Digital Sanskrit Buddhist Canon

३९ सर्वनगररक्षासंभवतेजःश्रीः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 39 sarvanagararakṣāsaṁbhavatejaḥśrīḥ
३९ सर्वनगररक्षासंभवतेजःश्रीः।



अथ खलु सुधनः श्रेष्ठिदारकस्तं विपुलप्रीतिवेगसंभवचित्तक्षणव्यूहं बोधिसत्त्वविमोक्षं भावयन् संभावयन् प्रशान्तरुतसागरवत्या रात्रिदेवताया अववादानुशासनीमनुस्मरन्, निगमयन्, एकैकपदव्यञ्जनानेकनयाप्रमाणाशयं धर्मतानयज्ञानमनुस्मरन्, स्मृतावुपनिबध्नन्, मत्या प्रविचिन्वन्, गत्या अनुगच्छन्, बुद्ध्या विपुलीकुर्वन्, कायेन स्पृष्ट्वा विहरन्, अवतरन्, अनुप्रविशन्, अनुपूर्वेण येन सर्वनगररक्षासंभवतेजःश्री रात्रिदेवता तेनोपसंक्रान्तः। सोऽपश्यत् सर्वनगररक्षासंभवतेजःश्रियं रात्रिदेवतां सर्वनगरभवनप्रभासमणिराजगर्भमहापद्मासने निषण्णामनभिलाप्यरात्रिदेवतापरिवारां सर्वदिक्सत्त्वजगदभिमुखेनकायेन सर्वजगद्रूपसमेन कायेन सर्वसत्त्वाभिमुखेन कायेन सर्वजगदनुलिप्तेन कायेन सर्वजगत्समशरीरेण कायेन सर्वजगदभ्युद्गतेन कायेन सर्वजगत्परिपाकविनयाकूलेन कायेन समन्तदिङ्‍निगर्जनेन कायेन सर्वजगदसंक्रान्तेन कायेन सर्वावरणात्यन्तसमुद्धाटितेन कायेन तथागतस्वभावेन कायेन सर्वजगद्विनयनिष्ठापर्यवसानेन कायेन॥



दृष्ट्वा च तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातः सर्वनगररक्षासंभवतेजःश्रियो रात्रिदेवतायाः पादौ शिरसाभिवन्द्य सर्वनगररक्षासंभवतेजःश्रियं रात्रिदेवतामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य सर्वनगररक्षासंभवतेजःश्रियो रात्रिदेवतायाः पुरतः प्राञ्जलिः स्थित्वा एवमाह-अहं खलु देवते अनुत्तरायां सम्यक्संबोधौ संप्रस्थितः। तद्वदस्व मे देवते कथं बोधिसत्त्वो बोधिसत्त्वचर्यायां चरन्नुपकारीभूतो भवति सत्त्वानाम्। कथं च सत्त्वाननुत्तरेण संग्रहेण संगृह्णाति। कथं बोधिसत्त्वस्तथागतानुज्ञातो बोधिसत्त्वकर्मणि प्रयुक्तो भवति, यथाप्रयुक्तस्य बोधिसत्त्वस्य आसन्नो भवति धर्मराजः। एवमुक्ते सर्वनगररक्षासंभवतेजःश्री रात्रिदेवता सुधनं श्रेष्ठिदारकमेतदवोचत्-साधु साधु कुलपुत्र, यस्त्वं सर्वजगत्परिपाकविनयनिष्ठागमनतायै सर्वतथागतवंशसंधारणप्रयोगनिष्ठागमनतायै सर्वदिक्प्रसरस्फरणज्ञानप्रयोगतायै सर्वधर्मधातुनयसागरावतरणाभिमुखतायै आकाशसमतलानन्तज्ञानज्ञेयस्फरणतायै सर्वतथागतधर्मचक्रप्रतीच्छनसंधारणतायै यथाशयसर्वजगत्समुद्रधर्ममेघाभिप्रवर्षणचर्यानयं परिपृच्छसि। अहं कुलपुत्र मनोज्ञरुतगम्भीरविकुर्वितप्रवेशस्य बोधिसत्त्वविमोक्षस्य लाभिनी। सा खलु पुनरहं कुलपुत्र अनेन विमोक्षेण समन्वागता असङ्गमहाधर्मभाणकपट्टबद्धाध्यालम्बनप्रयोगा सर्वतथागतधर्मकोशविश्राणनप्रणिधाना महाकरुणामैत्रीबलप्रतिलब्धा सर्वसत्त्वबोधिचित्तप्रतिष्ठापनतायै सर्वसत्त्वार्थक्रियासंप्रस्थिता अप्रतिप्रस्रब्धबोधिचित्तकुशलमूलसंभारोपचयाय सर्वजगत्सारथिभूमिसंप्रस्थिता सर्वसत्त्वानां सर्वज्ञतामार्गप्रतिष्ठापनतायै, सर्वलोके धर्ममेघधर्मसूर्यसंभवप्रयोगा अप्रमेयकुशलमूलप्रभवसर्वलोकावभासनतायै, सर्वजगत्समचित्तप्रसृताप्रतिप्रश्रब्धा सर्वजगत्कुशलमूलाभिसंस्कारसंमार्जनप्रयोगविज्ञानतायै, विशुद्धचित्तप्रयोगा सर्वकुशलकर्मपथप्रदक्षिणकर्मान्ततया सर्वसत्त्वसार्थवाहत्वाय संप्रस्थिता सर्वाकुशलकर्मपथप्रहीणा सर्वसत्त्वकुशलधर्मप्रतिष्ठापनकर्मप्रयोगा सर्वसत्त्वक्षेमगतिसंप्रदर्शनप्रयोगा सर्वसत्त्वयानव्यूहपूर्वंगमसंप्रस्थिता सर्वकुशलधर्मचक्रचरणसर्वसत्त्वप्रतिष्ठापनप्रयोगा सर्वकल्याणमित्राभेद्योपचरणाभिराधनसंप्रस्थिता सर्वसत्त्वतथागतशासनप्रतिष्ठापनप्रयोगा धर्मदानपूर्वंगमसर्वशुक्लधर्मसमारम्भप्रयोगा सर्वज्ञताचित्तोत्पादाभिजातदृढाभेद्याशया वज्रनारायणगर्भदृढबुद्धबलारम्बणविपुलचित्तमण्डला कल्याणमित्रमुपनिश्रित्य विहरामि। सर्वक्लेशकर्मावरणपर्वतविकिरणचित्ता सर्वज्ञतासंभारसमारम्भा सर्वशुक्लधर्मसमर्जनप्रयोगा अनन्तमध्यसर्वज्ञताभिमुखारम्बणचेतनाप्रयोगप्रयुक्ता॥



