Digital Sanskrit Buddhist Canon

४० सर्ववृक्षप्रफुल्लनसुखसंवासा

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
४० सर्ववृक्षप्रफुल्लनसुखसंवासा।



अथ खलु सुधनः श्रेष्ठिदारको मनोज्ञरुतगम्भीरविकुर्वितप्रवेशं बोधिसत्त्वविमोक्षं भूयस्या मात्रया प्रभावयमानः संभावयमानो विपुलीकुर्वन् येन सर्ववृक्षप्रफुल्लनसुखसंवासा रात्रिदेवता तेनोपसंक्रान्तः। सोऽपश्यत् सर्ववृक्षप्रफुल्लनसुखसंवासां रात्रिदेवतां रत्नद्रुमाङ्कुरगर्भे सिंहासने सर्वगन्धरत्नद्रुमशाखे कूटागारे संनिषण्णां दशरात्रिदेवतासहस्रपरिवाराम्॥



अथ खलु सुधनः श्रेष्ठिदारकः सर्ववृक्षप्रफुल्लनसुखसंवासाया रात्रिदेवतायाः पादौ शिरसाभिवन्द्य पुरतः प्राञ्जलिः स्थित्वा एवमाह-मया आर्ये देवते अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्। न च जानामि-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां चरितव्यम्, कथं शिक्षितव्यम्। तद्वदस्व मे देवते, कथं बोधिसत्त्वा बोधिसत्त्वचर्यायां चरन्ति, कथं शिक्षन्ते, कथं चरित्वा कथं शिक्षित्वा निर्यान्ति सर्वज्ञतायाम्॥



एवमुक्ते सर्ववृक्षप्रफुल्लनसुखसंवासा रात्रिदेवता सुधनं श्रेष्ठिदारकमेतदवोचत्-मम कुलपुत्र अनुभावेन सहे लोकधातौ आदित्यास्तंगमनकाले पद्मानि प्रफुल्लानि सुगन्धीभवन्ति। सर्वे नगरनारीगणाश्चोद्यानगता रतिक्रीडाप्रयुक्ता गृहगमनाय मतिमुत्पादयन्ति। पथोत्पथगताः सत्त्वा रात्रिस्थाने चेतनाबहुलाः सर्वजगत्पालनाभिमुखा भवन्ति। दरीगहनगुहाश्रयाः सत्त्वा दरीगहनगुहासु प्रविशन्ति। वृक्षालयाश्रयाः सत्त्वा वृक्षालयाश्रयाभिमुखा भवन्ति। विलाश्रयाः सत्त्वा बिलान्यनुप्रविशन्ति। ग्रामनगरनिगमजनपदाश्रयाः सत्त्वा ग्रामनगरनिगमजनपदाननुप्रविशन्ति। उदकाश्रयाः सत्त्वा जलमवतरन्ति। अन्यदिग्जनपदगताः सत्त्वाः स्वजनपददिक्चेतनामुत्पादयन्ति रात्रौ सुखस्पर्शविहाराय॥



अपि तु खलु पुनरहं कुलपुत्र नरनारीगणानां दहराणां तरुणानां यौवनमदमत्तानां नृत्यगीतवाद्यरतिप्रमत्तानां सत्त्वानां कामगुणप्रमुक्तानां जातिजरामरणमहान्धकारभयप्रतिपक्षाय कुशलमूलसंजानाभियोगं संवर्णयामि। मत्सरिणः सत्त्वान् दाने संनियोजयामि। दुःशीलान् सत्त्वान् शीले प्रतिष्ठापयामि। व्यापन्नचित्तानां सत्त्वानां मैत्रीं संवर्णयामि। क्षुभितचित्तान् सत्त्वान् क्षान्तौ प्रतिष्ठापयामि। कुसीदान् सत्त्वान् बोधिसत्त्ववीर्यारम्भे प्रतिष्ठापयामि। विभ्रान्तचित्तान् सत्त्वान् ध्यानेषु प्रतिष्ठापयामि। दुःप्रज्ञान् सत्त्वान् प्रज्ञापारमितायां नियोजयामि। हीनयानाधिमुक्तान् सत्त्वान् महायान् प्रतिष्ठापयामि। त्रैधातुकाभिनिविष्टान् सत्त्वान् भवगतिनिष्ठामण्डलचारिणो बोधिसत्त्वप्रणिधानपारमितायां प्रतिष्ठापयामि। आवरणवशगतान् सत्त्वान् कर्मक्लेशप्रपीडितान् पुण्यज्ञानबलपरिहीणान् बोधिसत्त्वबलपारमितायां प्रतिष्ठापयामि। अज्ञानतमोवनद्धान् सत्त्वान् अहंकारममकारविद्यान्धकारप्राप्तान् बोधिसत्त्वज्ञानपारमितायां प्रतिष्ठापयामि॥



अपि तु खलु पुनरहं कुलपुत्र विपुलप्रीतिसंभवसंतुष्ट्यवभासस्य बोधिसत्त्वविमोक्षस्य लाभिनी। सुधन आह-क एतस्य देवते विपुलप्रीतिसंभवतुष्ट्यवभासस्य बोधिसत्त्वविमोक्षस्य विषयः? आह-तथागतपुण्यसत्त्वंसंग्रहज्ञानोपायावभास एष कुलपुत्र विमोक्षः। तत्कस्य हेतोः? यत्किंचित् कुलपुत्र सत्त्वाः सुखमनुभवन्ति, सर्वं तत्तथागतपुण्यप्रभावेन तथागतानुशासनीपथेन तथागतवचनप्रतिपत्त्या तथागतानुशिक्षणेन तथागताधिष्ठानेन तथागतज्ञानमार्गप्रतिपत्त्या तथागतभागकुशलमूलावरोपणेन तथागतधर्मदेशनानिष्यन्देन तथागतज्ञानसूर्यावभासेन। तथागतगोत्रशुक्लकर्ममण्डलप्रभया हि कुलपुत्र सत्त्वानां सुखानि संभवन्ति। तत्कस्य हेतोः? तथा हि कुलपुत्र अहमेतं विपुलप्रीतिसंभवसंतुष्ट्यवभासं बोधिसत्त्वविमोक्षमवतरन्ती भगवतो वैरोचनस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य पूर्वबोधिसत्त्वचर्यासमुद्रं समनुस्मरन्ती अवतरन्ती अवगाहयमाना एवं जानामि, एवमनुगच्छामि-यथा भगवतः पूर्वबोधिसत्त्वभूमिमध्यालम्बमानस्य सत्त्वानहंकारममकाराभिनिविष्टानविद्यान्धकारप्राप्तान् दृष्टिगहनकान्तारप्रविष्टांस्तृष्णावशंगतान् रागबन्धनबद्धान् दोषप्रतिघचेतसो मोहाकुलसंतानानीर्ष्यामात्सर्यपर्यवनद्धान् क्लेशसमाकुलचित्तान् महत्संसारदुःखं प्रत्यनुभवतः संसारदारिद्र्यदुःखप्रपीडितान् बुद्धदर्शनविमुखान् सत्त्वान् दृष्ट्वा महाकरुणाचित्तं प्रादुरभवत्। सर्वसत्त्वानामर्थं सर्वजगदुपकरणरत्नसंग्रहपरिग्रहचित्तं सर्वसत्त्वसंसारोपकरणसंभवचित्तं सर्ववस्त्वाग्रहविगतचित्तं सर्वविषयालुब्धचित्तं सर्वरतिष्वनध्यवसितचित्तं सर्वपरिभोगेष्वगृद्धचित्तं सर्वदानेषु विपाकाप्रतिकाङ्क्षणचित्तं सर्वलोकसंपत्तिष्वस्पृहणाचित्तं हेतुप्रत्ययसंमूढचित्तं सुपर्येषितयथावद्धर्मनिध्यप्तिचित्तं सर्वसत्त्वार्थप्रतिशरणताभिनिर्हरणचित्तं प्रादुरभवत्॥



