Digital Sanskrit Buddhist Canon

४१ सर्वजगद्रक्षाप्रणिधानवीर्यप्रभा

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 41 sarvajagadrakṣāpraṇidhānavīryaprabhā
४१ सर्वजगद्रक्षाप्रणिधानवीर्यप्रभा।



अथ खलु सुधनः श्रेष्ठिदारको येन सर्वजगद्रक्षाप्रणिधानवीर्यप्रभा रात्रिदेवता तेनोपसंक्रान्तः। सोऽद्राक्षीत्सर्वजगद्रक्षाप्रणिधानवीर्यप्रभां रात्रिदेवतां तस्मिन्नेवं पर्षन्मण्डले सर्वजगद्भवनप्रतिभासमणिराजगर्भासननिषण्णां धर्मधातुनयप्रतिभासमणिजालसंछादितशरीरां सर्वचन्द्रसूर्यज्योतिर्ग्रहतारानक्षत्रप्रतिभाससंदर्शनकायां यथाशयसत्त्वचक्षुर्विज्ञप्तिसंदर्शनकायां सर्वसत्त्वकायसंस्थानसदृशस्वशरीरविज्ञपनकायाम् अनन्तमध्यवर्णसमुद्रोदारविज्ञप्तिसंदर्शनकायां सर्वेर्यापथविहारनयसंदर्शनकायां समन्तमुखाभिमुखविज्ञपनकायां सर्वदिगभिमुखसत्त्वपरिपाचनाभिमुखकायां समन्तधर्ममेघनिगर्जितविविधविकुर्वितसर्वदिक्स्फरणसर्वजगदभिमुखकायां सर्वकालजगदर्थाभिमुखगगनप्रलम्बकायां सर्वतथागतक्रमतलप्रणिपतितकायां सर्वसत्त्वकुशलमूलोपचयसुखपूर्वंगमकायां सर्वतथागताभिमुखधर्ममेघसंप्रतीच्छनसंधारणप्रणिधिसिद्धिपरिपूर्णचेतोपराङ्मुखस्मृतिसंधारणकायाम् अनन्तमध्यावभाससर्वदिक्स्फरणशरीरां सर्वजगत्तमोविकिरणधर्मप्रदीपालोकसमन्तप्रमुक्तावभाससंदर्शनकायां मायागतधर्मनिर्मलज्ञानशरीरनिदर्शनकायां विगततमोरजोधर्मशरीरनिदर्शनकायां मायागतधर्मतानिर्जातकायां धर्मताप्रतिविबुद्धान्धकारचित्तां सममुखज्ञानालोकावभासप्रतिलब्धान् अत्यन्तनिर्ज्वरनिःसंतापमनःशरीरां धर्मकायाभेद्यसारवतीधातुनिर्याताम् अप्रतिष्ठिततथागताधिष्ठानप्रकृत्यसंक्लिष्टस्वभावनिर्मलधर्मताशरीरविशुद्धकायाम्। स तां दृष्ट्वा मूर्ध्ना प्रणम्य बुद्धक्षेत्रपरमाणुरजःसमान् दर्शननयाननुस्मरमाणोऽन्तरधरणितले प्रणिपत्य सुचिरमतिनामयामास॥



अथ खलु सुधनः श्रेष्ठिदारकः तस्माद्धरणितलादुत्थाय प्राञ्जलीभूतः सर्वजगद्रक्षाप्रणिधानवीर्यप्रभाया रात्रिदेवतायाः कायं निरीक्षमाणो दश संज्ञाविशुद्धीः प्रतिलभते स्म, यासां प्रतिलाभात् सर्वकल्याणमित्रसभागतां प्रत्यलभत। कतमा दश? यदुत-कल्याणमित्रेषु स्वचित्तसंज्ञां प्रत्यलभत सर्वज्ञतासमारम्भवीर्यसर्वालम्बनसंवासाय। स्वकर्मविपाकविशुद्धिस्वभावसंज्ञां प्रत्यलभत कल्याणमित्रारागणविपुलकुशलमूलसमुदागमारागणतायै। बोधिसत्त्वचर्यालंकारसंज्ञां प्रत्यलभत सर्वप्रणिधानालंकारचर्यासंवसनतायै। सर्वबुद्धधर्माभिनिष्पादनसंज्ञां प्रत्यलभत सर्वकल्याणमित्रानुशासनीपथप्रतिपत्तये। स्पर्शोपपत्तिसंज्ञां प्रत्यलभत सर्वबुद्धविषयानुत्तरधर्मविहारावभाससंदर्शनतायै। एकनिर्याणसंज्ञां प्रत्यलभत समन्तभद्रयाननिर्याणप्रणिधानचर्याविशुद्धये। सर्वज्ञपुण्यसागराकरसंज्ञां प्रत्यलभत सर्वशुक्लधर्मसमार्जनविवर्धनतायै। सुपरिपूर्णकुशलधर्मपरिपूरणसंवर्धनपरिपालनसंज्ञां प्रत्यलभत बुद्धबोधौ सर्वज्ञज्ञानवीर्यवेगसंवर्धनतायै। सर्वकुशलमूलपरिपूरिसंज्ञां प्रत्यलभत सर्वसत्त्वसर्वाभिप्रायपरिपूरणतायै। सर्वार्थसंसाधकसंज्ञां प्रत्यलभत कल्याणमित्रेषु सर्वबोधिसत्त्वकर्मवशवर्तिताप्रतिष्ठापनाय। इमा दश संज्ञाविशुद्धीः प्रतिलभते स्म, यासां प्रतिलाभात् सर्वजगद्रक्षाप्रणिधानवीर्यप्रभाया रात्रिदेवताया बुद्धक्षेत्रपरमाणुरजःसमा बोधिसत्त्वसभागताः प्रत्यलभत। यदुत स्मृतिसभागतां दशदिक्सर्वतथागतत्र्यध्वानुस्मृतिनयेषु, मतिसभागतां सर्वधर्मसागरनयासंभेदविनिश्चितेषु, गतिसभागतां सर्वतथागतधर्मचक्रमण्डलगत्यनुगतासंभेदविभागनयकौशल्येषु, बोधिसभागतामाकाशसमबुद्ध्या सर्वत्र्यध्वनयसागरावभासप्रतिलाभाय, इन्द्रियविशुद्धिसभागतां सर्वबोधिसत्त्वेन्द्रियसागरज्ञानावभासप्रतिलाभाय, चित्तविशुद्धिसभागतां सर्वाकारसत्त्वसंग्रहव्यूहबोधिसत्त्वमार्गगुणप्रतिपत्यलंकारमार्गप्रतिपत्तये, गोचरसभागतां तथागतज्ञानगोचरावभासप्रतिलाभाय, नयानुगमसभागतां सर्वाकारसर्वज्ञतानयसमुद्रावतारपथावभासप्रतिलाभाय, अर्थप्रतिवेधसभागतां सर्वधर्मस्वभावज्ञानप्रतिवेधप्रतिलाभाय, धर्मविहारसभागतां सर्वावरणपर्वतविकिरणतायै, रूपकायविशुद्धिसभागतां यथाशयजगद्विमात्रतासंदर्शनलक्षणानुव्यञ्जनविचित्रशरीरविशुद्धिप्रतिलाभाय, बलसभागतां बोधिसत्त्वबलपरिनिष्पत्तिसर्वज्ञतारम्बणविवर्धनतायै, सर्वधर्मनयसमुद्रेषु वैशारद्यसभागतां चित्ताशयगगनपरिशुद्धये, वीर्यसभागतां सर्वकल्पबोधिसत्त्वचर्यासंवासापरिखेदप्रतिलाभाय, प्रतिभानसभागतां सर्वधर्मानावरणज्ञानालोकप्रतिलाभाय, अनभिभूतसभागतां सर्वजगदभ्युद्गतात्मभावपरिशुद्धये, अदीनालीनवचनसभागतां सर्वपर्षन्मण्डलाभिराधनपरिशुद्धये, घोषसभागतां सर्वधर्मनयसमुद्ररुतगर्जनतायै, स्वराङ्गविशुद्धिसभागतां सर्वजगद्वचनविज्ञप्तिव्यवहारनयसमुद्रेषु, गुणविशुद्धिसभागतां तथागतानुशासनीगुणप्रतिपत्तिविशुद्धिषु, बुद्धधर्मकर्मवंशाविरोधनसभागतामनवद्यकर्मविपाकविशुद्धये, धर्मयज्ञभूमिप्रतिष्ठापनसभागतां सर्वबुद्धोत्पादधर्मचक्रप्रवर्तनतायै, ब्रह्मचर्यविशुद्धिसभागतां सर्वतथागतविषयज्ञानसंवसनतायै, महामैत्रीसभागतां नानामैत्रीनयप्रतिक्षणसर्वसत्त्वसागरस्फरणतायै, महाकरुणानयसमुद्रावतारसभागतां सर्वसत्त्वधातुपरित्राणधर्ममेघाभिप्रवर्षणतायै, कायकर्मसभागतां सर्वसत्त्वपरिपाचनोपायोपचारसभागतायै, वाक्कर्मविशुद्धिसभागतां सर्वधर्मव्यवहाराभिलाषेषु, मनस्कर्मसभागतां सर्वसत्त्वचित्तेषु सर्वज्ञतारम्बणोपसंहरणतायै, विविधसर्वव्यूहप्रतिमण्डनसभागतां सर्वबुद्धक्षेत्रेषु सर्वतथागतोपसंक्रमणतायै, उपसंक्रमणसभागतां सर्वबुद्धोत्पादसमुद्रेषु, धर्मचक्राध्येषणसभागतां सर्वतथागतेषु, पूजोपस्थानसभागतां सर्वतथागताशेषकालसर्वपूजोपस्थानतायै, सर्वसत्त्वपरिपाकविनयसभागतां सर्वसत्त्वधातौ, आलोकप्रतिलाभसभागतां सर्वसत्त्वधर्मनयेषु, समाधिप्रतिलाभसभागतां सर्वसमाधिनयसमुद्रेषु, समन्तस्फरणसभागतां सर्वबुद्धक्षेत्रसमुद्रबोधिसत्त्वचर्याविकुर्वितस्फरणतायै, बोधिसत्त्वविहारसभागतां सर्वबोधिसत्त्वविकुर्वितनयसमुद्रेषु, परिवारसभागतां सर्वबोधिसत्त्वचर्यासंवासेषु, प्रवेशसभागतां सर्वलोकधातुसुसूक्ष्मप्रवेशेषु, चित्तविभक्तिसभागतां सर्वबुद्धक्षेत्रवैपुल्येषु, अनुगमवैमात्रतासभागतां सर्वबुद्धक्षेत्रसमुद्रावतारविमात्रतानुगमेषु, समन्तनयप्रसरस्फरणसभागतां सर्वबुद्धक्षेत्रविभक्त्यनन्तज्ञानविज्ञप्तिषु, अभ्युद्गतसभागतां सर्वबुद्धक्षेत्रेषु, अवैवर्त्यसभागतां सर्वदिक्स्फरणसमवसरणाधिष्ठानाविवर्त्यतायै, अन्धकारविधमनसभागतां सर्वबुद्धबोधिमण्डविबुध्यनज्ञानमण्डलावभासप्रतिलाभाय, अनुप्राप्तिसभागतां सर्वबुद्धपर्षन्मण्डलसमुद्रेषु, सर्वबुद्धक्षेत्रकायजालस्फरणसभागतामनभिलाप्यबुद्धक्षेत्रतथागतपूजोपस्थानप्रयोगेषु, ज्ञानप्रत्यक्षसभागतां तत्र धर्मनयसमुद्रानुप्रबन्धेषु, प्रतिपत्तिसभागतामनुलोमसर्वधर्मनयनसंमुखप्रयोगेषु, एषणसभागतां तीव्रधर्मच्छन्दारम्भविशुद्धये, विशुद्धिसभागतां कायवाङ्भनस्कर्मबुद्धगुणालंकारसमादानेषु, सुमनःसभागतामविषमकल्पचित्तमण्डलसर्वधर्मज्ञानमण्डलपरिशुद्धये, वीर्यारम्भसभागतां सर्वकुशलमूलसंभारसमारम्भनिस्तीरणप्रयोगेषु, चर्याव्यूहसभागतां सर्वबोधिसत्त्वचर्यापरिनिष्पत्तिषु, असङ्गविहारसभागतां सर्वधर्मनिमित्तप्रतिवेधेषु, उपायकौशल्यनयसभागतां तत्र तत्र धर्मविहारज्ञानविकुर्वणतासु, आयतनविशुद्धिसभागतां यथाशयसत्त्वाविषमदर्शनसमादानेषु, बोधिसत्त्वसमाधिमुखप्रतिलाभसभागतां सर्वधर्मविभावनाप्रतिलाभेषु, अधिष्ठानसभागतां सर्वतथागतवेशेषु, भूम्याक्रमणसभागतां सर्वबुद्धबोधिसत्त्वभूमिप्रतिलाभेषु, प्रतिष्ठानसभागतां सर्वबोधिसत्त्वव्यवस्थानेषु, आदेशनसभागतां सर्वबुद्धव्याकरणेषु, समाधिसभागतां एकक्षणे सर्वसमाधिसागरनयेषु, समाधिव्यवस्थानसभागतां नानालक्षणबुद्धकार्येषु, अनुस्मृतिसभागतां सर्वानुस्मृत्यारम्बणनयसमुद्रेषु, बोधिसत्त्वचरणसभागतां बोधिसत्त्वकार्यापरान्तकोटीगतकल्पव्यवसायेषु, प्रसादसभागतामप्रमेयबुद्धज्ञानाधिमुक्तिप्रीतिवेगसमुद्रविवर्धनतायै, विवर्धनसभागतां सर्वावरणपर्वतानामविवर्त्यज्ञानसभागतां बुद्धज्ञानानन्तसंभारसंभवाय, उपपत्तिसभागतां सर्वसत्त्वपरिपाकविनयकालेषु, विहारसभागतां सर्वज्ञतानयमुखेषु, विषयसभागतां धर्मधातुनयवृषभिताविषयप्रवेशेषु, अनालयसभागतां सर्वालयसमुद्धातितचित्ततायै, सर्वधर्मनिर्देशसभागतां धर्मसमताज्ञानावतारेषु, अभियोगसभागतां सर्वबुद्धाधिष्ठानस्वशरीरसंप्रतीच्छनतायै, अभिज्ञासभागतां सर्वलोकज्ञापनप्रतिपत्तिनयेषु, अनभिसंस्कारर्द्धिप्रतिलाभसभागतां सर्वदिक्क्षेत्रसागरावतारेषु, धारणिभूमिसभागतां सर्वधारणीसमुद्रावभासप्रतिलाभाय, सर्वबुद्धधर्मचक्रसंध्यवतारसभागतां सर्वसूत्रान्तधर्मपर्यायेषु, गम्भीरधर्मप्रवेशसभागतां गगनतलोपमसर्वधर्मनयावतारेषु, अवभाससभागतां सर्वलोकधातुप्रसरेषु, अभिरोचनसभागतां यथाशयजगद्विज्ञप्तिंसंदर्शनेषु, प्रकम्पनसभागतां क्षेत्राधिष्ठानविकुर्वितसत्त्वदर्शनेषु, अमोघचरणसभागतां दर्शनश्रवणानुस्मृतिसत्त्वविनयेषु, निर्याणसभागतां प्रत्यलभत सर्वप्रणिधानसमुद्रनयपरिनिष्पत्तिदशबलज्ञानानुबोधाय। इति हि सुधनः श्रेष्ठिदारकः प्रसन्नचित्तः सर्वजगद्रक्षाप्रणिधानवीर्यप्रभां रात्रिदेवतामवलोकयन् आसां दशानां संज्ञाविशुद्धीनां प्रतिलाभादेतत्प्रमुखान् बुद्धक्षेत्रपरमाणुरजःसमान् सर्वजगद्रक्षाप्रणिधानवीर्यप्रभाया रात्रिदेवतायाः सभागतनयान् प्रतिलभते स्म॥