सा खलु पुनरहं कुलपुत्र एवंरूपं सर्वसत्त्वविज्ञापनं धर्मालोकमुखं परिशोधयमाना कुशलमूलोपचयसंभारप्रत्युपस्थितां दशभिराकारैर्धर्मधातुं व्यवलोकयामि अनुगच्छामि प्रसरामि। कतमैर्दशभिः? यदुत अप्रमेयं धर्मधातुमनुगच्छामि विपुलज्ञानालोकप्रतिलाभेन। अनन्तमध्यधर्मधातुमनुगच्छामि सर्वतथागतविकुर्वितविज्ञप्तये। अपर्यन्तधर्मधातुमनुगच्छामि सर्वबुद्धक्षेत्राक्रमणतथागतपूजोपस्थानपरिपूरये। असीमाप्राप्तं धर्मधातुमवतरामि सर्वलोकधातुसमुद्रेषु बोधिसत्त्वचर्यासंदर्शनतायै। अव्यवच्छिन्नं धर्मधातुमवतरामि असंभिन्नतथागतज्ञानमण्डलावतरणतायै। एकोतीभावगतं धर्मधातुमवतरामि यथाशयसर्वसत्त्वविज्ञपनतथागतस्वरमण्डलावतरणतायै। स्वभावविमलं धर्मधातुमवतरामि सर्वजगद्विनयनिष्ठागतपूर्वप्रणिधाननिष्ठावतरणतायै। सर्वजगत्समतानुगतं धर्मधातुमवतरामि समन्तभद्रबोधिसत्त्वचर्याप्रसरप्रवेशाय। एकालंकारं सर्वधर्मधातुमवतरामि समन्तभद्रबोधिसत्त्वचर्याविकुर्वितालंकारावतरणतायै। अविनाशनं धर्मधातुमवतरामि सर्वकुशलधर्मधातुस्फरणविशुद्ध्यविनाशधर्मतायै। एभिरहं कुलपुत्र दशभिराकारैः सर्वधर्मधातुं व्यवलोकयामि अनुगच्छामि प्रसरामि सर्वकुशलमूलसंभारोपचयाय बुद्धमाहात्म्यावतरणतायै अचिन्त्यबुद्धविषयानुगमाय॥



पुनरपरं कुलपुत्र अहमेवं तथागतमाहात्म्यानुगतैर्मनसिकारैर्दशभिर्धारणीमण्डलपरिवर्तसहस्रैः सत्त्वानां धर्मं देशयामि। कतमैर्दशभिः? यदुत सर्वधर्मसमुद्रसमवसरणेन च नाम्ना धारणीमण्डलेन। सर्वधर्माधिष्ठानेन च धारणीमण्डलेन। सर्वधर्ममेघसंप्रतीच्छनेन च धारणीमण्डलेन। सर्वतथागतस्मृतिप्रदीपेन च धारणीमण्डलेन। सर्वसत्त्वकर्मसमुद्रप्रदीपगर्भेण च धारणीमण्डलेन। सर्वयाननयसमुद्रविमलसमवसरणेन च धारणीमण्डलेन। सर्वतथागतनामचक्रावर्तनिर्घोषेण च धारणीमण्डलेन। त्र्यध्वबुद्धपूर्वनिर्वाणप्रणिधानसागरनिर्देशसमवसरणेन च धारणीमण्डलेन। सर्वधर्माभिमुखावर्तवेगेन च धारणीमण्डलेन। सर्वज्ञतावेशप्रभेण च नाम्ना धारणीमण्डलेन। एतानि च कुलपुत्र दश धारणीमण्डलानि प्रमुखं कृत्वा दशभिर्धारणीमण्डलपरिवर्तसहस्रैः सत्त्वानां धर्मं देशयामि॥