स एवं यथाभूतसर्वधर्मस्वभावावतीर्णचेताः सर्वसत्त्वधातौ महामैत्रीसमताप्रतिपन्नः सर्वजगन्महाकरुणामेघस्फरणप्रयोगः सर्वसत्त्वलोकसंछादनमहाधर्मच्छत्रमण्डलः सर्वसत्त्वक्लेशपर्वतविनिर्भेदनमहाज्ञानवज्रप्रहरणः सर्वजगत्सुखसंभवतुष्टिवेगसंवर्धितचेताः सर्वसत्त्वात्यन्तसुखाभिनिर्हारप्रणिधानचेता यथाशयाभिप्रायसर्वसत्त्ववस्त्वभिप्रवर्षणचेताः सर्वसत्त्वापरित्यागसमप्रयोगचेता आर्यधनसर्वसत्त्वसंतर्पणचेताः परमदशबलज्ञानरत्नप्रतिलम्भचेता बोधिसत्त्वमहाभिज्ञाबलाधानप्राप्तो विविधबोधिसत्त्वमहाविकुर्वितमेघेन धर्मधातुपरमाकाशधातुपर्यवसानं सर्वसत्त्वधातुं स्फरित्वा सर्वसत्त्वाभिमुखस्थितः सर्वाकारसर्वारम्बणमहामेघं प्रवर्तयन् सर्वरत्नाभरणमहामेघवर्षं चाभिप्रवर्षन्, यदुत सर्वसत्त्वानां यथानुकूलपरिभोगाय अनन्तवस्तुविमात्रतापरित्यागमप्रमेयोपकरणवैमात्रचारित्रं नानाविधसर्वदानसंग्रहप्रयोगमनेकविधवस्तु परित्यागसमुदाचारमनभिलाप्योपकरणजातव्यूहाभिसंस्कारं नानालक्षणदानसंभारविचित्रं यथाशयसत्त्वसंतोषणमनन्तत्यागविधिमनुगच्छन् यथाशयसत्त्वसंतर्पणाभिनिर्हारं सर्ववस्तुत्यागविसर्जनमविच्छिन्नसर्वजगत्संस्कारदुःखपरित्राणप्रयोगं सर्वसत्त्वप्रतिकाराप्रतिकाङ्क्षी सर्वजगत्समतासमुदागतचेताः सर्वजगच्चित्तरत्नं परिशोधयमानः सर्वबुद्धैकघनकुशलमूलसमुद्रसंभूतं सर्वजगद्यथाशयोपकरणवर्षंसंग्रहप्रयोगं सर्वजगत्सर्वज्ञतापुण्यसमुद्रेवगं विवर्धयन् प्रतिचित्तक्षणमनवशेषसर्वसत्त्वपरिपाकविनयपरंपराविशुद्धयेऽभिनिर्हरति स्म। प्रतिचित्तक्षणमनवशेषसर्वक्षेत्रपरंपरानुपक्लिष्टानुत्तरबुद्धक्षेत्रालंकारविशुद्धव्यूहप्रतिमण्डलपरिपूरये प्रतिचित्तक्षणमनवशेषसर्वधर्मनयसागरकरणविशुद्धये प्रतिचित्तक्षणमनवशेषाकाशधातुतलस्फरणज्ञाननयपरिपूरये प्रतिचित्तक्षणमनवशेषसत्त्वाध्यवतरणज्ञाननयविशुद्धये प्रतिचित्तक्षणमनवशेषसर्वजगद्विनयज्ञाननयावभासप्रतिलम्भाय प्रतिचित्तक्षणमनवशेषसर्वकालधर्मचक्रप्रवर्तनाभिवर्त्यतायै प्रतिचित्तक्षणमनवशेषसर्वज्ञज्ञानाधिष्ठानकौशलसंदर्शनसर्वजगदुपकारीभूतत्वाय प्रतिचित्तक्षणमनवशेषसर्वलोकधातुसंख्याप्रचारेषु सर्वलोकधातुसमुद्राभ्युद्गतेषु सर्वलोकधातुसमुद्रसमवसरणेषु नानालोकधातुप्रसरनिर्देशेषु नानालोकधातुवंशव्यवस्थानसंधिव्यूहेषु नानाप्रतिष्ठानानेकशरीरनिर्देशेषु नानाव्यूहकल्पविमात्रतानिर्देशेषु संक्लिष्टविशुद्धसंक्लिष्टैकान्तपरिशुद्धविपुलमहद्गताप्रमाणसंक्षिप्तसूक्ष्मोदारसमतलव्यत्यस्तोर्ध्वमूर्धदिग्विदिग्मुखनानादिक्समुद्रसमवसरणेषु नानामुखनिर्देशान्तद्वारसंस्थानविमात्रताव्यूहेषु सर्वलोकधातुप्रसरेषु बोधिसत्त्वचर्यां चरन् बोधिसत्त्वन्याममवक्रम्य नानाबोधिसत्त्वचर्याविकुर्वितस्फरणतायै प्रतिचित्तक्षणमनवशेषसर्वत्र्यध्वबुद्धकायपरसत्त्वचित्ताशयविज्ञप्तये सर्वजगत्सर्वज्ञतापुण्यसमुद्रवेगं विवर्धयन्नमिनिर्हरन्ति स्म॥



एवं हि कुलपुत्र भगवान् वैरोचनस्तथागतः पूर्वबोधिसत्त्वचर्यां चरन् पुण्यज्ञानसंभारविरहिते लोकसंनिवेशे अकृतज्ञसत्त्वपरिपूर्णे अज्ञानतमोवनद्धे अहंकारममकाराभिनिविष्टे अविद्यान्धकारतिमिरावृते अयोनिशोवितर्कप्रसृते दृष्टिगहनकान्तारप्रस्कन्धे हेतुफलसंमूढे कर्मक्लेशवशगते महासंसारकान्तारदुःखपातालमध्यप्रपतिते विविधदारिद्र्यदुःखं प्रत्यनुभवति महाकरुणां संजनय्य विपुलान् पारमिताचर्यामेघानभिनिर्हृत्य कुशलमूलदृढप्रतिष्ठानं संवर्णयन् सर्वसत्त्वानां संसारदारिद्र्यदुःखं विनिवर्तयन् महापुण्यज्ञानसंभारमभिरोचयन् हेतुमण्डलदिशमभिद्योतयन् कर्मधर्माविरोधदिशं प्रभावयन् बुद्धधर्ममण्डलसमुदागमदिशमवभासयन् सर्वसत्त्वाधिमुक्तिदिशं प्रभासयन् सर्वसत्त्वक्षेत्रसंभवदिशं संदर्शयन् सर्वतथागतवंशानुपच्छेददिशमनुबध्नन् सर्वबुद्धशासनदिशं संधारयन् सर्वाकुशलधर्मदिशं विनिवर्तयन् सर्वज्ञतासंभारदिशं संवर्णयन् सर्वसत्त्वधातुं स्फरित्वा महान्तं पारमितामेघमभिनिर्हृत्य यथाशयसत्त्वसंतोषणमत्यन्तधर्मसंग्रहे सत्त्वान् प्रतिष्ठापयामास। सर्वज्ञतासंभारे समादापयति स्म। महाबोधिसत्त्वपारमितास्ववतारयामास। सर्वार्यधनप्रतिलम्भैरुपस्तम्भयामास। सर्वज्ञताप्रीतिवेगैः कुशलमूलसमुद्रान् सत्त्वानां विवर्धयामास। सर्वतथागतविकुर्वितमुखेषु चैनानवतार्य अत्यन्तमुपधिशेषसुखसंग्रहेण संगृह्य तथागतमाहात्म्याभिमुखान् कृत्वा बोधिसत्त्वसंग्रहज्ञाने प्रतिष्ठापयामास॥



सुधन आह-कियच्चिरं संप्रस्थितासि देवते अनुत्तरायां सम्यक्संबोधौ? आह-दुरभिसंभवं कुलपुत्र एतत्स्थानं दुर्विज्ञेय दुरधिमोचं दुरवतरं दुःप्रव्याहारं दुरधिगमम्। न शक्यं सदेवकेन लोकेनावतरितुं सर्वश्रावकप्रत्येकबुद्धैश्च, अन्यत्र तथागताधिष्ठानेन कल्याणमित्रपरिग्रहेण विपुलपुण्यज्ञानसंभारोपस्तब्धचित्ततया आशयविशुद्ध्या अदीनाक्लिष्टावक्रानुपहतासंकुचितानन्धकारचित्ततया समन्तावभासज्ञानालोकावभासचित्ततया सर्वसत्त्वहितसुखाधानपरिणतचित्ततया सर्वमारमण्डलक्लेशदुर्धर्षचित्ततया सर्वज्ञताज्ञानप्रतिलम्भावकाशचित्ततया सर्वसंसारसुखानभिलाषिभिस्तथागतसुखाध्यालम्बनैः सर्वसत्त्वदुःखदौर्मनस्यप्रशमनप्रतिपन्नैस्तथागतगुणसमुद्रावतारप्रतिपत्त्यभिमुखैः सर्वधर्मस्वभावनिध्यप्तिगगनगोचरैः उदाराधिमुक्तिपथविशुद्धैः संसारस्रोतोविमुखैः सर्वतथागतज्ञानसमुद्राभिमुखैः सर्वनगरगमननिश्चितैः तथागतविषयाक्रमणवीर्यैः बुद्धभूमिगतिविक्रान्तैः सर्वज्ञताबलपरिनिष्पत्त्यभिमुखैः दशबलप्रतिलम्भपर्यवसानैः सत्त्वैः शक्यमेतत्स्थानमवतरितुमधिमोक्तुमुद्गहीतुमनुसर्तुं विज्ञातुम्। तत्कस्य हेतोः? तत्तथागतज्ञानविषयं हि कुलपुत्र एतत्स्थानमनाक्रान्तं सर्वबोधिसत्त्वैः। प्रागेव अन्यैः सर्वसत्त्वैः। अथ च पुनस्तथागताधिष्ठानेन निर्देक्ष्यामि आजानेयानां सत्त्वानामाशयसम्यग्विशुद्धये, कुशलमूलचरितानां सत्त्वानामध्याशयवशितायै, तव च अध्याशयपरिपृच्छाव्याकरणधर्मताप्रवर्तनाप्रतिलम्भाय॥



अथ खलु सर्ववृक्षप्रफुल्लनसुखसंवासा रात्रिदेवता तस्यां वेलायामेतमेवार्थं भूयस्या मात्रया संदर्शयमाना त्र्यध्वप्राप्ततथागतविषयं व्यवलोक्य इमा गाथा अभाषत—