अथ खलु सुधनः श्रेष्ठिदारकः सर्वजगद्रक्षाप्रणिधानवीर्यप्रभाया रात्रिदेवताया बुद्धक्षेत्रपरमाणुरजःसमदर्शनतया अवतीर्णोऽनन्तमध्यकल्याणमित्रसंज्ञाविशुद्धिप्रतिलब्धो बुद्धक्षेत्रपरमाणुरजःसमसभागतानयावतीर्णः एकांसं चीवरं प्रावृत्य येन सर्वजगद्रक्षाप्रणिधानवीर्यप्रभा रात्रिदेवता, तेनाञ्जलिं प्रणम्य तस्यां वेलायामिमा गाथा अभाषत—



यथा स्वचित्ते वशिता ममास्ति

छन्दश्च बोधौ सुदृढोऽनिवर्त्यः।

त्वदीयचित्तेऽपि हि मे तथैव

स्वतैव देव्यद्य दृढोपजाता॥१॥



पापान्यशेषाणि विशोधितानि

शुभो विपाको द्युतिमानवाप्तः।

सुदर्शनायास्तव दर्शनान्मे

समार्जिताश्चाक्षयशुक्लधर्माः॥२॥



चित्तं गुणौघैः समलंकृतं मे

पृथग्विधैः सत्त्वहितप्रवृत्तैः।

समलंकृतो यैश्चरितास्मि चर्यां

क्षेत्रेषु सर्वेष्वपरान्तकल्पान्॥३॥



निदर्शिता ते खलु सर्वधर्मान्

निष्पत्तिरार्ये मदनुग्रहाय।

हिताय मेऽनुग्रहसंज्ञयैव

धर्मानुशास्तिं परमां प्रयच्छ॥४॥



विवर्तितो दुर्गतिपातमार्गो

संदर्शितः स्वर्गपथो विशुद्धः।

सर्वज्ञमार्गश्च निदर्शितस्ते

यानानुयानः सुगतैरशेषैः॥५॥



त्वदन्तिके मेऽनुपमाद्भुताद्य

निर्याणसंज्ञा परमोपजाता।

आकाशवच्चामलमप्रमाणं

सर्वज्ञताधर्ममुखं विशुद्धम्॥६॥



सर्वज्ञताशेषशुभाकरत्व-

संज्ञाद्य मे त्वय्युदिताप्रमेया।

पुण्यार्णवा मे गगनप्रमाणाः

प्रतिक्षणं चेतसि चोद्भवन्ति॥७॥



उन्नेहि मे पारमिताभिरार्ये

पुण्यैरचिन्त्यैश्च विवर्धयस्व।

संवर्धितः सर्वगुणैः शुभैश्च

सर्वज्ञपट्टं नचिरेण लप्स्ये॥८॥



कल्याणमित्रेषु हि मे सदैव

सर्वज्ञतामार्गप्रतिपूरिसंज्ञा।

अतोनिमित्ता मम सर्वशुक्लं

संपूजिताशु प्रभविष्यतीति॥९॥



सर्वे यतोऽर्थाः प्रभवन्ति चास्मात्

सिद्धश्च कल्याणगुणैरुपेतः।

आराध्य चैवेनमनन्तवर्णं

सर्वज्ञमार्गं जगतां प्रवक्ष्ये॥१०॥



आचार्यभूता मि गुणाप्रमेये

सर्वज्ञधर्मेषु मम प्रणेत्री।

न कल्पकोटीनयुतैरसंख्यैः

शक्यं मया ते प्रतिकर्तुमार्ये॥११॥



अथ खलु सुधनः श्रेष्ठिदारकः इमा गाथा भाषित्वा सर्वजगद्रक्षाप्रणिधानवीर्यप्रभां रात्रिदेवतामेतदवोचत्-संदर्शितस्त्वया देवते ममायमचिन्त्यो बोधिसत्त्वविमोक्षविषयः। वदस्व मे देवते-को नामायं विमोक्षः? कियच्चिरं संप्रस्थितासि देवते अनुत्तरायां सम्यक्संबोधौ? कियच्चिरेण वा त्वमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे?