पुनरपरं कुलपुत्र श्रुतमय्या प्रज्ञया सत्त्वानां धर्मं देशयामि, चिन्तामय्या भावनामय्या प्रज्ञया सत्त्वानां धर्मं देशयामि। एकमपि भवपरिवर्तमारभ्य सत्त्वानां धर्मं देशयामि। सर्वभवसमुद्रपरिवर्तानप्यारभ्य सत्त्वानां धर्मं देशयामि। एकस्यापि तथागतस्य नामचक्रसमुद्रमारभ्य धर्मं देशयामि। एकमपि लोकधातुसमुद्रमारभ्य धर्मं देशयामि। सर्वलोकधातुसमुद्रानप्यारभ्य धर्मं देशयामि। एकमपि बुद्धव्याकरणसमुद्रामारभ्य धर्मं देशयामि। सर्वतथागतव्याकरणसमुद्रानप्यारभ्य धर्मं देशयामि। एकमपि तथागतपर्षन्मण्डलसमुद्रमारभ्य धर्मं देशयामि। सर्वतथागतपर्षन्मण्डलसमुद्रानप्यारभ्य धर्मं देशयामि। एकमपि तथागतधर्मचक्रमारभ्य धर्मं देशयामि। सर्वतथागतधर्मचक्रसमुद्रानप्यारभ्य धर्मं देशयामि। एकमपि सूत्रान्तमारभ्य धर्मं देशयामि। सर्वतथागतधर्मचक्रसमवसरणानपि सूत्रान्तमारभ्य धर्मं देशयामि। एकमपि तथागतपर्षन्मण्डलसंनिपातमारभ्य धर्मं देशयामि। सर्वतथागतपर्षन्मण्डलसमुद्रानप्यारभ्य धर्मं देशयामि। एकमपि सर्वज्ञताचित्तमारभ्य धर्मं देशयामि। सर्वबोधिचित्ताङ्गसमुद्रानप्यारभ्य धर्मं देशयामि। एकमपि यानमारभ्य धर्मं देशयामि। सर्वयाननिर्याणसमुद्रानप्यारभ्य धर्मं देशयामि। एतत्प्रमुखैरहं कुलपुत्र अनभिलाप्यैर्देशनानयाभिनिर्हारैः सत्त्वानां धर्मं देशयामि। एवमहं कुलपुत्रं धर्मधातुनयासंभिन्नांस्तथागतसमुद्रानवतरमाणा सर्वसत्त्वानां धर्मदेशनया अनुत्तरधर्मसंग्रहं कुर्वाणा समन्तभद्रबोधिसत्त्वचर्यापरान्तकोटीगतान् कल्पसमुद्रान् संवसमाना एतन्मनोज्ञरूतगम्भीरविकुर्वितप्रवेशं बोधिसत्त्वविमोक्षं भावयामि एकैकचित्तक्षणविवर्धनेन विमोक्षविषयभावनानयेन। एकैकेन च विमोक्षविषयभावनानयेन प्रतिचित्तक्षणं सर्वधर्मधातुं स्फरामि॥



सुधन आह-आश्चर्यं देवते यावद्गम्भीर एष बोधिसत्त्वविमोक्षः। कियच्चिरप्रतिलब्धः त्वयायमार्ये बोधिसत्त्वविमोक्षः? आह-भूतपूर्वं कुलपुत्र अतीतेऽध्वनि लोकधातुपरिवर्तपरमाणुरजःसमानां कल्पाणां परेण धर्मार्चिनगरमेघा नाम लोकधातुरभूत् चातुर्द्वीपलोकधातुपरमाणुरजःसमगन्धमणिसुमेरुजालप्रतिष्ठिता सर्वतथागतपूर्वप्रणिधाणनिर्घोषपद्मसंधिव्यूहा सर्वसत्त्वकर्मसमुद्रसंभूतमणिराजसागरशरीरा महापद्मसंस्थाना विशुद्धसंक्लिष्टा सुमेरुपरमाणुरजःसमपुष्पचक्रवालपरिवृता सुमेरुपरमाणुरजःसमगन्धमणिसुमेर्वभ्युद्गतालंकारा सुमेरुपरमाणुरजःसममहाचातुर्द्वीपिकालंकारा। एकैकस्यां चातुर्द्वीपिकायामनभिलाप्यानभिलाप्यनगरकोटीनियुतशतसहस्राण्यभूवन्॥