गम्भीरु बौद्धो विषयो अनन्ता

यं पृच्छसि त्वं खलु बुद्धपुत्र।

अचिन्तियक्षेत्ररजोपमानैः

कल्पैर्न शक्यं स हि सर्व वक्तुम्॥१॥



न लुब्धसत्त्वैर्न च दुष्टचित्तैः

शक्यं न मोहान्धतमोवृतैश्च।

न म्रक्षमानोपहताशयैश्च

विजानितुं शान्त जिनान धर्मता॥२॥



नैर्ष्याण मात्सर्यवशानुगामिभिः

न शाठ्यमायाकलुषाशयेभिः।

न क्लेशकर्मावरणावृतैश्च

शक्यो ह्ययं जानितु बुद्धगोचर॥३॥



न स्कन्धधात्वायतनप्रतिष्ठितैः

न चापि सत्कायसमाश्रितेभिः।

न दृष्टिसंज्ञाविपरीतचित्तैः

शक्या इयं जानितु बुद्धभूमिः॥४॥



दुर्ज्ञेय शान्तो विषयो जिनानां

स्वभावतो निर्मलनिर्विकल्पः।

संसारसक्तैन भवाश्रितैश्च

शक्यं समाज्ञातुमयं हि धर्मः॥५॥



ये बुद्धगोत्रैर्हि कुलेऽभिजाता

स्वधिष्ठिताः सर्वतथागतैश्च।

ये धर्मराज्ञां कुलवंशधारिण-

स्तेषामृषीणां खलु गोचरोऽयम्॥६॥



ये शुक्लधर्मार्णवतृप्तचित्ताः

कल्याणमित्रैः सुपरिगृहीताः।

मुनेर्बलारम्बणचित्तमेघाः

क्षान्तिं लभन्ते त इदं निशाम्य॥७॥



ये निर्मलाध्याशयनिर्विकल्पा

यथान्तरिक्षे खलु दिग्विदिक्षु।

हतान्धकारा मतिदीपमेघः

तेषामयं गोचरु निर्मलानाम्॥८॥



कृपाशयेनेह जगत्समुद्रान्

ये सर्वत्र्यध्वगतान् स्फरन्ति।

अशेषसत्त्वानुगता च मैत्री

नये जिनानां त इहावतीर्णाः॥९॥



अनाग्रहा ये खलु हृष्टचित्ताः

सर्वास्तिदानाभिरताः सदैव।

सर्वेषु सत्त्वेषु समप्रवृत्ता-

स्तेषामियं भूमिरनाग्रहाणाम्॥१०॥



येऽक्लिष्टचित्ता निरवद्यचर्या

येऽत्यन्तकौकृत्यविनीतचित्ताः।

बुद्धानुशास्तिप्रतिपत्तियुक्ता-

स्तेषामयं गोचरु निर्मलानाम्॥११॥



येऽक्षोभ्यचित्ता ह्यविकम्प्यचित्ता

धर्मस्वभावप्रतिबद्धचित्ताः।

कर्मोदधिष्वप्यविरुद्धचित्ताः

तेषां विमोक्षोऽयमिहाक्षयाणाम्॥१२॥



येऽखिन्नचित्ताऽविनिवर्तचित्ता

पौरुष्यवीर्याधिपतेययुक्ताः॥

सर्वज्ञसंभारि अनन्तवीर्या-

स्तेषामयं गोचरु सुव्रतानाम्॥१३॥



प्रशान्तचित्ताश्च समाहिताश्च

येऽत्यन्तशान्तिं गत निर्ज्वराश्च।

सर्वज्ञध्यानाङ्गसमुद्रचारिण-

स्तेषां नयोऽयं प्रशमं गतानाम्॥१४॥



ये सर्वसङ्गैः परिमुक्तचित्ता

धर्मस्वभावप्रतिविद्धचित्ताः।

गतिं गता ये जिनधर्मधातौ

प्रज्ञाप्रदीपान नयेष तेषाम्॥१५॥



सत्त्वस्वभावप्रतिविद्धचित्ता

भवार्णवे येऽपरिगृद्धचेतसः।

ये सत्त्वचित्तप्रतिभासचन्द्रा-

स्तेषामयं मार्गविदां विमोक्षः॥१६॥



त्र्यध्वस्थितानां जिनसागराणां

प्रणिधानगोत्रार्णवसंभवानाम्।

ये सर्वक्षेत्रेष्वपरान्तचर्याः

समन्तभद्रान् नयेष तेषाम्॥१७॥



ये धर्मधातोर्नयसागरैश्च

जगत्समुद्रानवतीर्ण सर्वान्।

सर्वान् ससंवर्तविवर्तकल्पां-

स्तेषां विमोक्षोऽयमकल्पकानाम्॥१८॥



ये सर्वदिक्क्षेत्ररजःस्वसंख्यान्

पश्यन्ति बुद्धान् द्रुमराजमूले।

विबुद्ध्य बोधिं विनयन्त सर्वान्

असङ्गनेत्रान नयेष तेषाम्॥१९॥



त्वमागतः कल्पमहासमुद्रात्

कल्याणमित्राण्युपसेवमानः।

धर्मार्थिको धर्मगवेष्यखिन्नः

श्रुत्वा च तं धारयितुं समर्थः॥२०॥



त्वदाशयस्य प्रविशोधनाय

मुनेरधिष्ठानबलादचिन्त्यान्।

वैरोचनीयो विषयोऽप्रमेयः

प्रवर्तते मद्वचनादसङ्गः॥२१॥



भूतपूर्वं कुलपुत्र अतीतेऽध्वनि लोकधातुसमुद्रपरमाणुरजःसमानां कल्पानां परेण परतरं मणिकनकपर्वतशिखरवैरोचनो नाम लोकधातुसमुद्रोऽभूत्। तस्मिन् खलु पुनः कुलपुत्र मणिकनकपर्वतशिखरवैरोचनलोकधातुसमुद्रे ज्ञानपर्वतधर्मधातुदिक्प्रतपनतेजोराजो नाम तथागतोऽभूत्। तेन खलु पुनः कुलपुत्र ज्ञानपर्वतधर्मधातुदिक्प्रतपनतेजोराजोनाम्ना तथागतेन पूर्वं बोधिसत्त्वचर्यां चरता स मणिकनकपर्वतशिखरवैरोचनो लोकधातुसमुद्रः परिशोधितः। तस्मिन् लोकधातुसमुद्रे पृथिवीपर्वतपरमाणुरजःसमलोकधातुप्रसरनिर्देशः। एकैकस्मिंश्च लोकधातुप्रसरे लोकधातुवंशपरमाणुरजःसमा लोकधातुनिर्देशाः। एकैकस्मिंश्च लोकवंशे लोकधातुपरमाणुरजःसमाः कल्पसंख्यानिर्देशाः। एकैकस्मिंश्च कल्पेऽनेकेऽनन्तरकल्पनिर्देशाः। एकैकस्मिंश्चानन्तरकल्पेऽनेकलोकधातुनानाकरणनिर्देशाः। तथागतोत्पादा विविधविकुर्वितनिर्देशाः। एकैकस्मिंश्च तथागतोत्पादे लोकधातुपरमाणुरजःसमाः सूत्रान्तसंप्रकाशनिर्देशाः। एकैकस्मिंश्च सूत्रान्ते लोकधातुपरमाणुरजःसमा बोधिसत्त्वव्याकरणनिर्देशाः अनन्तमध्यसत्त्वविनयनिर्देशा नानायाननयैः प्रवर्तिता नानाविकुर्वितप्रातिहार्यविनयताः॥



तस्मिन् खलु पुनर्मणिकनकपर्वतशिखरवैरोचने लोकधातुसमुद्रे समन्तदिगभिमुखद्वारध्वजव्यूहो नाम मध्यमो लोकधातुवंशोऽभूत्। तस्मिन् खलु पुनः कुलपुत्र समन्तदिगभिमुखद्वारध्वजव्यूहे मध्यमे लोकधातुवंशे सर्वरत्नवर्णसमन्तप्रभासश्रीर्नाम लोकधातुरभूत्। सर्वतथागतबोधिमण्डप्रतिभासमणिराजो लोकधातुसंधिव्यूहः सर्वरत्नकुसुमसागरप्रतिष्ठितः सर्वतथागतनिर्माणनिर्भासनिदर्शनमणिराजशरीरो देवनगरसंस्थानो विशुद्धसंक्लिष्टः। तस्मिन् पुनर्लोकधातौ सुमेरुपरमाणुरजःसमाश्चातुर्द्वीपका लोकधातवोऽभूवन्। तेषां च सुमेरुपरमाणुरजःसमानां चातुर्द्वीपकानां सर्वरत्नशिखरध्वजो नाम मध्यमश्चातुर्द्वीपकोऽभूत्। तस्मिन् खलु पुनः सर्वरत्नशिखरध्वजे चातुर्द्वीपके लोकधातौ अप्रमेययोजनशतसहस्रायामविस्ताराश्चत्वारो द्वीपा अभूवन्। एकैकस्मिंश्च द्वीपके दश महानगरसहस्राण्यभूवन्। तस्मिंश्च खलु पुनः चातुर्द्वीपके जम्बुद्वीपकस्य मध्ये रत्नसालव्यूहमेघप्रदीपा नाम राजधान्यभूद्दशनगरसहस्रपरिवारा। तस्मिन् खलु पुनर्जम्बुद्वीपे दश वर्षसहस्राणि मनुष्याणामायुष्प्रमाणमभूत्। तस्यां खलु पुना रत्नसालव्यूहमेघप्रदीपायां राजधान्यां सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषो नाम राजाभूच्चक्रवर्ती। राज्ञः खलु पुनः सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषस्य पञ्चामात्यशतान्यभूवन्। षष्टिः स्त्रीसहस्राण्यन्तःपुरमभूत्। सप्त पुत्रशतान्यभूवन् सर्वेषां शूराणां वीराणां वराङ्गरूपिणां सुदर्शनानां महातेजसां महाबलानाम्। तस्य खलु पुनः सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषस्य राज्ञः सर्वो जम्बुद्वीप एकच्छत्रोऽभून्निहतपरचक्रप्रत्यर्थिकः॥



तेन च समयेन लोकधातावन्तरकल्पक्षये प्रत्युपस्थिते पञ्चसु कषायेषु लोके प्रादुर्भूतेषु दशसु कुशलेषु कर्मपथेष्वन्तर्हितेषु दशाकुशलकर्मपथवर्तिनः सत्त्वा यद्भूयसा दुर्गतिगामिनोऽभूवन्। ते दशाकुशलकर्मपथसमादानहेतोः परीत्तायुषोऽभूवन् अल्पभोगा विरूपा विवर्णा दुःसंस्थितशरीरा अल्पसुखसमुदाचारा दुःखवेदनासमुदाचारबहुला अन्योन्यविसंवादवचनशीला अन्योन्यभेदप्रतिपन्नाः परुषवचनसमुदाचाराः प्रकीर्णवचसो विषयलोभाभिभूताः प्रदुष्टमनःसंकल्पा विविधदृष्टिगहनकान्तारप्रविष्टाः। तेषामधर्मरागरक्तानां विषमलोभाभिभूतानां मिथ्याधर्मपरिगतानां न देवः काले वारिधारा उदसृजत् येन पृथिव्यां बीजग्रामाः सस्यग्रामा विरोहेयुः॥



