Digital Sanskrit Buddhist Canon

४३ गोपा

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

43 gopā

४३ गोपा।



अथ खलु सुधनः श्रेष्ठिदारकः सुतेजोमण्डलरतिश्रियो लुम्बिनीवनदेवताया अन्तिकादपक्रम्य येन कपिलवस्तु महानगरं तेनोपसंक्रम्य एतमेवाप्रमेयकल्पसर्वारम्बणबोधिसत्त्वजन्मविकुर्वितसंदर्शनं बोधिसत्त्वविमोक्षं भावयन् अवतरन् विपुलीकुर्वन् अनुतिष्ठन् उत्तापयन् परिजयन् परिचिन्तयन् प्रविचिन्वन् अनुपूर्वेण येन धर्मधातुप्रतिभासप्रभो बोधिसत्त्वसंगीतिप्रासादस्तेनोपसंक्रामत्। तस्योपसंक्रमणस्य अशोकश्रीर्नाम बोधिसत्त्वसंगीतिप्रासाददेवता दशभिर्गृहदेवतासहस्रैः सार्धं प्रत्युद्गम्य सुधनं श्रेष्ठिदारकमेवमाह-स्वागतं ते महापुरुष महाप्रज्ञाज्ञानविक्रामिन् अचिन्त्यबोधिसत्त्वविमोक्षभावनाध्यालम्बनप्रणिधिचित्तविपुलधर्मविमानगोचरचारिन् धर्मनगराभिमुख अनन्तबोधिसत्त्वोपायनयावतारणाप्रतिप्रस्रब्धतथागतगुणसागरावभासप्रतिलब्ध सर्वजगद्विनयप्रतिभासप्रतिभानज्ञानाभिमुखसर्वसत्त्वचर्याज्ञानकायमन्त्रानुवर्तन चर्याभिमुखचित्त सर्वजगद्वेदनाप्रीतिसमुद्रवेगविवर्धनप्रणिधान सर्वतथागतधर्मप्रतिवेधमार्गप्रतिपन्न। यथा त्वां पश्यामि अनिमिषनेत्रगम्भीरचर्येर्यापथविशुद्धगोचरम्, नचिरेण त्वमनुत्तरतथागतकायवाक्चित्तालंकारविशुद्धिं प्रतिलब्धो लक्षणानुव्यञ्जनप्रतिमण्डितेन कायेन दशबलज्ञानालोकालंकृतेन चित्तेन लोकं विचरिष्यसि। यादृशीं च ते दृढवीर्यपराक्रमतां पश्यामि, नचिरेण त्वं सर्वत्र्यध्वतथागतसंमुखीभावदर्शनसमङ्गी सर्वतथागतधर्ममेघान् संप्रतीच्छन् सर्वबोधिसत्त्वध्यानविमोक्षसमाधिसमापत्तिशान्तधर्मविमानरतिमनुभवन् गम्भीरं बुद्धविमोक्षमनुप्रवेक्ष्यसि। तथा हि त्वं कल्याणमित्रोपसंक्रमणदर्शनपर्युपासनानुशासनीः संप्रतीच्छंस्तद्गुणप्रतिनयेषु प्रयुज्यमानो न परिखिद्यसे, न विनिवर्तसे, न परितपसि। न च ते कश्चिदन्तरायो वा आवरणं वा निवरणं वा प्रसहते, मारा वा मारकायिका वा देवताः। तेन अचिरादेव त्वं सर्वसत्त्वानां प्रीतिकरो भविष्यसि॥



एवमुक्ते सुधनः श्रेष्ठिदारकोऽशोकश्रियं बोधिसत्त्वसंगीतिप्रासाददेवतामेतदवोचत्-तथास्तु देवते यथा वदसि। अहं खलु देवते सर्वसत्त्वक्लेशसंतापव्युपशमेन परमां प्रीतिं विन्दामि। सर्वसत्त्वविषयकर्मविपाकविनिवर्तनेन सर्वसत्त्वसुखसंभवेन सर्वसत्त्वानवद्यकर्मप्रतिपत्त्या परमां प्रीतिं विन्दामि। यदा च देवते सत्त्वा विविधविषयकर्मक्लेशप्रयोगाक्षिप्तचित्ता दुर्गतिषु प्रपतन्ति सुगतिषु वा, विविधानि कायिकचैतसिकानि दुःखदौर्मनस्यानि प्रत्यनुभवन्ति, दुर्मनसस्तस्मिन् समये बोधिसत्त्वा भवन्ति परमदुर्मनसः। तद्यथापि नाम देवते पुरुषस्यैकान्ततृष्णाचरितस्य एकपुत्रको भवेत् प्रियो मनापः। स तस्याङ्गप्रत्यङ्गेषु च्छिद्यमानेषु एकान्ततृष्णाचरितत्वात् परमदुर्मनाः स्यादनात्तमनस्कः, एवमेव देवते बोधिसत्त्वो बोधिसत्त्वचारिकां चरन् सत्त्वान् कर्मक्लेशवशेन तिसृषु दुर्गतिषु पतितान् दृष्ट्वा दुर्मना भवति परमदुर्मनाः। यस्मिन् वा पुनः समये सत्त्वाः कायवाङ्भनःसुचरितसमादनहेतोः कायस्य भेदात्सुगतौ स्वर्गलोके देवेषूपपद्यन्ते, देवमनुष्यगतिषु च कायिकचैतसिकानि सुखानि प्रत्यनुभवन्ति, परमसुखी तस्मिन् समये बोधिसत्त्वो भवति सुमना आत्तमनस्कः प्रमुदितः प्रीतिसौमनस्यजातः। न खलु पुनर्देवते बोधिसत्त्वा आत्मार्थाय सर्वज्ञतामभिप्रार्थयन्ते। न विचित्रसंसाररतिसुखप्रभवनार्थं न कामधातुपर्यापन्नं विविधरतिव्यूहप्रार्थनया संज्ञाचित्तदृष्टिविपर्यासवशेन न संयोजनबन्धनानुशयपर्यवस्थानवशगताः। न तृष्णादृष्टिवशगताः, न विविधसत्त्वसंसर्गरतिसंज्ञाविनिबद्धचेतसः, न ध्यानरतिसुखास्वादपरिगृद्धाः, न विविधावरणावृताः संसारगतिषु परिवर्तन्ते। अपि तु खलु पुनर्देवते बोधिसत्त्वा भवसमुद्रगतानामपरिमितदुःखप्रपीडितानां सत्त्वानामन्तिके महाकरुणां संजनयित्वा सर्वजगत्संग्रहमहाप्रणिधिमभिनिर्हरन्ति। ते महाकरुणाप्रणिध्यभिनिर्हारबलवेगेन सत्त्वपरिपाकविनयप्रयुक्ताः संसारे बोधिसत्त्वचर्यां चरन्तः संदृश्यन्ते। ते सर्वसत्त्वनां सर्वावरणसर्वज्ञताज्ञानं पर्येषमाणाः सर्वतथागतपूजोपस्थानप्रणिधिमभिनिर्हरन्ति। ते तथागतपूजोपस्थानप्रणिधिवशैर्न परिखिद्यन्ते बोधिसत्त्वचर्यायाम्। ते बोधिसत्त्वचर्यां चरन्तः संक्लिष्टानि क्षेत्राणि संपश्यन्तः सर्वबुद्धक्षेत्रपरिशोधनप्रणिधिमभिनिर्हरन्ति संक्लिष्टान् क्षेत्रसागरान् परिशोधयमानाः सर्वसत्त्वानामायतननानात्वं संपश्यमानाः। अनानात्वानुत्तरधर्मकायपरिशुद्धये प्रणिधिमभिनिर्हरन्ति संक्लिष्टकायवाक्चित्ततां सत्त्वानां संपश्यमानाः। सर्वसत्त्वकायवाक्चित्तालंकारपरिशुद्धये प्रणिधिमभिनिर्हरन्ति। विकलायतनानपरिशुद्धचेतसः सर्वान् संपश्यमानाः सर्वसत्त्वचित्तचरितानि परिशोधयमाना बोधिसत्त्वचर्यां चरन्तो न परिखिद्यन्ते। एवं हि देवते बोधिसत्त्वा अनन्तमध्यां बोधिसत्त्वचर्यां चरन्तोऽपरिखिन्नचित्ताः। एवं चरन्तोऽलंकारभूता भवन्ति सदेवकस्य लोकस्य देवमनुष्यसंपत्तिसंजननतया। मातापितृभूता भवन्ति बोधिसत्त्वोत्पादप्रतिष्ठापनतया। धात्रीभूता भवन्ति बोधिसत्त्वमार्गावतरणतया। नित्यानुबद्धसहजदेवता भवन्ति दुर्गतिप्रपातभयारक्षणतया। महादाशभूता भवन्ति संसारसमुद्रोत्तारणतया। शरणभूता भवन्ति सर्वमारक्लेशभयविनिवर्तनतया। परायणभूता भवन्ति अन्तपरमशीतिभावोपनयनतया। तीर्थभूता भवन्ति सर्वबुद्धसमुद्रावतरणया। संग्राहकभूता भवन्ति धर्मरत्नद्वीपोपनयनतया। पुष्पभूता भवन्ति सर्वबुद्धगुणसंपुष्पितचित्ततया। अलंकारभूता भवन्ति विपुलपुण्यज्ञानप्रभाप्रमुञ्चनतया। परमप्रीतिकरा भवन्ति समन्तप्रासादिकतया। अभिगमनीया भवन्ति अनवद्यकर्मप्रतिपत्त्या। समन्तभद्रा भवन्ति सर्वाकारवराङ्गसुपरिपूर्णकायतया। असेचनकरूपा भवन्ति अप्रतिकूलदर्शनतया। अवभासकरा भवन्ति ज्ञानरश्मिप्रमुञ्चनतया। आलोककरा भवन्ति धर्मप्रदीपधारणतया। प्रद्योतकरा भवन्ति बोध्याशयपरिशोधनतया। सेनापतिभूता भवन्ति मारकर्मविनिवर्तनतया। सूर्यभूता भवन्ति प्रज्ञारश्मिजालप्रभाप्रमुञ्चनतया। चन्द्रभूता भवन्ति गगनबुद्धिचन्द्रोदागमनतया। मेघभूता भवन्ति सर्वजगन्महाधर्ममेघाभिप्रवर्षणतया। एवं खलु देवते प्रतिपद्यमाना बोधिसत्त्वाः प्रिया भवन्ति सर्वसत्त्वानाम्॥



अथ खलु अशोकश्रीर्बोधिसत्त्वसंगीतिप्रासाददेवता सार्धं तैर्दशभिः गृहदेवतासहस्रैः सुधनं श्रेष्ठिदारकं दिव्यसमतिक्रान्तैः मनोमयैः पुष्पमाल्यगन्धचूर्णविलेपनरत्नाभरणवर्षैः प्रवृष्य अनुपरिवार्य बोधिसत्त्वभवनं प्रविशन्तमाभिर्गाथाभिरभ्यष्टावीत्—



उत्पद्यन्ते जिना लोके कदाचि ज्ञानभास्कराः।

संबोधौ चित्तमुत्पाद्य सर्वसत्त्वानुकम्पया॥१॥



बहुभिः कल्पनयुतैः दुर्लभं तच्च दर्शनम्।

अविद्यान्धस्य लोकस्य ज्ञानसूर्यो महानसि॥२॥



दृष्ट्वा लोकं विपर्यस्तमज्ञानतिमिरावृतम्।

महाकृपां संजनय्य प्रस्थितोऽसि स्वयंभुताम्॥३॥



विशुद्धेनाशयेन त्वं बुद्धबोध्यर्थमुद्यतः।

कल्याणमित्रं भजसेऽनपेक्षः कायजीविते॥४॥



न निश्रयस्ते लोकेऽस्मिन्न निकेतो न संस्तवः।

अनालयोऽस्य संकीर्णो निःसङ्ग गगनाशयः॥५॥



बोधिचर्यां चरस्यग्रां पुण्यमण्डलसुप्रभः।

उदयास्तमिते लोके ज्ञानरश्मिप्रमुञ्चनः॥६॥



लोकान्न चैवोच्चलसि लोकधर्मैर्न लिप्यसे।

असङ्गश्चरसे लोके मारुतो गगने यथा॥७॥



कल्पोद्दाहे यथा वह्निः प्रदीप्तः सततोद्यतः।

अग्निकल्पेन वीर्येण चरसे बोधिचारिकाम्॥८॥



सिंहकल्प महावीर दृढवीर्यपराक्रमः।

ज्ञानविक्रमसंपन्नस्त्वं चरस्यपराजितः॥९॥



धर्मधातुसमुद्रेऽस्मिन् ये केचिन्नयसागराः।

सन्मित्रसेवया शूर त्वं तानवतरिष्यसे॥१०॥



अथ खल्वशोकश्रीर्बोधिसत्त्वसंगीतिप्रासाददेवता सुधनं श्रेष्ठिदारकमाभिर्गाथाभिरभिष्टुत्य गच्छन्तं पृष्ठतः समनुबध्नाति स्म धर्मकामतया। अथ खलु सुधनः श्रेष्ठिदारको धर्मधातुप्रतिभासप्रभबोधिसत्त्वसंगीतिप्रासादमुपसंक्रम्य अनुप्रविश्य समन्तादनुविलोकयामास गोपायाः शाक्यकन्याया दर्शनकामः। सोऽपश्यद्गोपां शाक्यकन्यां धर्मधातुप्रतिभासप्रभस्य बोधिसत्त्वसंगीतिप्रासादस्य मध्ये सर्वबोधिसत्त्वस्य गृहावसनप्रतिभासमणिपद्मगर्भासननिषण्णां स्त्रीणां चतुरशीत्या सहस्रैः परिवृतां सर्वासां पार्थिवकुलसंभवानां पूर्वबोधिसत्त्वचर्यासभागकुशलमूलानां पूर्वदानसंग्रहसंगृहीतानां श्लक्ष्णमधुरवचनसमुदाचाराणां सर्वज्ञतार्थाभिमुखसुखसंगृहीतानां बुद्धबोधिसत्त्वसमुदागमसमानार्थतया सुसंगृहीतानां महाकरुणापूर्वंगमपुत्रदारपरिग्रहसुसंपरिगृहीतानां महामैत्र्युपेतस्वदारानुवर्तनपरिशोधितानां पूर्वबोधिसत्त्वाचिन्त्योपायकौशल्यपरिपरिपाचितानाम्। सर्वाणि च तानि चतुरशीतिस्त्रीसहस्राण्यवैवर्तिकान्यनुत्तरायां सम्यक्संबोधौ बोधिसत्त्वपारमितानयावतीर्णानि सर्वबोधिसत्त्वशिक्षासु अपरप्रणेयानि सर्वग्रहविगतचितानि सर्वसंसाररतिविरतमानसानि असङ्गधर्मधातुनयपरिशुद्धानि सर्वज्ञताभिमुखचित्तवेगानि सर्वनिवरणावरणजालविगतानि सर्वाङ्गपथसमतिक्रान्तानि धर्मकायसुनिर्मितविचाराणि सर्वलोकपरिपाकविनयाभिमुखानि विपुलपुण्यसमुद्रसंभूतचित्तानि समन्तभद्रबोधिसत्त्वचर्याप्रणिधाननिर्यातानि विपुलबोधिसत्त्वबलवेगसंवर्धितानि ज्ञानसूर्यमण्डलचित्तप्रदीपानि॥



अथ खलु सुधनः श्रेष्ठिदारको येन गोपा शाक्यकन्या तेनोपसंक्रम्य गोपायाः शाक्यकन्यायाः क्रमतलयोः सर्वशरीरेण प्रणिपत्य उत्थाय पुरतः प्राञ्जलिः स्थित्वा एवमाह-मया आर्ये अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्। न च जानामि कथं बोधिसत्त्वाः संसारे संसरन्ति, संसारदोषैश्च न लिप्यन्ते। सर्वधर्मसमतास्वभावं चावबुध्यन्ते। श्रावकप्रत्येकबुद्धभूमौ न च प्रतिष्ठन्ते। बुद्धधर्मावभासप्रतिलब्धाश्च भवन्ति। बोधिसत्त्वचर्यां न च व्यवच्छिन्दन्ति। बोधिसत्त्वभूमौ च प्रतिष्ठिता भवन्ति। सर्वतथागतविषयं च संदर्शयन्ति। सर्वलोकगतिसमतिक्रान्ताश्च भवन्ति। सर्वलोकगतिषु चोपविचरन्ति। धर्मकायपरिनिष्पन्नाश्च भवन्ति। अनन्तवर्णांश्च रूपकायानभिनिर्हरन्ति। अलक्षणधर्मकायपरायणाश्च भवन्ति। सर्वजगद्वर्णसंस्थानांश्च कायानादर्शयन्ति। अनभिलाप्यांश्च सर्वधर्मानवरन्ति। सर्ववाक्पथनिरुक्त्युदाहारैश्च सत्त्वानां धर्मं देशयन्ति। निःसत्त्वांश्च सर्वधर्मान् प्रजानन्ति। सत्त्वधातुविनयप्रयोगाच्च न विनिवर्तन्ते। अनुत्पादानिरोधांश्च सर्वधर्मानवतरन्ति। सर्वतथागतपूजोपस्थानप्रयोगाच्च न विनिवर्तन्ते। अकर्मविपाकांश्च सर्वधर्मानवतरन्ति कुशलकर्माभिसंस्कारप्रयोगाच्च न विनिवर्तन्ते॥