तस्यां खलु कुलपुत्र लोकधातौ विमलप्रभो नाम कल्पोऽभूत् सुमेरुपरमाणुरजःसमतथागतप्रभवः। तस्यां च धर्मार्चिनगरमेघायां लोकधातौ मध्यमा विचित्रध्वजा नाम चातुर्द्वीपिकाभूत्। तस्या मध्ये समन्तरत्नकुसुमप्रभा नाम राजधान्यभूत्। तस्या राजधान्या नातिदूरे धर्मराजभवनप्रतिभासो नाम बोधिमण्डोऽभूत्। तत्र बोधिमण्डे सर्वधर्मसागरनिर्घोषप्रभराजो नाम तथागत उदपादि तेषां सुमेरुपरमाणुरजःसमानां तथागतानां प्रथमकल्पिकः। तेन च समयेन विमलवक्रभानुप्रभो नाम राजा अभूत् चक्रवर्ती। तेन तस्य भगवतः सर्वधर्मसागरनिर्घोषप्रभराज्ञस्तथागतस्यान्तिकात् सर्वधर्मसागरो नाम सूत्रान्त उद्गृहीतः। उद्गृह्य च धर्मचक्रमनुप्रवर्तितम्। परिनिर्वृतस्य च प्रव्रजित्वाशासनं संधारितम्। शासनान्तर्धानकाले च सहस्रधा भिन्ने शासने दशनयशतभिन्नायां धर्मदेशनायामनन्तरकल्पकषाये प्रत्युपस्थिते सर्वकर्मक्लेशावरणावृतानां सत्त्वानां कलहविग्रहविवादमापन्नानां भिक्षूणां च बुद्धशासनगुणानर्थिकानां विषयरतिपरायणानां राजचौरकथाभिरतानां स्त्रीजनपदसमुद्रकथाभिरतानां लोकायतमन्त्राभिरतानामुद्वेगसंजननार्थं धार्मिक उत्कासः कृतोऽभूत्-अहो बतेयमनेककल्पसमुदानीता महाधर्मोल्का अन्तर्धास्यतीति संवेगजननीया कथा कृता। स ऊर्ध्वं गगनतले सप्ततालमात्रमभ्युद्गम्य अनन्तवर्णानर्चिमेघान्निश्चार्य नानावर्णान् महारश्मिजालव्यूहान् कायादुत्सृज्य अनेकवर्णया प्रभया लोके क्लेशतापं शमयित्वा अनन्तमध्यान् सत्त्वान् बोधौ प्रतिष्ठापयामास। तच्च तथागतशासनं पुनर्ज्वालयित्वा षष्टिवर्षसहस्राण्यस्थात्॥



तेन च समयेन धर्मचक्रनिर्माणप्रभा नाम भिक्षुण्यभूत् तस्यैव विमलचक्रभानुप्रभस्य चक्रवर्तिनो दुहिता भिक्षुणीशतसहस्रपरिवारा। सा तं संवेगशब्दं श्रुत्वा तच्च महाप्रातिहार्यं दृष्ट्वा सपरिवारा बोधाय चित्तमुत्पादयामास। तच्च भिक्षुणीशतसहस्रमनुत्तरायां सम्यक्संबोधाववैवर्तिकमभूत्। तथागतसंमुखीभावसमवसरणं च नाम समाधिं प्रत्यलभत। सर्वतथागतधर्मचक्रनिर्माणप्रभं च नाम धारणी सर्वधर्मसागरनयप्रवेशां च नाम प्रज्ञापारमितां प्रत्यलभत। धर्मचक्रनिर्माणप्रभा च भिक्षुणी सर्वतथागतशासनसंभवावभासप्रदीपं च नाम समाधिम्, एतं च मनोज्ञरुतगम्भीरविकुर्वितप्रवेशं च बोधिसत्त्वविमोक्षं सूक्ष्ममृदुकं प्रत्यलभत, यत्प्रतिलाभादस्य सर्वधर्मसागरनिर्घोषप्रभराजस्य तथागतस्य तत्सर्वं विकुर्वितमामुखीभूतम्॥



तत्किं मन्यसे कुलपुत्र अन्यः स तेन कालेन तेन समयेन विमलवक्त्रभानुप्रभो नाम राजाभूच्चक्रवर्ती येन तत्सर्वधर्मसागरनिर्घोषप्रभराज्ञस्तथागतस्य शासने प्रव्रजित्वा धर्मचक्रमनुप्रवर्तितम्, परिनिर्वृत्तस्य च शासनान्तर्धानकालसमये शासनं संधारितम्, महाधर्मोल्का च ज्वलिता? न खलु पुनस्ते कुलपुत्र एवं द्रष्टव्यम्। समन्तभद्रो बोधिसत्त्वः स तेन कालेन तेन समयेन विमलवक्त्रभानुप्रभो नाम राजा अभूच्चक्रवर्ती। तत्किं मन्यसे कुलपुत्र अन्या सा तेन कालेन तेन समयेन विमलवक्त्रभानुप्रभस्य राज्ञश्चक्रवर्तिनो धर्मचक्रनिर्माणप्रभा नाम दुहिता भिक्षुण्यभूद्भिक्षुणीशतसहस्रपरिवारा? न खल्वेवं द्रष्टव्यम्। अहं सा तेन कालेन तेन समयेन धर्मचक्रनिर्माणप्रभा नाम भिक्षुण्यभूवम्? मया तत्तस्य सर्वधर्मसागरनिर्घोषप्रभराज्ञस्तथागतस्य शासनं संधारितम्। तच्च भिक्षुणीशतसहस्रं सर्वमवैवर्तिकं कृतमनुत्तरायां सम्यक्संबोधौ। तथागतसंमुखीभावसमवसरणे च समाधौ प्रतिष्ठापितम्। सर्वतथागतधर्मचक्रवज्रप्रभायां धारण्यां सर्वधर्मसागरनयप्रवेशायां च प्रज्ञापारमितायां प्रतिष्ठापितम्॥