तेन खलु पुनः सत्त्वाः शुष्केषु तृणगुल्मौषधिवनोद्यानद्रुमेषु नानाव्याधिस्पृष्टा दिग्विदिशो विधावन्ति स्म अपरायणाः। ते समागम्य सर्व एव येन रत्नसालव्यूहमेघप्रदीपराजधानी तेनोपसंक्रम्य तां समन्तादनुपरिवार्य केचिदूर्ध्वबाहवः, केचित्कृताञ्जलिपुटाः, केचित् संकम्पितशरीराः, केचिदभ्युद्गताङ्गाः, केचिदधोमुखं प्रपतिताः, केचित्सर्वशरीरेण प्रणिपतिताः, केचिद्धरणितलजानुप्रतिष्ठिताः, केचिद्गगनतलाभिनतबाहवः, केचिन्नग्ना निर्वसनाः, केचिद्विकृतवदननयनाः सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषस्य राज्ञोऽभिमुखं महान्तमार्तस्वरमुत्क्रोशमकार्षुः-उपद्रुताः स्म। देवापसृष्टाः स्म। क्षुत्पिपासादुःखप्रपीडिताः स्म। विविधभयोपतप्ताः स्म। त्राणविरहिताः स्म। देव अशरणा अपरायणाः स्म। दुःखपञ्जरगताः स्म जीवितोपरोधप्राप्ता मरणाभिमुखाः। इति नानाविधान् प्रलापान् प्रलपन्तो नानास्वराङ्गैर्नानावचनैर्नानाविकृतवक्त्रनयना विविधसंज्ञावचनव्याहारनिमन्त्रपदैर्नानार्थसूचकवचनपदैरुत्क्रोशमकार्षुः। ये च तस्यां राजधान्यां स्त्रीपुरुषदारकदारिकाः क्षुत्पिपासाप्रपीडिता निराभरणगात्रा नग्ननिर्वसना दुष्टविवर्णा रूक्षपरुषगात्रा दुःखिता दुर्मनसोऽनात्तमनस्काः, ते चापि सत्त्वा दुःखानभिलाषिणो दुःखभयनिर्विण्णाः। ते सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषं राजानं महाज्ञानपुरुषं प्रतिशरणभूतं शरणमुपागताः सर्वसुखप्रतिलम्भसंज्ञया सर्वप्रियसमवधानप्रतिलम्भसंज्ञया जीविताशापरिगतनिधानप्रतिलम्भसंज्ञया तीर्थसंदर्शनसंज्ञया महापथप्रतिपत्तिसंज्ञया महायानपात्रसंज्ञया महाज्ञानरत्नद्वीपसंज्ञया महार्थप्रतिलम्भसंज्ञया स्वर्गसर्वरतिसुखप्रतिलम्भसंज्ञया॥



अश्रौषीद्राजा सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषः तस्य महतः समन्ताद्याचनकसमूहस्य तं महान्तमार्तस्वरमुत्क्रोशनशब्दम्। श्रुत्वा च अस्य दश महाकरुणामुखासंख्येयशतसहस्राण्यवक्रामन्। स महाकरुणानयचेतनानिध्यप्तिचित्तो मुहूर्तमेकाग्रतामनुभूय दश महाकरुणोपसंहितानि वचनपदान्युदीरयामास। कतमानि दश? अहो बत अनालम्बनाः सत्त्वा महासंसारप्रपातप्रपतिताः। कदा तद्भविष्यति यद्वयं संसारमहाप्रपातप्रपतितानां सत्त्वानां लयनभूता भविष्यामः तथागतलयनभूमिप्रतिष्ठापनतया। अहो बत अत्राणाः सत्त्वा नानाक्लेशोपद्रवोपद्रुताः। कदा तद्भविष्यति यद्वयं विविधक्लेशभयोपद्रुतानां सत्त्वानामत्राणानां त्राणभूता भविष्यामोऽनवद्यकर्मान्तप्रतिष्ठापनतया। अहो बत अशरणाः सत्त्वा लोके जरामरणभयाविष्टाः। कता तद्भविष्यति यद्वयमशरणानां सत्त्वानां शरणभूता भविष्यामः सर्वसंसारभयविनिवर्तनतया। अहो बत अपरायणाः सत्त्वा विविधलोकभयोपद्रुताः। कता तद्भविष्यति यद्वयं विविधलोकभयोपद्रुतानामपरायणानां सत्त्वानां परायणं भविष्यामोऽत्यन्तयोगक्षेमे सर्वज्ञतामार्गे प्रतिष्ठापनतया। अहो बत अविद्यान्धकारप्राप्तः सर्वलोकोविमतिसंशयतिमिरावृतः। कदा तद्भविष्यति यद्वयमुल्काभूता भविष्यामः सर्वसत्त्वानामविद्यान्धकारविधमनतया। अहो बत आलोकविरहिताः सत्त्वाः। कदा तद्भविष्यति यद्वयं महाज्ञानालोककरा भविष्यामः सर्वसत्त्वानां वितिमिरज्ञानमुखसंदर्शनतया। अहो बत ज्ञानज्योतिर्विरहितः सर्वसत्त्वधातुरीर्ष्यामात्सर्यमायाशाठ्यकालुषाशयः। कदा तद्भविष्यति यद्वयमनुत्तरज्ञानप्रद्योतकरा भविष्यामः सर्वसत्त्वानामत्यन्तपरिशुद्धिप्रतिप्रतिष्ठापनतया। अहो बत नायकविरहितः सर्वलोको महासंसारसागरविषमस्रोतःप्रपन्नः। कदा तद्भविष्यति यद्वयं नायकभूता भविष्यामः सर्वसत्त्वानां कर्मसमुद्रनयावतरणतया। अहो बत विनायकविरहितः सर्वलोको दुर्विनीतः। कदा तद्भविष्यति यद्वयं विनायकभूता भविष्यामः सर्वसत्त्वानां सर्वाकारपरिपाकविनयतथागताधिष्ठानकालानतिक्रमणेन। अहो बत अपरिणायकः सर्वलोको जात्यन्धभूतः। कदा तद्भविष्यति यद्वयं परिणायकभूता भविष्यामः सर्वंसत्त्वानामनावरणसर्वज्ञज्ञाननयावतरणतया॥



स इमानि दश महाकरुणोपसंहितानि वचनपदान्युदीर्य तस्यां राजधान्यां घण्टावघोषणमकार्षीत्। महात्यागदुन्दुभिनिर्घोषं च अकारयत्-सर्वजगत् संतर्पयिष्यामः, यस्य येनार्थस्तस्मै तदनुप्रदास्याम इति। तेन सर्वजम्बुद्वीपे सर्वराजधानीषु सर्वग्रामनगरनिगमजनपदपत्तनेषु सर्वोपकरणकोशा विवृताः। सर्वशृङ्गाटकरथ्याचत्वरेषु विविधोपकरणविधयः स्थापिताः। सर्वजगदुपजीव्याः सुप्रतिविहिताः। सर्वकोशकोष्ठागाराणि विवृतानि। महारत्ननिधाननिचया निदर्शिताः। अनेकनानाविधरत्न‍राशयः स्थापिताः। अन्नपानवस्त्रयानपुष्पमाल्यगन्धविलेपनचूर्णनानागन्धवर्णचीवररत्नकोशा विवृताः। शयनासनवसनभवनविमानगृहाण्यलंकृतानि सर्वधनकनकसमृद्धानि ज्योतिर्ध्वजमाणिराजविन्यासविधूतान्धकाराणि। स तेषां सत्त्वानां यथाभिलषितसर्वाभिप्रायपरिपूरणार्थं तेषु गृहेषु प्रत्येकमात्मभावसदृशमुपादाय कायमभिनिर्माय स्थापयामास। सर्वसत्त्वसर्वव्याधिप्रशमनाय च वैद्यभैषज्योपस्थायकविविधजीवितोपकरणप्रत्ययसंपदमुपस्थापयामास। यथार्हविविधोपकरणपूर्णानि च नानारत्नविचित्रभाजनान्युपस्थापयामास-यदुत वज्रमणिभाजनानि नानागन्धमणिरत्नपरिपूर्णानि, नानागन्धरत्नभाजनानि विविधोदारविचित्रवर्णरङ्गवस्त्रपरिपूर्णानि, यानयुग्यानि सुबहूनि नानाकारसंस्थानानि विचित्ररत्नप्रतिमण्डितानि आजानेयाश्वगजगोयुक्तानि। विविधांश्च रथान् राजार्हान् सर्वरत्नाभरणपरिभोगांश्च सर्वासनविधींश्च नानारत्नविचित्रान् विविधवितानविततान् रत्नकिङ्किणीजालावनद्धान् उच्छ्रितच्छत्रध्वजपताकोपशोभितान् सर्वजनपदप्रदेशेषु स्थापयापास। ग्रामनगरनिगमजनपदप्रदानानि चोद्धोषयामास। नानाविधोद्यानरम्यारामतपोवनपरिभोगानपि सर्वगृहकलत्रपुत्रदारकपरित्यागानपि अनर्ध्यसर्वरत्नपरित्यागानपि स्वहृदयमज्जान्त्रगुणवृक्कमेदमांसरुधिरच्छविचर्मकरचरणबाहुकर्णनासानयनजिह्वादन्तोष्ठशीर्षपरित्यागानपि यावत्सर्वबाह्याध्यात्मिकसर्वाकारपरित्यागानप्युद्धोषयामास॥