एवमुक्ते गोपा शाक्यकन्या सुधनं श्रेष्ठिदारकमेतदवोचत्-साधु साधु कुलपुत्र, यस्त्वं बोधिसत्त्वानामिमामेवंरूपां चर्यां धर्मतां परिप्रष्टव्यां मन्यसे, यथापि तत्समन्तभद्रप्रणिधानचर्याभिमुखस्य अयं प्रश्नोदाहारः। तेन हि कुलपुत्र शृणु, साधु च सुष्ठु च मनसि कुरु, भाषिष्ये बुद्धानुभावेन। दशभिः कुलपुत्र धर्मैः समन्वागता बोधिसत्त्वा इमामेवंरूपामिन्द्रजालतलोपमां समन्तज्ञानप्रभां बोधिसत्त्वचर्यां परिपूरयन्ति। कतमैर्दशभिः? यदुत उदारकल्याणमित्रसंनिश्रयेण विपुलाधिमुक्तिप्रतिलाभेन उदारकल्याणाशयविशुद्ध्या विपुलपुण्यज्ञानसमुद्रोपस्तब्धचित्ततया बुद्धोत्पत्तिसंभवमहाधर्मनिर्देशश्रवणप्रतिलाभेन त्र्यध्वतथागताधिमुक्तिचेतनासंवासेन सर्वबोधिसत्त्वचर्यामण्डलसमतानुगमेन सर्वतथागताधिष्ठानप्रतिलाभेन प्रकृतिमहाकरुणाध्याशयविशुद्ध्या सर्वसंसारचक्रोपच्छेदचित्तबलाधानप्रतिलाभेन। एभिः कुलपुत्र दशभिर्धर्मैः समन्वागता इमामेवंरूपामिन्द्रजालतलोपमां समन्तज्ञानप्रभां बोधिसत्त्वचर्यां परिपूरयन्ति॥



तत्र कुलपुत्र अविवर्त्यवीर्या बोधिसत्त्वा एतान् धर्मान् प्रतिलभ्य अक्षयाकाराभिनिर्हारेण भावयन्तो बहुलीकुर्वन्तः कल्याणमित्राण्याराग्य दशभिराकारैरभिराधयन्ति। कतमैर्दशभिः? यदुत कायजीवितानपेक्षतया संसारोपकरणानर्थिकतया सर्वधर्मस्वभावसमतानुगमेन सर्वज्ञताप्रणिधानाविवर्त्यतया सर्वधर्मधातुनयव्यवलोकनतया सर्वभवसमुद्रोच्चलितमानसतया अनालयधर्मगगनप्रविष्टानालयतया सर्वबोधिसत्त्वप्रणिधानानावरणतया सर्वक्षेत्रसागरप्रसरणतया अनावरणबोधिसत्त्वज्ञानमण्डलसुपर्यवदापिततया। एभिः कुलपुत्र दशभिराकारैर्बोधिसत्त्वाः कल्याणमित्राण्यारागयित्वा अभिराधयन्ति॥



अथ खलु गोपा शाक्यकन्या एतमेवार्थनयं संदर्शयमाना बुद्धाधिष्ठानेन दश दिशो व्यवलोक्य तस्यां वेलायामिमा गाथा अभाषत—



ये प्रस्थितामलविशालधियः परार्थाः

सन्मित्रसेवनपरा गतशाठ्यमायाः।

शास्तृत्वसंज्ञप्रतिलब्ध अखिन्नवीर्या-

श्चर्येन्द्रजालसदृशी चरतेष लोके॥११॥



अधिमुक्ति येष विपुला गगनप्रकाशा

यस्यां समोसरति सर्वत्रियध्वलोकः।

क्षेत्राश्च सत्त्व तथ धर्म तथैव बुद्धा-

स्तेषामियं चरिय ज्ञानप्रभंकराणाम्॥१२॥



येषाशयो गगनकल्प अनन्तमध्यः

संक्लेशनिर्मलतया परमं विशुद्धः।

येऽत्रोद्भवन्ति गुण सर्वतथागतानां

चर्येन्द्रजालतलभेदसमाहितानाम्॥१३॥



सर्वज्ञज्ञानविपुलैरमितैरचिन्त्यै-

रुपस्तब्ध ये गुणमहोदधिभिः सुमेधाः।

ते पुण्यसागरशरीरविशुद्धगर्भा

लोके चरन्ति न च लोकमलेन लिप्ताः॥१४॥



सर्वस्वराङ्गरुतघोषनयैर्जिनानां

ये धर्मगर्जित शृणोन्त न यानि तृप्तिम्।

धर्मं नयानुगतप्रज्ञप्रभप्रदीपा-

स्तेषामियं जगप्रदीपकराण चर्या॥१५॥



ये ते दशद्दिशि तथागत अप्रमेयान्

सर्वत्र चित्तक्षणि ओतरि अन्यमन्यान्।

सर्वांस्तथागतसमुद्र विचिन्तयन्ति

बुद्धाशयाननुगतानमयं प्रवेशः॥१६॥



पश्यन्ति ये परिषदो विपुला जिनानां

तेषां समाधिनयसागरमोतरन्ति।

प्रणिधानसागरनयं च अनन्तमध्यं

तेषामिदं चरितमिन्द्रतलोपमानाम्॥१७॥



येऽधिष्ठिता दशसु दिक्षु जिनैरशेषैः।

कल्पांश्चरन्त्यनपरान्तसमन्तभद्राः।

सर्वत्र क्षेत्रप्रसरे प्रतिभासप्राप्ता-

स्तेषामियं चरिय धर्मप्रभंकराणाम्॥१८॥



ये ते महाकरुणमण्डलज्ञानसूर्या

दृष्ट्वा जगद्व्यसनप्राप्तमुदेन्ति धीराः।

धर्माभया जगति मोह विधूय

तेषामियं चरि दिवाकरसादृशानाम्॥१९॥



दृष्ट्वा प्रजां भवगतौ परिवर्तमानां

संसारस्रोतप्रविलोमस्थिताः सुमेधाः।

सद्धर्मचक्रममितं समुदानयन्त-

श्चर्यासमन्तवरभद्रमतिं चरन्ति॥२०॥



तेऽत्र शिक्षित नयेहि अनन्तमध्यान्

कायान् यथाशय जगत्युपदर्शयित्वा।

प्रतिभासबिम्बसदृशैरपि तैः स्वकायैः

परिपाचयन्ति जनतां भवसागरेषु॥२१॥



मैत्रीनयैः सुविपुलैर्जनतां स्फरित्वा

नानाधिमुक्तिषु जनेषु चरिं विदर्श्य।

धर्मं यथाशय जगत्यभिवर्षमाणा

बोधाय सत्त्वनयुतान् विनयन्ति धीराः॥२२॥



अथ खलु गोपा शाक्यकन्या इमा गाथा भाषित्वा सुधनं श्रेष्ठिदारकमेतदवोचत्-अहं खलु कुलपुत्र सर्वबोधिसत्त्वसमाधिसागरनयव्यवलोकनविषयस्य बोधिसत्त्वविमोक्षस्य लाभिनी। सुधन आह-क एतस्य आर्ये सर्वबोधिसत्त्वसमाधिसागरनयव्यवलोकनविषयस्य बोधिसत्त्वविमोक्षस्य विषयः? आह-एतमहं कुलपुत्र बोधिसत्त्वविमोक्षं समापन्ना इह लोकधातावनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमान् कल्पानवतरामि। तेषु ये सत्त्वाः सर्वगतिपर्यापन्नाः, तान् प्रजानामि। यावन्ति च तेषां सत्त्वानां च्युत्युपपत्तिमुखानि, तानि प्रजानामि। यावन्त्यभिनिर्वृत्तिमुखानि, यावत्यः कर्माभिसंस्कारसमापत्तयः, यावत्यः कर्मविपाकविचित्रताः, ता अपि प्रजानामि। कुशलमप्येषां कर्मसमादानं प्रजानामि। अकुशलमपि नैर्याणिकमपि अनैर्याणिकमपि नियतमपि अनियतमपि मिथ्यात्वनियतमपि सानुशयमपि निरनुशयमपि कुशलमूलसंपन्नमपि कुशलमूलविपन्नमपि कुशलमूलपरिगृहीतमपि अकुशलमूलपरिगृहीतमपि कुशलाकुशलपरिगृहीतमपि समुदानीतकुशलमूलमपि असमुदानीतपापधर्ममपि एषां कर्मसमादानं प्रजानामि॥



तेषु च अनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमेषु कल्पेषु ये बुद्धा भगवन्तं उत्पन्नाः, तेषां नामसमुद्रानवतरामि। तेषां च बुद्धानां भगवतां प्रथमचित्तोत्पादसमुद्रानपि प्रजानामि। सर्वज्ञताप्रस्थाननयसमुद्रानपि प्रजानामि। सर्वप्रणिधिसागराभिनिर्हारानपि प्रजानामि। पूर्वबुद्धोत्पादप्रस्थानसमुद्रानपि प्रजानामि। पूर्वबुद्धपूजोपस्थानप्रयोगसमुद्रानपि प्रजानामि। पूर्वबोधिसत्त्वचर्यापरिपूरिसमुद्रानपि प्रजानामि। निर्याणव्यूहसमुद्रानपि प्रजानामि। तेषां च बुद्धानां भगवतां सत्त्वपरिपाकविनयसमुद्रानपि प्रजानामि। अभिसंबोधिसमुद्रानपि प्रजानामि। धर्मचक्रप्रवर्तनवृषभिताविकुर्वितान्यपि प्रजानामि। सर्वबुद्धविकुर्वितसमुद्रानपि प्रजानामि। तेषां च बुद्धानां भगवतां पर्षन्मण्डलविभक्तीरपि प्रजानामि। तेषु च पर्षन्मण्डलेषु ये श्रावकास्तेषां निर्याणनयमपि प्रजानामि। पूर्वकुशलमूलान्यपि प्रजानामि। मार्गभावनानानात्वमपि प्रजानामि। ज्ञानप्रतिलाभसंपद्विशुद्धप्रभेदमपि प्रजानामि। ये च तैस्तथागतैः सत्त्वाः प्रत्येकबोधौ प्रतिष्ठापितास्तानपि प्रजानामि। यानि च तेषां प्रत्येकबुद्धानां पूर्वकुशलमूलानि तान्यपि प्रजानामि। ये च तेषां प्रत्येकबुद्धानां प्रत्येकबोध्यधिगमास्तानपि प्रजानामि। यानि च तेषां प्रत्येकबुद्धानां शान्तविहारविकुर्वितविमोक्षमुखानि तान्यपि प्रजानामि। यानि च तेषां प्रत्येकबुद्धानां विविधविकुर्वितानि तान्यपि प्रजानामि। यश्च तेषां प्रत्येकबुद्धानां सत्त्वपरिपाकस्तमपि प्रजानामि। या च तेषां प्रत्येकबुद्धानां धर्मदेशना, तामपि प्रजानामि। यानि च तेषां प्रत्येकबुद्धानामनन्तसमाधिविहारविविधविमोक्षक्रीडितानि तान्यपि प्रजानामि। यच्च तेषां बुद्धानां भगवतां परिनिर्वाणं तदपि प्रजानामि। ये च बुद्धानां भगवतां बोधिसत्त्वपर्षन्मण्डलसमुद्रास्तानपि प्रजानामि। तेषां च बोधिसत्त्वानां प्रथमकुशलमूलावरोपणान्यपि प्रजानामि। प्रथमचित्तोत्पादप्रणिधानान्यपि प्रजानामि। प्रणिधानविमात्रतामपि सर्वबोधिसत्त्वचर्यानिर्याणव्यूहाभिनिर्हारविमात्रतामपि प्रजानामि। पारमितामार्गाङ्गसंभारविशुद्धिविमात्रतामपि प्रजानामि। बोधिसत्त्वमार्गप्रतिपत्तिव्यूहविमात्रतामपि प्रजानामि। बोधिसत्त्वभूम्याक्रमणसंभारविमात्रतामपि प्रजानामि। बोधिसत्त्वभूम्याक्रमणवेगविमात्रतामपि प्रजानामि। बोधिसत्त्वभूमिसंक्रमसमाधिमण्डलविमात्रतामपि प्रजानामि। बोधिसत्त्वभूम्याक्रमणविकुर्वितान्यपि प्रजानामि। बोधिसत्त्वभूम्याक्रमणविहारानपि प्रजानामि। बोधिसत्त्वभूमिप्रतिष्ठानान्यपि प्रजानामि। बोधिसत्त्वभूमिभावनाविचारानपि प्रजानामि। बोधिसत्त्वभूमिपरिशोधननयानपि प्रजानामि। बोधिसत्त्वभूमिसंवासानपि प्रजानामि। बोधिसत्त्वभूमिनिमित्तान्यपि प्रजानामि। बोधिसत्त्वभूमिवशितामपि प्रजानामि। बोधिसत्त्वभूम्याक्रमणज्ञानमपि प्रजानामि। बोधिसत्त्वसंग्रहज्ञानमपि प्रजानामि। बोधिसत्त्वपरिपाकज्ञानमपि प्रजानामि। बोधिसत्त्वव्यवस्थानसंवासमपि प्रजानामि। बोधिसत्त्वचर्यामण्डलविस्तारानपि प्रजानामि। बोधिसत्त्वचर्याविकुर्वितान्यपि प्रजानामि। बोधिसत्त्वसमाधिसागरानपि प्रजानामि। बोधिसत्त्वविमोक्षनयसमुद्रानपि प्रजानामि। तेषां च बोधिसत्त्वानां प्रतिचित्तक्षणं नानासमाधिसमुद्रप्रतिलाभानपि प्रजानामि। सर्वज्ञतावभासनप्रतिलाभानपि प्रजानामि। सर्वज्ञताविद्युदालोकमेघानपि प्रजानामि। बोधिसत्त्वक्षान्तिप्रतिलाभनयानपि प्रजानामि। सर्वज्ञतावगाहनविक्रमानपि प्रजानामि। तेषां बोधिसत्त्वानां क्षेत्रसमुद्रानुगमानपि प्रजानामि। धर्मसमुद्रनयावतारानपि प्रजानामि। सर्वसमुद्रलक्षणनानात्वमपि प्रजानामि। सर्वबोधिसत्त्वविहारनयविकुर्वितान्यपि प्रजानामि। नानाप्रणिधाननयसमुद्रानपि प्रजानामि। विविधविकुर्वितसमुद्रविमात्रतामपि प्रजानामि॥



यथा च अहं कुलपुत्र अस्यां लोकधातौ अतीतवर्तमानान् कल्पसमुद्रान् नानाविधानवतरामि, एवमपरान्तपरंपराव्यवच्छिन्नाननागतान् कल्पसमुद्रान् प्रजानामि। यथा च सहायां लोकधातौ प्रजानामि, तथा सहालोकधातुसमवसरणासु सर्वलोकधातुपरंपरासु प्रजानामि। यथा च सहालोकधातुसमवसरणासु सर्वलोकधातुपरंपरासु प्रजानामि, एवं सहालोकधातुपरमाणुरजोन्तर्गतास्वपि सर्वलोकधातुपरंपरासु प्रजानामि। यथा च सहालोकधातुपरमाणुरजोन्तर्गतासु सर्वलोकधातुपरंपरासु प्रजानामि, एवं सहालोकधातुदशदिगानन्तर्यस्थितास्वपि लोकधातुषु प्रजानामि। यथा च सहालोकधातुदशदिगानन्तर्यस्थितासु सर्वलोकधातुषु प्रजानामि, एवं सहालोकधातुदशदिगानन्तर्यपरंपरास्थितास्वपि सर्वलोकधातुषु प्रजानामि। यथा च सहालोकधातुदशदिगानन्तर्यपरंपरास्थितासु सर्वलोकधातुषु प्रजानामि, एवं समन्तदिक्प्रभासवैरोचनलोकधातुवंशपर्यापन्नास्वपि सर्वलोकधातुषु प्रजानामि। यथा समन्तदिक्प्रभासवैरोचनलोकधातुवंशपर्यापन्नास्वपि लोकधातुषु प्रजानामि, एवं समन्तदिक्प्रभासवैरोचनलोकधातुवंशदिगानन्तर्यपरंपरास्थितासु सर्वलोकधातुषु प्रजानामि। यथा चास्य समन्तदिक्प्रभासवैरोचनस्य लोकधातुवंशस्य दशदिगानन्तर्यपरंपरावस्थितासु सर्वलोकधातुषु प्रजानामि, एवमिह सर्वावति कुसुमतलगर्भव्यूहालंकारेषु लोकधातुसुमेरुषु लोकधातुसमुद्रान्तर्गतेषु लोकधातुप्रसरेषु प्रजानामि। एवं लोकधातुनयेषु लोकधातुचक्रेषु लोकधातुमण्डलेषु लोकधातुविभागेषु लोकधातुनदीषु लोकधात्वावर्तेषु लोकधातुपरिवर्तेषु लोकधातुसुमेरुषु लोकधातुसमुद्गतेषु लोकधातुपद्मेषु लोकधातुवृक्षेषु लोकधातुखारकेषु लोकधातुसंज्ञागतेष्वपि प्रजानामि॥