तस्य च मया तथागतस्यानन्तरं विमलधर्मपर्वतज्ञानशिखराभो नाम तथागत आरागितः। तस्यानन्तरं मण्डलावभासप्रभचूडो नाम तथागत आरागितः। तस्यानन्तरं धर्मभास्करश्रीमेघो नाम तथागत आरागितः। तस्यानन्तरं धर्मसागरनिर्देशघोषो नाम तथागत आरागितः। तस्यानन्तरं धर्मादित्यज्ञानमण्डलप्रदीपो नाम तथागत आरागितः। तस्यानन्तरं धर्मकुसुमकेतुध्वजमेघो नाम तथागत आरागितः। तस्यानन्तरं धर्मार्चिःपर्वतकेतुराजो नाम तथागत आरागितः। तस्यानन्तरं धर्मनयगम्भीरश्रीचन्द्रो नाम तथागत आरागितः। तस्यानन्तरं धर्मज्ञानसंभवसमन्तप्रतिभासगर्भो नाम तथागत आरागितः। तस्यानन्तरं ज्ञानाकरचूडो नाम तथागत आरागितः। तस्यानन्तरं शैलेन्द्रश्रीगर्भराजो नाम तथागत आरागितः। तस्यानन्तरं समन्तमुखज्ञानभद्रमेरुर्नाम तथागत आरागितः। तस्यानन्तरं सर्वधर्मवीर्यवेगध्वजो नाम तथागत आरागितः। तस्यानन्तरं धर्मरत्नकुसुमश्रीमेघो नाम तथागत आरागितः। तस्यानन्तरं शान्तिप्रभगम्भीरकूटो नाम तथागत आरागितः। तस्यानन्तरं रश्मिनेत्रप्रतिभासप्रभचन्द्रो नाम तथागत आरागितः। तस्यानन्तरं ज्ञानार्चिश्रीसागरो नाम तथागत आरागितः। तस्यानन्तरं समन्तज्ञानभद्रमण्डलो नाम तथागत आरागितः। तस्यानन्तरं अध‍ऊर्ध्वदिग्ज्ञानावभासो नाम तथागत आरागितः। तस्यानन्तरं रश्मिसंकुसुमितप्रदीपो नाम तथागत आरागितः। तस्यानन्तरं ज्ञानसिंहकेतुध्वजराजो नाम तथागत आरागितः। तस्यानन्तरं समन्तसूर्यावभासप्रभराजो नाम तथागत आरागितः। तस्यानन्तरं रत्नलक्षणविभूषितमेरुर्नाम तथागत आरागितः। तस्यानन्तरं सूर्यविक्रमसमन्तप्रतिभासो नाम तथागत आरागितः। तस्यानन्तरं धर्मजालविबुद्धश्रीचन्द्रो नाम तथागत आरागितः। तस्यानन्तरं धर्मपद्मप्रफुल्लितश्रीमेघो नाम तथागत आरागितः। तस्यानन्तरं लक्षणसूर्यचक्रसमन्तप्रभो नाम तथागत आरागितः। तस्यानन्तरं समन्तावभासधर्मश्रीघोषो नाम तथागत आरागितः। तस्यानन्तरं वैशारद्यवज्रनारायणसिंहो नाम तथागत आरागितः। तस्यानन्तरं समन्तज्ञानध्वजशूरो नाम तथागत आरागितः। तस्यानन्तरं धर्मपद्मफुल्लगात्रो नाम तथागत आरागितः। तस्यानन्तरं गुणकुसुमश्रीसागरो नाम तथागत आरागितः। तस्यानन्तरं धर्मधनशिखराभस्कन्धो नाम तथागत आरागितः। तस्यानन्तरं ज्ञानशिखरार्चिमेघो नाम तथागत आरागितः। तस्यानन्तरं समन्तधर्मद्वारवहनशिखराभो नाम तथागत आरागितः। तस्यानन्तरं बोधिमण्डविबुद्धश्रीचन्द्रो नाम तथागत आरागितः। तस्यानन्तरं धर्मोल्काज्वलनश्रीचन्द्रो नाम तथागत आरागितः। तस्यानन्तरं समन्तप्रतिभासचूडो नाम तथागत आरागितः। तस्यानन्तरं धर्ममेघध्वजप्रदीपो नाम तथागत आरागितः। तस्यानन्तरं वज्रसागरध्वजमेघो नाम तथागत आरागितः। तस्यानन्तरं यशःपर्वतश्रीमेघो नाम तथागत आरागितः, तस्यानन्तरं चन्दनश्रीचन्द्रो नाम तथागत आरागितः। तस्यानन्तरं समन्तश्रीकुसुमतेजाभोनाम तथागत आरागितः। तस्यानन्तरं सर्वसत्त्वावभासतेजो नाम तथागत आरागितः। तस्यानन्तरं गुणपद्मश्रीगर्भो नाम तथागत आरागितः। तस्यानन्तरं गन्धार्चिरवभासराजो नाम तथागत आरागितः। तस्यानन्तरं हेतुपद्मो नाम तथागत आरागितः। तस्यानन्तरं लक्षणपर्वतवैरोचनो नाम तथागत आरागितः। तस्यानन्तरं समन्तविघुष्टकीर्तिध्वजो नाम तथागत आरागितः। तस्यानन्तरं समज्ञानप्रभामेरुर्नाम तथागत आरागितः। तस्यानन्तरं धर्मनगरप्रभश्रीर्नाम तथागत आरागितः। तस्यानन्तरं द्रुमपर्वततेजो नाम तथागत आरागितः। तस्यानन्तरं समन्तश्रीवैरोचनकेतुर्नाम तथागत आरागितः। तस्यानन्तरं धर्मसागरनिर्नादनिर्घोषो नाम तथागत आरागितः। तस्यानन्तरं सर्वधर्मभावनारम्भसंभवतेजो नाम तथागत आरागितः। तस्यानन्तरं समन्तज्ञानाभप्रवरो नाम तथागत आरागितः। तस्यानन्तरं वरलक्षणश्रीर्नाम तथागत आरागितः। तस्यानन्तरं धर्मबलशूलध्वजो नाम तथागत आरागितः। तस्यानन्तरं धर्मचक्रप्रभनिर्घोषो नाम तथागत आरागितः। तस्यानन्तरं रश्मिगुणमकुटज्ञानप्रज्ञाप्रभो नाम तथागत आरागितः। तस्यानन्तरं धर्मचक्रचन्द्रोद्गतश्रीर्नाम तथागत आरागितः। तस्यानन्तरं धर्मपद्मवैरोचनविबुद्धकेतुर्नाम तथागत आरागितः। तस्यानन्तरं रत्नपद्मावभासगर्भो नाम तथागतः आरागितः। तस्यानन्तरं रत्नश्रीशिखरमेधप्रदीपो नाम तथागत आरागितः। तस्यानन्तरं समन्तसूचिसुविशुद्धज्ञानकुसुमो नाम तथागत आरागितः। तस्यानन्तरं नानारश्मिश्रीमेरुगर्भो नाम तथागत आरागितः। तस्यानन्तरं रश्मिमण्डलशिखरराजो नाम तथागत आरागितः। तस्यानन्तरं पुण्यमेघचूडो नाम तथागत आरागितः। तस्यानन्तरं धर्मशिखरध्वजमेघो नाम तथागत आरागितः। तस्यानन्तरं गुणपर्वततेजो नाम तथागत आरागितः। तस्यानन्तरं धर्मसूर्यमेघप्रदीपो नाम तथागत आरागितः। तस्यानन्तरं धर्ममेघविघुष्टकीर्तिराजो नाम तथागत आरागितः। तस्यानन्तरं धर्ममण्डलपटलमेघो नाम तथागत आरागितः। तस्यानन्तरं विबुद्धज्ञानबोधिध्वजतेजो नाम तथागत आरागितः। तस्यानन्तरं धर्ममण्डलविबुद्धश्रीचन्द्रो नाम तथागत आरागितः। तस्यानन्तरं कनकमणिपर्वततेजोभद्रो नाम तथागत आरागितः। तस्यानन्तरं भद्रश्रीमेरुतेजो नाम तथागत आरागितः। तस्यानन्तरं समन्तप्रज्ञप्तिनिर्घोषमेघो नाम तथागत आरागितः। तस्यानन्तरं धर्ममलश्रीकूटो नाम तथागत आरागितः। तस्यानन्तरं गन्धार्चिमेघश्रीराजो नाम तथागत आरागितः। तस्यानन्तरं कनकमणिपर्वतघोषो नाम तथागत आरागितः। तस्यानन्तरं उष्णीषकोशसर्वधर्मप्रभामण्डलमेघो नाम तथागत आरागितः। तस्यानन्तरं धर्मचक्रज्वलनतेजो नाम तथागत आरागितः। तस्यानन्तरं शैलशिखराभ्युद्गततेजो नाम तथागत आरागितः। तस्यानन्तरं समन्तवीर्योल्कावभासमेघो नाम तथागत आरागितः। तस्यानन्तरं समाधिमुद्राविपुलमकुटप्रज्ञाप्रभो नाम तथागत आरागितः। तस्यानन्तरं रत्न‍रुचिरश्रीराजो नाम तथागत आरागितः। तस्यानन्तरं धर्मोल्कारत्नवितानघोषो नाम तथागत आरागितः। तस्यानन्तरं धर्मगगनकान्तसिंहप्रभो नाम तथागत आरागितः। तस्यानन्तरं लक्षणविभूषितध्वजचन्द्रो नाम तथागत आरागितः। तस्यानन्तरं रश्मिपर्वतविद्योतितमेघो नाम तथागत आरागितः। तस्यानन्तरं अनावरणधर्मगगनप्रभो नाम तथागत आरागितः। तस्यानन्तरं लक्षणरुचिरसुपुष्पिताङ्गो नाम तथागत आरागितः। तस्यानन्तरं लोकेन्द्रप्रवरप्रभघोषो नाम तथागत आरागितः। तस्यानन्तरं सर्वधर्मसमाधिप्रभघोषो नाम तथागत आरागितः। तस्यानन्तरं द्वारस्वरप्रभूतकोशो नाम तथागत आरागितः। तस्यानन्तरं धर्मज्वलनार्चिःसागरघोषो नाम तथागत आरागितः। तस्यानन्तरं त्र्यध्वलक्षणप्रतिभासतेजो नाम तथागत आरागितः। तस्यानन्तरं धर्ममण्डलश्रीशिखराभप्रभो नाम तथागत आरागितः। तस्यानन्तरं धर्मधातुसिंहप्रभो नाम तथागत आरागितः। तस्यानन्तरं सर्वसमाधिसागरावभाससिंहो नाम तथागत आरागितः। तस्यानन्तरं समन्तज्ञानप्रभासो नाम तथागत आरागितः। तस्यानन्तरं समन्तप्रज्ञाभधमर्नगरप्रदीपो नाम तथागत आरागितः॥