एवमुक्ते सर्वजगद्रक्षाप्रणिधानवीर्यप्रभा रात्रिदेवता सुधनं श्रेष्ठिदारकमेतदवोचत्-सर्वसत्त्वपरिपाकसंचोदनकुशलसंभवो नाम कुलपुत्र अयं विमोक्षः। अहं कुलपुत्र अनेन विमोक्षेण समन्वागता सर्वधर्मस्वभाववसमतामनुबुद्ध्य सर्वधर्मप्रकृतिमवतीर्य अनालयं धर्मं निश्रित्य सर्वलोकोच्चालिता सुविभक्तरूपतां धर्माणामवतीर्य अविसभागवर्णा अवैवर्तवर्णा अविकल्पवर्णा अनीलवर्णा अपीतवर्णा अलोहितवर्णा अनवदातवर्णा धर्मतामवतीर्य अनेकवर्णविभक्तिरूपात्मभावा नानात्ववर्णा अविसभागा अनानात्वा अवैमात्र्या अविकल्पा अनीला अपीता अलोहिता अनवदातवर्णा, अनेकवर्णा अप्रमेयवर्णा विशुद्धवर्णा सर्वव्यूहप्रमुञ्चनवर्णा समन्तदर्शनवर्णा सर्वजगत्सदृशवर्णा सर्वलोकाभिमुखातिरेकवर्णा समन्तावभासप्रतिभासवर्णा अप्रतिकूलदर्शनवर्णा लक्षणानुव्यञ्जनसुविशोधितवर्णा अनवद्यचरणप्रभासवर्णा महाबलविक्रमसंदर्शनवर्णा दुरासदगम्भीरवर्णा सर्वलोकापर्यादत्तवर्णा क्षणक्षणविचित्रवर्णा नानावर्णमेघसंदर्शनवर्णा नानारूपसंस्थानवर्णा अप्रमेयविकुर्वितसंदर्शनवर्णा सुरुचिरवचनवर्णा सर्वसुरूपचित्तवर्णा सर्वसत्त्वपरिपाकानुकूलवर्णा यथाशयवैनेयाभिमुखोपनीतकुशलवर्णा अप्रतिहतसमन्तप्रभासवर्णा अच्छानाविलविप्रसन्नप्रभास्वरवर्णा अभेद्यकायोपचयोपशोभितवर्णा अचिन्त्यधर्मनयप्रभावनवर्णा अभिभूरनभिभूतसर्वाभिभवनवर्णा अतमस्तिमिरवर्णा सर्वान्धकारविधमनवर्णा सर्वशुक्लसुसमार्जितवर्णा महात्मगुनसमुद्रवर्णा पूर्वगुरुगौरवसुसमार्जितवर्णा अध्याशयगगनपरिशुद्धिवरप्रवरोत्तमविशालवर्णा अनाच्छेद्याक्षयगुणसमुद्रप्रभावनवर्णा सर्वलोकाभिनिश्रितासंभेदवर्णा असङ्गसर्वदिक्स्फरणवर्णा अनभिलाप्यक्षेत्रसमुद्रचित्तक्षणप्रसरानेकविविधवर्णसमुद्रसंदर्शनवर्णा सर्वसत्त्वमहाप्रीतिवेगविवर्धनवर्णा सर्वसत्त्वसागरसंग्रहवर्णा सर्वरोमविवराशेषबुद्धगुणसमुद्रमेघनिगर्जनवर्णा सर्वसत्त्वाशयाधिमुक्तिसागरविशोधितवर्णा सर्वधर्मार्थविनिश्चयसंदर्शनवर्णा नानावर्णरश्मिजालवभासवर्णा गगनप्रमाणविमलप्रभावर्णा विशुद्धमणिराजविमलरजःप्रभानिश्रितवर्णा निर्मलधर्मताप्रतिभासवर्णा अतुलवर्णनयसमुद्रविचित्रप्रतिभासवर्णा समन्तदिगवभासवर्णा यथाकालजगत्संदर्शनाभिन्नवर्णा प्रशमदमदिक्संभववर्णा सर्वक्लेशप्रशमनवर्णा सर्वजगत्पुण्यक्षेत्रप्रभावनवर्णा सर्वनयप्रशमनवर्णा अमोघजगत्स्फरणवर्णा महाज्ञानविक्रमप्रभावनवर्णा असङ्गकायसमन्तस्फरणवर्णा समन्ताद्वरकायामोघजगत्संदर्शनवर्णा महामैत्रीसमुद्रसमुदागमवर्णा महापुण्यसुमेरुसमुदागमवर्णा सर्वजगदनिश्रितसर्वलोकगतिप्रतिभासप्राप्तवर्णा महाज्ञानबलविशोधनवर्णा सर्वलोकानुस्मृतिसंवसनवर्णा सर्वरत्नाभवर्णा वैरोचनगर्भनिदर्शनवर्णा सर्वजगत्प्रसादानुरूपवर्णा सर्वज्ञताकाराभिमुखवर्णा प्रहसितनयनजगत्प्रसादवर्णा सर्वरत्नव्यूहाग्रावभासवर्णा अनागृहाभाससर्वजगत्पराङ्मुखवर्णा अनियताभिनिविष्टवर्णा अधिष्ठानविकुर्वितवृषभितासंदर्शनवर्णा सर्वविविधविकुर्वितवृषभितासंदर्शनवर्णा तथागतकुशलमूलावभासनवर्णा अनवद्यसर्वधर्मधातुनयसागरप्रसृतवर्णा सर्वबुद्धपर्षन्मण्डलोपसंक्रमणप्रतिभासप्राप्तवर्णा विविधवर्णसमुद्रनिष्पादनवर्णा सुचरितनिष्यन्दसंभूतवर्णा यथावैनायिकोपनायिकवर्णा सर्वलोकातृप्तदर्शनवर्णा विचित्रप्रभास्वरावभासनवर्णा सर्वत्र्यध्ववर्णा समुद्रसंदर्शनवर्णा सर्ववर्णरश्मिसमुद्रप्रमुञ्चनवर्णा अनभिलाप्यवर्णा प्रभामण्डलसमुद्रनानार्थविमात्रतासंदर्शनवर्णा सर्वगन्धावससर्वजगत्समतिक्रान्तवर्णा एकैकरोमविवरानभिलाप्यबुद्धक्षेत्रपरमाणुरजः समसूर्यमण्डलमेघसंदर्शनवर्णा विमलचन्द्रमण्डलविग्रहमेघाधिष्ठानवर्णा अनन्तरुचिरपुष्पसुमेरुमेघसंप्रमुञ्चनवर्णा नानाभिनिर्हारमाल्यद्रुममेघसर्वालंकारमाल्यवर्षप्रमुञ्चनवर्णा सर्वरत्नपद्ममेघसंदर्शनवर्णा सर्वगन्धधूपपटलविग्रहमेघसर्वधर्मधातुस्फरणवर्णा प्रतिचित्तक्षणं सर्वचूर्णकोशमेघानधिष्ठाय दशसु दिक्षु सर्वधर्मधातुनयसागरान् स्फरित्वा दर्शनवैनेयानां सत्त्वानां श्रवणवैनेयानामनुस्मृतिवैनेयानां धर्मचक्रनिर्माणाभिनिर्हारवैनेयानां प्रत्युपस्थितपरिपाककालवैनेयानां रूपकायसंदर्शनवैनेयानां प्रत्युपासनवैनेयानामनुबोधनवैनेयानां विविधविकुर्वितप्रातिहार्यसंदर्शनवैनेयानामचिन्त्यविकुर्वितप्रातिहार्यविज्ञप्तिसंदर्शनवैनेयानां सत्त्वानामाशयवशेन कालवशेन अकुशलकर्मविवर्तनवशेन कुशलकर्मसंभवप्रतिष्ठापनवशेन पूर्वमहाप्रणिधानाभिनिर्हारवशेन सर्वज्ञतावेगवशेन बोधिसत्त्वविमोक्षविपुलविकुर्वितप्रतिलाभधर्मवशेन सर्वजगत्परित्राणस्वभिनिर्हृतमहाकरुणाबलसंभववशेन महामैत्रीसागरविशुद्धिसंजननाशयवशेन प्रवर्तयामि तथागताधिष्ठानसुप्रतीच्छितत्वात्॥



एवमहं कुलपुत्र अस्मिन् सर्वसत्त्वपरिपाकयथाशयकुशलमूलसंचोदनबोधिसत्त्वविमोक्षे प्रतिष्ठाय अविभक्तरूपधर्मतामवतीर्य अनन्तमध्यकायवर्णसंस्थानतां संदर्शयित्वा एकैकस्माच्चर्याकायादनन्तमध्यान् वर्णसमुद्रालोकविज्ञप्त्या एकैकस्माच्चर्यावर्णादनन्तमध्यान् रश्मिमेघानवसृज्य बुद्धक्षेत्रप्रतिभासान् दर्शयित्वा एकैकस्मिंश्च बुद्धक्षेत्रे अनन्तमध्यामेकैकस्माद्रेश्मरनन्तमध्यान् तथागतोत्पादान् संदर्शयित्वा एकैकस्य च तथागतस्य अनन्तमध्यानि विकुर्वितानि संदर्शयमाना पूर्वकाणि कुशलमूलानि संचोदयामि। अनवरोपितानि च कुशलमूलन्यवरोपयामि। अवरोपितानि च विपुलीकरोमि। विपुलीकृतानि च कुशलमूलानि विवर्धयामि। प्रतिचित्तक्षणं च अनन्तमध्यं सत्त्वधातुमनुत्तरायां सम्यक्संबोधौ अविवर्त्यभूमौ प्रतिष्ठापयामि॥