यथा च अस्मिन् कुसुमतलगर्भव्यूहालंकारे लोकधातुसमुद्रे प्रजानामि, एवं दशसु दिक्षु अनन्तपर्यन्तेषु धर्मधातुपरमेषु आकाशधातुपर्यवसानेषु सर्वलोकधातुसमुद्रेषु वैरोचनस्य पूर्वप्रणिधानसागरान् प्रजानामि अवतरामि अनुस्मरामि। पूर्वयोगसमुद्रानप्यवतरामि। पूर्वसमुद्रागमनसागरानप्यवतरामि। अनन्तमध्यकल्पबोधिसत्त्वचर्यासंवासमप्यवतरामि। क्षेत्रपरिशुद्धिनयानप्यवतरामि। सत्त्वपरिपाकोपायनयानप्यवतरामि। पूर्वतथागतारागणोपसंक्रमणविकुर्वितानप्यवतरामि। पूर्वतथागतपूजोपस्थानप्रयोगनयानप्यवतरामि। पूर्वतथागतधर्मदेशनासंप्रतीच्छननयानप्यवतरामि। पूर्वबोधिसत्त्वसमाधिप्रतिलाभनयानप्यवतरामि। परिष्कारवशिताप्रतिलाभनयानप्यवतरामि। पूर्वतथागतगुणसमुद्रप्रतिपत्तिनयानप्यवतरामि। दानपारमितानयसमुद्रानप्यवतरामि। बोधिसत्त्वशीलव्रतमण्डलपरिशुद्ध्यभिनिर्हरणनयानप्यवतरामि। बोधिसत्त्वक्षान्तिप्रतिलाभनयानप्यवतरामि। बोधिसत्त्ववीर्यवेगसमुद्रानप्यवतरामि। सर्वध्यानाङ्गपरिनिष्पत्तिनयसागरानप्यवतरामि। प्रज्ञामण्डलपरिशुद्धिनयसमुद्रानप्यवतरामि। सर्वलोकोपपत्तिकायप्रतिभाससंदर्शनोपायनयानप्यवतरामि। समन्तभद्रचर्याप्रणिधानमण्डलपरिशुद्धिनयानप्यवतरामि। सर्वक्षेत्रसागरस्फरणतामप्यवतरामि। सर्वक्षेत्रपरिशुद्धिनयसमुद्रानप्यवतरामि। सर्वतथागतज्ञानावभाससमुद्रानप्यवतरामि। सर्वबुद्धबोध्याक्रमणविकुर्वितसागरानप्यवतरामि। सर्वतथागतज्ञानावभासप्रतिलाभनयानप्यवतरामि। सर्वज्ञाताधिगमावतारनयसमुद्रानप्यवतरामि। अभिसंबोधिविकुर्वितसमुद्रानप्यवतरामि। धर्मचक्रप्रवर्तनवृषभिताविक्रीडितनयसमुद्रानप्यवतरामि। नानापर्षन्मण्डलसमुद्रानप्यवतरामि। तेषु च सर्वपर्षन्मण्डलेषु सर्वबोधिसत्त्वानां पूर्वकुशलसमुद्रानप्यवतरामि। प्रथमप्रणिधाननयसमुद्रानप्यवतरामि। सत्त्वपरिपाकविनयोपायनयसमुद्रानप्यवतरामि। ये च भगवता पुर्वं बोधिसत्त्वचर्यां चरता सत्त्वसमुद्राः परिपाचितास्तानप्यवतरामि। तेषां च बोधिसत्त्वानां प्रतिचित्तक्षणं कुशलमूलविवर्धनोपायनयसमुद्रानप्यवतरामि। समाधिप्रतिलाभनयसमुद्रानप्यवतरामि। धारणीमुखसमुद्रप्रतिलाभनयसागरानप्यवतरामि। प्रतिभानज्ञानमण्डलविशुद्धिनयसमुद्रानप्यवतरामि। सर्वबोधिसत्त्वभूम्याक्रमणविकुर्वितनयसमुद्रानप्यवतरामि। चर्याजालाभिनिर्हारनयसमुद्रानप्यवतरामि। अनुपूर्वसमुद्रानप्यवतरामि। अनुपूर्वसमुदागमदिक्प्रवेशज्ञाननयसमुद्रानप्यवतरामि। तेषां च सर्वेन्द्रियबलबोध्यङ्गध्यानविमोक्षसमाधिसमापत्तिविकुर्वितसमुद्रानप्यवतरामि॥



यथा च भगवतो वैरोचनस्य सर्वस्मिन् धर्मधातौ बोधिसत्त्वचरितसमुद्रानप्यवतरामि प्रजानामि अभिनिर्हरामि, एवं सर्वतथागतानां दशसु दिक्षु धर्मधातुपरमेष्वाकाशधातुपर्यवसानेषु सर्वलोकधातुसमुद्रेष्वसंभिन्नसर्वबोधिसत्त्वचरितसमुद्रानप्यवतरामि प्रजानामि अभिनिर्हरामि। एवं सर्वतथागतानां दशसु दिक्षु धर्मधातुपरमेष्वाकाशधातुपर्यवसानेषु सर्वलोकधातुसमुद्रेष्वसंभिन्नसर्वबोधिसत्त्वचरितप्रवेशमनन्तमायाजालप्रवेशमनन्तधर्मधातुस्फरणमनन्तमुखनिर्देशम-पर्यन्तकल्पाधिष्ठानप्रवेशनिर्देशमवतरामि प्रजानामि अभिनिर्हरामि। तत्कस्य हेतो? एष हि कुलपुत्र अस्य सर्वबोधिसत्त्वसमाधिनयसागरव्यवलोकनविषयस्य बोधिसत्त्वविमोक्षस्य विषयः, यदेतं समापन्ना सर्वसत्त्वचित्तचरितनयान् प्रजानामि। सर्वसत्त्वकुशलसंचयान् प्रजानामि। सर्वसत्त्वसंक्लेशव्यवदाननयान् प्रजानामि। सर्वसत्त्वकर्मनानात्वं प्रजानामि। सर्वश्रावकसमाधिद्वाराणि प्रजानामि। सर्वश्रावकसमाधिभूमिं प्रजानामि। सर्वप्रत्येकबुद्धशान्तविमोक्षविकुर्वितमवतरामि। सर्वबोधिसत्त्वसमाधिसमुद्रनयान् प्रजानामि। सर्वबोधिसत्त्वविमोक्षनयसागरावतारं प्रजानामि। सर्वतथागतविमोक्षनयसागरावतारमपि प्रजानामि॥



अथ खलु सुधनः श्रेष्ठिदारको गोपां शाक्यकन्यामेतदवोचत्-कियच्चिरप्रतिलब्धस्त्वयायमार्ये बोधिसत्त्वसमाधिनयसागरव्यवलोकनविषयो बोधिसत्त्वविमोक्षः? आह-भूतपूर्वं कुलपुत्र अतीतेऽध्वनि बुद्धक्षेत्रशतपरमाणुरजःसमानां कल्पानां परेण अभयंकरा नाम लोकधातुरभूत्। तस्यां खलु लोकधातौ गतिप्रवरो नाम कल्पोऽभूत्। तस्याः खलु पुनर्लोकधातोर्मध्ये क्षेमावती नाम चातुर्द्वीपिका अभूत्। तस्यां खलु चातुर्द्वीपिकायां मध्ये जम्बुद्वीपस्य द्रुममेरुश्रीर्नाम राजधान्यभूच्चतुरशीतेर्नगरकोटीसहस्राणां प्रमुखा। सा खलु पुनर्द्रुममेरुश्री राजधानी। तानि चतुरशीतिनगरकोटीसहस्राणि प्रत्येकं नीलवैडूर्यभूमिभागसंस्थापितानि सप्तरत्नमयप्राकारपरिक्षिप्तानि विचित्रवर्णप्रभाजालशुभगन्धशकटचक्रप्रमाणोत्पलपद्मकुमुदपुण्डरीकसंछन्नकनकवालिकासंस्तृततलगन्धोदकपरिपूर्णसप्तपरिखापरिक्षिप्तानि रत्नमयसप्तवेदिकाजालसप्ततालपङ्क्तिपरिवृतानि सप्तरत्नमयवृक्षमालापरिक्षिप्तानि उपरि मेघजालसंछादितानि रत्नाष्टापदसुविभक्तविचित्ररत्नभक्तिविराजितभूमिभागानि सिद्धगणविचरितानि अभिजातपक्षिसंघमनोज्ञरुतरवितनिर्घोषनिकूजितानि उद्यानकोटीशतसहस्रोपशोभितानि ऋद्धिस्फीतानि प्रमुदितनरनारीगणशतसहस्राकीर्णानि शुभाभिलषणीयमारुतेरितानुपरतपुष्पवृष्टिसहस्राभिप्रवृष्टानि पार्थिवेन्द्रशतसहस्राध्युषितानि। तेषां खलु पुनर्महानगराणां सर्वरत्नवृक्षहेमजालालंकारादिभ्यो वातसंघट्टितेभ्यो बहुतूर्यनिर्घोषसमरुतनिश्चरितेभ्योऽयमेवंरूप आनन्दशब्दो निश्चरति स्म-स्नात, पिबत, खादत, धर्मं चरत, बोधिचित्तमुत्पादयत, अविनिवर्तनीयभूमिवशितामधिगच्छत। भद्रमस्तु वः। इति॥



तस्यां खलु द्रुममेरुश्रियां राजधान्यां धनपतिर्नाम राजा अभूत् मण्डलिकः। तस्य चतुरशीतिस्त्रीसहस्राण्यन्तःपुरमभूत्। पञ्च च अमात्यशतान्यभूवन्। राज्ञः खलु पुनर्धनपतेः पञ्च पुत्रशतान्यभूवन् सर्वेषां शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानां प्रासादिकानां दर्शनीयानां परमशुभवर्णपुष्कलतया समन्वागतानां। राज्ञः खलु पुनर्धनपतेः पद्मश्रीगर्भसंभवा नाम अग्रमहिषी अभूत् तेषां चतुरशीतेः स्त्रीसहस्राणां प्रमुखा। तस्यां तेजोधिपतिर्नाम पुत्रोऽभूदभिरूपः प्रासादिको दर्शनीयः द्वात्रिंशन्महापुरुषलक्षणसमलंकृतकायः। तस्येमानि द्वात्रिंशन्महापुरुषलक्षणान्यभूवन्। यदुत-सुप्रतिष्ठितपाणिपादः तेजोधिपतिराजकुमारोऽभूत्। समं महापृथिव्यां पादतलावुत्क्षिपति, समं निक्षिपति, निक्षिपंश्च सर्वावत्पादतलाभ्यां समं महापृथिवीं संस्पृशति। पादतलयोश्चास्य चक्राणि जातानि सहस्राराणि सनाभीनि सनेमिकानि सर्वाकारपरिपूर्णानि सुरुचिराणि दर्शनीयानि। उच्छङ्खपादता चास्य अभिनिर्वृत्ताभूत्, सुव्यक्तपरमोपशोभिता उपरि पादच्छविकुसुमगर्भातिरेकप्रभास्वरा। उभे चास्य हस्तपादतले जालिनी अभूतां विचित्रसुविभक्ताच्छिद्रापरिस्राविणी, तद्यथा धृतराष्ट्रस्य हंसराजस्य। आयतपादपार्ष्णिता अस्याभिनिर्वृत्ताभूत्परिशुद्धा प्रभास्वरा सर्वरत्नवर्णावभासप्रमुक्ता। दीर्घा अस्याङ्गुलयोऽभूवन् वृत्ताः समायतसंधयः। स ताः समं पृथिव्यां प्रतिष्ठापयामास, समुद्धरति स्म। मृदूनि चास्य हस्तपादतलान्यभूवन् काचिलिन्दिकातिरेकसुखसंस्पर्शानि। स तैर्यान् स्पृशति स्त्रियं वा पुरुषं वा दारकं वा दारिकां वा, सर्वे ते प्रीतिमनसोऽभूवन् परमसुखसौमनस्यसमर्पिताः। एणेयजङ्घता चास्य अभिनिर्वृत्ताभूत्। तस्य जङ्घे अनुपुर्वसमुद्गते अभूतां रचिते वृत्ते सुजाते एणेयस्येव मृगरज्ञः। नैनं कश्चित्समर्थोऽनुजवितुमनप्राप्तुं वा, न च व्रजन् क्लममापद्यते स्म। सप्तोत्सदः खलु पुनः स तेजोधिपतिराजकुमारोऽभूत्। तस्य द्वयोः पादयोर्द्वावुत्सदौ जातावभूतां वृत्तौ सुजातौ सुपरिपूर्णावदृश्यसंधी सुरचितौ दर्शनीयौ, द्वौ हस्तयोर्द्वावंसकूटयोः पृष्ठतो ग्रीवायामेकः। कोशगतबस्तिगुह्यता चास्य महापुरुषलक्षणमभिनिर्वृत्तमभूत्। सुगुप्तमस्य कोशबस्तिगुह्यमभून्निमग्नं संछादितम्, तद्यथा हस्त्याजानेयस्य वा अश्वाजानेयस्य वा। नास्य कश्चित्स्त्री वा पुरुषो वा दारको वा दारिका वा वृद्धो वा मध्यो वा दहरो वा गुरुर्वा गुरुस्थानीयो वा निर्वसनस्याप्यपश्यदन्यत्र स्वपरिभोगेन नैमित्तिकेन वा कामोपचितेन। सिंहपूर्वार्धकायः खलु पुनः स तेजोधिपतिराजकुमारोऽभूत्। अनुपूर्वोद्गतशरीर उपविस्तीर्णवृतोरस्कोऽभिजातमृगराजातिरेकसुसंस्थितसमुच्छ्रयः। चितान्तरांसः खलु पुनरभवत् सूपचितशरीरः सुविभक्तसमुच्छ्रयः सर्वकायसमभागप्रतिष्ठितः अनूनगात्रः अनुन्नतगात्रोऽपरिणतगात्रो मणिफलकविसृष्टातिरेकद्युतिगात्रः। संवृत्तस्कन्धः खलु पुनरभवत्। वृत्तावस्य स्कन्धावभूतां पीनौ शुभौ सुपरिपुष्टौ। प्रलम्बबाहुतामहापुरुषलक्षणप्रतिलब्धः स खलु पुनरभवत्। सोऽनवनमनेनोभाभ्यां पाणिभ्यां जानुमण्डले परिमार्जति, परामृशति समभागस्थितेन शरीरेण। वृहदृजुगात्रमहापुरुषलक्षणप्रतिलब्धः स खलु पुनरभवत् सर्वावरोपेतपरमाणुसमगात्रः प्रशमगात्रो गुरुगात्रः प्रसन्नगात्रः प्रह्लादगात्रः। कम्बुग्रीवतामहापुरुषलक्षणप्रतिलब्धः स खलु पुनरभवत् अदीनकण्ठश्च। तस्य यावत्यो ग्रीवासामन्तकेन मुखसामन्तकेन च रसहरण्यः, ताः सर्वाः समा अभूवन् समन्ताः सुपरिपूर्णाः। सिंहहनुतामहापुरुषलक्षणप्रतिलब्धः स खलु पुनरभवत्, सुनिष्पीडितहनुः सुपरिपूर्णमुखमण्डलः सुजातपरिशुद्धमुखमण्डलः स्वायतमुखद्वारोऽपविवरः। समचत्वारिंशद्दन्ततामहापुरुषलक्षणप्रतिलब्धः स खलु पुनरभूत् अनूनदशनः। तस्य किंचिद्भक्तपरिभोगेषु एकवारमपि मुखभक्तं परिवर्तमानमसंभिन्नमभ्यवहारमगमत् अन्तश एकोदनबिन्दुरपि। अविरलाविषमदन्ततामहापुरुषलक्षणप्रतिलब्धः स खलु पुनरभवत्। अविरला अविषमा अस्य दन्ता अभूवन् अच्छिद्रसंधयः समां सुविभक्ताः, यैरस्याहारं परिभुञ्जानस्य नाभूत्सङ्गो वा परिसङ्गोपरुद्वङ्गो(?) वा उपक्लेदो वा अभिष्यन्दो वा पर्यवनाहो वा अतिसर्जनं वा। समदन्ततामहापुरुषलक्षणप्रतिलब्धः खलु पुनरभवत् समदन्तो नोनदन्तो नाधिकदन्तो नोन्नतदन्तो न संनतदन्तो न संभिन्नदन्तः समन्तमध्यदन्तोऽनुत्सन्नदन्तो अविनिर्भिन्नदन्तः। सुशुक्लदंष्ट्रश्च कुमारोऽभूत् निरुपक्लेशदष्ट्रः सुप्रसन्नदंष्ट्रः सुपरिशुद्धदंष्ट्रः सुसंस्थितविचित्रदंष्ट्रः। सुप्रभूतजिह्वतामहापुरुषलक्षणप्रतिलब्धः खलु पुनरभवत्। प्रभूता चास्य जिह्वा अभूत् तन्वी मृद्वी सुकुमारा कर्मण्या कमनीया लघुपरिवर्तिनी मुखमण्डलसंछादनी तथ्यपथ्यार्थव्यञ्जनपदनिरुक्त्यधिष्ठानसंप्रयुक्ता। ब्रह्मस्वरश्च स कुमारोऽभूदभिरुचिरस्वरः सर्वतूर्यनिर्नादगीतवाद्यघोषमनोज्ञरुतरवितालापसंलापवाक्कर्मप्रव्याहारः। वाक्पथाभिरतिसंजननीं सर्वलोकाभिनन्दिनीं वाचमुदीरयति स्म। ब्रह्मातिरेकेण स्वरेण च पर्षन्मण्डलमतिक्रामति, सर्वं च अनुरवति। अभिनीलनेत्रश्च स कुमारोऽभूदच्छनेत्रः परिशुद्धनेत्रः प्रभास्वरनेत्रः विप्रसन्ननेत्रोऽभिरूपनेत्रो दर्शनीयनेत्रः सुरुचिरनेत्रः प्रहसितनेत्रः। गोपक्ष्मो स कुमारोऽभूत्पद्मरागसुविशुद्धचक्षुरायतनः समनेत्ररङ्गः समसदृशनेत्ररङ्गः सुजातनेत्ररङ्गः आयतनेत्ररङ्गः परिपूर्णनेत्ररङ्गः सुप्रतिष्ठितनेत्ररङ्गः। भ्रुवोन्तरे चास्य ऊर्णा जाताभून्मृद्वी कर्मण्या सुकुमाराकुलसंस्पर्शा स्वच्छा शुद्धा प्रभास्वरा हिमगुडिकातुषारवर्णा सुशुक्लरश्मिमण्डलप्रभावभासा। मुर्ध्नि च अस्योष्णीषमभिनिर्वृत्तमभूत् सुजातं समन्तपरिमण्डलं मध्याभिन्यस्तकेशालंकारं कोटीशतसहस्रपत्ररत्नपद्मसंदर्शितं समन्तात्समभागप्रतिष्ठितमपरिमितमहार्ध्यताप्रधानमध्यम्। सूक्ष्मच्छविश्च स कुमारोऽभूत्। नास्य काये रजो वा मलो वा क्लेदो वा जालं वा वली वा शैथिल्यं वा भङ्गो वा प्रसरणं वा विसरणं वा असमं वा अस्थिषत। सुवर्णवर्णच्छविश्च स कुमारोऽभूज्जाम्बूनदहेमनिर्भासः समन्तव्यामप्रभः काञ्चनैकज्वालाप्रभामण्डलोपशोभितः सर्वरोमकूपप्रमुक्तगन्धरश्मिवितिमिरप्रभास्वरशरीरालंकारः। एकैकरोमा च स कुमारोऽभूत्। एकैकरोमस्य एकैकस्मिन् रोमकूपे रोम जातमभून्नीलवैडूर्यवर्णप्रदक्षिणावर्तकुण्डलजातं सुपरिसंचितं सुनिविष्टं सुप्रतिष्ठितम्। ऊर्ध्वाङ्गरोमा च स कुमारोऽभूदविनिवर्तनीयरोमा अप्रत्युदावर्तनीयरोमा असंसृष्टरोमा। इन्द्रनीलवर्णकेशतामहापुरुषलक्षणप्रतिलब्धः। स कुमारोऽभूत्। तस्य नीलाः केशा अभूवन् वैरोचनमणिरत्ननीलवर्णनिर्भासाः स्निग्धा मृदवः सुकुञ्चिताः प्रदक्षिणावर्तकुण्डलिनः सुजातमूला अनुद्धताः निष्पीडिता असंलुलिताः समसदृशस्थानसंस्थिताः। न्यग्रोधपरिमण्डलतामहापुरुषलक्षणप्रतिलब्धः स खलु पुनः तेजोधिपती राजकुमारोऽभूत् समन्तभद्रपरिमण्डलः समन्तभद्रः समन्तप्रासादिकः। स पुरतोऽप्यतृप्तिकरचारुदर्शनोऽभूत्। पृष्ठतोऽपि दक्षिणतोऽपि वामतोऽपि गच्छन्नपि तिष्ठन्नपि निषण्णोऽपि भाषमाणोऽपि तूष्णीभूतोऽपि अतृप्तिकरमनापचारुदर्शनोऽभुत्। एभिः कुलपुत्र द्वात्रिंशता महापुरुषलक्षणैः समलंकृतकायः स तेजोधिपती राजकुमारोऽभूत् सर्वसत्त्वाप्रतिकूलदर्शनः सर्वाभिप्रायपरिपूरिकदर्शनः सर्वसत्त्वरतिकरदर्शनः॥



