Digital Sanskrit Buddhist Canon

४७ शिल्पाभिज्ञः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 47 śilpābhijñaḥ
४७ शिल्पाभिज्ञः।



अथ खलु सुधनः श्रेष्ठिदारको येन शिल्पाभिज्ञो श्रेष्ठिदारकस्तेनोपसंक्रम्य शिल्पाभिज्ञस्य श्रेष्ठिदारकस्य पादौ शिरसाभिवन्द्य शिल्पाभिज्ञस्य श्रेष्ठिदारकस्य पुरतः प्राञ्जलिः स्थित्वा एवमाह-मया आर्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्। न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्। श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददातीति। तद्वदतु मे आर्यः-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्॥



सोऽवोचत्-अहं कुलपुत्र शिल्पाभिज्ञावतो बोधिसत्त्वविमोक्षस्य लाभी। तस्य मे कुलपुत्र मातृकां वाचयमानस्य अकारमक्षरं परिकीर्तयतो बोधिसत्त्वानुभावेन असंभिन्नविषयं नाम प्रज्ञापारमितामुखमवक्रान्तम्। रकारं परिकीर्तयतोऽनन्ततलसंभेदं नाम प्रज्ञापारमितामुखमवक्रान्तम्। पकारं परिकीर्तयतो धर्मधातुतलसंभेदं नाम प्रज्ञापारमितामुखमवक्रान्तम्। चकारं परिकीर्तयतः समन्तचक्रविभक्तिच्छेदनं नाम प्रज्ञापारमितामुखमवक्रान्तम्। नकारं परिकीर्तयतोऽनिलयप्रतिलब्धं नाम प्रज्ञापारमितामुखमवक्रान्तम्। लकारं परिकीर्तयतो विगतानालयविमलं नाम प्रज्ञापारमितामुखमवक्रान्तम्। दकारं परिकीर्तयतोऽवैवर्त्यप्रयोगं नाम प्रज्ञापारमितामुखमवक्रान्तम्। बकारं परिकीर्तयतो वज्रमण्डलं नाम प्रज्ञापारभितामुखमवक्रान्तम्। डकारं परिकीर्तयतः समन्तचक्रं नाम प्रज्ञापारमितामुखमवक्रान्तम्। सकारं परिकीर्तयतः सागरगर्भं नाम प्रज्ञापारमितामुखमवक्रान्तम्। वकारं परिकीर्तयतः समन्तविरूढविठपनं नाम प्रज्ञापारमितामुखमवक्रान्तम्। तकारं परिकीर्तयतो ज्योतिर्मण्डलं नाम प्रज्ञापारमितामुखमवक्रान्तम्। यकारं परिकीर्तयतः संभेदकूटं नाम प्रज्ञापारमितामुखमवक्रान्तम्। ष्टकारं परिकीर्तयतः समन्तदाहप्रशमनप्रभासं नाम प्रज्ञापारमितामुखमवक्रान्तम्। ककारं परिकीर्तयतोऽसंभिन्नमेघं नाम प्रज्ञापारमितामुखमवक्रान्तम्। षकारं परिकीर्तयतो अभिमुखप्रवर्षणप्रलम्बं नाम प्रज्ञापारमितामुखमवक्रान्तम्। मकारं परिकीर्तयतो महावेगविचित्रवेगशिखरं नाम प्रज्ञापारमितामुखमवक्रान्तम्। गकारं परिकीर्तयतः समन्ततलविठपनं नाम प्रज्ञापारमितामुखमवक्रान्तम्। थकारं परिकीर्तयतः तथतासंभेदगर्भं नाम प्रज्ञापारमितामुखमवक्रान्तम्। जकारं परिकीर्तयतो जगत्संसारविशुद्धिविगाहनं नाम प्रज्ञापारमितामुखमवक्रान्तम्। स्वकारं परिकीर्तयतः सर्वबुद्धस्मृतिव्यूहं नाम प्रज्ञापारमितामुखमवक्रान्तम्। धकारं परिकीर्तयतो धर्ममण्डलविचारविचयं नाम प्रज्ञापारमितामुखमवक्रान्तम्। शकारं परिकीर्तयतः सर्वबुद्धानुशासनीचक्ररोचं नाम प्रज्ञापारमितामुखमवक्रान्तम्। खकारं परिकीर्तयतोऽभिसंस्कारहेतुभूमिज्ञानगर्भं नाम प्रज्ञापारमितामुखमवक्रान्तम्। क्षकारं परिकीर्तयतः कर्मनिशान्तसागरकोशविचयं नाम प्रज्ञापारमितामुखमवक्रान्तम्। स्तकारं परिकीर्तयतः सर्वक्लेशविकिरणविशुद्धिप्रभं नाम प्रज्ञापारमितामुखमवक्रान्तम्। ञकारं परिकीर्तयतो लोकसंभवविज्ञप्तिमुखं नाम प्रज्ञापारमितामुखमवक्रान्तम्। थकारं परिकीर्तयतः संसारप्रतिचक्रज्ञानमण्डलं नाम प्रज्ञापारमितामुखमवक्रान्तम्। भकारं परिकीर्तयतः सर्वभवनमण्डलविज्ञप्तिव्यूहं नाम प्रज्ञापारमितामुखमवक्रान्तम्। छकारं परिकीर्तयत उपचयगर्भप्रयोगं चारित्रच्छत्रमण्डलभेदं नाम प्रज्ञापारमितामुखमवक्रान्तम्। स्मकारं परिकीर्तयतः सवर्बुद्धदशर्नदिगभिमुखावर्तं नाम प्रज्ञापारमितामुखमवक्रान्तम्। ह्वकारं परिकीर्तयतः सर्वसत्त्वाभव्यावलोकनबलसंजातगर्भं नाम प्रज्ञापारमितामुखमवक्रान्तम्। त्सकारं परिकीर्तयतः सर्वगुणसागरप्रतिपत्त्यवतारविगाहनं नाम प्रज्ञापारमितामुखमवक्रान्तम्। घकारं परिकीर्तयतः सर्वधर्ममेघसंधारणदृढसागरगर्भं नाम प्रज्ञापारमितामुखमवक्रान्तम्। ठकारं परिकीर्तयतः सर्वबुद्धप्रणिधानदिगभिमुखगमनं नाम प्रज्ञापारमितामुखमवक्रान्तम्। णकारं परिकीर्तयतः चक्राक्षराकारकोटिवचनं नाम प्रज्ञापारमितामुखमवक्रान्तम्। फकारं परिकीर्तयतः सर्वसत्त्वपरिपाककोटीगतमण्डलं नाम प्रज्ञापारमितामुखमवक्रान्तम्। स्ककारं परिकीर्तयतो भूमिगर्भासङ्गप्रतिसंवित्प्रभाचक्रस्फरणं नाम प्रज्ञापारमितामुखमवक्रान्तम्। स्यकारं परिकीर्तयतः सर्वबुद्धधर्मनिर्देशविषयं नाम प्रज्ञापारमितामुखमवक्रान्तम्। श्चकारं परिकीर्तयतः सत्त्वगगनधर्मघननिगर्जितनिर्नादस्फरणं नाम प्रज्ञापारमितामुखमवक्रान्तम्। टकारं परिकिर्तयतः सत्त्वार्थनैरात्म्यकार्यात्यन्तपरिनिष्ठाप्रदीपं नाम प्रज्ञापारमितामुखमवक्रान्तम्। ढकारं परिकीर्तयतो धर्मचक्रसंभेदगर्भं नाम प्रज्ञापारमितामुखमवक्रान्तम्॥