यत्पुनः कुलपुत्र एवं वदसि-कियच्चिरसंप्रस्थितासि देवते अनुत्तरायां सम्यक्संबोधौ? कियन्ति कल्पशतान्युपादाय बोधिसत्त्वचारिकां चरसि? इत्येतदपि तेऽर्थं निर्देक्ष्यामि बुद्धानुभावेन। अकल्पाविकल्पपरिकल्पविषयं कुलपुत्र बोधिसत्त्वानां ज्ञानमण्डलम्। न तत्र संसारदीर्घता वा संसारह्रस्वता वा प्रभाव्यते प्रज्ञायते। कल्पसंक्लिष्टता वा कल्पविशुद्धता वा कल्पपरीत्तता वा कल्पमहद्गतता वा कल्पबहुत्वं वा कल्पनानात्वं वा कल्पनानाकरणं वा कल्पविमात्रता वा प्रभाव्यते प्रज्ञायते वा। तत्कस्य हेतोः? प्रकृतिस्वभावपरिशुद्धं कुलपुत्र बोधिसत्त्वानां ज्ञानमण्डलं सर्वसंज्ञाजालनिर्मुक्तं सर्वावरणपर्वतसमतिक्रान्तमाशये उदेति। तच्च सर्वसत्त्वानां यथाशयपरिपाककालवैनेयानामवभासं करोति। तद्यथा कुलपुत्र सूर्यमण्डले रात्रिंदिवं संख्या न विद्यते, न संवसति। अस्तंगमिते सूर्यमण्डले रात्रिः प्रज्ञायते प्रभाव्यते। उदागते च सूर्यमण्डले दिवसः प्रज्ञायते प्रभाव्यते। एवमेव कुलपुत्र अविकल्पे बोधिसत्त्वज्ञानमण्डले सर्वकल्पविकल्पपरिकल्पा न संविद्यन्ते। सर्वसंसारसंवसनसंज्ञागतानि सर्वाध्वानश्च संविद्यन्ते। अथ च पुनर्बोधिसत्त्वाशयोदिता विकल्पज्ञानमण्डलप्रभेन सर्वसत्त्वपरिपाककालवशेन कल्पसंवाससंसारसंज्ञागतगणनासंख्या प्रभाव्यते। अविकल्पज्ञानमण्डले पूर्वान्तापरान्तकल्पसंवाससंज्ञागतसंख्या प्रभाव्यते। तद्यथा कुलपुत्र सूर्यमण्डलं गगनतलगतं सर्वरत्नपर्वतेषु सर्वरत्नद्रुमेषु सर्वरत्न‍राजेषु सर्वरत्नाकरेषु सर्वसागरेषु सर्वोत्ससरःसु सर्वस्वच्छजलभाजनेषु सर्वजगच्चित्तेषु च प्रतिभासप्राप्तं विज्ञायते। सत्त्वानां चाभिमुखं समुदागच्छति। सर्वरत्नपरमाणुरजःसु च सूर्यमण्डलं प्रतिभासप्राप्तं दृश्यते। न च पुनस्तत्सूर्यमण्डलं रत्नपर्वतेषु संभवति, न रत्नद्रुमेषु यावन्न परमाणुरजःस्वनुप्रविशति। न मणिस्फरेष्वन्तर्गतं भवति। न रत्नाकरेष्वनुगच्छति। न सागरेष्ववतरति। न सर्वोदकभाजनेष्वनुप्रविशति। सर्वत्र चान्तर्गतं दृश्यते। एवमेव कुलपुत्र बोधिसत्त्वो महासत्त्व उच्चलितो भवसमुद्रादुद्गतस्तथागतधर्मधातुगगने धर्मस्वभावगगनगोचरविहारी शान्तगगननिलयः सर्वभवगत्युपपत्तिषु संदृश्यते सर्वसत्त्वसदृशैः कायैः सत्त्वानां परिपाकविनयमुपादाय। न च संसारदोषैर्लिप्यते, न च्युत्युपपत्तिदुःखैरुपतप्यते, न च कल्पविकल्पैः संवसति, न चास्य कल्पे दीर्घसंज्ञा भवति न ह्रस्वसंज्ञा। तत्कस्य हेतोः? तथा हि बोधिसत्त्वोऽत्यन्तमविपर्यस्तसंज्ञाचित्तदृष्टिविपर्यासमतिक्रान्तः, स्वप्नोपमसर्वलोकयथाभूतज्ञानदर्शी मायोपमसर्वलोकावतीर्णो निःसत्त्ववतीधातुज्ञानप्रतिलब्धो यथाभूतधर्मदर्शी सुविपुलकरुणामण्डलमहाप्रणिधानवशेन सर्वसत्त्वाभिमुखः संदृश्यते परिपाकविनयमुपादाय॥



तद्यथा कुलपुत्र महानद्यादिषु यानपात्रं सततसमितं सत्त्वसंतारणाय प्रयुक्तमप्रतिप्रस्रब्धं भवति, यावज्जीवं न चास्य अपारिमे तीरेऽभिनिवेशो भवति न पारिमे, न चोदकमध्ये संतिष्ठते, एवमेव कुलपुत्र बोधिसत्त्वो महापारमितायानपात्रबलेन संसारनदीस्रोतसः सर्वसत्त्वसंतारणाय प्रतिपन्नो भवति। न चास्य अपारिमे तीरे उत्र्त्रासो भवति, न पारिमे तीरे क्षेमसंज्ञा। अथ च पुनः सततसमितं सत्त्वसंतारणाय प्रतिपन्नो भवति। अपरिमितसर्वकल्पव्यवसितेन बोधिसत्त्वचर्यासंवासेन च कल्पविमात्रतामभिनिविशते। न कल्पातिक्रमणदीर्घसंज्ञायामभिनिविष्टो बोधिसत्त्वचर्यायां चरति॥



तद्यथा कुलपुत्र धर्मधातुविपुलमाकाशधातुगगनमण्डलं सर्वलोकधातुषु संवर्तमानेषु विवर्तमानेषु व्यतिवृत्तेषु वा अविकल्पं प्रकृतिविशुद्धमसंक्लिष्टमनावृतमखिन्नमदीर्घमनवतीर्णमपरान्तकालं सर्वक्षेत्राणि धारयमाणम्, एवमेव कुलपुत्र बोधिसत्त्व आशयज्ञानगगनतलमण्डलं महाप्रणिधानवातमण्डलीपरिवृतं सर्वदुर्गतिप्रपातेभ्यः सत्त्वान् संधारयमाणः न परिखिद्यते, सुगतिपथमुपनयमानो न परित्रस्यति, सर्वज्ञतापथेषु प्रतिष्ठापयमानो नावसीदति, सर्वक्लेशैर्नाकुलीभवति, संसारदोषैर्नोपलिप्यते॥



तद्यथा कुलपुत्र मायागतनिवृत्तस्य पुरुषस्य सर्वाङ्गप्रत्यङ्गपरिपूर्णस्य दश शरीरस्था धर्मा न संविद्यन्ते। कतमे दश? यदुत आसरितं वा निःसरितं वा, शीतं वोष्णं वा, क्षुधा वा पिपासा वा, हर्षो वा मन्युवृतभावो वा, जातिजराव्याधिमरणं वा पीडा वा न संविद्यते। एवमेव कुलपुत्र बोधिसत्त्वस्य ज्ञानमायागतनिर्यातरूपस्यासंभिन्नधर्मधातुकायस्य सर्वभवगतिषूपपन्नस्य सर्वसत्त्वपरिपाकाय सर्वकल्पान् संवसमानस्य दश धर्मा न संविद्यन्ते। कतमे दश? यदुत संसाराभिलाषो वा संसारभवगत्युपपत्तिनिर्वेदो वा विषयरत्यनुनयो वा प्रतिघातचित्तता वा उपभोक्तुकामता वा सर्वक्लेशपरितापो वा दुःखवेदनानुभावो वा विषयगत्युपपत्तिभयं वा भवाभिलाषो वा अभिनिवेशो वा। अपि तु खलु कुलपुत्र निर्देक्ष्यामि बुद्धानुभावेन अनागतानां च बोधिसत्त्वानां विपुलबोधिसत्त्वप्रणिधानबलविवर्धनतायै॥



भूतपूर्वं कुलपुत्र अतीतेऽध्वनि लोकधातुसमुद्रपरमाणुरजःसमानां परेण परतरेण यदासीत्-तेन कालेन तेन समयेन रत्नप्रभा नाम लोकधातुः। तस्यां खलु पुनः कुलपुत्र रत्नप्रभायां लोकधातौ सुप्रभो नाम कल्पोऽभूत्। तस्मिन् खलु पुनः सुप्रभे कल्पे दश बुद्धसहस्राण्युपपद्यन्ते स्म। तेषां खलु कुलपुत्र दशानां बुद्धसहस्राणां प्राथमकल्पिको धर्मचक्रनिर्घोषगगनप्रदीपराजो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्, येन सर्वप्रथममनुत्तरा सम्यक्संबोधिरभिसंबुद्धा। स खलु पुनः कुलपुत्र तथागतो मध्ये चातुर्द्वीपकस्य रतिव्यूहाया राजधान्या नातिदूरे उपपन्नः। तस्याः खलु पुना रतिव्यूहाया राजधान्याः पूर्वेण सुप्रभं नाम वनषण्डमभूत्। तस्मिन् खलु पुनः सुप्रभे वनषण्डे रत्नकुसुममेघो नाम बोधिमण्डोऽभूत्। तस्मिन् खलु रत्नकुसुममेघे बोधिमण्डे वैरोचनमणिपद्मगर्भसिंहासनं प्रादुरभूत्, यत्र स भगवान् धर्मचक्रनिर्घोषगगनमेघप्रदीराजस्तथागतो निषद्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धः। तेन च समयेन मनुष्याणां दश वर्षसहस्राणि आयुः प्रमाणमभूत्। अथ प्राणातिपातिषु सर्वेषु लोके प्रादुर्भूतेषु अदत्तादायिषु काममिथ्याचारिषु मृषावादिषु पैशुनिकेषु पारुषिकेषु संभिन्नप्रलापिषु अभिध्यालुषु व्यापन्नचित्तेषु मिथ्यादृष्टिषु, एवं दशस्वकुशलेषु कर्मपथेषु विपुलीभूतेषु सुप्रतिष्ठितेषु स भगवान् धर्मचक्रनिर्घोषगगनमेघप्रदीपराजस्तथागतः परिपूर्णं वर्षसहस्रं बोधिमण्डगतो बोधिसत्त्वानां धर्मं देशयामास लोकेन्द्राणां च पूर्वजिनकृताधिकाराणां जम्बुद्वीपकानां च मनुष्याणां कुशलमूलपरिपाचनाय॥