स खलु कुलपुत्र तेजोधिपती राजकुमारोऽपरेण समयेन पित्राभ्यनुज्ञातो द्रुममेरुश्रियो राजधान्या गन्धाङ्कुरप्रभमेघं नामोद्यानम्, तत्र भूमिदर्शनाय अभिनिर्ययौ विंशत्या कन्यासहस्रैः सार्धं महता पुण्यतेजौतःश्रीसौभाग्यविकुर्वितव्यूहेन नरनारीगणैः समन्तादभिनन्द्यमानो जाम्बूनदसुवर्णरथमारुह्य महावज्ररत्नचतुश्चक्रं नारायणवज्रमयदृढाक्षयाक्षमुत्तमचन्दनसुपरिनिष्ठितप्रतिष्ठितेषं सर्वगन्धमणिराजसुविभक्तपञ्जरं सर्वरत्नपुष्पसुविचित्रोपशोभितव्यूहं सर्वरत्नजालसंछादितव्यूहं महामणिरत्न‍राजव्यूहगर्भमध्यप्रतिष्ठापितसिंहासनं पञ्चकन्याशतरत्नसूत्रदामपरिगृहीतं गगनासक्तवायुसमजवाजानेयाश्वसहस्रयुक्तम् अनुपूर्वपरिणतचारुदर्शनेन श्वेतवैदूर्यमणिराजमयच्छदनेन विमलाप्रमाणप्रभेण अचिन्त्याद्भुतसर्वरत्नविरचनाभक्तिविन्यासचित्रसर्वाकारव्यूहोपशोभितेन नीलवैदूर्यमणिराजोद्विद्धदण्डेन महता रत्नच्छत्रेण ध्रियता बहुप्राणिशतसहस्रपरिवृतदिव्यमधुरमनोज्ञनिर्धोषैस्तूर्यशतसहस्रैः प्रवाद्यमानैः महद्भिः पुष्पमेघैरभिप्रवर्षद्भिः सुरभिदिव्यगन्धधूपघटिकानियुतशतसहस्रैः प्रधूप्यमानैः। तस्य तथा व्रजतोऽष्टवर्त्मा मार्गः समवस्थिषत निम्नोन्नतविगतोऽपगतशर्करकठल्लोत्सदो जातरूपरजतसर्वरत्न‍राजधातुसंचितभूमितलप्रतिष्ठानः सुवर्णवालिकासंस्तीर्णो विचित्ररत्नपुष्पाभिकीर्णः उभयतो रत्नवृक्षपङ्क्तिसमलंकृतविचित्ररत्नवेदिकापरिवृतः। उपरि रत्नकिङ्किणीजालसंछन्नो विविधरत्नविततप्रतिमण्डितोऽनेकरत्नध्वजपताकापट्टशतसहस्राभिप्रलम्बितोपशोभितव्यूहः उभयतो नानारत्नव्योमकपङ्क्तिविरचितव्यूहः॥



तत्र केषुचिद्रत्नव्योमकेषु विविधरत्नपरिपूर्णानि रत्नभाजनानि स्थापितान्यभूवन् याचनकसंघप्रतिपादनकार्थम्। केषुचिद्व्योमकेषु सर्वरत्नाभरणविधयः स्थापिता अलंकारार्थिनां याचकानामलंकरणार्थम्। केषुचिद्व्योमकेषु चिन्तामणिरत्नानि स्थापितानि सर्वसत्त्वानां सर्वाभिप्रायपरिपूरणार्थम्। केषुचिद्व्योमकेषु सर्वाकारविविधान्नपानरसपरिपूर्णानि भोजनानि स्थापितानि, यस्य येनार्थः तस्य तं प्रतिपादनार्थम्। केषुचिद्व्योमकेषु सर्वाकारपरमस्वादुमनोज्ञवर्णगन्धरसस्पर्शाः दिव्यभक्तविधयः स्थापिताः। केषुचिद्व्योमकेषु विचित्ररसास्वादादिव्यसर्वफलविधयः स्थापिताः। केषुचिद्व्योमकेषु विविधोज्ज्वलविचित्ररङ्गरक्तानि नानाचित्रभक्तिविन्यासविराजितानि परममहार्हाणि सूक्ष्माणि सुकुमारकान्तवर्णानि दिव्यवस्त्रकोटीशतसहस्राणि स्थापितानि वस्त्रार्थिनां यथाभिप्रायपरिभोगार्थम्। केषुचिद्व्योमकेषु सर्वाकारविविधदिव्यमनोज्ञवर्णगन्धाः सर्वगन्धविधयः स्थापिता अभुवन् विलेपनार्थिनां यथाभिप्रायपरिभोगार्थम्। केषुचिद्व्योमकेषु सर्वोपकरणराशयः स्थापिता अभूवन् सत्त्वानां यथाशयाभिप्रायपरिभोगार्थम्। केषुचिद्व्योमकेषु नार्योऽभिरूपाः प्रासादिका दर्शनीया विविधचारुरूपवेशा विचित्रमनोज्ञवस्त्रसंधिताः सर्वाभरणस्वलंकृता विविधविलेपनभक्तिविन्यासप्रतिमण्डितोपशोभितशरीराः सर्वस्त्रीशिल्पमायाकलाविधिज्ञाः स्थापिता अभूवन्॥



तेन खलु पुनः समयेन तस्यामेव द्रुममेरुश्रियां राजधान्यां सुदर्शना नाम अग्रगणिकाभूद्राजपरिभोग्या। तस्याः सुचलितरतिप्रभासश्रीर्नाम दारिकाभूदभिरूपा प्रासादिका दर्शनीया नातिदीर्घा नातिह्रस्वा नातिस्थूला नातिकृशा नातिगौरा नातिश्यामा अभिनीलनेत्रा अभिनीलकेशी अभिरामवक्त्रा ब्रह्मस्वरा मधुरप्रियवादिनी प्राज्ञा सर्वकलाविधिज्ञा सर्वशास्त्रकोविदा दक्षा अनलसा सगौरवा सप्रसादा मैत्रचित्ता अप्रतिघातबहुला अतृप्तिकरमनापदर्शना मन्दरागदोषमोहा ह्र्यपत्राप्यसंपन्ना मार्दवा ऋज्वी अशाट्या अमाया विनीता। सा मात्रा सार्धमनेककन्यापरिवृता रत्न‍रथाभिरूढा द्रुममेरुश्रियो राजधान्या निष्क्रम्य तेजोधिपते राजकुमारस्य पुरतः तेजोधिपतिं राजकुमारं परिमार्गयमाणा राजाज्ञानियोगाद्गच्छन्ती तेजोधिपतिं राजकुमारं दृष्ट्वा तीव्रं रागचित्तमुत्पादयामास। सा तेजोधिपते राजकुमारस्यान्तिकेऽधिमात्रं संजातस्नेहानुबद्धा अस्वतन्त्रचित्ता मातरं सुदर्शनामेतदवोचत्-यत्खलु अम्ब जानीयाः-सचेन्मां तेजोधिपते राजकुमारस्य न दास्यसि, मरणं वोपगमिष्यामि मरणमात्रकं वा दुःखम्। सा प्राह-मैवं दारिके चेतनामुत्पादय। एष हि कुमारश्चक्रवर्तिलक्षणसमन्वागतः। स्थानमेतद्विद्यते-यदेष पितुर्धनपतेरत्ययाच्चक्रवर्तिराज्यमध्यावसिष्यति। स राजा भविष्यति चक्रवर्ती। ततोऽस्य स्त्रीरत्नं प्रादुर्भविष्यति वैहायसंगमम्। अपि तु खलु पुनर्दारिके गणिका वयं सर्वलोकरतिकराः। न वयमेकसत्त्वं प्रतिनियमेन यावज्जीवमुपतिष्ठामहे। वयं हि राज्ञो धनपतेराज्ञया तेजोधिपतेः कुमारस्योपस्थानाय निर्याताः। मैनां चेतनां दृढीकुरुष्व। दुर्लभमेतत्स्थानम्॥



तेन चेह समयेन सूर्यगात्रप्रवरो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। तस्य खलु पुनर्गन्धाङ्कुरशिखरप्रभमेघस्योद्यानस्यान्तरे धर्ममेघोद्गतप्रभासो नाम बोधिमण्डोऽभूत्। तत्र स भगवान् सूर्यगात्रप्रवरस्तथागतः प्रथमसप्ताहाभिसंबुद्धो व्याहार्षीत्। स तया दारिकया रथाभिरूढयैव प्रचलायमानया स्वप्नान्तरे दृष्टः। प्रतिविबुद्धायाश्च पुराणज्ञातिसालोहितया देवतया आरोचितम्-एष दारिके सूर्यगात्रप्रवरस्तथागतो धर्ममेघोद्गतप्रभासे बोधिमण्डे विहरति प्रथमसप्ताहाभिसंबुद्धो बोधिसत्त्वगणपरिवृतो देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगदेवेन्द्रब्रह्माभास्वराकनिष्ठदेवगणपुरस्कृतः। तत्रैव च सर्वाः पृथ्वीदेवताः संनिपतिताः। आकाशदेवता अब्देवता ज्वलनदेवता वायुदेवताः सागरदेवताः नदीदेवता पर्वतदेवता रात्रिदेवता अरुणोद्गतदेवता वनदेवता वृक्षदेवता औषधिदेवताः सस्यदेवता नगरदेवताः पदगामिनीदेवता बोधिमण्डदेवताः शरीररश्मिदेवताः सत्त्वनिकायदेवता गगनदेवता सर्वदिग्देवताश्च संनिपतिताः तस्य भगवतः सूर्यगात्रप्रवरस्य तथागतस्य दर्शनायेति॥



सा तेन तथागतदर्शनेन तथागतगुणश्रवणेन च विशारदा भूत्वा अवकाशप्रतिलब्धा तेजोधिपते राजकुमारस्य पुरतस्तस्यां वेलायामिमा गाथा अभाषत—
रूपवरेणहु लोकि विशिष्टा

विश्रुत सर्वदिशासु गुणेभिः।

प्रज्ञबलेन न मे सदृशास्ति

सर्वकलारतिमायविधिज्ञा॥१॥



प्राणशता बहु नैकसहस्रा

ये मम प्रेक्षिषु रागवशेन।

नापि च रज्यति मह्य कुमारा

कस्यचिदन्तिकि मानसु लोके॥२॥



नो च मम प्रतिहन्यति चित्तं

नाप्यनुनीयति कुत्रचि सत्त्वे।

नापि च मे क्वचि वैरु न दोषः

सर्वहितेऽभिरतं मम चित्तम्॥३॥



यद मि त्वमपि दृष्ट कुमारो

रूपबलप्रवरो गुणधारी।

तद इन्द्रिय प्रीणित सर्वे

प्रीत ममो विपुला उपजाता॥४॥



शुद्धविरोचनरत्नसुवर्णा

केशभिनील सुवल्लित तुभ्यम्।

सुभ्रुललाट सुनासा एष

निवेदयमी तव आत्मा॥५॥



वरलक्षणधारि सुतेजा

काञ्चनपर्वतसंनिभरूपः।

पुरतो न विराजमि तुभ्यं

श्यामकृता मषिविग्रहतुल्या॥६॥



स्वभिनीलमहायतनेत्रा

सिंहहन्यो (?) परिपूर्ण सुवक्त्रः।

न च ते प्रतिहन्यति वाच्यं

अग्ररुत प्रतिगृह्णमि मह्यम्॥७॥



वदने तव जिह्व प्रभूता

ताम्रतनू विपुला रतनाभा।

वरब्रह्मस्वराङ्गसुघोषा

तोषयसे जगदालपमानः॥८॥



वदने सहितास्तव दन्ता

शङ्खनिभा विमला सुविभक्ता।

स्मितु येहि विदर्शयमानः

तोषयसे जनतां नरवीर॥९॥



तव लक्षणशोभन काय-

स्त्रिंश दुवेव प्रभासुर शुद्धः।

समलंकृतु येहि सुरूपः

चक्रधरो भवितासि नरेन्द्रा॥१०॥



अथ खलु तेजोधिपती राजपुत्रः सुचलितरतिप्रभासश्रियं दारिकामेतदवोचत्-कस्य त्वं दारिके, को वा तवारक्षकः? न मम दारिके कल्पते परपरिगृहीतेषु दारेषु ममतां कर्तुम्। तस्यां वेलायामिमा गाथा अभाषत—



सुदर्शने रूपगुणैरुपेते

सुलक्षणे पुण्यविशुद्धकाये।

पृच्छामि ते ब्रूहि ममैतमर्थं

परिग्रहस्त्वं वरगात्रि कस्य॥११॥



माता पिता वा तव कच्चिदस्ति

भर्तापि वा स्वामि परिग्रहो वा।

सत्त्वोऽपि चान्यः खलु येन संज्ञा

कृता ममेति त्वयि सौम्यरूपे॥१२॥



कच्चिन्न हिंसाभिरतं मनस्ते

हरस्यदत्तं खलु मा परेषाम्।

मा काममिथ्याचरणे रतिस्ते

मा वा मृषाद्य प्रसृतं मनस्ते॥१३॥



मा मित्रभेदप्रसृता मतिस्ते

मा मर्मभेदीनि वचांसि वक्षि।

मा तेऽपरक्षेषु धनेष्वभिध्या

व्यापादचित्तं जनतासु चापि॥१४॥



मा दृष्टिकान्तारपथि स्थितासि

मा कर्मवंशोद्धुरचेतना वा।

मायाविनी शाठ्यवशानुगा वा

मा बाधसे त्वं विषमेण लोकम्॥१५॥



मातापिताज्ञातिसुहृद्गुरूणां

कच्चित्प्रियत्वं तव गौरवं वा।

दरिद्रभूतेषु च संग्रहाय

कच्चित्प्रदातुं प्रसृतं मनस्ते॥१६॥



प्रेमास्ति कल्याणसुहृत्स्वथो वा

धर्मेण काले च वदन्ति ये त्वाम्।

कायस्य चित्तस्य च कल्यतां ते

कर्मण्यतां वा जनयन्ति सम्यक्॥१७॥



बुद्धेषु ते गौरवमस्ति कच्चित्

प्रेमापि वा बुद्धसुतेषु तीव्रम्।

कच्चित्प्रजानासि तमग्रधर्मं

यतः प्रसूतिः सुगतात्मजानाम्॥१८॥



कच्चित्परे तिष्ठसि धर्मवंशे

न चाप्यधर्मं चरितुं मतिस्ते।

अनन्तवर्णे च गुणार्णवे ते

कच्चित्परं प्रेम च गौरवं च॥१९॥



अनाथभूतेषु जनेषु कच्चित्

मैत्रं मनस्तेऽपरिणायकेषु।

आपायिके कर्मणि च प्रवृत्ता

कच्चिद्भृशार्ता करुणायसे त्वम्॥२०॥



परेषु संपत्तिमुदीक्ष्य चाग्रां

कच्चित्परां तुष्टिमुपैषि च त्वम्।

क्लेशास्वतन्त्रेषु जनेषु कच्चित्

प्रज्ञाबलात्संजनयस्युपेक्षाम्॥२१॥



अज्ञानसुप्तां जनतामुदीक्ष्य

कच्चिद्दृढां प्रार्थयसेऽग्रबोधिम्।

कल्पाननन्तान् चरमाण चर्यां

कच्चिन्न ते प्रार्थनयास्ति खेदः॥२२॥



अथ खलु सुदर्शना अग्रगणिका सुचलितरतिप्रभासश्रियो दारिकाया माता तेजोधिपतिं राजकुमारमेतदवोचत्-ममैषा कुमार दारिका उपपादुका पद्मगर्भसंभूता नाभिनिष्क्रान्तपूर्वा गृहात्। तस्यां च वेलायामिमा गाथा अभाषत—



