Digital Sanskrit Buddhist Canon

४६ विश्वामित्रः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 46 viśvāmitraḥ
४६ विश्वामित्रः।



अथ खलु सुधनः श्रेष्ठिदारको त्रिदशेन्द्रभवनादवतीर्य अनुपूर्वेण येन कपिलवस्तुनि महानगरे विश्वामित्रो दारकाचार्यस्तेनोपजगाम। उपेत्य विश्वामित्रस्य दारकाचार्यस्य पादौ शिरसाभिवन्द्य विश्वामित्रं दारकाचार्यमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य विश्वामित्रस्य दारकाचार्यस्य पुरतः प्राञ्जलिः स्थित्वा एवमाह-मया आर्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्। न च जानामि-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्। श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददातीति। तद्वदतु मे आर्यः-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्। एवमुक्ते विश्वामित्रो दारकाचार्यः सुधनं श्रेष्ठिदारकमेतदवोचत्-अयं कुलपुत्र शिल्पाभिज्ञो नाम श्रेष्ठिदारको बोधिसत्त्वाल्लिपिज्ञानं शिक्षितः। एतमुपसंक्रम्य परिपृच्छ। एष ते निर्देक्ष्यति यथा बोधिसत्त्वचर्यायां शिक्षितव्यम्, यथा प्रतिपत्तव्यम्॥ ४४॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project