तेन च समयेन तस्यां रतिव्यूहायां राजधान्यां जयप्रभो नाम राजा अभूत्। तेन अदत्तादायिनां पुरुषाणां चौराणां किल्बिषकारिणां प्राणातिपातिनां काममिथ्याचारिणां मृषावादिनां पैशुनिकानां पारुषिकाणां संभिन्नप्रलापिनां अभिध्यालूनां व्यापन्नचित्तानां मिथ्यादृष्टिकानामधर्मरागरक्तानां विषमलोभाभिभूतानां मिथ्याधर्मपरिगतानां कृतपापानां कृतरौद्राणामकृतपुण्यानामकृतभयभीरुत्राणानाममातृज्ञानामपितृज्ञानामश्रामण्यानामब्राह्मण्यानाममनार्यज्ञानामपराधिनामनेकानि शतसहस्राणि चारके प्रक्षिप्तान्यभूवन् दमनार्थाय। राज्ञः खलु पुनः जयप्रभस्य विजितावी नाम पुत्रोऽभूदभिरूपः प्रासादिको दर्शनीयः परमशुभवर्णपुष्कलतया समन्वागतोऽष्टविंशतिभिर्महापुरुषलक्षणैरुपेतः। अथ स सरस्वतिसंगीतिप्रासादाभिरूढो महास्त्रीगणपरिवारपरिवृतः तेषां चारकावरुद्धानां सत्त्वानां विविधगाढबन्धनबद्धानां भैरवमुत्क्रोशशब्दमश्रौषीत्। श्रुत्वा च पुनरुद्विग्नः संविग्नचित्तो महाकरुणासंजातः तस्मात्प्रासादादवतीर्य तच्चारके प्रविश्य अद्राक्षीत्तांश्चारकगहनप्रक्षिप्तान् सत्त्वान् नानाहडिनिगडकटककुण्डलशृङ्खलाखलीनबन्धनबद्धान् परस्परशरीरविनिबद्धान् महान्धकारप्रक्षिप्तान् धूमतिमिरावृतान् विषमवातोपहतशरीरान् धमनीसंततगात्रान् क्षुत्पिपासापरिपीडितान् नग्नान् निर्वसनान् पांशुरजःसंम्रक्षितशरीरांश्च केशाभिच्छादितकायान् उरुनिगडबन्धनबद्धान् विविधाः कारणाः कार्यमाणान् दुःखवेदनामनुभवमानाननेकविधान् कारणान् परिदेवविप्रलापान् प्रमुञ्चमानान्। स तान् दृष्ट्वा महत्कारुण्यमुत्पाद्य उदारकरुणाशयसंजातः परहिताधानोऽद्भुतचेताश्चारकगहनगतान् सत्त्वान् समाश्वासयामास बन्धनविप्रमोक्षाय। स तेषां सत्त्वानामभयं दत्वा येन राजा जयप्रभस्तेनोपसंक्रम्य एवमाहयत्खलु देवो जानीयात्-मया बन्धनागारबन्धनगतानां सत्त्वानां कारुण्यादभयं दत्तम्। ते मुच्येरन्। अथ जयप्रभेण राज्ञा सर्वाणि पञ्चामात्यशतानि संनिपात्य परिपृष्टानियुष्माकं कथं भवति? त आहुः-एते राजकोशविलोपिनो राज्ञो वधाय पराक्रान्ताः। राज्ञोऽन्तःपुरे पराक्रमन्तो गृहीताः। वधार्हा ह्येते। वध एवैषां दण्डो बन्धनगतानां वा मरणम्। योऽप्येषामनुग्रहाय प्रतिपद्यते, सोऽपि राज्ञोऽपराधी॥



अथ खलु स विजितावी राजपुत्रो महाकरुणापरिपीडितस्तानमात्यान् प्रोवाचतथास्तु यथा यूयं वदथ। तदथोत्सृजतैनानपराधिनः पुरुषान्। अहमेषामथार्य सर्वदुःखवेदनाः संसोढुमुत्सहे। यद् युष्माभिरेषां करणीयं तन्मम कुरुत। अहमेषां बन्धनविप्रमोक्षाय विविधकारणापरिगतः कायजीवितं परित्यजामि। तत्कस्य हेतोः? यद्यहमेतान् सत्त्वानस्माद्बन्धनान्न शक्नोमि मोचयितुम्, तत्कथं शक्यं त्रैधातुकबन्धनागारगतान् सत्त्वांस्तृष्णापाशविनिबद्धान् अविद्यागहनगतान् मोहान्धकारप्रक्षिप्तान् दारिद्र्यदुःखप्रपीडितान् गम्भीरगहनदुर्गतिप्रतिपन्नान् विसंस्थितविवर्णशरीरान् निरस्तसर्वेन्द्रियप्रयोगान् विभ्रान्तमानसान् अनिःसरणदर्शिनः आलोकविरहितांस्तांस्त्रैधातुकाभिनिविष्टान् पुण्यज्ञानसंभारविकलान् ज्ञानायतनपरिभ्रष्टान् नानाक्लेशमलिनचित्तान् दुःखपञ्जरप्रक्षिप्तान् मारवशगतान् जातिजरारमणशोकपरिदेवदुःखदौर्मनस्योपायासप्रपीडितान् परिमोचयितुम्॥



अथ खलु विजितावी राजकुमारस्तान् सर्वान् बन्धनगतान् सत्त्वांस्तस्माद्बन्धनागारात्परिमोचयति स्म आत्मपरित्यागेन सर्वपरिवारेण सर्वधनस्कन्धेन। स तान् परिमोच्य यत्तेषां सत्त्वानां दुःखोपधानं तदुत्सृज्य न विनिवर्तयते स्म। अथ तानि पञ्चामात्यशतान्यूर्ध्वबाहूनि उत्क्रोशमानानि जयप्रभं राजानमुपसंक्रम्य एवमाहुः-यत्खलु देवो जानीयात्-विजिताविनः कुमारस्य च्छन्देनायं राजकोशो विलुप्यते। अस्माकमपि सर्वेषां जीविते संशयः। यदि देवो विजिताविनो राजकुमारस्य निग्रहणं च करिष्यति, देवस्य नचिरेण जीवितं न भविष्यति॥



अथ खलु जयप्रभो राजा कुपितो विजिताविनं राजकुमारं सह तैरपराधिभिः पुरुषैर्वधायोत्सृष्टवान्। तस्य माता जनेत्री तच्छ्रुत्वा उद्विग्ना स्त्रीसहस्रपरिवृता प्रमुक्तकेशी निराभरणगात्री स्वमुखं व्यालुप्य उरस्ताडयन्ती पांश्ववकीर्णशिरस्का क्रन्दमाना आर्तस्वरं रुदन्ती राजानमुपसंक्रम्य सपरिवारा चरणयोर्निपत्य एवं विज्ञापयामास-प्रमुञ्च देव विजिताविनं राजकुमारम्। देहि देव कुमारस्य जीवितम्। अथ राजा विजिताविनं कुमारं संमुखं स्थापयित्वा एवमाहं-उत्सृज कुमार एतानपराधिनो मनुष्यान्। यदि नोत्स्रक्ष्यसि, तदेषामर्थाय वधमुपगमिष्यसीति। स वधमभ्युपगतवानसंलीनेन चित्तेन असंकुचितेन सर्वज्ञतारम्बणप्रयुक्तेन परहितपरिणतेन महाकरुणापूर्वंगमेन। तस्य जनेत्र्या राजा जयप्रभोऽर्धमासं याचितो दर्शनाय-अर्धमासं कुमारो दानं ददातु यस्य येनार्थः। ततो यथाकामं करणीयः। भवतु तत्तथेति राज्ञानुज्ञताम्। अथ तस्या रतिव्यूहाया राजधान्या उत्तरेण पूर्वयज्ञवाटप्रकृतं सूर्यप्रभं नाम महोद्यानम्। तत्र कुमारोऽभिनिष्क्रम्य यस्य येनार्थः तस्य तत्प्रादात्। तेन निरर्गलं यज्ञं यजता अर्धमासं विविधा दानविधयो दत्ताः। अन्नमन्नार्थिभ्यः पानवस्त्रपुष्पमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकारत्नाभरणविविधविभूषणसर्वोपकरणविषयस्तदर्थिभ्यो निसृष्टः॥



ततः पश्चिमे दिवसे सर्वजनकायः संनिपतितः। राजामात्यस्त्रीगणश्रेष्ठिगृहपतिनैगमजनपदाः सर्वपाषण्डाश्च संनिपतिताः। स च भगवान् धर्मचक्रनिर्घोषगगनमेघप्रदीपराजस्तथागतः सत्त्वपरिपाकविनयकालमागमय्य तं यज्ञवाटमुपसंक्रान्तो देवेन्द्रगणपरिवृतो नागेन्द्रगणपरिवृतो नागेन्द्रसंपूजितो यक्षेन्द्रकायाभिनतो गन्धर्वेन्द्राभिष्टुतोऽसुरेन्द्रप्रणतशरीरश्चूडामणिविभूषितप्रसन्नचित्तो गरुडेन्द्रपूजाविधिभिरभिप्रकीर्णः प्रीतिमनोभिः किन्नरेन्दैः परिपूजितः स्तुतिसंगीतिसंचोदितो महोरगेन्द्रसंप्रेक्षितावलोकितवदनः। अद्राक्षीत् स महाजनकायो विजितावी च राजकुमारस्तं भगवन्तं धर्मचक्रनिर्घोषगगनमेघप्रदीपराजं तथागतमर्हन्तं सम्यक्संबुद्धं दूरत एवागच्छन्तं प्रासादिकं दर्शनीयं शान्तेन्द्रियं शान्तमानसं गुप्तं जितेन्द्रियं नागमिव सुदान्तं ह्रदमिवाच्छं विप्रसन्नमनाविलं महता बुद्धविकुर्वितप्रातिहार्येण महत्या बुद्धवृषभितया विरोचयमानं बुद्धाधिपतेयेनाभिभवन्तं बुद्धमाहात्म्यतया प्रभासयमानं महाबुद्धलक्षणानुव्यञ्जनविभूषणोपशोभितकायं सर्वलोकं बुद्धप्रभामण्डलावभासेन स्फरमाणं बुद्धरश्मिभिरवभासयमानं सर्वरोमविवरेभ्यो गन्धरत्नार्चिश्चक्राणि प्रमुञ्चमानं बुद्धक्षेत्रप्रकम्पनेन सर्वलोकं संकम्पयमानं सर्वव्यूहमेघप्रवर्षणेन बुद्धविक्रमेण सर्वसत्त्वक्लेशप्रजहनेन बुद्धेर्यापथेन सर्वसत्त्वप्रीतिवेगविवर्धनेन बुद्धदर्शनप्रभावेनोपसंक्रममाणम्। दृष्ट्वा च भगवतोऽन्तिके चित्तमभिप्रसादयामासुः॥
अथ खलु विजितावी राजकुमारः स च महान् जनकायस्तं भगवन्तं धर्मचक्रनिर्घोषगगनमेघप्रदीपराजं तथागतं दूरादेव प्रत्युद्गम्य प्रसन्नचित्तः सर्वशरीरेण प्रणिपत्य पादौ शिरसाभिवन्द्य अनेकविधया पूजया संपूज्य एवं वाचमभाषत-एहि भगवन्, एहि सुगत। समन्वाहृताः स्मः तथागतेन, अनुपरिगृहीताः स्मः सुगतेन। अथ खलु विजितावी राजकुमारस्तस्य भगवतोऽग्रासनमुपदर्शयन् एवमाह-निषीदतु भगवान्। इदमासनं प्रज्ञप्तम्। ततो भगवत उपसंक्रामतस्तदासनं शुचिगर्भशरीरकायिकाभिर्देवताभिर्बुद्धानुभावेन गन्धमणिराजपद्मगर्भमधिष्ठितम्। न्यषीदद्भगवान् धर्मचक्रनिर्घोषगगनमेघप्रदीपराजस्तथागतस्तत्रासने, आसनपरिवारेषु च बोधिसत्त्वाः। तस्य सहदर्शनेन तस्यां पर्षदि सर्वेषां सत्त्वानां सर्वव्याधयः प्रशान्ताः, सर्वावरणनिवरणविगताश्चार्यधर्माणां भाजनीभूताः संस्थिताः॥