मां भाषमाणां शृणु राजपुत्र

यद्दारिका ते परिपृच्छतेयम्।

वक्ष्येऽनुपूर्व्या तव दारिकेयं

जाता यथा सौम्य विवर्धिता च॥२३॥



निशाक्षये यत्र भवान् प्रसूतः

तत्रैव जाता मम दारिकेयम्।

उपपादुका निर्मलपद्मगर्भे

सर्वाङ्गपूर्णा सुविशालनेत्रा॥२४॥



वसन्तकाले प्रवरे ऋतूनां

संभूतसस्योषधिसंप्ररोहे।

सालप्रभोद्यानवरे मदीये

चिरं मया तत्र विनिर्गताहम्॥२५॥



प्रमुक्तशाखाग्रविचित्रकोशे

प्रफुल्लवृक्षे घनमेघवर्णे।

नानाद्विजोन्नादितवृक्षषण्डे

वने विशोका मुदिता रमामि॥२६॥



कन्याशतैरष्टभिरन्विताहं

विभूषिताभिः सुमनोहराभिः।

विचित्ररत्नाम्बरधारिणीभिः

गीते च वाद्ये च सुशिक्षिताभिः॥२७॥



विचित्रगन्धध्वजपुण्डरीके

वापीतटेऽभूवमहं निषण्णा।

पुष्पाभिकीर्णे धरणीप्रदेशे

सुशिक्षितस्त्रीगणसंप्रपूर्णे॥२८॥



तत्राम्बुमध्येऽथ सहस्रपत्रं

प्रादुर्बभूवोत्तमरत्नपद्मम्।

वैडूर्यदण्डं मणिराजपत्रं

विशुद्धजाम्बूनदकर्णिकं च॥२९॥



सुगन्धरत्तोत्तमकेसराढ्यं

जम्बुध्वजोद्भूतमहावभासम्।

आसंस्तदा संशयिता जनौघा

रात्र्यां किमभ्युद्गत एष सूर्यः॥३०॥



महारवीन्द्राद्रजनीक्षयेऽस्मात्

प्रबोध्यमानात्सवितुः प्रभामिः।

मुक्तोऽवभासो मधुरश्च शब्द-

स्तज्जन्मनः पूर्वनिमित्तमस्याः॥३१॥



स्त्रीरत्नमेतद्धि मनुष्यलोके

प्रादुर्बभूवोत्तमशीलशुद्ध्या।

न कर्मणो ह्यस्ति कृतस्य नाशः

पूर्वे सुचीर्णस्य विपाक एषः॥३२॥



सुनीलकेश्युत्पलनीलनेत्रा

ब्रह्मस्वरा काञ्चनशुद्धवर्णा।

आमुक्तमालाभरणा सुवेशा

पद्मोद्भवा श्रीरिव निर्मलाभा॥३३॥



विशुद्धगात्री समभागकाया

संपूर्णगात्रा सुविभक्तदेहा।

सुवर्णबिम्बं मणिनेव मृष्टं

विरोचते सर्वदिशोऽवभास्य॥३४॥



गोत्रोद्भवश्चन्दनराजगन्धः

प्रवाति चास्याभिदिशः स्फरित्वा।

रुतं च दिव्यं मधुरं रुवत्या

गन्धो मुखाद्वाति यथोत्पलस्य॥३५॥



स्मितं यदैषा प्रकरोति चैव

दिव्यं तदा तूर्यरवं विरौति।

स्त्रीरत्नमेतत्खलु जातु लोके

न प्राकृतानां वशमभ्युपैति॥३६॥



मनुष्यलोके न हि विद्यतेऽसौ

भर्ता हि योऽस्यास्त्वदृते परः स्यात्।

सल्लक्षणैश्चित्रितचारुरूपः

कन्यां प्रतीच्छस्व यतस्त्वमेताम्॥३७॥



ह्रस्वा न चेयं हि न चातिदीर्घा

स्थूला न चैषा न कृशातिमात्रम्।

चापोदरी पीनपयोधरा च

तवानुरूपेयमनिन्दिताङ्ग॥३८॥



संख्यालिपिज्ञाननये तथैव

मुद्राविधौ शास्त्रनयेष्वभिज्ञा।

शिल्पानि यावन्ति च सर्वलोके

पारंगतेयं निखिलेषु तेषु॥३९॥



इष्वस्त्रविज्ञान परं विधिज्ञा

सत्त्वान युक्तौ सुविनिश्चिता च।

आकर्षणे शत्रुमनःप्रसादे

सर्वत्र पारं परमं गतेयम्॥४०॥



विशुद्धरत्नोत्तमसर्वगात्र-

मुक्तप्रभामण्डलराजितेयम्।

स्वलंकृता पूर्वकृतैः स्वपुण्यै-

स्तवानुरूपा परिचारिकेयम्॥४१॥



ये व्याधयः केचन जीवलोके

तेषां समुत्थाननये विधिज्ञा।

तेषामशेषप्रशमं च संप-

द्भैषज्यसम्यक्प्रविचारणे च॥४२॥



जम्बुध्वजे येऽपि च सर्वमन्त्र-

निरुक्तिभेदा निखिला जनानाम्।

सर्वत्र लोकव्यवहारसंघौ

चित्रे गतेयं परमां गतिं च॥४३॥



स्वराङ्गनिर्हारनयाश्च येऽपि

तेषां प्रभेदेषु नये प्रविष्टा।

गीतानि नृत्यानि च यानि लोके

तेष्वप्यशेषेषु परं विधिज्ञा॥४४॥



तूर्येषु वाद्येषु रतिप्रयोगे

हास्ये च लास्ये च गतिं गतेयम्।

रक्तेष्वरक्तेषु नरेष्वभिज्ञा

नरानुनीता प्रतिघान्विता वा॥४५॥



स्त्रीणां रुतानीह च यानि लोके

विशेषतस्तान्यखिलान्यवैति।

ये चाप्रमेया वनिताजनस्य

दोषा न तेषां निखिलेन सन्ति॥४६॥



निरीक्षिते चार्धनिरीक्षिते च

अङ्गप्रदानेऽङ्गविदर्शने च।

निष्ठां गता सर्वकलासु चैव

मनोरथानां परिपूरणी ते॥४७॥



अमत्सरा चेयमनीर्षुका च

न कामलोला न पानगृद्धा।

क्षेमार्जवमार्दवसूरता च

अक्रोधना चापरुषा सुविज्ञा॥४८॥



उत्थानशीलाप्रतिकूलवाक्या

नित्यं गुरूणामनुवर्तिनी च।

सगौरवा किंकुशलैषिणी च

तवानुयोग्या चरितानुवृत्तौ॥४९॥



जीर्णेषु वृद्धेषु च रोगवत्सु

दरिद्रभूतेषु सुदुःखितेषु।

चक्षुर्विहीनेष्वपरायणेषु

कारुण्यमेघं जनयत्यजस्रम्॥५०॥



परार्थचिन्ताभिरता सदैषा

न चिन्तयत्यात्महितानि चैव।

सर्वस्य लोकस्य हितैषिणी च

स्वलंकृता चित्तगुणैरुदारैः॥५१॥



नित्याप्रमत्ता स्मृतिसंप्रजन्ये

स्थिता निषण्णा शयिता व्रजन्ती।

तूष्णीं प्रभाषत्यपि च स्मृतैव

लोकस्य चैवाभिमता सदैषा॥५२॥



समन्ततः पुण्यवती विभाति

सदैव च प्रेमकरी जनानाम्।

एतामुदीक्षन्न हि तृप्तिमेति

लोके न चास्याः क्वचिदस्ति सक्तिः॥५३॥



कल्याणमित्रेषु सगौरवेयं

त्वद्दर्शने नित्यसमुत्सुका च।

दीर्घानुदर्शिन्यविदुष्टचेष्टा

सुमेरुकल्पस्थिरशुद्धचित्ता॥५४॥



सदा स्वपुण्यैः समलंकृतैषा

न विद्यतेऽस्याः क्वचिदप्यमित्रम्।

ज्ञाने न चास्याः सदृशास्ति योषि-

देषानुरूपा तव राजपुत्र॥५५॥



अथ खलु तेजोधिपती राजपुत्रो गन्धाङ्कुरशिखरप्रभमेघमुद्यानं प्रविश्य सुचलितरतिप्रभासश्रियो दारिकाया मातुरग्रगणिकायाः सुदर्शनायाः समक्षं सुचलितरतिप्रभासश्रियं दारिकामेतदवोचत्-अहं खलु दारिके अनुत्तरां सम्यक्संबोधिमभिसंप्रस्थितः। तेन मया अपरिमाणाः सर्वज्ञतासंभाराः समुदानयितव्याः। अनन्तमध्यान् कल्पान् बोधिसत्त्वचर्यां चरता सर्वपारमिताः परिशोधयितव्याः। अपरान्तकोटीगतान् कल्पांस्तथागताः पूजयितव्याः। सर्वबुद्धशासनानि संधारयितव्यानि। सर्वबुद्धक्षेत्राणि परिशोधयितव्यानि। सर्वतथागतवंशा न व्यवच्छेत्तव्याः। सर्वसत्त्ववंशाः परिपाचयितव्याः। सर्वसत्त्वसंसारदुःखानि विनिवर्तयितव्यानि। अत्यन्तसुखे सत्त्वाः प्रतिष्ठापयितव्याः। सर्वसत्त्वानां ज्ञानचक्षुः परिशोधयितव्यम्। सर्वबुद्धबोधिसत्त्वसमुदागमे प्रयोक्तव्यम्। सर्वबोधिसत्त्वसमतायां स्थातव्यम्। सर्वबोधिसत्त्वभूमयो निष्पादयितव्याः। सर्वसत्त्वधातुः परिशोधयितव्यः सर्वसत्त्वदारिद्र्यव्यवच्छेदाय सर्वस्वपरित्यागिना भवितव्यम्। अपरान्तकोटीगतान् कल्पान् दानपारमितायां चरता अन्नपानदानेन सत्त्वाः संतर्पयितव्याः। सर्वोपकरणवस्तुपरित्यागेन सर्वयाचनकसंघः संतर्पयितव्यः। तेन मया सर्वस्वपरित्यागितायां प्रतिपद्यमानेन नास्ति तदाध्यात्मिकं बाह्यं वा वस्तु यन्न परित्यक्तव्यम्। तेन मया पुत्रदुहितृभार्या दातव्याः। चक्षुःशिरोहस्तपादसर्वाङ्गप्रत्यङ्गानि परित्यक्तव्यानि। सा त्वं मम तदा परेषु प्रतिपद्यमाना दानान्तरायं करिष्यसि। प्रियेषु पुत्रेषु परित्यज्यमानेष्वनात्तमना भविष्यसि। बहु कायिकचैतसिकं दुःखं प्रत्यनुभविष्यसि। मम सर्वस्वपरित्यागचित्ते प्रत्युपस्थिते मात्सर्यचित्तमुत्पादयिष्यसि। ममाङ्गप्रत्यङ्गानि च्छित्त्वा याचनकेभ्यः परित्यज्यमानस्य दुःखिता दुर्मनस्विनी भविष्यसि। भविष्यति च स कालो यदहं त्वां परित्यज्य तथागतशासने प्रव्रजिष्यामि। सा त्वं तस्मिन् समयेऽनात्तमना भविष्यसि॥



अथ खलु तेजोधिपती राजपुत्रः तस्यां वेलायां सुचलितरतिप्रभासश्रियं दारिकां गाथाभिरध्यभाषत—



संबोधिसंभारमहासमुद्रा

मयाप्रमेयाः परिपूरणीयाः।

यतः कृपां सर्वजगत्सु कृत्वा

संप्रस्थितोऽहं सुचिराय बोधौ॥५६॥



कल्यार्णवैः सम्यगनन्तमध्यैः

व्योमाप्रमाणैः प्रणिधिर्विशोध्यः।

प्रस्थानभूमेश्व तथागतानां

कल्पाननन्तान् परिकर्म कार्यम्॥५७॥



त्र्यध्वस्थितानां च मया जिनानां

संशिक्षिता पारमितापथेषु।

विशोधनीयो वरबोधिमार्गो

निरुत्तरज्ञानमहानयेन॥५८॥



क्षेत्राणि सर्वाण्यपि सर्वदिक्षु

क्लिष्टानि शोध्यानि मयाखिलानि।

सर्वाक्षणा दुर्गतयश्च सर्वा

व्यावर्तनीयाः खलु सर्वलोके॥५९॥



सर्वे च सत्त्वा निखिला विशोध्याः

क्लेशावृता मोहतमोन्धभूताः।

प्रपाचयित्वा विविधैरुपायैः

सर्वज्ञतामार्गनये निवेश्याः॥६०॥



भूमीरसङ्गाश्च मया विशोध्या

कल्पार्णवाश्चैव जिनाः प्रपूज्याः।

मैत्रीं च संजन्य जगत्यशेषे

देयानि दानान्यखिलानि लोके॥६१॥



समागतान् याचनकानुदीक्ष्य

सर्वप्रदानाभिरतस्य नित्यम्।

मा लीनदीना कृपणा तदानीं

भूया मम त्वं विसभागचित्ता॥६२॥



शिरोर्थिनो मेऽर्थमुदीक्ष्य धीमान्

चर्यामुदारा च रतस्तदानीम्।

भविष्यसि त्वं भृशदुःखतप्ता

श्रुत्वैवमर्थं स्थिततामुपैहि॥६३॥



त्वं दौर्मनस्यं मम हस्तपाद-

च्छेदान् प्रदास्याम्यापि याचकानाम्।

कटूनि वक्ष्यस्यबलार्तरूपा

श्रुत्वैतमर्थं परिचिन्तयस्व॥६४॥



प्रियाणि वस्तूनि तथैव पुत्रान्

दास्यामि च त्वामहमर्थिनः सन्।

श्रुत्वैतमर्थं यदि ते न सादः

सर्वं तथैवास्तु यथा तवेष्टम्॥६५॥



एवमुक्ते सुचलितरतिप्रभासश्रीर्दारिका तेजोधिपतिं राजपुत्रमेतदवोचत्-तथा भवतु कुमार यथा वदसि। अहं ते यथाकामं करणीया यथेच्छापरिभोग्या येनकामंगमा सर्वत्रात्यन्तानुगामिनी नित्यानुबद्धा सर्वकार्योत्सुका आशयानुकूलोपचारा सम्यक्पराक्रमा अविषमप्रतिपत्तिप्रयोगोपचारा भविष्यामि॥



अथ खलु सुचलितरतिप्रभासश्रीर्दारिका तेजोधिपतिं राजपुत्रं गाथाभिरध्यभाषत—



कायो हि यन्मे नरकाग्निनायं

संताप्यमानो विलयं प्रयायात्।

जन्मार्णवानप्यहमुत्सहामि

चर्यासभागा परिचारिका ते॥६६॥



जातिष्वनन्तास्वपि जातजात-

श्छिद्येत कायो यदि मेऽतिमात्रम्।

तदुत्सहेऽहं स्थिरधीरचित्ता

भर्ता भव त्वं मम साधुरूप॥६७॥



कल्पाननन्तानपि चक्रवालाः

कच्चिच्छिरो मे परिचूर्णयेयुः।

आक्लान्तचित्तापि तदुत्सहेऽहं

स्वामी भव त्वं मम साध्वचिन्त्य॥६८॥



जात्यन्तराण्यप्यमितानि च त्वं

छित्त्वाङ्गमात्मानि परस्य देहि।

चेतोवशित्वं मयि संनिवेश्य

दृढं प्रतिष्ठापय मां स्वधर्मे॥६९॥



अत्यन्तमेव प्रतिपादयामि

कायं तवेमं नरदेवपुत्र।

चर्यां चरन् कल्पमहासमुद्रान्

प्रयच्छ मामर्थिजनाय हृष्टाम्॥७०॥



संप्रस्थितस्त्वं प्रवराग्रबोधौ

सत्त्वेषु संजन्य कृपामनन्ताम्।

अशेषसत्त्वार्णवसंग्रहाय

गृह्णीष्व मामप्यनुकम्पयातः॥७१॥



न भोगहेतोर्न धनस्य हेतो-

र्न कामचर्यारतिसंभवार्थम्।

इच्छाम्यहं स्वामिनमग्रसत्त्वं

सभागचर्याचरणाय तु त्वाम्॥७२॥



शुद्धाभिनीलेक्षण मैत्रचित्ता

यथेक्षसे त्वं खलु सर्वलोके।

आरक्तचित्तः करुणायमानो

निःसंशयं त्वं भविता मुनीन्द्रः॥७३॥



यथा क्रमात्प्रक्रमतो मही ते

रत्नोज्ज्वला तिष्ठति निर्मलेयम्।

सल्लक्षणालंकृत चक्रवर्ती

निःसंशयं त्वं भविता नृलोके॥७४॥



स्वप्नान्तरेऽपश्यमहं रजन्यां

सुधर्ममेघप्रभबोधिमण्डे।

द्रुमेन्द्रमूले सुगतं निषण्णं

पुरस्कृतं बुद्धसुतैरनेकैः॥७५॥



तं सूर्यगात्रप्रवरं जिनेन्द्रं

जाम्बूनदोत्तप्तमहाद्रिकल्पम्।

स्वप्नान्तरे मुर्ध्न्यकरोत्स मेऽद्य

पाणिं प्रबुद्धा मुदिता ततोऽहम्॥७६॥



रतिप्रभा नाम विशुद्धकाया

पुराणसालोहितदेवता मे।

आरोचयत्येष तथागतोऽस्मिन्

संबोधिमण्डे विचरत्युदारे॥७७॥



अभूत्पुरा मे खलु चेतनैव-

मीक्षेय तेजोधिपतिं कुमारम्।

आरोचितं देवतया कुमारं

त्वं द्रक्ष्यसीत्यद्य निशान्तरे मे॥७८॥



स्वप्नान्तरे मे सुगतोऽद्य दृष्टः

त्वं चैव दृष्टः परिशुद्धसत्त्वः।

सार्धं त्वयावाप्तमनोरथाहं

तं पूजयिष्यामि मुनीन्द्रमद्य॥७९॥



अथ खलु तेजोधिपती राजपुत्रः सूर्यगात्रप्रवरस्य तथागतस्य नामधेयं श्रुत्वा बुद्धदर्शनावकाशप्रतिलब्धो महाप्रीतिप्रसादवेगसंजातः सुचलितरतिप्रभासश्रियं दारिकां पञ्चभिर्मणिरत्नशतैरभ्यवकीर्य श्रीगर्भप्रभासं नाम चूडामणिरत्नमस्याः प्रादात्। अग्निवर्णेन चैनां महामणिरत्नचित्रेण वस्त्ररत्नेनाच्छादयामास। सैवं सत्कृता न हृप्यति नोत्प्लुवति न चरति वा प्रमादं वागमत् अन्यत्र कृताञ्जलिपुटा अनिमिषनयना तेजोधिपतेः कुमारस्य वदनं प्रेक्षमाणा स्थिताभूत्॥