स तमेवंरूपमुपकरणपरित्यागविधिं प्रत्युपस्थाप्य महायज्ञवाटं कारयामास, यस्तस्या रत्नसालव्यूहमेघप्रदीपाया राजधान्याः पूर्वेण मणिशिखरतेजोनाम्नो नगरद्वारस्य पुरतः समविपुलायामः परमविस्तीर्णधरणीतलप्रवेशो निम्नोन्नतविशुद्धसमतलोऽपगतश्वभ्रप्रपातः सर्वस्थाणुकण्टकापगतः उत्सन्नशर्कराकठल्लः सर्वरत्नधातुसंचयः सर्वरत्नमयमणिरत्न‍राजसंस्तीर्णतलः अनेकमणिरत्नव्युहोपशोभितो नानारत्नकुसुमाभिकीर्णः सर्वचूर्णसुगन्धराजसमाकुलः सर्वगन्धधूपपरिधूपितो रत्नार्चिःप्रदीपः तेजःश्रीसर्वगन्धधूपपटलमेघगगनसंछादितालंकारः सर्वरत्नद्रुमपङ्क्तिसुविभक्तोपशोभितो नानाभवनविमानकूटागारसमलंकृतः उच्छ्रितच्छत्रध्वजपताको नानारत्नपट्टप्रलम्बविद्योतितो विविधरत्नकुसुमजालसंछन्नः सर्वगन्धराजरत्नजालच्छत्रमण्डलः सुवर्णजालरत्नघण्टानिर्घोषो नानारत्नविराजितवितानविततः सर्वगन्धराजचूर्णविकीर्णः सर्वरत्नकुसुमप्रकीर्णाभिरामः तूर्यकोटीनियुतशतसहस्रमनोज्ञरुतघोषनिर्नादितः सर्वरत्नविचित्रालंकारव्यूहसुपरिशुद्धो बोधिसत्त्वकर्मविपाकाभिनिर्वृत्तः। तस्य मध्ये महासिंहासनमभिनिर्वृत्तं दशरत्ननिचितविचित्रभूमितलसंस्थानं दशरत्ननानावेदिकापरिवारविराजितं दशमणिद्रुमशाखावेदिकान्तरसुविभक्तोपशोभितव्यूहम् अभेद्यवज्रचक्रधरणीतलसुप्रतिष्ठितपादं सर्वरत्नबिम्बविग्रहसंधारितासनचक्रम्, अनेकरत्नमयनिर्यूहशतालंकृतं नानारत्नभक्तिविचित्रव्यूहप्रतिमण्डितं समन्तसुविभक्तरत्नध्वजसमुच्छ्रितं नानारत्नपताकाप्रलम्बितविचित्रव्यूहं रत्नकिङ्किणीजालपरिष्कृतं नानादिव्यमणिविचित्रहेमजालविततं विविधरत्नकुसुमजालमहामणिराजजालविचित्रवस्त्ररत्नजालयथार्हसंछादितोपशोभितव्यूहं अनेकगन्धमणिविग्रहपाणिमण्डलगन्धमेघप्रमुक्तमचिन्त्यवर्णगन्धमणिराजविस्तृतमनोज्ञनानासंस्थानसर्वगन्धपटलमेघप्रमुक्तं सर्वदिव्यगन्धधूपप्रधूपितोपचारं दिव्यातिरेकसुखसंस्पर्शानेकवर्णमणिरत्नवस्त्रप्रज्ञप्तमनेकदिव्यतूर्यसंगीतिशतसहस्रं समन्तात् संप्रवादितमनोज्ञमधुरनिर्घोषं नानारत्नसोपानपङ्क्तिपताकासुविभक्तवेदिकाप्रतिमण्डितव्यूहमनेकमणिरत्नप्रत्यर्पितविविधविकुर्वितमणिबिम्बविग्रहविद्योतितप्रभासम् यत्र स राजा सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषः संनिषण्णोऽभूत् अभिरूपः प्रासादिको दर्शनीयः परमशुभवर्णपुष्कलतया समन्वागतो विशुद्धमहापुरुषलक्षणप्रतिलब्धो वैरोचनमणिरत्ननिर्भासकेशमकुटः अभेद्यनारायणवज्रसंहननकायो गूढदृढपार्श्वनिबद्धसंधिः सर्वाङ्गपरिपूर्णः समन्तभद्रः समन्तप्रासादिकः समन्तशोभनः सर्वाकारवरोपेतो महाधर्मराजकरोदितः सर्वपरिष्कारवशिताप्रतिलब्धो धर्मवशितासुविशुद्धः स्वचित्तवशवर्ती अप्रतिहतवचनमण्डलः अकोप्यज्ञानसमन्वितः सुप्रतिष्ठापितधर्मंसम्यक्प्रयोगोऽनन्तगुणवर्णनिर्देशः। तस्य खलु पुनः सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषस्य राज्ञो महासिंहासननिषण्णस्योपरि मूर्धसंधावन्तरिक्षे महाच्छत्रमण्डलं प्रादुर्बभूव विचित्रोद्विद्धमणिरत्नदण्डं महामहामणिकोशगर्भंसर्वरत्नशलाकाशतसहस्रसम्यग्विततमनेकार्चिःश्रीतेजोज्ज्वलितव्यूहं जाम्बूनदकनकप्रभास्वरविशुद्धच्छदनं नानारत्नभक्तिचित्रहेमजालात्यन्तव्यूहच्छदनोपेतं विविधमुक्ताहाराभिप्रलम्बितं समन्तान्नानारत्नजालसंछादितं रत्नकिङ्किणीजालसुवर्णमणिघण्टारत्नसूत्रदामोपनिबद्धाभिप्रलम्बितं महामणिरत्नहारसमन्ताभिप्रलम्बितव्यूहं दिव्यमधुरमनोज्ञप्रमुक्तशब्दोपचारं सर्वसत्त्वकुशलकर्मपथसंचोदनघण्टाविसृतनिर्घोषम्। स खलु राजा सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषो रत्नवालव्यजनैः संवीज्यमानः शक्रदेवेन्द्रातिरेकेण तेजसा ज्वालयन्नुपशोभते स्म। तस्य समनन्तरनिषण्णस्य तस्मिन् सिंहासने सर्वो जनकायोऽभिमुखः प्राञ्जलिः स्थितोऽभूत्तमेव राजानं नमस्यन्॥



अथ खलु सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषस्य राज्ञोऽसंख्येयेषु प्राणिकोटीनियुतशतसहस्रेषु संनिपतितेषु नानायाचनकेषु नानावस्तुपरिग्राहकेषु नानोपकरणाधिमुक्तेषु नानाजातिषु नानागतिपर्यापन्नेषु नानाभिलाषचित्तेषु नानाशयाभिप्रायेषु नानादिक्संनिपतितेषु नानाविषयपरिभोगोपचारेषु नानापरिभोगाभिलाषितचेतनेषु नानाभिप्रायकल्पेषु नानामनुष्यनिकायेषु नानाकुलोपपत्युपपन्नेषु नानाजनपदसमागतेषु नाननिरुक्तिवचनमन्त्रसंस्कारेषु नानास्वरमण्डलप्रमोचकेषु नानवस्तुव्यञ्जनेषु नानावचनपदान्युदीरयत्सु, तमेकं महापुण्यसुमेरुमुल्लोकयमानेषु अयमेवैको महाज्ञानपुरुष इति निश्चितचेतनेषु, महापुण्योपस्तब्धो महापुरुषचन्द्रो महात्यागाशयप्रतिलब्ध इत्युन्मुखेषु, बोधिसत्त्वप्रणिधिचेतनानिपतितेषु बोधिसत्त्वप्रणिधिचेतनानिर्मितेषु तं महान्तं याचनकसंनिपातं दृष्ट्वा तेषां याचनकानामन्तिकेऽभूच्चित्तप्रेम चित्तप्रीतिः चित्तप्रसादः। कल्याणमित्रदर्शनसंज्ञा सुविपुला महाकरुणवेगाः संबभूवुः। अपरान्तकल्पसर्वयाचनकसंतर्पणाविवर्त्यवीर्यवेगाः प्रादुरभवन्। सर्वजगत्समप्रयोगपरित्यागचित्तस्फरणमेघाः समभवन्॥



स खलु पुनः सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषो राजा तेषां याचनकानां सहदर्शनेन आत्तमनस्कतरोऽभूत् न त्रिसाहस्रचक्रवर्तिराज्यप्रतिलम्भेन असीमाप्राप्तकल्पपर्यवसानेन, न शक्रत्वाधिपत्यासनप्रतिलम्भेन बहुकल्पकोटीनियुतशतसहस्रपर्यवसानेन, न सुयामदेवराजाधिपत्यासनप्रतिलम्भेन बहुकल्पकोटीनियुतशतसहस्रपर्यवसानेन, न संतुषितदेवराजाधिपत्यासनप्रतिलम्भेन बहुकल्पकोटीनियुतशतसहस्रपर्यवसानेन, न सुनिर्मितदेवराजैश्वर्याधिपत्यासनप्रतिलम्भेन अप्रमेयकल्पावसानेन, न वशवर्तिदेवराजाधिपत्यासनप्रतिलम्भेन, सुमुखाप्सरमनोहरदेवकन्योपस्थानेन अचिन्त्यकल्पपर्यवसानेन, न ब्रह्मासनेनानभिलाप्यकल्पब्रह्मविहारसुखावसानेन, न आभास्वरदेवसुखेन अनन्तकल्पावसानेन, न शुभकृत्स्नदेवसुखेन अतुल्यकल्पाक्षीणेन, न शुद्धावासदेवशान्तविमोक्षसुखविहारेण अपर्यन्तकल्पावसानेन। तद्यथा कुलपुत्र पुरुषस्यैकान्ततृष्णाचरितस्य मतापितृभ्रातृभगिनीमित्रमात्यज्ञातिसालोहितपुत्रदुहितृभार्याचिरकालविप्रयुक्तस्य अटवीकान्तारविप्रनष्टस्य तद्दर्शनकामस्य तेषां समवधानेन महती प्रीतिरध्यवसानमुत्पद्यते तद्दर्शनावितृप्ततया, एवमेव कुलपुत्र राज्ञः सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषस्य तेषां याचनकानां सहदर्शनेन महाप्रीतिवेगाः संजाताः। चित्ततुष्टिसुखमवक्रान्तम्। महांश्चित्तोदग्रतावेगः प्रादुर्भूतः। महाप्राभोद्यहर्षवेगः संभूतः। बुद्धबोधादुदारश्रद्धाधिमुक्तिवेगबलं संवर्धितम्। मूलजाता श्रद्धा सर्वज्ञतायां विवर्धिता। सर्वबुद्धधर्माध्याशयविशुद्धिबलमभिविवर्धितम्। बोधिसत्त्वेन्द्रियकर्मण्यता संभूता। चित्तहर्षपरिपूर्णमहाप्रसादवेग उदपद्यत। विपुलचित्तौद्बिल्यवेगेन कल्याणमित्रेन्द्रियाशयता मृदुभूता। तत्कस्य हेतोः? तथा हि तस्य सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषस्य राज्ञः सर्वज्ञतारम्बणप्रयुक्तकस्य सर्वज्ञताधर्मताप्रतिशरणस्य सर्वज्ञतामार्गद्वाराभिमुखस्य सर्वजगत्संतर्पणमनसिकारप्रयुक्तस्य सर्वबुद्धगुणसमुद्रानवतारप्रतिपत्त्यभिमुखस्य सर्वमारकर्मक्लेशावरणपर्वतविकिरणप्रयुक्तस्य सर्वतथागतानुशासनीप्रदक्षिणग्राहितावस्थितस्य सर्वकुशलमूलसमुद्रसमन्तमुखसमार्जनाभियोगगर्भस्य सर्वाभिनिवेशोच्चलितसंतानस्य सर्वलोकविषयानभिनिविष्टस्य सर्वधर्मस्वभावगगनगोचरस्य तेषु सर्वयाचनकेष्वेकपुत्रकसंज्ञा उदपद्यत, मातापितृसंज्ञा दक्षिणीयसंज्ञा कल्याणमित्रसंज्ञा दुर्लभसंज्ञा दुष्करकारकसंज्ञा बहुकरसंज्ञापरमोपकारकसंज्ञा बोधिमार्गोपस्तम्भसंज्ञा आचार्यसंज्ञा शास्तृसंज्ञा उदपद्यत। स तान् सर्वयाचनकान् यथागतान् यथासंप्राप्तान् यथाकालसंनिपतितान् यथादिग्देशस्थितान् यथावस्तुयाचनकान् यथारुचीन् यथाभिप्रायान् यथाभिकाङ्क्षिणो यथाभिलाषिणो यथावस्तुपर्येषकान् संतर्पयामास अप्रतिहतेन महामैत्रीमण्डलेन याचनकजनापराङ्भुखतया महात्यागरश्मिना सर्वसत्त्वसमप्रयोगेन त्यागमुखेन। सोऽन्नमन्नार्थिकेभ्यः प्रादात्। पानं पानार्थिकेभ्यो वस्त्रं वस्त्रार्थिकेभ्यः पुष्पाणि पुष्पार्थिकेभ्यः प्रादात्। एवं गन्धधूपमाल्यविलेपनचूर्ण चीवरच्छत्रध्वजपताकारत्नाभरणासनशयनभवनविमानविहारारामोद्यानतपोवनानि हयगजरथपत्तिवाहनयुग्ययानान्यपि हिरण्यसुवर्णमणिमुक्तावैडूर्यशङ्खशिलाप्रवालजातरूपरजतान्यपि प्रादात्। स्वगृहविमानान्तःपुरपरिवारानपि, सर्वकोशानपि विवृत्य विभज्य अर्थिकेभ्यः प्रादात् यस्य येनार्थः स तं गृह्णातु इति। जनपदानपि जनपदार्थिकेभ्यः प्रादात्। ग्रामानपि ग्रामार्थिभ्यो नगराण्यपि नगरार्थिभ्यः प्रादात्। स तान् सर्वयाचनकान् सर्वास्तिपरित्यागतया सर्वसत्त्वेषु समप्रतिपन्नः सर्ववस्तुपरित्यागैरभिच्छादयामास॥



