत्त्वविमोक्षाचिन्त्यता? अनुभूतं ते बोधिसत्त्वसमाधिप्रीतिमुखम्? सुधन आह-दृष्टमार्य कल्याणमित्राधिष्ठानेन कल्याणमित्रप्रभावेण। अपि तु खलु आर्य को नामैष विमोक्षः? मैत्रेय आह-सर्वत्र्यध्वारम्बणज्ञानप्रवेशासंमोषस्मृतिव्यूहगर्भो नाम कुलपुत्र एष विमोक्षः। ईदृशानां च कुलपुत्र विमोक्षाणामनभिलाप्यानभिलाप्यानामेकजातिप्रतिबद्धो बोधिसत्त्वो लाभी। सुधन आह-क्व असौ आर्य व्यूहो गतः? मैत्रेयो बोधिसत्त्व आह-यत एवागतः। सुधन आह-कुत आगतः? मैत्रेयो बोधिसत्त्व आह-बोधिसत्त्वज्ञानाधिष्ठानाभिनिर्हारादागतः। तत्रैवाधिष्ठानेन तिष्ठति। न क्वचिद्गतो नागतो न राशीभूतो न संचयभूतो न कूटस्थो न भावस्थो न भावस्थितो न देशस्थो न प्रदेशस्थः। तद्यथा कुलपुत्र नागानां मेघजालं न कायेन चित्तेन अभ्यन्तरीभूतं न संचयस्थितं न संदृश्यते। नागचेतनावशेन अप्रमाणा वारिघाराः प्रमुञ्चति नागविषयाचिन्त्यतया। एवमेव कुलपुत्र ते व्यूहा नाध्यात्मगता न बहिर्धागता न च न संदृश्यन्ते, बोधिसत्त्वाधिष्ठानवशेन, तव च सुभाजनतया। तद्यथा कुलपुत्र मायाकारस्य सर्वमायागतविषयं संदर्शयमानस्य माया न कुतश्चिदागच्छन्ति न विगच्छन्ति न क्वचित्संक्रान्तिम्, संदृश्यते च मन्त्रौषधिबलेन। एवमेव कुलपुत्रते व्यूहा न क्वचिद्गता न कुतश्चिदागता न क्वचिद्राशीभूताः। संदृश्यन्ते च अचिन्त्यबोधिसत्त्वज्ञानमायासुशिक्षित्वात् पूर्वप्रणिधानाधिष्ठानज्ञानवशितया। सुधन आहं-कियद्दूरादार्य आगच्छसि? आह-अनागतगतिंगतः। कुलपुत्र बोधिसत्त्वानां गतिः अचलनास्थानगतिः। अनालयानिकेतगतिः। अच्युत्युपपत्तिगतिः। अस्थानसंक्रान्तिगतिः। अचलनानुत्थानगतिः। अनवेक्षानिकेतगतिः। अकर्मविपाकगतिः। अनुत्पादानिरोधगतिः। अनुच्छेदाशाश्वतगतिः। अपि तु कुलपुत्र महाकरुणागतिर्बोधिसत्त्वानां विनेयसत्त्वावेक्षणतया, महामैत्रीगतिर्बोधिसत्त्वानां दुःखितसत्त्वपरित्राणतया, शीलगतिर्बोधिसत्त्वानां यथाशयोपपत्तितया, प्रणिधानगतिर्बोधिसत्त्वानां पूर्वाधिष्ठानेन, अभिज्ञागतिर्बोधिसत्त्वानां सर्वसुखसंदर्शनतया, अनभिसंस्कारगतिर्बोधिसत्त्वानां सर्वतथागतपादमूलानुच्चलनतया, अनायूहवियूहगतिर्बोधिसत्त्वानां कायचित्तासंप्रवणतया, प्रज्ञोपायगतिर्बोधिसत्त्वानां सत्त्वानुवर्तनतया, निर्माणसंदर्शनगतिर्बोधिसत्त्वानां प्रतिभासप्रतिबिम्बनिर्मितशरीरसमतया।