इति हि कुलपुत्र मम मातृकां वाचयत एतानि द्वाचत्वारिंशत् प्रज्ञापारमितामुखप्रमुखान्यप्रमेयासंख्येयानि प्रज्ञापारमितामुखान्यावक्रान्तानि। एतस्य अहं कुलपुत्र शिल्पाभिज्ञावतो बोधिसत्त्वविमोक्षस्य लाभी। एतमहं जानामि। किं मया शक्यं सर्वलौकिकलोकोत्तरशिल्पस्थानपारमिताप्राप्तानां बोधिसत्त्वानां चर्यां ज्ञातुं गुणान् व वक्तुम्? यथा सर्वशिल्पस्थानप्रवेशेषु सर्वलिपिसंख्यागणनानिक्षेपप्रवेशेषु सर्वमन्त्रौषधिविधिज्ञानप्रयोगप्रतिवेधेषु सर्वभूतग्रहज्योतिषापस्मारकाखोर्दवेतालप्रतिष्ठानेषु सत्त्वधातुचिकित्साभैषज्यसंयोगज्ञानेषु धातुतन्त्रसंयोगप्रयोगेषु सुवर्णमणिमुक्तावैडूर्यशङ्खशिलाप्रवाललोहितकमुसारगल्वकेशरश्रीगर्भाश्मगर्भसर्वरत्नसंभवोत्पत्तिगोत्राकरमूल्यज्ञानेषु उद्यानतपोवनग्रामनगरनिगमराष्ट्रराजधान्यभिनिर्हारेषु मृगचक्राङ्कविद्यासर्वलक्षणनिमित्तभूमिचालदिग्दाहोल्कापातक्षेमाक्षेमसुभिक्षदुर्भिक्षसर्वलौकिकावर्तनिवर्तप्रवेशेषु सर्वलोकोत्तरधर्मविभक्तिसूचनादिनिर्देशप्रवेशतत्त्वानुगमज्ञानेषु नास्त्यावरणं वा विमर्शो वा विमतिर्वा संदेहो वा संशयो वा संमोहो वा धंधायितत्वं वा व्याबाधिकं वा अवसादनं वा अज्ञानं वा अनभिसमयो वा॥



गच्छ कुलपुत्र, इयमिहैव मगधविषये केवलके जनपदे वर्तनके नगरे भद्रोत्तमा नामोपासिका प्रतिवसति। तामुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्॥



अथ खलु सुधनः श्रेष्ठिदारकः शिल्पाभिज्ञस्य श्रेष्ठिदारकस्य पादौ शिरसाभिवन्द्य शिल्पाभिज्ञं श्रेष्ठिदारकमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य शिल्पाभिज्ञस्य श्रेष्ठिदारकस्यान्तिकात्प्रक्रान्तः॥४५॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project