तेन खलु पुनः समयेन रत्नप्रभा नाम श्रेष्ठिदारिका षष्टिकन्यापरिवारा तस्मिन्नेव महायज्ञवाटे संनिपतिताभूत्, अभिरूपा प्रासादिका दर्शनीया परमशुभवर्णपुष्कलतया समन्वागता, सुवर्णवर्णच्छविरभिनीलकेश्यभिनीलनेत्रा मनोज्ञगन्धा ब्रह्मस्वरा सुवस्त्रा स्वलंकृता स्मृतिमतिगतिह्रीधृत्यपत्राप्येर्याचर्यासंपन्ना, गुरुषु सगौरवा, परमसंप्रजन्यचारिणी गम्भीरचेष्टा मेघासंपन्ना धर्माणां ग्रहणचारणप्रतिबोधिषु पूर्वसुकृतकुशलमूला धर्माभिष्यन्दितप्रसन्नसंताना विशुद्धकल्याणाशया उदाराधिमुक्तिगगनगोचपरहितपरिणतचित्ता बुद्धदर्शनदिगभिमुखा सर्वज्ञज्ञानाभिलाषिणी। सा खलु रत्नप्रभा श्रेष्ठिदारिका सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषस्य राज्ञो महासिंहासनस्य प्रदक्षिणेन नातिदूरे स्थिताभूत् प्राञ्जलिस्तं राजानं नमस्यन्ती, न च किंचिद्गृह्णाति। एकान्तस्थिता चैवं चित्तमुत्पादयामास-सुलब्धा मे लाभा, यदहमेवंरूपस्य कल्याणमित्रस्य दर्शनसमवधानप्रतिलाभिनीति। सा तस्य सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषस्य राज्ञोऽन्तिकेकल्याणमित्रसंज्ञामनुकम्पकसंज्ञामनुग्राहकसंज्ञां बुद्धसंज्ञामुत्पाद्य मायाशाठ्यापगतेन चित्तेन परमोदारप्रीतिप्रसादप्रामोद्यवेगप्रतिलब्धा स्वान्याभरणानि कायादवमुच्य येन राजा सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषः, तेनाभिमुखमक्षैप्सीत्। तानि तस्य सिंहासनवेदिकामध्ये अधः पृथिवीमण्डले प्रतिष्ठितान्यभूवन्। सा तान्याभरणानि प्रविकीर्य एवं प्रणिधिमुत्पादयामास-यथैष राजा सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषोऽनाथानां सत्त्वानामन्धकारप्राप्तानां प्रतिशरणभूतः, तथाहमप्यनागतेऽध्वनि भवेयम्। यामेष धर्मतां जानाति, तामहमति जानीयाम्। येन यानेनैष निर्यास्यति, तेनाहमपि निर्यायाम्। यस्मिन्नेव मार्गप्रतिपन्नः, तत्राहमपि प्रतिपद्येयम्। यथायमसेचनको रूपेणाक्षयभोगोऽनन्तपरिचारो दुर्घर्षोऽपराजितोऽनवमृद्यः, तथाहमपि भवेयम्। यत्र यत्र चास्योपपत्तिर्भवेत्, अहमपि तत्र तत्रोपपद्येयमिति॥



तामेवंचित्तमनसिकारप्रयुक्तामाज्ञाय राजा सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषोऽवलोक्य एवमाह-गृहाण दारिके, येन तेऽर्थः। अहं खलु दारिके सर्वास्तिपरित्यागी सर्वसत्त्वसंतर्पणाय प्रतिपन्नः। सा खलु समन्वाहृता तेन राज्ञा सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषेणेति भूयस्या मात्रया प्रसादं प्रत्यलभत। सा प्रसन्नचित्ता उदारविपुलकुशलमूलवेगसंजाता राजानं सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषं तस्यां वेलायामाभिर्गाथाभिरध्यभाषत—