अथ खलु सुदर्शना अग्रगणिका तेजोधिपतिं राजकुमारं गाथाभिरध्यभाषत—



दद्यामिमां ते खलु दारिकां ह-

मित्येवमासीन्मम दिर्घरात्रम्।

सेयं प्रदत्ता तव चारुरूपा

स्वलंकृता पुण्यगुणैरुपेता॥८०॥



मनुष्यलोके सदृशी न कन्या

संविद्यतेऽस्याः क्वचिदुत्तमा या।

शीलेन बुद्ध्याथ गुणैस्तथान्यैः

स्त्रीणां वरेयं स्वलु सर्वलोके॥८१॥



पद्मोद्भवेयं न हि जातिवादः

संदूषणामर्हति निर्मलत्वात्।

अशेषदोषानुपलिप्तचित्ता

चर्यासभागा तव संबभूव॥८२॥



सर्वोत्तमस्पर्शसुखावहानि

गात्राणि चास्याः परमं मृदूनि।

व्याध्यातुराः संस्परिशेन येषा-

मरोगतां तत्क्षणमेव यान्ति॥८३॥



योऽस्याः शुभो वाति हि गात्रगन्धो

वरांस्तदन्यानभिभूय गन्धान्।

तं गन्धमाघ्राय विशुद्धशील-

प्रतिष्ठिता सर्वनरा भवन्ति॥८४॥



अस्या हि कायः कनकप्रकाशो

विरोचते निर्मलपद्मगर्भः।

क्रुद्धा यमुद्वीक्ष्य हि मैत्रचित्ता

भवन्ति सर्वे निखिलेन सत्त्वाः॥८५॥



स्निग्धं वचोऽस्या मधुरं मनोज्ञं

कान्तं जनानां श्रवणाभिरामम्।

श्रुत्वैव यद्दोषतमोविघाति

कर्माशुभं नाभिलषन्ति कर्तुम्॥८६॥



शुद्धाशया निर्मलमानसेयं

सर्वत्र शाठ्यं न हि विद्यतेऽस्याः।

यद्भाषते चेतसि तत्तथैव

यतो जगत्तोषयति स्वरेण॥८७॥



न मायया मोहयते च सत्त्वान्

विलोभयत्येव च नार्थहेतोः।

लज्जावती संवृतमानसेयं

सगौरवा वृद्धनवेषु नित्यम्॥८८॥



न जातिगोत्रेण न रूपमत्ता

तथैव नेयं परिवारमत्ता।

मदेन मानेन च विप्रयुक्ता

नम्रा जिनेषु प्रणता सदैव॥८९॥

अथ खलु तेजोधिपती राजपुत्रः सपरिवारया सुचलितरतिप्रभासश्रिया दारिकया विंशत्या कन्यासहस्रैः परिवारेण च सार्धं ततो गन्धाङ्कुरशिखरप्रभमेघादुद्यानान्निष्क्रम्य येन धर्मोद्गतप्रभासो बोधिमण्डो येन च भगवान् सूर्यगात्रप्रवरः तथागतः, तेनोपसंक्रान्तोऽभूत् भगवतः सूर्यगात्रप्रवरस्य तथागतस्य दर्शनाय वन्दनाय पूजनाय पर्युपासनाय। स यावद्यानस्य भूमिस्तावद्यानेन गत्वा यानादवतीर्य पद्भ्यामेव भगवतः सूर्यगात्रप्रवरस्य तथागतस्यान्तिकमुपसंक्रामन् अद्राक्षीत्तेजोधिपती राजपुत्रो भगवन्तं सूर्यगात्रप्रवरं तथागतर्महन्तं सम्यक्संबुद्धं दूरत एव प्रासादिकं दर्शनीयं शान्तेन्द्रियं शान्तमानसं गुप्तेन्द्रियं नागमिव सुदान्तं हृदमिवाच्छं अनाविलं विप्रसन्नम्। दृष्ट्वा चास्य चित्तमभिप्रसन्नम्। प्रसन्नचित्तो बुद्धदर्शनमहाप्रीतिप्रसादवेगान् संवर्धयामास। महाप्रीतिवेगप्रसादप्रामोद्यपरिस्फुटेन चित्तेन तं भगवन्तमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य तस्य भगवतः पादौ शिरसाभिवन्द्य सार्धं सुचलितरतिप्रभासश्रीदारिकाप्रमुखेन सर्वपरिवारेण पञ्चभिर्महामणिरत्नपद्मशतसहस्रैः तं भगवन्तमभिच्छादयामास। पञ्च च विहारशातानि सर्वगन्धमणिरत्नमयानि सर्वमणिरत्न‍राजविचित्राणि तस्य भगवतः कारयामास। एकैकं च विहारं पञ्चभिर्महामणिरत्न‍राजशतसहस्रैः प्रतिमण्डयामास॥



अथ खलु कुलपुत्र स भगवान् सूर्यगात्रप्रवरस्तथागतः तेजोधिपते राजकुमारस्य अध्याशयं विदित्वा समन्तनेत्रद्वारप्रदीपं नाम सूत्रान्तं संप्रकाशयामास। स तं श्रुत्वा सर्वधर्मनयेषु दश समाधिमुखसमुद्रान् प्रत्यलभत। यदुत-सर्वतथागतप्रणिधानसागरसंभवावभासं नाम समाधिमुखं प्रत्यलभत। त्र्यध्वावभासगर्भं च नाम समाधिमुखं प्रत्यलभत। सर्वबुद्धमण्डलाभिमुखनिर्याणं च नाम समाधिमुखं प्रत्यलभत। सर्वसत्त्वप्रवरावभासप्रवेशं च नाम समाधिमुखं प्रत्यलभत। सर्वलोकसमुदयज्ञानावभासप्रतिपन्नं च नाम समाधिमुखं प्रत्यलभत। सर्वसत्त्वेन्द्रियसमुद्रावभासप्रदीपं च नाम समाधिमुखं प्रत्यलभत। सर्वजगत्परित्राणज्ञानमेघं च नाम समाधिमुखं प्रत्यलभत। सर्वसत्त्वजगत्परिपाकविनयाभिमुखप्रदीपं च नाम समाधिमुखं प्रत्यलभत। सर्वतथागतधर्मचक्रनिर्घोषविज्ञपनं च नाम समाधिमुखं प्रत्यलभत। समन्तभद्रचर्यामण्डलपरिशुद्धिप्रणिधिमेघं च नाम समाधिमुखं प्रत्यलभत। इमानि दश समाधिमुखानि प्रमुखं कृत्वा सर्वधर्मनयेषु दशसमाधिमुखसमुद्रान् प्रत्यलभत। सुचलितरतिप्रभासश्रीश्च दारिका दुर्योधनज्ञानसागरगर्भं च नाम चित्तनिध्यप्तिं प्रत्यलभत, अवैवर्तिका चाभूदनुत्तरायां सम्यक्संबोधौ॥



अथ खलु तेजोधिपती राजपुत्रः भगवतः सूर्यगात्रप्रवरस्य तथागतस्य पादौ शिरसाभिवन्द्य तं भगवन्तमनेकतसहस्रकृत्वः प्रदक्षिणीकृत्य सुचलितरतिप्रभासश्रिया दारिकया सर्वपरिवारेण च सार्धं तस्य भगवतोऽन्तिकात्प्राक्रामत्। स येन द्रुममेरुश्री राजधानी, येन च पिता राजा धनपतिस्तेनोपजगाम। उपेत्य पितुर्धनपते राज्ञः पादौ शिरसाभिवन्द्य एतमर्थमारोचयामास-यत्खलु देव जानीयाः-सूर्यगात्रप्रवरो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। इहैव तव विजिते धर्ममेघोद्गतप्रभासे बोधिमण्डे विहरत्यचिराभिसंबुद्धः। अथ खलु राजा धनपतिस्तेजोधिपतिं कुमारमेतदवोचत्-केन ते कुमार अयमर्थं आरोचितो देवेन वा मनुष्येण वा? स प्राह-सुचलितरतिप्रभासश्रिया दारिकयेति॥



अथ खलु राजा धनपतिर्बुद्धोत्पादश्रवणेन महानिधानप्रतिलाभसंज्ञी सुदुर्लभबुद्धरत्नपरिलाभसंज्ञी तथागतदर्शने सर्वदुर्गतिप्रपातभयविनिवर्तनसंज्ञी सर्वक्लेशव्याधिप्रशमनमहावैद्यराजप्रतिलाभसंज्ञी सर्वसंसारदुःखपरिमोचकसंज्ञी अत्यन्तयोगक्षेमप्रतिष्ठापकसंज्ञी वितिमिरज्ञानालोकदर्शकसंज्ञी अविद्यान्धकारविध्वंसनमहोल्काप्रादुर्भावसंज्ञी अनायकस्य लोकस्य धर्मनयविनायकप्रतिलाभसंज्ञी अपरिणायकस्य सर्वज्ञतायानपरिणायकसमुत्पादसंज्ञी महाप्रीतिप्रसादप्रामोद्यप्रतिलब्धो बुद्धोत्पादं श्रुत्वा क्षत्रियब्राह्मणनैगमजनपदामात्यपुरोहितकुमारकोट्टराजानो दौवारिकपार्षद्यांश्च संनिपात्य बुद्धोत्पादनन्दशब्दावेदिनस्तेजोधिपतेः कुमारस्य तद्राज्यं धर्माच्छादं प्रादात्। स तं कुमारं राज्येऽभिषिच्य सार्धं दशभिः प्राणिसहस्रैर्येन भगवान् सूर्यगात्रप्रवरस्तथागतस्तेनोपजगाम। उपेत्य तस्य भगवतः पादौ शिरसाभिवन्द्य तं भगवन्तमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य तस्य भगवतः पुरस्तान्न्यषीदत् सार्धं स्वकेन परिवारेण॥



अथ खलु कुलपुत्र स भगवान् सूर्यगात्रप्रवरस्तथागतो धनपतिं राजानं सर्वावच्च पर्षन्मण्डलमवलोक्य तस्यां वेलायामूर्णाकोशात्सर्वजगच्चित्तप्रदीपं नाम रश्मिं प्रामुञ्चत्। सा दशसु दिक्षु सर्वलोकधातूनवभास्य सर्वलोकेन्द्रानभिमुखं परिसंस्थाप्य अचिन्त्यानि बुद्धविकुर्वितानि संदर्श्य बुद्धवैनयिकानां सत्त्वानामाशयान् विशोध्य तस्यां वेलायामचिन्त्येन बुद्धाधिपतेयेन सर्वलोकाभ्युद्गतेन बुद्धकायेन सर्वस्वराङ्गसागरसंप्रयुक्तेन बुद्धघोषेण सर्वधर्मवितिमिरार्थप्रदीपं नाम धारणीमुखं संप्रकाशयामास बुद्धक्षेत्रपरमाणुरजःसमधारणीमुखपरिवारम्। अथ राज्ञो धनपतेस्तद्धारणीमुखं श्रुत्वा सर्वधर्मेषु महान् धर्मावभासः प्रादुरभूत्। तस्यां च पर्षदि जम्बुद्वीपपरमाणुरजःसमानां बोधिसत्त्वानां सर्वधर्मवितिमिरार्थप्रदीपाया धारण्याः प्रतिलम्भोऽभूत्। षष्टेश्च प्राणिनियुतानामनुपादाय आस्रवेभ्यश्चित्तानि विमुक्तानि। दशानां च प्राणिसहस्राणां विरजो विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धम्। अपरिमाणानामनुत्पन्नपूर्वमनुत्तरायां सम्यक्संबोधौ चित्तमुत्पन्नम्। दशसु दिक्षु अचिन्त्यबुद्धविकुर्वितसंदर्शनेनानन्तमध्यः सत्त्वधातुर्विनयमगमात् त्रिभिर्यानैः॥



राज्ञश्च धनपतेर्महाधर्मावभासप्रतिलब्धस्य एतदभवत्-न शक्यमगारमध्यावसता इमा एवंरूपा धर्मा अधिमोक्तुम्, एवंरूपं च ज्ञानं निष्पादयितुम्। यन्न्वहं भगवतोऽन्तिके प्रव्राजयेयम्। अथ खलु राजा धनपतिस्तं भगवन्तमेतदवोचत्-लभेयाहं भगवतोऽन्तिके प्रव्रज्यामुपसंपदं भिक्षुभावम्। आह-यस्येदानीं महाराज कालं मन्यसे॥



अथ खलु राजा धनपतिः सूर्यगात्रप्रवरस्य तथागतस्यान्तिके प्राव्रजत् सार्धं दशभिः प्राणिसहस्रैः। तेन अचिरेण प्रव्रजितेन सर्वधर्मवितिमिरार्थप्रदीपं धारणीमुखं सपरिवारं निष्पादितं भावितम्, तावन्त्येव च समाधिमुखानि प्रतिलब्धानि। दश च बोधिसत्त्वाभिज्ञाः प्रतिलब्धा। अनन्तमध्यं च प्रतिसंविन्नयसागरामवतीर्णः। असङ्गगोचरा च नाम कायपरिशुद्धिः दशदिक्तथागतोपसंक्रमणेषु प्रतिलब्धा। स तस्य भगवतो धर्मचक्रं प्रतीच्छितवान् संधारितवान्, कथापुरुषत्वं च कारयामास। महाधर्मभाणकत्वं च अकरोत्। शासनपरिग्रहं चाकार्षीत्। अभिज्ञाप्रतिलाभबलेन च सर्वावतीं लोकधातुं स्फरित्वा यथाशयानां सत्त्वानां कायं संदर्श्य एतं बुद्धोत्पादं प्रभावयन् तां सर्वतथागतसमुदयधर्मतामभिद्योतयन् तां पूर्वयोगसंपदं संप्रकाशयन् तं बुद्धविकुर्वितप्रभावं संवर्णयमानः शासनपरिग्रहमकार्षीत्॥



तेजोधिपतिना च राजपुत्रेण तत्रैव दिवसे पूर्णायां पूर्णमास्यां सप्त रत्नानि प्रतिलब्धानि। तस्योपरिप्रासादतलगतस्य स्त्रीगणपरिवृतस्य पुरस्तादप्रतिहतवेगं नाम शतसहस्रारं सर्वरत्नसमलंकृतं दिव्यं जाम्बूनदसुवर्णमयं समन्तप्रभं सर्वाकारवरोपेतं महाचक्ररत्नं प्रादुरभूत्। वज्ररत्नगिरितेजश्च नाम महाहस्तिरत्नं प्रादुरभूत्। नीलगिर्यनिलवेगं च नाम अश्वरत्नं प्रादुरभवत्। आदित्यगर्भप्रभमेघराजं च नाम महामणिरत्नं प्रादुरभवत्। सा च सुचलितरतिप्रभासश्री दारिका स्त्रीरत्नं प्रादुरभवत्। प्रभूतघनस्कन्धं च नाम गृहपतिरत्नं प्रादुरभवत्। विमलनेत्रं च नाम परिणायकरत्नं सप्तमं प्रादुरभवत्। स सप्तरत्नसमन्वागतो राजाभवच्चक्रवर्ती चतुर्द्वीपेश्वरो धार्मिको धर्मराजो विजितावी जनपदस्थामवीर्यप्राप्तः। पूर्णं खलु पुनरस्य सहस्रं पुत्राणामभूच्छूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानाम्। स इमां महापृथिवीं ससागरगिरिपर्यन्तामखिलामकण्टकामनीतिकामनुपद्रवामृद्धां स्फीतां क्षेमां सुभिक्षां रमणीयामाकीर्णबहुजनमनुष्यां धर्मेणाभिनिर्जित्य अध्यावसति स्म॥