अपि च कुलपुत्र यद्वदसि-कियद्दूरात्त्वमागच्छसीति। अहमस्मिन् कुलपुत्र आगच्छामि जन्मभूमेर्मालदेभ्यो जनपदेभ्यः कुटिग्रामकात्। तत्र गोपालको नाम श्रेष्ठी। तं बुद्धधर्मेषु प्रतिष्ठाप्य जन्मभूमकानां च मनुष्याणां यथाभाजनतया धर्मं देशयित्वा मातापितृज्ञातिसंबन्धिनश्च ब्राह्मणगृहपतीन् महायाने समादाप्य। सुधन आह-कतमा आर्य बोधिसत्त्वानां जन्मभूमिः? आह-दशेमाः कुलपुत्र बोधिसत्त्वानां जन्मभूमयः। कतमा दश? यदुत बोधिचित्तोत्पादो बोधिसत्त्वानां जन्मभूमिः। बोधिसत्त्वकुलजनक अध्याशयो बोधिसत्त्वानां जन्मभूमिः। कल्याणमित्रकुले जनयिताः.......भूमिप्रतिष्ठानं बोधिसत्त्वानां जन्मभूमिः। पारमिताकुले जनकं........ प्रणिधानाभिनिर्हारो बोधिसत्त्वानां जन्मभूमिः। अनुत्पत्तिकधर्मक्षान्तिकुले जनकौ.......। सर्वधर्मप्रतिपत्तिः कुलपुत्र बोधिसत्त्वानां जन्मभूमिः। अतीतानागतप्रत्युत्पन्नसर्वतथागतकुले जनयित्री जन्मभूमिः। इमाः कुलपुत्र बोधिसत्त्वानां दश जन्मभूमयः॥



प्रज्ञापारमिता कुलपुत्र बोधिसत्त्वानां माता, उपायकौशल्यं पिता, दानपारमिता स्तन्यम्, शीलपारमिता धात्री, क्षान्तीपारमिता भूषणालंकारः, वीर्यपारमिता संवर्धिका, ध्यानपारमिता चर्याविशुद्धिः कल्याणमित्राणि शिक्षाचर्यः, सर्वबोध्यङ्गानि सहायाः, सर्वबोधिसत्त्वा भ्रातरः बोधिचित्तं कुलम्, प्रतिपत्तिः कुलधर्माः, भूम्यवस्थानं क्षान्तिप्रतिलम्भः, कुलाभिजातिः प्रणिधानाभिनिर्हारः, कुलविद्यालाभः, चर्याविशुद्धिः, कुलधर्मानुवर्तनता महायानसमादापना, कुलवंशाव्यवच्छेदः अभिषेकैकजातिप्रतिबद्धता, धर्मराजेषु पुत्रत्वम्, सर्वतथागतसमुदागमः कुलवंशपरिशुद्धिः। एवं हि कुलपुत्र बोधिसत्त्वोऽतिक्रान्तो भवति बालपृथग्जनभूमिम्। अवक्रान्तो भवति बोधिसत्त्वनियामम्। संभूतो भवति तथागतकूले। प्रतिष्ठितो भवति तथागतवंशे। अव्यवच्छेदाय प्रतिपन्नो भवति त्रिरत्नवंशस्य। परिपालनाभियुक्तो भवति बोधिसत्त्वकुलस्य। परिशुद्धो भवति जातिगोत्रेण। अनुपक्रुष्टो भवति वर्णजात्योः। अनवद्यो भवति सर्वजातः। अदोषः सदेवके लोके समारके सब्रह्मके सश्रमणब्राह्मणिकायां प्रजायाम्। कुलीनो भवति उत्तमबुद्धकुलसंभूतो महाप्रणिधिगर्भशरीरः॥