पूर्वे इयं सालवियूहमेघा

अनोपपन्ने त्वयि राजसिंह।

निराभिरम्या हततेज आसीत्

प्रेतालयो वा यथ भीषणीया॥ २२॥



प्राणातिपाती मनुजा अभूवन्

अदत्त‍आदायि असंयताश्च।

मृषामभाषन् परुषां च वाचं

पिशुनामबद्धां गिरमप्यवोचन्॥२३॥



परवाक्यचित्तेषु अभिध्यचेतसो

व्यापन्नचित्ताः परपुद्गलेषु।

दृष्टिगतैर्निश्रितपापगोचरा

मिथ्याप्रयोगेन पतन्ति दुर्गतिम्॥२४॥



अधर्मचारीण नराण चैव

अविद्यमोहान्धतमोवृतानाम्।

दृष्टीविपत्त्या विपरीतदर्शिनां

बहुभिर्वर्षेभिर्न देवु वर्षति॥२५॥



अवर्षि देवे च विनष्टबीजाः

सस्या न रोहन्ति न चैव वृक्षाः।

सरस्तडागा नदिस्रोत शुष्का-

स्तृष्णोषधीः सर्ववनस्पतीश्च॥२६॥



नद्यो विशुष्का अभवन्नशेषा

उद्यान सर्वे अटवीप्रकाशाः।

श्वेतास्थिपूर्णा पृथिवी बभूव

तवानुत्पादे सुविशुद्धनेत्रा॥२७॥



यदा हि ते याचकसंधिसंभुते

संतर्पिता याचनकास्तु सर्वे।

उत्पद्य मेघेन तदा चतुर्दिशं

संतर्पिता निम्नस्थला च सर्वे॥२८॥



भूयो न चोरा न भटा न धूर्ता

न हन्यते कश्चन चापि वध्यते।

न चाप्यनाथा मरणं व्रजन्ति

नाथो भवान् सर्वजगत्यनाथे॥२९॥



प्राणातिपाताभिरता मनुष्या

हत्वा परांस्तद्रुधिरं पिबन्ति।

खादन्ति मांसानि परस्परं ये

ते त्वत्प्रदानैर्भुत मैत्रचित्ताः॥३०॥



एकः शतान्तो हि सहस्रसंख्या-

ङ्गना तदा चीवरसंवृताभूत्।

संछाद्य कायं तृणपर्णचीवरैः

प्रेताः क्षुधार्ता इव तेऽविशंस्तदा॥३१॥



प्रादुर्बभौ शालिरनुप्तकृष्टः

कल्पद्रुमाश्चैव विमुक्तकोशाः।

दृश्यन्ति नार्यस्तु नराश्च पण्डिता

जातो यदा त्वं जगतोऽस्य नाथः॥३२॥



मासार्धमासस्य कृतेन पूर्व-

मकारिषुः संनिधिमुत्पथस्थाः।

स्वलंकृतास्त्वद्य महार्हवस्त्राः

क्रीडन्ति देवा इव नन्दनस्थाः॥३३॥



कामेषु मिथ्याविषमप्रवृत्ता

अधर्मरागेण नरा हि रक्ताः।

नार्यः कुमार्यः स्वपराभिगुप्ता

विषं शयन्ति स्म पुरा प्रसज्य॥३४॥



वराप्सरोवर्णसमानरूपा

दृष्ट्वा सुवस्त्राः समलंकृताश्च।

परस्त्रियश्चन्दनलिप्तगात्र्यः

तुष्टाः स्वदारैस्तुषिता इवाद्य॥३५॥



मृषां च रूक्षां पिशुनामबद्धां

पुरा गिरं शाठ्यवशादवोचन्।

चतुर्विधां वाचमिमां प्रहाय

धर्मं चरन्त्यद्य कुदृष्टिमुक्ताः॥३६॥



न तूर्यनिर्नादरुतं मनोज्ञं

न दिव्यसंगीतिरुतान्यमूनि।

सब्रह्मघोषाः कलविङ्कघोषा

रुतस्य तुभ्यं पदवीं स्पृशन्ति॥३७॥



छत्रं हि ते तिष्ठति मूर्धसंधौ

रत्नैश्चितं काञ्चनजालछत्रम्।

वैडूर्यदण्डं शिरिगर्भकोशं

समन्ततः सन्मणिकण्ठजालम्॥३८॥



घण्टासमुत्थाभिरुतान्यशेषान्

सर्वस्वराङ्गान्यभिभूय लोके।

बुद्धस्वराङ्गैः सदृशं चरन्तो

सद्धर्मनिर्नादरुतं प्रशान्तम्॥३९॥



ये श्रुत्व सत्त्वाः शमयन्ति क्लेशान्

अशेषदिक्क्षेत्रपरंपरासु।

कल्पार्णवानां सुगतोदधीनां

धीमत्समुद्रस्य च नामचक्रम्॥४०॥



पूर्वान्ततः क्षेत्रपरंपराभि-

रनन्तरं यस्य च नामधेयम्।

तवानुभावेन च दिक्ष्वशेषं

सद्धर्मचक्राणि रवन्ति घण्टाः॥४१॥



घण्टास्वरं स्तेममसज्जमाना

जम्बुध्वजं व्याप्य रणत्यशेषम्।

ब्रह्मेन्द्रदेवेन्द्रजगत्पतीनां

स्वकस्वकं कर्मविधीन् ब्रुवाणः॥४२॥



श्रुत्वा च ते घण्टरुतां नृदेवाः

स्वकस्वकां कर्मनिधानकोशान्।

विवर्ज्य पापं शुभमाचरन्ति

सर्वे प्रतिष्ठन्ति च बुद्धबोधौ॥४३॥



ज्योतिःप्रभस्ते नृपतिः पिताभूत्

पद्मप्रभा तन्महिषी च माता।

अभ्युत्सदे पञ्चकषायकाले

क धर्मराज्यं प्रतिलब्धवान् सः॥४४॥



उद्यानमस्मै विपुलं बभूव

सुपुष्पितव्यूहमणिप्रदीपम्।

तत्पञ्चभिः पुष्किरिणीशतैश्च

संशोभितं वृक्षशतैर्वृतानाम्॥४५॥



प्रत्येकमासामभवद्विमानं

स्थूणासहस्रोच्छ्रित चारुतीरे।

सवेदिकाव्यूहसहस्रचित्रं

जालार्धचन्द्रोज्ज्वलितं समन्तात्॥४६॥



ववर्ष देवो न यदा बहूनि

वर्षाण्यधर्मे बलवत्यपूर्णे।

जलं तदा पुष्किरिणीष्वशेषा

द्रुमाः सपत्रच्छवयश्च शुष्काः॥४७॥



जनिष्यमाणे त्वयि सप्तरात्रा-

दासन्निमित्तानि तदाद्भुतानि।

निःसंशया यानि निरीक्ष्य सत्त्वा-

स्त्राता हि नः संभवितेत्यवोचन्॥४८॥



सुमध्यरात्रेष्वथ षड्विकारं

संकम्पिताभून्नृप भूतधात्री।

अनिन्दितायामपि पुष्किरिण्यां

मध्येऽवभासोऽर्कसमो बभूव॥४९॥



अष्टाङ्गसद्वारिभृतान्यभूवन्

पञ्चाप्यथो पुष्किरिणीशतानि।

सुजातशाखास्तरवो बभूवुः

सुतेजसः पुष्पफलैरुपेताः॥५०॥



ताः पुष्किरिण्यः सलिलाभिपूर्णा

अतर्पयंस्तद्वनमप्यशेषम्।

स्रोतोभिरस्मात्सरितः प्रवृत्तैः

जम्बुध्वजोऽभूत्सलिलप्रपूर्णः॥ ५१॥



द्रुमौषधीसस्यतृणान्यरोहन्

वृक्षा बभूवुः फलपुष्पनद्धाः।

बीजानि यावन्ति च भूतधात्र्यां

सर्वाण्यरोहन्त जलाप्लुतानि॥५२॥



जलाप्लुतो यः पृथिवीप्रदेशः

सर्वः समोऽसावभवत्तदानीम्।

निम्नोन्नताश्चैव महीप्रदेशाः

सर्वे समा एव तदा बभूवुः॥५३॥



श्वभ्रप्रपाता विषमाश्च देशाः

समास्तदानीमभवन् क्षणेन।

अन्तर्दधुः कण्टकशर्कराद्याः

सुरत्नगोत्राणि समुद्बभूवुः॥५४॥



आसन्नुदग्रा नरनारिसंघाः

तृषार्दिताश्चैव पपुर्जलानि।

उदानयामासुरुदानमेवं

सुखानुभावोऽयमहोऽद्य कस्य॥५५॥



ज्योतिःप्रभो भूमिपतिः सपुत्रो

दारैः सहामात्यगणैस्तदानीम्।

कोटीसहस्रैश्च वृतो जनानां

उद्यानयात्रां प्रययावुदग्राम्॥५६॥



अनिन्दिता पुष्किरिणी सुरभ्या

या मध्यमा गन्धजलाभिपूर्णा।

तस्यां स्थितोऽभून्नृपतिः सदारः

प्रासादमारुह्य सुधर्मतीर्थम्॥५७॥



सप्तभ्यभूद्या रजनी जलस्य

समुद्भवां तत्र समेव रात्रे।

पुनः सशैला सविमानमाला

चचाल सर्वा धरणी तथैव॥५८॥



अनिन्दितायाश्च सहस्रपत्रं

मध्यान्महाम्भोरुहमुद्बभूव।

सहस्रसूर्यद्युतिमेघजाल

सौमेरुमूर्धप्रभया स्फरित्वा॥५९॥



तद्वज्रदण्डं शुभसत्त्वगर्भं

मणीन्द्रपत्रं विपुलं विशुद्धम्।

महार्हजाम्बूनदकर्णिकं च

सुगन्धराजोज्ज्वलकेसराढ्यम्॥६०॥



तत्कर्णिकायामसि नाथ जातः

पर्यङ्कबद्धेन समुच्छ्रयेण।

विरोचसे लक्षणचित्रिताङ्गः

शतैः सुराणामभिपूज्यमानः॥६१॥



प्रासादपृष्ठादवतीर्य राजा

त्वां संप्रगृह्यात्तमनाः कराभ्याम्।

देव्यै ददौ वाचमुवाच चैवं

सुतस्तवायं भव तुष्टचित्ता॥६२॥



प्रादुर्बभूवैव निधानकोट्यः

प्रमुक्तकोशास्तरवो बभूवुः।

तूर्यैश्च निर्नादितमन्तरिक्ष-

मभूत्प्रसूते त्वयि लोकनाथे॥६३॥



जम्बुध्वजे ये खलु सर्वसत्त्वा-

स्त्वदुन्मुखास्तेऽप्यभवन् प्रतीताः।

अहोऽस्यनाथस्यजनस्य नाथ

इत्यब्रुवन् प्राञ्जलयश्च भूत्वा॥६४॥



प्रभा शरीरात्तव निश्चरित्वा

प्रभासयामास महीं समन्तात्।

तमोन्धकारं जगतां च हत्वा

व्याधीनशेषान् शमयांबभूव॥६५॥



ये यक्षकुम्भाण्डपिशाचसंघा

विहेठकास्ते च सदापजग्मुः।

आशीविषा नाप्यचरंस्तदानी

महाविषाः सत्त्ववधप्रवृत्ताः॥६६॥



अलाभनिन्दे अयशोऽथ दुःखं

या ईतयो व्याधिरुपद्रवाश्च।

शमं समासाद्य हितं जगाम

लोके प्रमोदस्तु समुद्बभूव॥६७॥



परस्परं मातृसमानसंज्ञी

मैत्रात्मकं सर्वजगत्तदासीत्।

अवैरचित्तं विनिहिंसकश्च

सर्वज्ञमार्गप्रतिपत्तिमच्च॥६८॥



विवर्तिता दुर्गति धर्मराज्ञा

अपावृतः स्वर्गमहापथश्च।

सर्वज्ञतावर्त्मनिदर्शनं च

कृतस्त्वयार्थो जगतो विशालः॥६९॥



लाभः परो नस्तव दर्शनेन

दातुर्महाम्भोनिधिसंनिभस्य।

अनाथनाथो जगति प्रसूतः

चिरप्रनष्टेऽद्भुतनायकस्त्वम्॥७०॥