इति हि कुलपुत्र एतद्बुद्धशतं प्रमुखं कृत्वा तस्मिन् विमलाभे कल्पे सुमेरुपरमाणुरजःसमास्तथागता उत्पन्ना अभूवन्। तेषां पुनः कुलपुत्र सुमेरुपरमाणुरजःसमानां तथागतानां सर्वपश्चिमो धर्मधातुनगराभज्ञानप्रदीपराजो नाम तथागतोऽभूत्। ते खलु मया कुलपुत्र सुमेरुपरमाणुरजःसमास्तथागताः सर्वधर्मसागरनिर्घोषप्रभराजपूर्वंगमा धर्मधातुनगराभज्ञानप्रदीपराजपश्चिमाः सर्वे पूजिताः। सर्वेषां च मे तथागतानामुपस्थानं कृतम्। सर्वेषां च धर्मदेशना श्रुता। सर्वेषां च तेषामहं तथागतानां शासने प्रव्रजिता। सर्वेषां च मे तेषां तथागतानां शासनं संधारितम्। सर्वेषां च मया तेषां तथागतानामन्तिकादेष मनोज्ञरुतगम्भीरविकुर्वितप्रवेशो बोधिसत्त्वविमोक्षो विविधैः प्रतिलाभनयैः प्रतिलब्धः। सर्वेषां च मया तेषां तथागतानामन्तिकादनन्तमध्याः सत्त्वसागराः परिपाचिताः। ततोऽर्वाग्बुद्धक्षेत्रपरमाणुरजःसमेषु यावन्तस्तथागता उत्पन्नाः, सर्वे ते मया तथागताः धर्मप्रतिपत्त्या पूजिताः। सा खलु पुनरहं कुलपुत्र तत उपादाय संसाररात्रिगतेषु सत्त्वेषु अज्ञाननिद्राप्रसुप्तेषु जागर्मि, चित्तनगरं चैषां परिपालयामि, त्रैधातुकनगराच्चैनानुच्चाल्य सर्वज्ञताधर्मनगरे प्रतिष्ठापयामि॥