एवं कुलजातिसमृद्धाश्च कुलपुत्र बोधिसत्त्वाः प्रतिभासायतनसर्वधर्मपरिज्ञातत्वान्न विजुगुप्सन्ते सर्वलोकोपपत्तिषु। निर्मितोपमसर्वभवोपपत्तिपरिज्ञातत्वान्न संक्लिश्यन्ते सर्वभवगत्युपपत्तिसंवासेषु। निरात्मसर्वबुद्धत्वान्न परिखिद्यन्ते सर्वसत्त्वपरिपाकविनयेषु। महामैत्रीमहाकरुणाशरीरत्वान्न श्राम्यन्ति सर्वसत्त्वानुग्रहेषु। स्वप्नोपमसंसाराधिमुक्तत्वान्न परित्रसन्ति सर्वकल्पसंवासेषु। मायामयं च स्कन्धपरिज्ञातत्वान्न क्राम्यन्ति सर्वजन्मच्युतिमरणसंदर्शनेन। धर्मधातुप्रकृतिकत्वायतनमुचित्वान्न क्षण्यन्ते सर्वविषयेषु। मरीच्युपमसर्वसंज्ञागतसुभावितत्वान्न मुह्यन्ति सर्वसंसारगतिषु। मायोपमसर्वधर्मविक्रीडितत्वादनुपलिप्ता भवन्ति सर्वमारविषयैः। सर्वकायप्रभावितत्वादवञ्चनीया भवन्ति सर्वक्लेशैः। उपपत्तिवशितालब्धत्वाद्गतिंगता भवन्ति सर्वगतिषु। सोऽहं कुलपुत्र सर्वलोकधातूपपत्त्यन्तर्गतेन कायेन सर्वजगद्रूपसमैर्बलविशेषैः सर्वसत्त्वोपमैर्निरुक्तिसंभेदैः सर्वजगदुपमाभिर्नामधेयविमात्रताभिः सर्वसत्त्वाधिमुक्तिसमैरीर्यापथैः, सर्वजगद्विनयप्रमाणैर्लोकानुवर्तनैः, सर्वविशुद्धिसमैर्जन्मकुलोपपत्तिसंदर्शनैः, क्रियावतारमुखैः सर्वसत्त्वसंज्ञानुप्रवेशैः सर्वबोधिसत्त्वप्रणिधिनिर्माणसमैरात्मभावसंदर्शनप्रभावनैः सर्वधर्मधातुं स्फरित्वा पूर्वसभागचरितानां सत्त्वानां प्रनष्टबोधिचित्तानां परिपाचनार्थं जम्बुद्वीपे च जन्मोपपत्तिसंदर्शनार्थमिह दक्षिणापथे मालदेषु जनपदेषु कूटाग्रामके ब्राह्मणकुलेषूपपन्नानां मातृपितृज्ञातिसंबन्धिनां विनयार्थं ब्राह्मणकुलजातिविशेषेण चैषां जात्यभिमानिकानिरभिमानतायै तथागतकुले संजननार्थमिहोपपन्नः। सोऽहं कुलपुत्र इह दक्षिणापथे अनेनोपायेन यथाशयानां सत्त्वानां यथाविनेयानां परिपाकविनयं कुर्वन् इहैव वैरोचनव्यूहालंकारगर्भे कूटागारे प्रतिवसामि। इतश्चाहं च्युतः तुषितभवने उपपत्तिं संदर्शयिष्यामि यथाशये सत्त्वानुवर्तनतायै, तुषितकायिकानां च सभागचरितानां देवपुत्राणां परिपाकाय, सर्वकामधातुसमतिक्रान्तानां बोधिसत्त्वपुण्यज्ञाननिर्माणव्यूहसंदर्शनतायै, कामरतितृष्णाविनिवर्तनतायै, सर्वसंसारानित्यत्वपरिदीपनतायै, विपत्तिपर्यवसानसर्वदेवोपपत्तिसंदर्शनतायै, च्यवनाकारं नाम महाज्ञानधर्ममुखमेकजातिबद्धैर्बोधिसत्त्वैः सार्धं संगायनाय, सहपरिपाचितानां च तत्रोपपत्तिसंग्रहणतायै, शाक्यमुनिसंप्रेषितानां च विनेयकलानां प्रबोधनतायै। काले परिपूर्णाभिप्रायसर्वज्ञतामधिगमिष्यामि। बोधिप्राप्तं च मां कुलपुत्र त्वं पुनरपि द्रक्ष्यसि सार्धं मञ्जुश्रिया कल्याणमित्रेण॥