अथ खलु भगवान् धर्मचक्रनिर्घोषगगनमेघप्रदीपराजस्तथागतस्तान् सत्त्वान् भाजनभूतान् विदित्वा अनुपूर्वेण कथामकार्षीत्। यदुत हेतुमण्डलप्रभासं नाम सूत्रान्तं संप्रकाशयामास। स्वराङ्गसहस्रसंप्रयुक्तं च वदनान्तरात् सर्वधर्माङ्गसंप्रयुक्तं सर्वजगन्मन्त्रसागरनिरुक्तिनिर्नादनिर्घोषं निश्चारयामास। अथ तावदेव ततः पर्षदोऽशीतीनां प्राणिनियुतानां विरजो विगतमलं धर्मेषु धर्मचक्षुरुत्पन्नम्। बहुभिश्च प्राणिनियुतैरशैक्षभूमिरनुप्राप्ता। दश च प्राणिसहस्राणि महायाने विनीतानि, यदुत समन्तभद्रबोधिसत्त्वचर्यामहाप्रणिधानपरिपूरिनयेऽवतारितानि। एवं तस्य भगवतो महाबुद्धविकुर्वितेन धर्मचक्रं प्रवर्तयमानस्य दशसु दिक्षु बुद्धक्षेत्रशतसहस्रपरमाणुरजःसमाः सत्त्वा महायाने विनयमगमन्। अनन्तमध्याश्च सत्त्वा दशदिशि लोके नानाबुद्धक्षेत्रप्रसरसमवसरणेष्वपायभूमिं विनिवर्तयामासुः। गणनासमतिक्रान्ताश्च सत्त्वाः स्वर्गोपपत्तिपथे प्रतिष्ठापिता अभूवन्। विजितावी च राजकुमार इमं सर्वसत्त्वपरिपाकयथाशयसंचोदनकुशलमूलसंभवं बोधिसत्त्वविमोक्षं प्रत्यलभत॥

स्यात्खलु पुनस्ते कुलपुत्र-अन्यः स तेन कालेन तेन समयेन विजितावी राजकुमारोऽभूत्, येन तत्स्वकायजीवितं परित्यज्य सर्वधनस्कन्धपरिवारं परित्यज्य सर्वमानुष्यकं च जीवलोकसुखं परित्यज्य ते बन्धनगताः सत्त्वाः तस्माद्बन्धनात् परिमोक्षिताः? स च निरर्गलो महायज्ञो यष्टः? स च भगवान् धर्मचक्रनिर्घोषगगनमेघप्रदीपराजस्तथागतोऽर्हन् सम्यक्संबुद्धः आरागितः? तस्य च तथागतस्य सहदर्शनेनानुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्? एष च सर्वसत्त्वपरिपाकयथाशयसंचोदनकुशलमूलसंभवो बोधिसत्त्वविमोक्षः प्रतिलब्धः? न खलु पुनस्ते कुलपुत्र एवं द्रष्टव्यम्। अहं स तेन कालेन तेन समयेन विजितावी नाम राजकुमारोऽभूवम्। मया तद्विजितावीराजकुमारभूतेन महाकरुणाप्रपीडितेन सर्वजगद्धितप्रतिपन्नेन त्रैधातुकानिश्रितेन विपाकाप्रतिकाङ्क्षिणा यशस्कीर्तिनामानभिनन्दिना आत्मानमनुत्कर्षयता परमपंसयता सर्ववस्त्वनभिनिविष्टेन भवसंज्ञोच्चलितेन त्रैधातुकानभिनन्दिना लोकविषयसुखविमुखेन तथागतविषयाविमुखेन बोध्याशयविशुद्धेन अध्याशयवज्रपरिनिष्पन्नेन सर्वजगन्महामैत्रीप्रयोगेन सर्वजगन्महाकरुणादुःखव्युपशमसंप्रयुक्तेन तथागतबलाध्याशयमध्यालम्बता बोधिसत्त्वमार्गं परिशोधयता महायानव्यूहनिर्याणपथमलंकुर्वता सर्वज्ञतामार्गमभिविलोकयता इमान्येवं दुष्कराणि कृतानि। एवं चिरप्रतिलब्धः कुलपुत्र मयैष सर्वसत्त्वपरिपाकयथाशयसंचोदनकुशलमूलसंभवो बोधिसत्त्वविमोक्षः॥

तत्किं मन्यसे कुलपुत्र-अन्यानि तानि तेन समयेन पञ्चामात्यशतान्यभूवन्, यैः स राजा जयप्रभो वितथं विज्ञाप्य मम वधायोद्योजितः? न खल्वेवं द्रष्टव्यम्। इमानि तानि पञ्च पुरुषशतानि यानि देवदत्तेन भगवतो वधायोद्योजितानि। तानि च भगवता विनीय अनुत्तरायां सम्यक्संबोधौ व्याकृतानि-भविष्यत्यनागतेऽध्वनि सुमेरुपरमाणुरजःसमैः कल्पैः एकस्मिन् सुप्रभनामधेये कल्पे पञ्च बुद्धशतानि नानाबुद्धक्षेत्रगुणव्यूहानि नानाजन्मकुलगोत्रसंभवानि नानामातापितृव्यपदेशानि नानाजन्मविकुर्वितसंदर्शनानि नानाभिनिष्क्रमणविकुर्वितानि नानाबोधिवृक्षप्रभासंदर्शनानि नानाबोधिमण्डोपसंक्रमणमुखानि नानामारभङ्गसंदर्शनानि नानाभिसंबोधिविकुर्वितसंदर्शनानि नानाधर्मचक्रप्रवर्तननयनामनिरुक्तीनि नानासूत्रान्तनयनिर्देशानि नानावाक्पथरुतोदाहाराणि नानापर्षन्मण्डलव्यूहानि नानाप्रभामण्डलप्रभाव्यूहप्रमुञ्चनानि नानायुःप्रमाणानि नानाशासनाधिष्ठानानि नानाशासनविज्ञप्तीनि नानानामधेयानि महाकरुणाशरीराणि, येषां प्राथमकल्पिको महाकारुणिको नाम तथागतो रत्नप्रभायां लोकधातावनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते। तस्यामेव लोकधातौ द्वितीयः सर्वजगद्धितप्रणिधानचन्द्रो नाम तथागत उत्पत्स्यते। तृतीयो महाकरुणासिंहो नाम तथागत उत्पत्स्यते। चतुर्थः सर्वलोकहितैषी नाम तथागत उत्पत्स्यते। यावत्सर्वपश्चिमो वैद्यराजो नाम तथागत उत्पत्स्यते॥

तत्किं मन्यसे कुलपुत्र-अन्ये ते तेन कालेन तेन समयेन अपराधिनः पुरुषा राजकिल्बिषकारिणोऽभूवन् ये ते मया वध्यघातवशगताः स्वकायजीवितं परित्यज्य ततो बन्धनात् परिमोक्षिताः? न खल्वेवं द्रष्टव्यम्। इमे ते क्रकुच्छन्दपूर्वगमा भद्रकल्पिकास्तथागताः। तदन्यानि च दशः बोधिसत्त्वासंख्येयशतसहस्राणि यैर्भगवतोऽनन्तबलविघुष्टनिर्नादितश्रीसंभवमतेस्तथागतस्य दर्शनेन अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्, यान्येतर्हि दशसु दिक्षु बोधिचर्यां चरन्ति। इमे च सर्वसत्त्वपरिपाकयथाशयसंचोदनकुशलमूलसंभवं बोधिसत्त्वविमोक्षं भावयन्ति विपुलीकुर्वन्ति॥

तत्किं मन्यसे कुलपुत्र-अन्यः स तेन कालेन तेन समयेन जयप्रभो नाम राजा अभूत्? न खल्वेवं द्रष्टव्यम्। सत्यकः स महावादी तेन कालेन तेन समयेन जयप्रभो नाम राजा अभूत्। तत्किं मन्यसे कुलपुत्र-अन्यः स तेन कालेन तेन समयेन राजपरिवारोऽभूदन्तःपुरस्त्र्यागारदौवारिकपार्षद्या वा अनुयात्रिका वा? न खल्वेवं द्रष्टव्यम्। इमानि तानि षष्टिर्निग्रन्थसहस्राणि, यानि सत्यकेन महावादिना भगवतः सकाशमुपनीतानि, वादिध्वजधारणतया भगवतो वादायोपसंक्रान्तानि। तानि च सर्वाणि भगवता व्याकृतान्यनुत्तरायां सम्यक्संबोधौ। नानाबुद्धक्षेत्रव्यूहैर्नानाकल्पैर्नानानामधेयैस्तथागतां लोके उत्पत्स्यन्ते॥