एतमहं कुलपुत्र मनोज्ञरुतगम्भीरविकुर्वितप्रवेशं बोधिसत्त्वविमोक्षं लोकसंभिन्नप्रलापविनिवर्तनमद्वयभणिताविनियोजनं सत्यप्रतिष्ठापनपर्यवसानं जानामि। किं मया शक्यं बोधिसत्त्वानामविप्रतिबद्धसर्ववाक्पथस्वभावज्ञानानां प्रतिचित्तक्षणं सर्वधर्माभिसंबोधिवशवर्तिनां सर्वसत्त्ववचनरुतघोषसागरावतीर्णानां सर्वमन्त्रसमुद्रसंस्कारकुशलानां सर्वधर्मसंख्यानामसमुद्रनयविधिज्ञानां सर्वधर्मसमवसरणधारणीसमुद्रवशवर्तिनां सर्वसत्त्वयथाशयधर्ममेघाभिनिर्हारकुशलानां सर्वसत्त्वपरिपाकविनयचर्यापर्यवसानानां चर्यां ज्ञातुं गुणान् वा वक्तुम्, सर्वसत्त्वसंग्रहप्रतिपत्तिर्वा ज्ञातुम्, अनुत्तरो बोधिसत्त्वकर्मसमारम्भप्रयोगो वा बोधिसत्त्वसूक्ष्मज्ञानानुगमो वा बोधिसत्त्वधर्मनिधानकोशविभक्तवृषभिता बोधिसत्त्वकर्मसांकथ्यसिंहासनाक्रमणं वा ज्ञातुम्। तत्कस्य हेतोः? तथा हि ते सत्पुरुषाः सर्वधर्मभूमिमण्डलधारण्यवक्रान्ताः॥