अथ खलु रत्नप्रभा श्रेष्ठिदारिका सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषं राजानमाभिर्गाथाभिरभिष्टुत्य संवर्ण्य संप्रशस्य अनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य प्रणिपत्य एकान्ते प्राञ्जलिः स्थिताभून्नमस्यन्ती। अथ खलु राजा सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषो रत्नप्रभां श्रेष्ठिदारिकामवलोक्य एवमाह-साधु साधु दारिके, या त्वं परसत्त्वगुणविशेषज्ञानाभिज्ञामवतीर्णा। दुर्लभास्ते दारिके सत्त्वाः सर्वलोके, ये परसत्त्वगुणानधिमुच्यन्ते। न शक्यं दारिके तमोवृतैरकृतज्ञसत्त्वैः बुद्धिविपन्नैः क्षुभितचित्तैर्लुलितसंतानैस्तमश्चेतोभिः प्रकृतिविनष्टाशयैः प्रतिपत्तिच्युतैः परसत्त्वगुणविशेषानभिज्ञैर्बोधिसत्त्वगुणा अवतारितुं तथागतगुणा वा कल्पयितुं सर्वगुणज्ञानविशेषाभिज्ञा वा अनुप्राप्तुम्। असंशयं त्वं दारिके बोधौ संप्रस्थिता, या त्वमेवंरूपान् बोधिसत्त्वगुणानवतरसि। उदारसत्त्वाभिज्ञतया जम्बुद्वीपेऽमोघोऽस्माकं सत्त्वसंग्रहविक्रमो येषां नो विजिते त्वमेवंरूपज्ञानसमन्वागता उत्पन्ना। अथ खलु राजा सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषोऽनर्धं महामणिरत्नं ज्योतिःप्रभमणिरत्नविचित्रं च अनर्घं वस्त्ररत्नं स्वेन पाणिना आदाय रत्नप्रभायाः श्रेष्ठिदारिकायाः प्रादात्। तत्परिवारस्य च सर्वासां दारिकाणां प्रत्येकं नानावस्त्ररत्नानि प्रादात्, एवं चावोचत्-प्रतिगृहाण दारिके त्वमिद वस्त्ररत्नम्, परिगृह्यात्मना परिभुङ्क्ष्व। अथ खलु रत्नप्रभा श्रेष्ठिदारिका सपरिवारा उभाभ्यां जानुभ्यां धरणितले प्रणिपत्य तद्वस्त्ररत्नं पाणिभ्यां परिगृह्य मूर्ध्नि कृत्वा प्रत्यवसृत्य तद्वस्त्ररत्नं प्रावृतवती। तत्परिवाराश्च सर्वा दारिकाः प्रत्येकं स्वानि वस्त्ररत्नानि प्रावृतवत्यः। सा तद्वस्त्ररत्नं प्रावृत्य राजानं सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषं प्रदक्षिणमकरोत् सार्धं स्वेन दारिकापरिवारेण। तासां सर्वासां तेषु वस्त्ररत्नेषु सर्वनक्षत्रज्योतिर्बिम्बानि विद्योतमानान्यदर्शन्। तां जनकायो दृष्ट्वा एवमाह-शोभनस्तवायं दारिके कन्यापरिवारः। रात्रिदेवतेव ज्योतिर्गणप्रतिमण्डिता त्वमाभिः परिवृता अतीव भ्राजसे॥



अथ खलु सर्ववृक्षप्रफुल्लनसुखसंवासा रात्रिदेवता सुधनं श्रेष्ठिदारकमेतदवोचत्-तत्किं मन्यसे कुलपुत्र-अन्यः स तेन कालेन तेन समयेन राजाभूत् सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषो नाम? न खल्वेवं द्रष्टव्यम्। अयं स भगवान् वैरोचनस्तथागतोऽर्हन् सम्यक्संबुद्धस्तेन कालेन तेन समयेन राजा अभूत् सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषो नाम। स्यात्खलु पुनस्ते कुलपुत्र-अन्या सा तेन कालेन तेन समयेन पद्मप्रभा नाम देव्यभूद्राज्ञो ज्योतिष्प्रभस्य भार्या सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषस्य राज्ञो माता? न खल्वेवं द्रष्टव्यम्। इयं सा मायादेवी तेन कालेन पद्मप्रभा नाम राजभार्या अभूत्, यया स उपपादुकः कुमारः उत्सङ्गे प्रतिगृहीतः। स्यात्खलु पुनस्ते कुलपुत्र एवं-अन्यः स तेन कालेन तेन समयेन ज्योतिष्प्रभो नाम राजा अभूत्सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषस्य राज्ञः पिता? न खल्वेवं द्रष्टव्यम्। शुद्धोदनः स राजा तेन कालेन ज्योतिष्प्रभो नाम राजा अभूत्। स्यात्खलु पुनस्ते कुलपुत्र एवम्-अन्या सा तेन कालेन तेन समयेन रत्नप्रभा नाम श्रेष्ठिदारिका अभूत्। न खल्वेवं द्रष्टव्यम्। अहं सा तेन कालेन तेन समयेन रत्नप्रभा नाम श्रेष्ठिदारिका अभूवम्। स्यात्खलु पुनस्ते कुलपुत्र एवम्-अन्ये तेन कालेन तेन समयेन सत्त्वा अभूवन्, ये तत्र जम्बुद्वीपे उपपन्नाः राज्ञा सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषेण चतुर्भिः संग्रहवस्तुभिः संगृहीताः? न खल्वेवं द्रष्टव्यम्। इमे ते बोधिसत्त्वाः सर्वे इहैव भगवतः पर्षन्मण्डलसमवसृता येऽनुत्तरायां सम्यक्संबोधौ अवैवर्त्यायां बोधिसत्त्वभूमौ प्रतिष्ठापिताः। केचित्प्रथमायां भूमौ, केचिद् द्वितीयायां केचितृतीयायां केचिच्चतुर्थ्यां भूमौ केचित्पञ्चम्यां केचित्षठ्यां केचित्सप्तम्यां केचिदष्टभ्यां केचिन्नवम्यां केचिद्दशम्यां बोधिसत्त्वभूमौ प्रतिष्ठापिताः। ये नानाप्रणिधानविमात्रताभिर्नानासर्वज्ञताप्रस्थानैर्नानासंभारैर्नानासमुद्रागमैर्नानानिर्याणैर्नानामार्गव्यूहशुद्धिभिर्नानाविकुर्वितवृषभिताभिर्विविधमार्गव्यूहैः समुदागता नानाविमोक्षविहारैरिह पर्षन्मण्डले नानाधर्मविमानविहारानावसन्तो विहरन्ति॥



अथ खलु सर्ववृक्षप्रफुल्लनसुखसंवासा रात्रिदेवता तस्यां वेलायामेतमेव विपुलप्रीतिसंभवनिधानसंतुष्ट्यवभासं बोधिसत्त्वविमोक्षं भूयस्या मात्रया संदर्शयमाना सुधनं श्रेष्ठिदारकं गाथाभिरध्यभाषत—



चक्षुर्ममा जिनसुता विपुलं

येनो विलोकयमि सर्वदिशः।

क्षेत्रोदधीन् बहुविधान् विपुलान्

सत्त्वार्णवानपि च संसरतः॥७१॥



सर्वेषु क्षेत्रप्रसरेषु जिनान्

बोधिद्रुमासनगतान् विरजान्।

व्याप्यर्द्धिभिर्दश दिशः सततं

धर्मोक्तिभिर्विनयतो जनताम्॥७२॥



श्रोत्रार्णवः सुपरिशुद्धु ममा

येन शृणोम्यपरिशेषरुतम्।

धर्मानशेषसुगताभिहितान्

सर्वान् शृणोमि भृशमात्तमनाः॥७३॥



ज्ञानं ममाद्वयमसङ्गतं

परसत्त्वचित्तविषयप्रसृतम्।

चित्तोदधिः सुविपुला जगत-

श्चित्तक्षणादवतराम्यखिलाम्॥७४॥



पूर्वान्त मे स्मृतिसमाधिबलात्

कल्पोदधीनहमवैष्यमि तान्।

जात्यन्तरार्णवशतानि बहू-

न्यहमात्मनश्च जगतामपि च॥७५॥



क्षेतार्णवैकपरमाणुसमान्

कल्पान् क्षणेन च विदाम्यखिलान्।

सत्त्वान् गतिष्वपि च संसरतो

बुद्धान् विकुर्वितगणैश्च सह॥७६॥



तच्च स्मरामि खलु लोकविदां

तेषां यथा प्रथमकः प्रणिधिः।

प्रस्थानसंभवनयैर्विपुलैः

समुदागताश्चरिमुपेत्य च याः॥७७॥



अभिषेकभूमिगमनानि च या-

न्यसमाधितोत्तमगुणौघवताम्।

बोधैश्च बुध्यननयान् विपुलां-

श्चित्तक्षणादवतराम्यखिलान्॥७८॥



यैर्यैरुपायविषयैः सुगताः

प्रावर्तयन् जगति चक्रवरम्।

या निर्वृतीपरिमाणगुणा

धर्मस्थितेरपि च यो नियमः॥७९॥



ये यानसागरनया विमला

ये चैव सत्त्वविनया विपुलाः।

संदर्शिता जगति तानमितै-

र्नानानयैरवतरामि पृथक्॥८०॥



प्रीतेर्निधानप्रभुतुष्टिधना-

ध्यालोक एष हि विमोक्षनयः।

मम भावितो विपुल कल्पशता-

न्येतं त्वमप्यवतराशु नयम्॥८१॥



एतमहं कुलपुत्र विपुलप्रीतिसंभवनिधानसंतुष्ट्यवभासं बोधिसत्त्वविमोक्षं जानामि। किं मया शक्यं सर्वतथागतपादमूलेषु सर्वज्ञताप्रस्थानप्रणिधिसमुद्रावतीर्णानां सर्वतथागतपूर्वप्रणिधानसागराभिनिर्हारप्रणिधिपरिपूर्णानामेकबोधिसत्त्वभूम्याक्रमणसर्वबोधिसत्त्वभूमिसागराक्रमणविक्रान्तज्ञानानां सर्वबोधिसत्त्वचर्यासमुद्रैकैकचर्यासमवसरणप्रणिधानचर्यापरिशुद्धानामेकैकस्मिन् बोधिसत्त्वविमोक्षे सर्वबोधिसत्त्वविमोक्षसागरसमवसरणविहारवशवर्तिनां बोधिसत्त्वानां चर्यां ज्ञातुं गुणान् वा वक्तुम्॥



गच्छ कुलपुत्र, इयमिहैव बोधिमण्डे सर्वजगद्रक्षाप्रणिधानवीर्यप्रभा नाम रात्रिदेवता भगवतः सकाशमुपसंक्रान्ता। तामुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन अनुत्तरायां सम्यक्संबोधौ सत्त्वाः परिपाचयितव्याः, कथं सर्वबुद्धक्षेत्राणि परिशोधितव्यानि, कथं सर्वतथागता आराधयितव्या अत्यन्तताराधनतया, कथं बोधिसत्त्वेन सर्वबुद्धधर्मेषु प्रयोक्तव्याः॥



अथ खलु सुधनः श्रेष्ठिदारकः सर्ववृक्षप्रफुल्लनसुखसंवासाया रात्रिदेवतायाः पादौ शिरसाभिवन्द्य सर्ववृक्षप्रफुल्लनसुखसंवासां रात्रिदेवतामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य सर्ववृक्षप्रफुल्लनसुखसंवासाया रात्रिदेवताया अन्तिकात्प्रक्रान्तः॥३८॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project