स खलु पुनः कुलपुत्र विजितावी राजकुमारो मातापितृभ्यामनुज्ञातस्तान् बन्धनगतान् सत्त्वान् परिमोच्य स्फीतां वसुमतीं धनकनकरत्नसमृद्धामपहाय पुत्रदारं चोत्सृज्य तस्य भगवतो धर्मचक्रनिर्घोषगगनमेघप्रदीपराजस्य तथागतस्यान्तिके प्राव्रजत्। प्रव्रजित्वा पञ्च वर्षसहस्राणि ब्रह्मचर्यमचरत्। एतस्मिन्नन्तरे दश समाधिमुखसहस्राणि संनिष्पादयामास। दश च धारणीमुखसहस्राणि प्रत्यलभत। दश च अभिज्ञानयसहस्राण्यवक्रान्तानि। दश बोधिसत्त्वमहानिधानसहस्राणि प्रतिलभते स्म। दश चास्य सर्वज्ञतावेगसहस्राण्याजातानि। दश चानेन क्षान्तिमुखसहस्राणि परिशोधितानि। दश चित्तनिध्यप्तिसहस्राण्यभिनिर्हृतानि। दश च बोधिसत्त्वबलशरीराणि संवर्धितानि। दश च बोधिसत्त्वज्ञानमुखसहस्राण्यवक्रान्तानि। दश चास्य प्रज्ञापारमितानयसहस्राण्याजातानि। दश च बुद्धसहस्रदर्शनदिङ्भुखसहस्राण्यामुखीभूतानि। दश च अनेन बोधिसत्त्वप्रणिधानसहस्राण्यभिनिर्हृतानि। स एवं धर्मसमन्वागतः प्रतिचित्तक्षणे दशसु दिक्षु दशबुद्धक्षेत्रसहस्राण्याक्रामति स्म। एकैकस्यां च लोकधातौ चित्तक्षणे चित्तक्षणे दश बुद्धसहस्राणि पूर्वान्तापरान्ततोऽनुस्मरति स्म। तेषां च तथागतानां दश बुद्धनिर्माणसमुद्रसहस्राणि दशदिक्प्रसृतान्यवतरन्ति स्म। चित्तक्षणे चित्तक्षणे दश बुद्धक्षेत्रसहस्रपर्यापन्नान् सर्वसत्त्वानद्राक्षीत्। नानागत्युपपन्नांश्च्यवत उपपद्यमानान् हीनान् प्रणीतान् सुगतान् दुर्गतान् सुवर्णान् दुर्वर्णान् यथाकामोपगतान्। तेषां च सत्त्वानां च्युत्युपपत्तीरवतरति स्म। चित्तपरिवर्तान् चित्तचरितानि चिन्तानन्तर्यतामाशयनानात्वमिन्द्रियसागरानपि प्रयोगप्रसरानपि कर्मावसानमपि परिपाकविनयकालमपि अवतरति स्म॥

स खलु पुनः कुलपुत्र विजितावी राजकुमारस्ततश्च्युत्वा तत्रैव जम्बुद्वीपे रतिव्यूहायां राजधान्यां तस्मिन्नेव राजकुले उपपद्य चक्रवर्तिराज्यैश्चर्यं प्रत्यलभत। तेन चक्रवर्तिराजभूतेन तस्य भगवतो धर्मचक्रनिर्घोषगगनमेघप्रदीपराजस्य तथागतस्य परिनिर्वृतस्यानन्तरं धर्मगगनाभ्युद्गतश्रीराजो नाम तथागत आरागितः। तस्यानन्तरं तत्रैव बोधिमण्डे शक्रभूतेन देवेन्द्रगर्भो नाम तथागत आरागितः। तस्यानन्तरं तत्रैव लोकधातौ सुयामदेवराजभूतेन धरणीश्रीपर्वततेजो नाम तथागत आरागितः। तस्यानन्तरं तस्मिन्नेव लोकधातौ संतुषितदेवराजभूतेन धर्मचक्रप्रभनिर्घोषराजो नाम तथागत आरागितः। तस्यानन्तरं तस्मिन्नेव लोकधातौ सुनिर्मितदेवराजभूतेन गगनकान्तराजो नाम तथागत आरागितः। तस्यानन्तरं तस्मिन्नेव लोकधातौ वशवर्तिदेवराजभूतेनानवमर्दबलकेतुर्नाम तथागत आरागितः। तस्यानन्तरं तस्मिन्नेव लोकधातावसुरेन्द्रभूतेन सर्वधर्मनिगर्जितराजो नाम तथागत आरागितः। तस्यानन्तरं तस्मिन्नेव लोकधातौ ब्रह्मेन्द्रभूतेन धर्मचक्रनिर्माणसमन्तप्रतिभासनिर्घोषो नाम तथागत आरागितः। इति हि कुलपुत्र एतांस्तथागतान् प्रमुखान् कृत्वा तस्यामेव रत्नप्रभायां लोकधातौ तस्मिन्नेव सुप्रभे कल्पे दश बुद्धसहस्राण्युदपद्यन्त। सर्वे च ते तथागता विजिताविना राजकुमारेणारागिताः। तस्य खलु पुनः कुलपुत्र सुप्रभस्य महाकल्पस्यानन्तरं सुरश्मिर्नाम कल्पोऽभूत्। तस्मिंश्च सुरश्मिकल्पे दश बुद्धसहस्राण्युपपद्यन्त। अहं च तस्मिन् कल्पे महामतिर्नाम राजा अभूवम्। तेन मे राजभूतेन लक्षणश्रीपर्वतो नाम तथागत आरागितः। तस्यानन्तरं तस्मिन्नेव कल्पे गृहपतिभूतेन संवृतस्कन्धो नाम तथागत आरागितः। तस्यानन्तरं तस्मिन्नेव कल्पे अमात्यभूतेन विमलवत्सो नाम तथागत आरागितः। तस्यानन्तरं तस्मिन्नेव कल्पेऽसुरेन्द्रभूतेन वेशधारी नाम तथागत आरागितः। तस्यानन्तरं तस्मिन्नेव कल्पे वृक्षदेवताभूतेन लक्षणसुमेरुर्नाम तथागत आरागितः। तस्यानन्तरं तस्मिन्नेव कल्पे सार्थवाहभूतेन विमलबाहुर्नाम तथागत आरागितः। तस्यानन्तरं तस्मिन्नेव कल्पे नगरदेवताभूतेन् सिंहविक्रान्तगामी नाम तथागत आरागितः। तस्यानन्तरं तस्मिन्नेव कल्पे वैश्रवणभूतेन देवेन्द्रचूडो नाम तथागत आरागितः। तस्यानन्तरं तस्मिन्नेव कल्पे गन्धर्वराजभूतेन धर्मोद्गतकीर्तिनाम तथागत आरागितः। तस्यानन्तरं तस्मिन्नेव कल्पे कुम्भाण्डेन्द्रभूतेन अवभासमकुटी नाम तथागत आरागितः॥

इति हि कुलपुत्र मयैतान् दश तथागतान् प्रमुखान् कृत्वा तत्र सुरश्मिकल्पे षष्टिर्बुद्धकोट्य आरागिताः। नानोपपत्तिकायिकया सर्वे च मे तथागताः पूजिताः। एकैकं च तथागतमुपसंक्रामन्त्या अनन्तमध्यः सत्त्वधातुरनुत्तरायां सम्यक्संबोधौ परिपाचितः। एकैकं च तथागतमुपसंक्रामन्त्या नानासमाधिमुखानि प्रतिलब्धानि। नानाधारणीमुखानि नानाभिनिर्हारनया नानाप्रतिसंविन्नयाभिनिर्हारा नानासर्वज्ञतानयानुगमा नानाधर्मालोकमुखप्रतिलाभनया नानाज्ञाननयानुगमविचारा नानादिक्समुद्रप्रवेशावभासा नानाक्षेत्रसमुद्रावतारप्रवेशावभासा नानातथागतदर्शनसमुद्रविज्ञप्त्यवभासाः प्रतिलब्धाः, अवक्रान्ता विशुद्धाः संवर्धिताः प्रसृताः प्रतिसृताः। यथा च तत्र सुरश्मिकल्पे तथागता आरागिताः, तथा सर्वत्रलोकधातुसमुद्रपरमाणुरजःसमेषु कल्पेषु ये केचित्तथागता उपपद्यन्ते, येऽपि तदन्येभ्यो लोकधातुभ्य आगत्य तथागता धर्मं देशयमासुः, तेषां मया सर्वेषां तथागतानामन्तिकाद्धर्मदेशना श्रुता, श्रुत्वा च संधारिता। सर्वे च मया ते तथागता आरागिता अभिराधिताः। तेषां च मे बुद्धानां भगवतां शासनं संधारितम्। सर्वेषां च मे तेषां तथागतानामन्तिकादेष सर्वसत्त्वपरिपाकयथाशयसंचोदनकुशलमूलसंभवो बोधिसत्त्वविमोक्षः प्रतिलब्धो नानाप्रतिलाभनयनानाविमोक्षनयमुखैः॥

अथ खलु सर्वजगद्रक्षाप्रणिधानवीर्यप्रभा रात्रिदेवता तस्यां वेलायामेतं विमोक्षनयं परिदीपयन्ती संदर्शयमाना सुधनं श्रेष्ठिदारकं गाथाभिरध्यभाषत—

अचिन्त्यमेतं परमं विमोक्षं
मां पृच्छसि त्वं खलु यत्प्रपीतः।
विनिर्दिशत्याः सुगतानुभवा-
च्छृणुष्व तन्मे निखिलं यथावत्॥१२॥

कल्पाननन्तान् विपुलानचिन्त्यान्
क्षेत्रार्णवांश्चाप्रतिमानसंख्यान्।
सर्वानतिक्रम्य बभूव रम्या
रत्नप्रभा या खलु लोकधातुः॥१३॥

तस्यामभूत्सुप्रभनामधेयः
कल्पोऽमितानां प्रभवो जिनानाम्।
आरागितास्ते खलु मे मुनीन्द्रा
विमोक्षमेतं परिभावयन्त्या॥१४॥

यस्यां रतिव्यूहसनामिकाभू-
द्विस्तीर्णचित्रा वरराजधानी।
सुविशुद्धचित्ता विषमप्रयोगाः
सत्त्वा हि यस्यामभवंस्तदानीम्॥१५॥