स तस्मिन् जम्बुद्वीपे चतुरशीतिराजधानीसहस्रेषु एकैकस्यां राजधान्यां पञ्च विहारशतानि कारयामास सर्वाकारवरोपेतानि सर्वोपभोगपरिभोगोपचारसंपन्नानि सर्वोद्यानप्रासादचंक्रमनिर्याणसुखपरिभोग्यवनराजीविभूषितानि। एकैकस्मिंश्च विहारे तथागतचैत्यं कारयामास विपुलोद्विद्धमत्यन्तरानेकाकाररत्नव्यूहं सर्वमणिरत्न‍राजविचित्रम्। सर्वासु च तासु राजधानीषु तं भगवन्तं सूर्यगात्रप्रवरं तथागतं सपरिवारमुपनिमन्त्रयामास नगरप्रवेशाय। सर्वासु राजधानीषु तं तथागतं सर्वाकारया अचिन्त्यया तथागतपूजया पूजयन् प्रवेशयामास। स बुद्धनगरप्रवेशप्रातिहार्यविकुर्वितेन अप्रमाणानां सत्त्वानां कुशलमूलानि संजनयमास। तत्राप्रसन्नचित्ताः सत्त्वाः प्रसादं प्रत्यलभन्त। प्रसन्नचित्ताः सत्त्वा बुद्धदर्शनप्रीतिवेगान् विवर्धयामासुः। प्रीतिवेगविवर्धिताः सत्त्वा बोध्याशयविशुद्धिं प्रत्यलभन्त। बोध्याशयविशुद्धाः सत्त्वाः महाकरुणाचेतनामुत्पादयामासुः। सत्त्वहितप्रतिपन्नाः सत्त्वाः सर्वबुद्धधर्मपर्येष्ट्यभियुक्ता अभूवन्। बुद्धधर्मनयविधिज्ञाः सत्त्वाः सर्वधर्मस्वभावनिध्यप्तये चित्तमभिनिर्णामयामासुः। धर्मसमतावतीर्णाः सत्त्वाः त्र्यध्वसमतावताराय चित्तमभिनिर्णामयामासुः। त्र्यध्वज्ञानावभासप्रतिलब्धाः सत्त्वाः सर्वबुद्धपरंपराविज्ञप्तये ज्ञानालोकमवक्रामति स्म। विचित्रतथागतविज्ञप्त्यवक्रान्ताः सत्त्वाः सर्वजगत्संग्रहाय चित्तमभिनिर्णामयामासुः। सर्वजगत्संग्रहप्रयुक्ताः सत्त्वा बोधिसत्त्वमार्गविशुद्धये प्रणिधानमुत्पादयामासुः। मार्गसमतावतीर्णाः सत्त्वाः सर्वतथागतधर्मचक्राभिनिर्हाराय ज्ञानालोकमुत्पादयामासुः। धर्मसागरविनयाभिमुखा सत्त्वाः सर्वक्षेत्रजालस्वकायस्फरणतायै चित्तमभिनिर्णामयामासुः। क्षेत्रसमतावतीर्णाः सत्त्वाः सर्वसत्त्वेन्द्रियसमुद्रपरिज्ञायै प्रणिधानमकार्षुः। सर्वजगदिन्द्रिययथाधिमुक्तिविचारप्रयुक्ताः सत्त्वाः सर्वज्ञताधिगमाय अध्याशयं विशोधयामासुः। इत्येवंरूपाणां सत्त्वानामिमामेवंरूपार्थसिद्धिं संप्रवेश्य तेजोधिपती राजा सर्वासु राजधानीषु तं सूर्यगात्रप्रवरं तथागतं प्रवेशयामास अचिन्त्येन बुद्धविकुर्वितप्रातिहार्यसंदर्शनेन तेषां सत्त्वानां परिपाकविनयाय॥



तत्किं मन्यसे कुलपुत्र-अन्यः स तेन कालेन तेन समयेन तेजोधिपतिर्नाम राजपुत्रोऽभूत्? न खलु पुनस्त्वयैवं द्रष्टव्यम्। अयं स भगवान् शाक्यमुनिस्तथागतस्तेन कालेन तेन समयेन तेजोधिपतिर्नाम राजपुत्रोऽभूत्, येन तच्चक्रवर्तिराज्यं प्रतिलब्धम्, स च सूर्यगात्रप्रवरो नाम तथागत आरागितः। तत्किं मन्यसे कुलपुत्र-अन्यः स तेन कालेन तेन समयेन धनपतिर्नाम राजा अभूत् तेजोधिपतेः कुमारस्य पिता? न खल्वेवं द्रष्टव्यम्। रत्नकुसुमप्रभो नाम तथागतस्तेन कालेन तेन समयेन धनपतिर्नाम राजा अभूत्, य एतर्हि पूर्वस्यां दिशि लोकधातौ सागरपरमाणुरजःसमानां लोकधातुसमुद्राणां परेण धर्मधातुगगनप्रतिभासमेघनाम्नि लोकधातुसमुद्रे त्र्यध्वप्रतिभासमणिराजसंभवकुलमध्यमे लोकधातुवंशे बुद्धप्रभामण्डलश्रीप्रदीपायां लोकधातौ सुचन्द्रकायप्रतिभासध्वजे बोधिमण्डे अनुत्तरां सम्यक्संबोधिमभिसंबुद्धोऽनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमबोधिसत्त्वपरिवृतो धर्मं देशयति। तेन च भगवता रत्नकुसुमप्रभेण तथागतेन पूर्वं बोधिसत्त्वचर्यां चरता सर्वधर्मधातुगगनप्रतिभासमेघो लोकधातुसमुद्रः परिशोधितः। यावन्तश्च तस्मिन् लोकधातुसमुद्रे तथागता उत्पन्नाश्च उत्पद्यन्ते च उत्पत्स्यन्ते च, ते सर्वे च भगवता रत्नकुसुमप्रभेण तथागतेन पूर्वबोधिसत्त्वचर्याश्चरता अनुत्तरायां सम्यक्संबोधौ परिपाचिताः॥



तत्किं मन्यसे कुलपुत्र-अन्या सा तेन कालेन तेन समयेन पद्मश्रीगर्भसंभवा नाम राजभार्या अभूत् तेजोधिपतेः कुमारस्य माता चतुरशीतिस्त्रीसहस्राणां प्रमुखानाम्? न खल्वेवं द्रष्टव्यम्। एषा सा कुलपुत्र मायादेवी भगवतो माता बोधिसत्त्वजननी समन्तावभासानावरणविमोक्षप्रतिष्ठिता असंख्येयसर्वतथागतसमुद्रागमप्रत्यक्षा सर्वबोधिसत्त्वजन्मसंदर्शनविधिज्ञा तेन कालेन तेन समयेन पद्मश्रीगर्भसंभवा नाम राज्ञो धनतेरग्रमहिष्यभूत्। तत्किं मन्यसे कुलपुत्र-अन्या सा तेन कालेन तेन समयेन सुदर्शना नाम अग्रगणिका अभूत्? न खल्वेवं द्रष्टव्यम्। एषा सा सुनेत्रा नाम दण्डपाणेः शाक्यस्य भार्या मम माता तेन कालेन तेन समयेन सुदर्शना नाम अग्रगणिकाभूत्। तत्किं मन्यसे कुलपुत्र-अन्या सा तेन कालेन तेन समयेन सुचलितरतिप्रभासश्रीर्नाम गणिकादारिकाभूत्? न खल्वेवं द्रष्टव्यम्। अहं सा तेन कालेन तेन समयेन सुचलितरतिप्रभासश्रीर्गणिकादारिका अभूत्। तत्किं मन्यसे कुलपुत्र-अन्यः स तेन कालेन तेन समयेन तेजोधिपते राज्ञः परिवारोऽभूत्? न खल्वेवं द्रष्टव्यम्। इमे ते बोधिसत्त्वाः सर्वे समन्तभद्रबोधिसत्त्वचर्याप्रणिधानपरिपूर्यां भगवता प्रतिष्ठापिता अस्मिन्नेव पर्षन्मण्डले संनिषण्णासर्वलोकधातुप्रतिभासप्राप्तेन कायेन सर्वबोधिसत्त्वसमाधिविहारसंभिन्नेन चित्तेन सर्वतथागतः संमुखभाववदनविज्ञप्तेन चक्षुषा सर्वतथागतगगनस्वराङ्गमेघचक्रनिगर्जितनिर्घोषविज्ञप्तेन श्रोत्रेण सर्वधर्मविहारवशवर्तिना आश्वासप्रश्वासेन सर्वबुद्धक्षेत्रानुचलितेन निर्घोषेण सर्वतथागतपर्षन्मण्डलोपसंक्रमणाप्रतिप्रस्रब्धेन बोधिसत्त्वकायेन बोधिसत्त्वयथाशयाभिमुखेन परिपाकविनयानुकूलेन आत्मभावाभिनिर्हारेण अशेषसर्वदिग्जालप्रसृतेन नानागतसर्वकल्पाव्यवच्छिन्नेन समन्तभद्रबोधिसत्त्वचर्याप्रणिधानपरिपूरिसमुदागमेन समन्वागता भगवतः पर्षन्मण्डले संनिषण्णाः। स खलु कुलपुत्र सूर्यगात्रप्रवरस्तथागतस्तेजोधिपतिना चक्रवर्तिना च मया च यावज्जीवमुपस्थितोऽभूत् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः॥



तस्य खलु पुनः कुलपुत्र सूर्यगात्रप्रवरस्य तथागतस्य परिनिर्वृतस्यानन्तरं तस्यामेव लोकधातौ प्रसन्नगात्रो नाम तथागतो लोक उदपादि। सोऽप्यस्माभिरारागितः सत्कृतो गुरुकृतो मानितः पूजितः। तस्यानन्तरं सर्वगात्रज्ञानप्रतिभासचन्द्रो नाम तथागतो लोक उदपादि। सोऽप्यस्माभिर्देवेन्द्रभूतैरारागितः। तस्यानन्तरं जाम्बूनदतेजोराजो नाम तथागत आरागितः। तस्यानन्तरं लक्षणभूषितगात्रो नाम तथागत आरागितः। तस्यानन्तरं विचित्ररश्मिज्वलनचन्द्रो नाम तथागत आरागितः। तस्यानन्तरं सुविलोकितज्ञानकेतुर्नाम तथागत आरागितः। तस्यानन्तरं विपुलमहाज्ञानरश्मिराजो नाम तथागत आरागितः। तस्यानन्तरं नारायणवज्रवीर्यो नाम तथागत आरागितः। तस्यानन्तरमपराजितज्ञानस्थामो नाम तथागत आरागितः। तस्यानन्तरं समन्तविलोकितज्ञानो नाम तथागत आरागितः। तस्यानन्तरं विमलश्रीमेघो नाम तथागत आरागितः। तस्यानन्तरं सिंहविजृम्भितप्रभो नाम तथागत आरागितः। तस्यानन्तरं ज्ञानरश्मिज्वलनचूडो नाम तथागत आरागितः। तस्यानन्तरं गुणरश्मिध्वजोनाम तथागत आरागितः। तस्यानन्तरं ज्ञानभास्करतेजो नाम तथागत आरागितः। तस्यानन्तरं रत्नपद्मप्रफुल्लितगात्रो नाम तथागत आरागितः। तस्यानन्तरं पुण्यप्रदीपध्वजो नाम तथागत आरागितः। तस्यानन्तरं ज्ञानरश्मिमेघप्रभो नाम तथागत आरागितः। तस्यानन्तरं समन्तवैरोचनचन्द्रो नाम तथागत आरागितः। तस्यानन्तरं आभरणच्छत्रनिर्घोषो नाम तथागत आरागितः। तस्यानन्तरं समन्तज्ञानालोकविक्रमसिंहो नाम तथागत आरागितः। तस्यानन्तरं धर्मधातुविषयमतिचन्द्रो नाम तथागत आरागितः। तस्यानन्तरं सत्त्वगगनचित्तप्रतिभासबिम्बो नाम तथागत आरागितः। तस्यानन्तरं प्रशमगन्धसुनाभो नाम तथागत आरागितः। तस्यानन्तरं समन्तानुरवितशान्तनिर्घोषो नाम तथागत आरागितः। तस्यानन्तरं सुदृढज्ञानरश्मिजालबिम्बस्कन्धो नाम तथागत आरागितः। तस्यानन्तरं अमृतपर्वतप्रभातेजो नाम तथागत आरागितः। तस्यानन्तरं धर्मसागरनिगर्जितघोषो नाम तथागत आरागितः। तस्यानन्तरं बुद्धगगनप्रभासचूडो नाम तथागत आरागितः। तस्यानन्तरं रश्मिचन्द्रो नाम तथागत आरागितः। तस्यानन्तरं रश्मिचन्द्रोर्णमेघो नाम तथागत आरागितः। तस्यानन्तरं सुपरिपूर्णज्ञानमुखक्त्रो नाम तथागत आरागितः। तस्यानन्तरं सुविशुद्धज्ञानकुसुमावभासो नाम तथागत आरागितः। तस्यानन्तरं रत्नार्चिःपर्वतश्रीतेजोराजो नाम तथागत आरागितः। तस्यानन्तरं विपुलगुणज्योतिःप्रभो नाम तथागत आरागितः। तस्यानन्तरं समाधिमेर्वभ्युद्गतज्ञानो नाम तथागत आरागितः। तस्यानन्तरं रत्नचन्द्रध्वजो नाम तथागत आरागितः। तस्यानन्तरमर्चिर्मण्डलगात्रो नाम तथागत आरागितः। तस्यानन्तरं रत्नाग्रप्रभतेजो नाम तथागत आरागितः। तस्यानन्तरं समन्तज्ञानचर्याविलम्बो नाम तथागत आरागितः। तस्यानन्तरं अर्चिःसमुद्रमुखवेगप्रदीपो नाम तथागत आरागितः। तस्यानन्तरं धर्मविमाननिर्घोषराजो नाम तथागत आरागितः। तस्यानन्तरमसदृशगुणकीर्तिध्वजो नाम तथागत आरागितः। तस्यानन्तरं प्रलम्बबाहुर्नाम तथागत आरागितः। तस्यानन्तरं पूर्वप्रणिधिनिर्माणचन्द्रो नाम तथागत आरागितः। तस्यानन्तरमाकाशज्ञानार्थप्रदीपो नाम तथागत आरागितः। तस्यानन्तरं धर्मोद्गतनभेश्वरो नाम तथागत आरागितः। तस्यानन्तरं वैरोचनश्रीगर्भराजो नाम तथागत आरागितः। तस्यानन्तरं धर्मनारायणकेतुर्नाम तथागत आरागितः। तस्यानन्तरं ज्ञानकेतुर्नाम तथागत आरागितः। तस्यानन्तरं धर्मसागरपद्मो नाम तथागत आरागितः। इति हि कुलपुत्र एतांस्तथागतान् प्रमुखान् कृत्वा तस्यां लोकधातौ षष्टिबुद्धकोटीनियुतशतसहस्राण्युत्पन्नानि अभूवन्, यान्यस्माभिरारागितानि सत्कृतानि गुरुकृतानि मानितानि पूजितानि चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः॥



तेषां खलु कुलपुत्र षष्टेर्बुद्धकोटीनियुतशतसहस्राणां सर्वपश्चिमो विपुलधर्माधिमुक्तिसंभवतेजो नाम तथागत उत्पन्नोऽभूत्। तस्य भगवतो नगरे प्रविष्टस्य मया राजभार्याभूतया सार्धं स्वामिना सर्वाकारपूजामुखं प्रयुक्तया तथागतपूजया पूजां कृत्वा सर्वतथागतोत्पत्तिसंभवप्रदीपो नाम तथागतधर्मपर्यायस्तस्य भगवतोऽन्तिकात् श्रुतः, यस्य सहश्रवणान्मया ज्ञानचक्षुः प्रतिलब्धम्। एष च सर्वबोधिसत्त्वसमाधिनयसागरव्यवलोकनविषयो बोधिसत्त्वविमोक्षः प्रतिलब्धः॥



सा खल्वहं कुलपुत्र एतं विमोक्षं भावयमाना बुद्धक्षेत्रशतपरमाणुरजःसमान् कल्पानागतान् बोधिसत्त्वेन सार्धं बोधिसत्त्वचर्यां चरमाणा। तेषु च मे बुद्धक्षेत्रपरमाणुरजःसमेषु कल्पेषु अनन्तमध्यास्तथागता आरागिताः। क्वचित् कल्पे कल्पस्थोऽपि एकतथागत आरागितः। क्वचित् कल्पे द्वौ तथागतावारागितौ। क्वचित् कल्पे यावदनभिलाप्यास्तथागता आरागिताः। क्वचित् कल्पे बुद्धक्षेत्रपरमाणुरजःसमास्तथागता आरागिताः। न च मे जातु बोधिसत्त्वस्य कायो ज्ञातः-किंप्रमाणः कीदृक्संस्थानः कीदृग्वर्णः। न कायकर्म ज्ञातं न वाक्कर्म न मनस्कर्म ज्ञातं न ज्ञानदर्शनं न ज्ञानगोचरं न ज्ञानसमाधिविषयो ज्ञातः। ये खलु पुनः कुलपुत्र सत्त्वा बोधिसत्त्वं बोधिसत्त्वचारिकां चरन्तं दृष्ट्वा बोधिसत्त्वस्यान्तिकेऽनुनयचित्तमुत्पादयामासुः, नानासंकेतैर्नानासंवासैश्च प्रसादं जनयामासुः, सर्वे ते बोधिसत्त्वेन लौकिकलोकोत्तरैर्विविधैरुपायैः संगृहीता बोधिसत्त्वस्य परिवारा भवन्ति स्म। ते बोधिसत्त्वस्य बोधिसत्त्वचर्यां चरतः परिवारसंवासे न अवैवर्तिका भवन्ति स्म अनुत्तरायां सम्यक्संबोधौ॥