अपि तु खलु पुनः कुलपुत्र-गच्छ त्वं तमेव मञ्जुश्रियं कुमारभूतम्। उपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्, कथं समन्तभद्रचर्यामण्डलमवतरितव्यम्, कथमभिनिर्हर्तव्यम्, कथं प्रणिधातव्यम्, कथं विपुलीकर्तव्यम्, कथमनुसर्तव्यम्, कथं पर्यदातव्यम्, कथं प्रवेष्टव्यम्, कथं परिपूरयितव्यम्, स ते कुलपुत्र कल्याणमित्र संदर्शयिष्यति। तत्कस्य हेतोः? स कुलपुत्र बोधिसत्त्वकोटीनियुतशतसहस्राणां प्रणिधानविशेषः संविद्यते यो मञ्जुश्रियः कुमारभूतस्य। विस्तीर्णः कुलपुत्र मञ्जुश्रियः कुमारभूतस्य चर्यानिहारं। अप्रमाणो मञ्जुश्रियः कुमारभूतस्य प्रणिधानाभिनिर्हारः अप्रतिप्रस्रब्धो मञ्जुश्रियः कुमारभूतस्य सर्वबोधिसत्त्वगुणविशेषाभिनिर्हारः। माता मञ्जुश्रीः कुमारभूतो बुद्धकोटीनियुतशतसहस्राणाम्। अववादको मञ्जुश्रीः कुमारभूतो बोधिसत्त्वकोटीनियुतशतसहस्राणाम्। उद्युक्तो मञ्जुश्रीः कुमारभूतः सर्वसत्त्वधातुपरिपाकविनयाय। विस्तीर्णनामचक्रो मञ्जुश्रीः कुमारभूतो दशदिक्सर्वलोकधातुषु। कथापुरुषो मञ्जुश्रीः कुमारभूतोऽनभिलाप्येषु तथागतपर्षन्मडलेषु। संवर्णितो मञ्जुश्रीः कुमारभूतः सर्वतथागतैः। गम्भीरधर्मज्ञानविहारी मञ्जुश्रीः कुमारभूतः सर्वधर्मयथार्थदर्शी। दुरागतगोचरो मञ्जुश्रीः कुमारभूतः सर्वविमोक्षनयेषु। अवतीर्णः समन्तभद्रबोधिसत्त्वचर्यायाम्। स ते कुलपुत्र कल्याणमित्राजनकः, तथागतकुले संवर्धकः, सर्वकुशलमूलानुत्थापकः, बोधिसंभाराणां दर्शकः, भूतकल्याणमित्राणां समादापकः सर्वगुणेषु अवतारकः, महाप्रणिधानजाले प्रतिष्ठापकः, सर्वप्रणिधानाभिनिर्हारेषु श्रावयिता, सर्वबोधिसत्त्वगुह्यानां संदर्शकः, सर्वबोधिसत्त्वचिन्त्यतायाः, सभागचरितः पूर्वजन्मसंवासेषु। तस्मात्तर्हि त्वं कुलपुत्र मञ्जुश्रीपादमूलगतः एव मा परीत्तमनमुत्पादय, मा परिखेदं जनय सर्वगुणानुशासनीप्रतिलम्भेषु। तत्कस्य हेतोः? यावन्ति त्वया सुधन कल्याणमित्राणि दृष्टानि, यावन्ति चर्यामुखानि श्रुतानि, यावन्तो विमोक्षनया अवतीर्णाः, यावन्तः प्रणिधानविशेषा अवगाढाः, सर्वं मञ्जुश्रियः कुमारभूतस्यानुभावोऽधिष्ठानं च द्रष्टव्यम्। स च मञ्जुश्रीः कुमारभूतः परमपारमिताप्राप्तः॥



अथ खलु सुधनः श्रेष्ठिदारको मैत्रेयस्य बोधिसत्त्वस्य पादौ शिरासाभिवन्द्य मैत्रेयं बोधिसत्त्वं महासत्त्वमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य मैत्रेयस्य बोधिसत्त्वस्यान्तिकात् प्रक्रान्तः॥५२॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project