जयप्रभोऽस्यां नृपतिर्बभूव
धर्मेण यस्ताननुशास्ति सत्त्वान्।
पुत्रोऽस्य नाम्ना विजिताविरासीत्
प्रासादिको लक्षणचित्रिताङ्गः॥१६॥

वधाय सृष्टानि नृपेण तेन
तदा सहस्राण्यपराधिनां हि।
दृष्ट्वा कुमारः कृपया परीत-
स्तान् विप्रमोक्षाय नृपं ययाचे॥१७॥

श्रुत्वा नृपोऽमात्यगणं तदानी-
माहूय तेषां निखिलं तदाह।
ते प्रोचुरेनं प्रणिपत्य सर्वे
त्वद्धातनायैष नृप प्रयोगः॥१८॥

विग्राहितस्तैर्नृपतिस्तदैवं
वधाय तं पुत्रमथोत्ससर्ज।
अदीनवक्त्रः स्ववधानपेक्षो
वध्यानत्यजन्न स राजसूनुः॥१९॥

श्रुत्वा वधोत्सृष्टमथास्य माता
सान्तःपुरार्ता नृपतिं ययाचे।
मुञ्चार्धमासं नृपते कुमारं
दातुं प्रदानान्यखिलानि लोके॥२०॥

दत्ताभ्यनुज्ञश्च नृपेण तेन
प्रादात्स दानानि यथोचितानि।
रात्रिंदिवं दानमथार्धमासं
दत्वा दिशाभ्यः समुपागतानाम्॥२१॥

पाषण्डिनां यस्य यदीप्सितं तत्
तस्मै ददाति स्म वधाय सज्जः।
मुक्तार्तनादाथ विनिर्जगाम
सा राजधान्या जनता समग्रा॥२२॥

सद्धर्मघोषाम्बरदीपराजो
बोधिद्रुमस्थः सुगतस्तदानीम्।
पक्वानि ज्ञात्वा जगदिन्द्रियाणि
तं यज्ञवाटं कृपया जगाम॥ २३॥

उपेत्य तस्यां परिषद्यथासौ
तथागतव्यूहविकुर्वितेन
धर्मप्रदीपाम्बुदधर्मघोष-
सूत्रान्तराजं सुगतो बभाषे॥२४॥

अनन्तमध्यां जनतां विनीय
स व्याकरोति स्म तदाग्रबोधौ।
संप्रस्थितोऽसौ विजिताव्युदग्रो
राजात्मजश्चैव वराग्रबोधौ॥२५॥

आराग्य बुद्धं विपुलं च तस्मै
विधाय पूजां मुदितो बभाषे।
द्वीपो भवेयं जगतां विनेता
त्राणं शरण्यश्च परायणं च॥२६॥

स प्राव्रजत्तस्य मुनेः समीपे
संबोधिमार्गं परिमार्गमाणः।
धर्मस्वभावं सुपरीक्षमाणो
यत्र स्थितः कल्पशतानि चीर्णः॥२७॥

दुःखार्णवत्वे पतितामनाथां
कृपायमाणो जनतामशेषाम्।
संबोधिमार्गं परिभावयित्वा
लभते तदानीं स विमोक्षमेतम्॥२८॥

ये तत्र कल्पे सुगता बभूवु-
राराग्य तानप्यखिलान् प्रसन्नः।
पूजां च तेषामकरोदुदारां
संधारयामास च धर्मचक्रम्॥२९॥

तदुत्तरे कल्पमहार्णवेषु
क्षेत्रार्णवाणुप्रतिमेष्वशेषाः।
ये चोदयात्यन्तजिनास्तदानी-
मारागयामास स तान् प्रपूज्य॥३०॥

अहं स आसं विजिताविनामा
दृष्ट्वा नरांश्चारकबन्धनस्थान्।
तद्विप्रमोक्षाय विसृज्य देहं
लब्धो ममायं हि तदा विमोक्षः॥३१॥

यो भावितः कल्पमहासमुद्रान्
क्षेत्रोदधीनां परमाणुसंख्यान्।
प्रतिक्षणं चैव विवर्धितोऽभू-
दनन्तमध्यैरसमैर्नयेभिः॥३२॥

दृष्टाश्च मे केचन ये मुनीन्द्राः
प्राप्तश्च यं मे निखिलेष्ववाप्तः।
मुखैर्नयानामपरापरं च
संदर्शितोऽयं मम तद्विमोक्षः॥३३॥

तेषामचिन्त्ये हि विमोक्षतत्त्वे
संशिक्षिताहं बहुकल्पकोटीः।
प्रतिष्ठिता यत्र जिनैर्विमुक्तान्
सद्धर्ममेघान् युगपत्पिबन्ती॥३४॥

क्षेत्राणि सर्वाण्यपि सर्वदिक्षु
स्फरन्ति कायेन असज्जमानाः।
प्रतिक्षणं क्षेत्रपथेष्वचिन्त्यां-
स्त्र्यध्वाभिधानान् प्रविशन्ति वंशान्॥३५॥

अशेषतस्त्रयध्वजिनार्णवाना-
मेकैकशश्चाभिमुखा भवन्ति।
विदर्शयन्त्येव च ते जिनेषु
स्वकायमेघान् प्रतिबिम्बभूताः॥३६॥

सर्वासु दिक्ष्वप्युपसंक्रमन्तो
विभान्ति ते सर्वतथागतानाम्।
व्यूहानशेषानभिवर्षमाणाः
पूजां प्रकुर्वन्ति च ते जिनानाम्॥३७॥

पृच्छन्त्यथो बुद्धसमुद्रसंख्यान्
प्रश्नोदधींस्ते विपुलाननन्तान्।
संधारयन्त्यप्यमितान् जिनानां
ते धर्ममेघानभिवर्षमाणान्॥३८॥

सर्वास्वशेषासु च दिक्षु यान्ति
चक्षुष्पथे ते जिनमण्डलेषु।
अनेकरूपासनसंनिषण्णा
नानाविकुर्वामुपदर्शयन्तः॥३९॥

अनन्तवर्णैरपि चात्मभावैः
सहस्रशः सर्वदिशः स्फरन्ति।
अनन्तमध्यानि विदर्शयन्ति
रूपाणि चाप्येकसमुच्छ्रयं ते॥४०॥

एकैकतो रोममुखादसंख्यान्
मुञ्चन्ति ते रश्मिमहासमुद्रान्।
क्लेशाग्निदाहं शमयन्ति चैव
सर्वप्रजानां विविधैरुपायैः॥४१॥

यत्र स्थिता निर्मितकायमेघा-
नेकैकरोम्णः प्रविमुञ्चमानाः।
तैरद्भुतैः सर्वदिशः स्फरित्वा
धर्माम्बुवर्षैर्विनयन्ति सत्त्वान्॥४२॥

नयप्रवेशोऽयमचिन्त्यरूपः
समाश्रयः सर्वजिनात्मजानाम्।
यत्र प्रतिष्ठाय चरन्ति चर्यां
क्षेत्रेषु सर्वेष्वपरान्तकल्पान्॥४३॥

यथाशयं धर्ममुदीरयन्तः
ते दृष्टिजालाद्विनिवर्तयन्ति।
स्वर्गापवर्गैर्विनिवेश्य सत्त्वान्
सर्वज्ञभूमिं प्रविदर्शयन्ति॥४४॥

लोकोपपत्तिष्वखिलास्वचिन्त्यै-
रनन्तवर्णैरपि चात्मभावैः।
यथाशयं धर्ममुदाहरन्ति
ते सर्वसत्त्वप्रतिभासरूपाः॥४५॥

एतांस्तथान्यानपि चाप्रमेयान्
क्षेत्रार्णवाणुप्रतिमानचिन्त्यान्।
अच्छम्भि ते वर्णमहासमुद्रान्
विमोक्षमेतं प्रतिलभ्य शान्तम्॥४६॥

एतमहं कुलपुत्र सर्वसत्त्वपरिपाकयथाशयसंचोदनकुशलमूलसंभवं बोधिसत्त्वविमोक्षं जानामि। किं मया शक्यं सर्वलोकगतिसमतिक्रान्तानां बोधिसत्त्वानां सर्वलोकोपपत्तिप्रतिभासप्राप्तानां सर्वज्ञज्ञानावरणपर्वतविकिरणप्रयुक्तानां सर्वधर्मस्वभावलक्षणप्रतिविद्धानां सर्वक्लेशावरणान्धकारविधमनप्रयुक्तानां सर्वधर्मप्रविचारणाभिनिर्हारकुशलमूलानां निरात्मधर्मज्ञानप्रत्यक्षाणां सर्वसत्त्वपरिपाकविनयाप्रतिप्रस्रब्धानामद्वयधर्मधातुनयसुप्रतिबिद्धानां सर्ववाक्पथनयसागरानुप्रसृतबुद्धीनां चर्यां ज्ञातुं गुणसमुद्रान् वा अवतर्तुं ज्ञानविक्रमो परिज्ञातुं चिन्तावस्थानं वा प्रज्ञातुं समाधिवशिता वाधिगन्तुं विमोक्षविकुर्वितं वा समाज्ञातुम्॥

गच्छ कुलपुत्र, इयमिहैव जम्बुद्वीपे लुम्बिनीवने सुतेजोमण्डलरतिश्रीर्नाम लुम्बिनीवनदेवता प्रतिवसति। तामुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वा जाता भवन्ति तथागतकुले? कथमालोककरा भवन्ति लोकानाम्? कथमपरान्तकोटीगतान् कल्पान् बोधिसत्त्वसंचारिकां चरन्तो न परिखिद्यन्ते?

अथ खलु सुधनः श्रेष्ठिदारकः सर्वजगद्रक्षाप्रणिधानवीर्यप्रभाया रात्रिदेवतायाः पादौ शिरसाभिवन्द्य सर्वजगद्रक्षाप्रणिधानवीर्यप्रभां रात्रिदेवतामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्व्य वन्दित्वा नमस्कृत्य प्राञ्जलीकृतोऽवलोकयमानः सर्वजगद्रक्षाप्रणिधानवीर्यप्रभाया रात्रिदेवताया अन्तिकात्प्रक्रान्तः॥३९॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project