साहं कुलपुत्र विपुलधर्माधिमुक्तिसंभवतेजस्तथागतस्य सहदर्शनादिमं सर्वबोधिसत्त्वसमाधिसागरव्यवलोकनविषयं बोधिसत्त्वविमोक्षं प्रतिलभ्य बोधिसत्त्वेन सार्धं बुद्धक्षेत्रशतपरमाणुरजःसमान् कल्पानागता एतं विमोक्षं संभावयमाना। ये च तेषु बुद्धक्षेत्रपरमाणुरजः-समेषु कल्पेषु तथागता उत्पन्नाः, सर्वे ते मया तथागता आरागिताः पूजिता उपस्थिताः। सर्वेषां च मे तेषां तथागतानां धर्मदेशना श्रुता, श्रुत्वा उद्गृहीता संधारिता। सर्वेषां च मया तेषां बुद्धानां भगवतामन्तिकादेष विमोक्षः प्रतिलब्धो नानानयैर्वा नानासूत्रान्तनयनिर्घोषैर्नानाविमोक्षशरीरैर्नानाविमोक्षद्वारैर्नानाविमोक्षविचारैर्नानाध्वजप्रवेशैः नानाबुद्धक्षेत्रसागरावतारैः नानाबुद्धदर्शनसमुद्रविज्ञप्तिभिः नानातथागतपर्षन्मण्डलावतारैः नानाबोधिसत्त्वप्रणिधानसागरनयपथैः नानाबोधिसत्त्वचर्याप्रसरैः नानाबोधिसत्त्वचर्याभिनिर्हारैः नानाबोधिसत्त्वप्रसरैः। न च बोधिसत्त्वस्य समन्तभद्रविमोक्षनयमवतरामि। तत्कस्य हेतोः? आकाशतलप्रवेशाप्रमाणा हि कुलपुत्र समन्तभद्राणां बोधिसत्त्वानां विमोक्षनयाः सर्वसत्त्वसंज्ञागततलाप्रमाणाः त्र्यध्वपरिवर्तसागरतलाप्रमाणा दिक्समुद्रतलाप्रमाणा धर्मधातुनयसागरतलाप्रमाणाः। तथागतविषयसमशरीरा हि कुलपुत्र समन्तभद्राणां बोधिसत्त्वानां विमोक्षनयाः॥



सा अहं कुलपुत्र बुद्धक्षेत्रपर्माणुरजःसमान् कल्पान् बोधिसत्त्वशरीरं प्रेक्षमाणा अतृप्तैव दर्शनेन। तद्यथापि नाम कुलपुत्र एकान्तरागचरितयोः स्त्रीपुरुषयोरन्योन्यसमागमे संकेतकृतयोरप्रमाणा अयोनिशोमनसिकारप्रभवाः शुभसंज्ञावितर्कसंमोहसंभवाश्चित्तोत्पादा उत्पद्यन्ते, एवमेव कुलपुत्र मम बोधिसत्त्वस्य शरीरं प्रेक्षमाणाया एकैकस्माद्रोमविवरादनन्तमध्याप्रमाणनिर्देशा लोकधातुवंशप्रसरा नानाप्रतिष्ठाना नानासंधिव्यूहा नानासंस्थाना नानापर्वतव्यूहा नानापृथिवीतलव्यूहनिर्देशा नानागगनमेघसंछन्नालंकारा नानाकल्पनामसंख्यानिर्देशा नानाबुद्धोत्पादतथागतवंशप्रभवा नानाबोधिमण्डालंकारा नानातथागतधर्मचक्रप्रवर्तनविकुर्विता नानातथागतपर्षन्मण्डलव्यूहा नानासूत्रान्तनयनिर्देशनिर्घोषा नानायाननयनिर्हारप्रभवा नानापरिशुद्धप्रभालोकावभासा अदृष्टपूर्वनिमित्ताः प्रतिचित्तक्षणं चक्षुष आभासमागच्छन्ति। एकैकस्माद्रोमविवरादनन्तमध्या बुद्धसमुद्राश्चक्षुष आभासमागच्छन्ति। नानाबोधिमण्डालंकारा नानाधर्मचक्रप्रवर्तनविकुर्विता नानासूत्रान्तनिर्घोषविकुर्विताः अप्रतिस्रब्धयोगेन प्रतिचित्तक्षणं चक्षुष आभासमागच्छन्ति। एकैकस्माद्रोमविवरादनन्तमध्याः सत्त्वसमुद्रा नानाभवनारामपर्वतविमाननदीसमुद्रनिलया नानारूपकाया नानापरिभोगविषया नानाचारयोगचारप्रयोगा नानेन्द्रियपरिनिष्पत्तिसंस्थानाः प्रतिचित्तक्षणं चक्षुष आभासमागच्छन्ति। एकैकस्माद्रोमविवरादनन्तमध्यास्त्र्यध्वसागरप्रवेशनया अवभासमागच्छन्ति। अनन्तमध्या बोधिसत्त्वप्रणिधानसमुद्रा विशुध्यन्ते। अनन्तमध्या बोधिसत्त्वभूमिचर्याविमात्रतासमुद्रा आभासमागच्छन्ति। अनन्तमध्या बोधिसत्त्वपारमितानयसागरपरिशुद्धयोऽवभासमागच्छन्ति। अनन्तमध्या बोधिसत्त्वपूर्वयोगसमुद्रा आभासमागच्छन्ति। अनन्तमध्या बुद्धक्षेत्रपरिशोधननयसमुद्रा आभासमागच्छन्ति। अनन्तमध्या बोधिसत्त्वमहामैत्रीनयसमुद्राः सर्वसत्त्वमहामैत्रीनयसमुद्राः सर्वसत्त्वपरिपाकविनयपराक्रमप्रयोगसागरा अवक्रामन्ति। अनन्तमध्या बोधिसत्त्वमहाकरुणामेघनयसागराः संभवन्ति। अनन्तमध्या बोधिसत्त्वमहाप्रीतिवेगसागरा विवर्धन्ते। प्रतिचित्तक्षणमनन्तमध्याः सर्वसत्त्वसंग्रहप्रयोगसागरा निष्पद्यन्ते॥



सा अहं कुलपुत्र तेषु बुद्धक्षेत्रशतपरमाणुरजःसमेषु कल्पेषु बोधिसत्त्वस्य एकैकस्माद्रोमविवरात्प्रतिचित्तक्षणमनन्तमध्यान् धर्मनयसागरानवतरमाणा पर्यन्तं नाधिगच्छामि। न च अवतीर्णपूर्वमवतरामि। न प्रतिलब्धपूर्वं प्रतिलभे यावदन्तःपुरमध्यगतस्याप्यहं कुलपुत्र सर्वार्थसिद्धस्य स्त्रीगणपरिवृतस्य नानाविमोक्षनयसागरावतारैः। एकैकस्माद्रोमविवरादनन्तमध्यांस्त्र्यध्वनयसागरानवतारामि धर्मधात्ववतारनयसमुद्रावतारेण॥



एतमहं कुलपुत्र सर्वबोधिसत्त्वसमाधिसागरव्यवलोकनविषयं बोधिसत्त्वविमोक्षं प्रजानामि, समापद्ये। किं मया शक्यं बोधिसत्त्वानामनन्तमध्योपायनयसागरप्रसृतानां सर्वसत्त्वसमसदृशसंस्थानसंस्थितकायविज्ञप्तिसंदर्शकानां सर्वजगदाशयानुकूलचर्यासंदर्शकानाम् अनन्तमध्यवर्णनिर्मितमेघसमुद्रसर्वरोममुखप्रमुञ्चकानां सर्वशरीरधर्मतास्वभावप्रकृतिपरिशुद्धानामाकाशलक्षणजगत्प्रकृत्यवबोधनिर्विकल्पानां सर्वत्रानुगतबुद्धिविनिश्चयतथागतसमविकुर्वितपरमाणाम् अनन्तमध्यविमोक्षविषयविकुर्वितनिर्यातानां विपुलधर्मधातुचित्तोत्पादप्रवेशविहारवशवर्तिनां समन्तमुखसर्वधर्मभूमिविमोक्षसागरविक्रीडितानां चर्यां ज्ञातुं गुणान् वा वक्तुम्, निखिलान् वा गुणनिधीन् संदर्शयितुम्॥



गच्छ कुलपुत्र, इहैव भगवतो वैरोचनस्य पादमूले विविधरत्नव्यूहमहामणिराजपद्मगर्भासननिषण्णा बोधिसत्त्वजनेत्री माया नाम देवी। तामुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वा बोधिसत्त्वचर्यां चरन्तोऽनुपलिप्ता भवन्ति सर्वलोकधर्ममलैः। अप्रतिप्रस्रब्धा भवन्ति तथागतपूजाप्रयोगेषु। अवैवर्तिका भवन्ति सर्वबोधिसत्त्वकर्मान्तेभ्यः। सर्वावरणविगता भवन्ति बोधिसत्त्वविमोक्षावतारेषु। अपरप्रत्यया भवन्ति सर्वबोधिसत्त्वविहारेषु। संमुखीभावगता भवन्ति सर्वतथागतानाम्। न विवर्तन्ते सर्वसत्त्वसंग्रहप्रयोगेभ्यः, न निवर्तन्तेऽपरान्तकोटीगतकल्पसर्वबोधिसत्त्वचर्यासंवासेभ्यः। न प्रत्युदावर्तन्ते महायानप्रणिधानात्। न संसीदन्ति जगत्कुशलमूलसंधारणविवर्धनतया॥



अथ खलु गोपा शाक्यकन्या एतमेव विमोक्षमुखनयं संदर्शयन्ती बुद्धाधिष्ठानेन तस्यां वेलायामिमा गाथा अभाषत—



संबोधिचर्याचरणप्रयुक्तं

पश्यन्ति सत्त्वाः खलु येऽग्रसत्त्वम्।

प्रसन्नचित्ताः प्रतिघातिनो वा

व्रजन्ति ते संग्रहमस्य सर्वे॥९०॥



यावन्ति हि क्षेत्रशते रजांसि

स्मरामि कल्पानिह तावतोऽहम्।

मेरुप्रभाभूद्वरलोकधातु-

स्ततः परं व्यूहसनाम्नि कल्पे॥९१॥



षड्विंशतिः कोट्ययुतानि तस्मिन्

सहस्रसंख्या ह्यभवन्मुनीनाम्।

तेषामभूद्यश्चरमो मुनीन्द्रो

धर्मध्वजो नाम जगत्प्रदीपः॥९२॥



श्रीतेजनामा नृपतिस्तदानीं

तस्मिन् मुनीन्द्रे परिनिर्वृतेऽथ।

जम्बुध्वजेऽस्मिन्निहतारिचक्रः

सोऽव्याहताज्ञः परमेश्वरोऽभूत्॥९३॥



शूराणि वीराण्यथ रूपवन्ति

पञ्चाभवन् पुत्रशतानि तस्य।

सर्वाङ्गसंपूर्णविशुद्धकाया-

न्यनुत्तमश्रीप्रतिमण्डितानि॥९४॥



राजा सपुत्रः सुगते प्रसन्नः

पूजामकार्षीद्विपुलां जिनस्य।

नित्यं च सद्धर्मपरिग्रहोऽसौ

धर्माभियुक्तोऽभवदप्रकम्प्यः॥९५॥



सुरश्मिनामा च नृपस्य तस्य

विशुद्धसत्त्वोऽयमभूत्कुमारः।

सुदर्शनीयश्च मनोज्ञरूपः

त्रिंशद्वरालंकृतलक्षणाङ्गः॥९६॥



राज्यं परित्यज्य नृणां स पञ्च-

कोटीवृतः प्रव्रजितस्तदानीम्।

स प्रव्रजित्वा दृढवीर्ययुक्तः

संधारयामास जिनस्य धर्मम्॥९७॥



द्रुमावती नाम पुरी वृताभूत्

कोटीसहस्रैर्नगरोत्तमानाम्।

आसीद्वनं तत्र विचित्रशाखं

प्रशान्तनिर्घोषमनुत्तरश्रियम्॥९८॥



यतः सुरश्मिर्विजहार तस्मिन्

विशारदो धीप्रतिभानशुद्धः।

स द्योतयामास जिनस्य धर्मं

संक्लिष्टसत्त्वौघविशोधनाय॥९९॥



पिण्डाय धीमान् स पुरं विवेश

प्रासादिकेर्यापथशान्तवेषः।

अनुत्क्षिप्तचक्षुः स्मृतिमान् प्रजानन्

गम्भीरचेष्टः स्थिरधीरगामी॥१००॥



नन्दीध्वजोऽभूत्प्रवरः पुराणां

श्रेष्ठी तदानीं सुविघुष्टकीर्तिः।

तस्याहमासं दुहिता मनापा

भानुप्रभा नाम सुचारुरूपा॥१०१॥



द्वारेऽथ तस्योत्तरमन्दिरस्य

दृष्टो मयाभूत्सगणः सुरश्मिः।

प्रासादिको लक्षणचित्रिताङ्गः

तत्राभवन्मे सुमहान् प्रसादः॥१०२॥



यदा गृहद्वारगतो ममाभूत्

पात्रे प्रदत्तोऽस्य मणिस्तदा मे।

मुक्त्वा च सर्वाभरणानि मैत्र-

चित्तानुनीताहमदात्तदास्मै॥१०३॥



सरागचित्तेन विधाय पूजां

सुरश्मिकेतोः सुगतात्मजस्य।

अर्धतृतीयानि शतानि नागां

कल्पोत्तमायां खलु जात्वपायान्॥१०४॥



देवेषु देवेन्द्रकुलेषु जाता

नरेन्द्रपुत्री मनुजेषु चाहम्।

अनन्तवर्णेन समुच्छ्रयेण

सर्वत्र चादात्सहदर्शनं मे॥१०५॥



अर्धतृतीयेषु गतेषु कल्प-

शतेषु जातास्म्यभयंकराणाम्।

सुदर्शनाया गणिकोत्तमायाः

संचालिताख्या दुहिता तदानीम्॥१०६॥



दृष्ट्वाथ तेजोधिपतिं कुमारं

पूजामकार्षं मुदिताहमस्य।

आत्मानमस्यैव निवेदयित्वा

भूतास्मि वश्या खलु तस्य भार्या॥१०७॥



संपूजितस्तेन मया सहाभूत्

स सूर्यगात्रप्रवरो महर्षिः।

प्रसन्नया चैव तमीक्ष्य बुद्ध-

मुत्पादितं मे वरबोधिचित्तम्॥१०८॥



पूर्णा जिनानां खलु षष्टिकोट्य-

स्तत्रैव कल्पे सुसमुत्थितानाम्।

बभूव तेषां चरमो जिनानां

बुद्धस्तदानीमधिमुक्तितेजाः॥१०९॥



तस्मिन् विशुद्धं मम धर्मचक्षु-

र्धर्मस्वभावश्च मयावबुद्धः।

अयोनिशोऽत्यन्तविकल्प शान्ता

लब्धावभासास्म्यभवं ततोऽर्वाक्॥११०॥



समाधिभूमिं च विलोकयामि

ततःप्रभृत्येव जिनौरसानाम्।

क्षेत्रार्णवानेकमनःक्षणेन

चिन्ताव्यतीतांश्च दिशामि दिक्षु॥१११॥



नानाविशुद्धानि च सर्वदिक्षु

क्षेत्राणि पश्याम्यमिताद्भुतानि।

दृष्ट्वा मनस्तेषु न सज्जते मे

क्लिष्टेषु नैव प्रतिहन्यते च॥११२॥



क्षेत्रेषु तेष्वेव च बोधिमण्डे

पश्यामि बुद्धान् निखिलेष्वशेषान्।

प्रभासमुद्रानमितांश्च तेषां

एकेन चित्तेन विलोकयामि॥११३॥



तथैव तेषां च पर्षत्समुद्रां-

श्चित्तक्षणेनावतराम्यसङ्गान्।

तेषां समाधीनखिलानवैमि

सर्वान् विमोक्षानपि चाप्रमेयान्॥११४॥



चर्यां च तेषां विपुलां धरेमि

भूमीनयांश्चावतराम्यशेषान्।

प्रणिध्यसंख्येयमहासमुद्रान्

प्रतिक्षणं चावतराम्यनन्तान्॥११५॥



संप्रेक्षती सत्पुरुषस्य कायं

कल्पाननन्तांश्चरती च चर्याम्।

एकैकरोम्नोऽस्य विकुर्वितानां

नैवेह पर्यन्तमुपैमि जातु॥११६॥



संख्याव्यतीतानपि चैव रोम्नि

क्षेत्रोदधीनप्यवलोकयामि।

समारुतस्कन्धमहाजलौघा-

नग्निप्रपूर्णान् पृथिवीशरीरान्॥११७॥



नानाप्रतिष्ठानविकल्परूपान्

विचित्रसंस्थाननयप्रवेशान्।

नानाविधान् धातुशरीरभेदै-

रनन्तमध्याकृतविग्रहांश्च॥११८॥



क्षेत्रोदधिष्वमितेष्वलाप्यान्

धातून् पृथग् यानवलोकयामि।

धर्माभिधानैर्जनतां विनीतां

तेष्वेव पश्यामि जिनान् प्रयुक्तान्॥११९॥



न कायकर्मास्य मयावबुद्धं

न वाग्न चित्तं न तयोश्च कर्म।

ऋद्धिर्न नैवास्य पृथग्विकुर्वा

कल्पांश्चरन्त्या विपुलां सुचर्याम्॥१२०॥



अथ खलु सुधनः श्रेष्ठिदारको गोपायाः शाक्यकन्यायाः पादौ शिरसाभिवन्द्य गोपां शाक्यकन्यामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य गोपायाः शाक्यकन्याया अन्तिकात् प्रक्रान्तः॥४१॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project