गच्छ कुलपुत्र, इयमिहैव भगवतो वैरोचनस्य पादमूले सर्ववृक्षप्रफुल्लनसुखसंवासा नाम रात्रिदेवता संनिपतिता, या ममानन्तरं संनिषण्णा। तामुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वाः सर्वज्ञतायां शिक्षन्ते, कथं च प्रतिपद्यमानाः सर्वसत्त्वान् सर्वज्ञतायां प्रतिष्ठापयन्ति॥



अथ खलु सर्वनगररक्षासंभवतेजःश्री रात्रिदेवता तस्यां वेलायामेतमेव मनोज्ञरुतगम्भीरविकुर्वितप्रवेशं बोधिसत्त्वविमोक्षं भूयस्या मात्रया संदर्शयमाना सुधनं श्रेष्ठिदारकं गाथाभिरध्यभाषत—



गम्भीर दुर्दृशु विमोक्ष जिनात्मजानां

आकाशलक्षणसमन्ततलप्रवेशः।

त्र्यध्वस्थितानवतरन्ति जिनानशेषान्

यैर्धर्मधातुप्रसरां च अनन्तमध्यान्॥१॥



संभारसंभवविमोक्षनयाननन्तान्

प्रतिलाभ धर्मत अचिन्तिय अप्रमेयान्।

संवर्धनामपि समन्त असङ्गवेगम्

अवगाह मैत्रिषु त्रियध्वनयष्पथेषु॥२॥



इति बुद्धक्षेत्रपरिवर्तरजःसमानां

कल्पानमादिगतमास पुरा हि क्षेत्रम्।

धर्मार्चिमेघनगरः शिरिलोकधातु

कल्पो बभूव विमलाभ महाप्रभश्च॥३॥



तत्रैव कल्पि जिनवंशि अनूपछिन्ने

बुद्धाः सुमेरुपरमाणुसमा उपन्नाः।

धर्मसमुद्रप्रभगर्जितराज बुद्धः

पुर्वंगमः प्रथमकल्पिक आसि तेषाम्॥४॥



जिनु धर्ममेघनगराभप्रदीपराजो

यः सर्वपश्चिमु अभूत्सुगतान तेषाम्।

ते सर्वि पूजित मया उपसंक्रमित्वा

धर्मश्च तेष मि श्रुतो जनयित्व प्रीतिम्॥५॥



दृष्टो मया प्रथमु काञ्चनवर्णरश्मिः

धर्मः समुद्रप्रभगर्जितघोषराजः।

द्वात्रिंशल्लक्षणविचित्रितु मेरुकल्पो

दृष्ट्वा च मे मतिरभूत्सुगतो भवेयम्॥६॥



सहदर्शनेन मम तस्य तथागतस्य

प्रादुर्बभूव बलवज्जिनचित्तमाद्यम्।

सर्वज्ञताप्रसरसंभवप्रत्ययेभिः

आकाशधातुविमलं तथतास्वभावम्॥ ७॥



येन त्रियध्वगत सर्वि स्फुटाः समन्तात्

बुद्धाश्च तत्सुतसमुद्रवृता अशेषाः।

क्षेत्रार्णवा अपि समुद्र सर्वे

आसन् कृपामृतमहोदधि संभवेत॥८॥



कायेन सर्वि स्फरणार्थमशेष क्षेत्रा

कायं यथाशयजगद्विनिदर्शनाय।

क्षेत्राण्यशेषमवभासनकम्पनाय

पाकाय चैव जगतां जनितं मनो मे॥९॥



द्वितीये यज्जिनस्य उपसंक्रमणेऽपि दृष्टाः

क्षेत्रार्णवेषु दशसु स्थित ये जिनेन्द्राः।

क्षेत्राः समुद्रपरमाणुरजःसमेषु

क्षेत्रार्णवेषु जिन पश्चिमके मि दृष्टाः॥१०॥



सर्वान्तक्षेत्रपरिवर्तरजःसमेषु

कल्पेषु ये जिन उपन्न जगत्प्रदीपाः।

ते सर्वि पूजित मया उपसंक्रमित्वा

एवं विमोक्षनयसागरु शोधयेयम्॥११॥



अथ खलु सुधनः श्रेष्ठिदारको मनोज्ञरुतगम्भीरविकुर्वितप्रवेशं बोधिसत्त्वविमोक्षं प्रतिलब्धः अनन्तमध्यसमाधिमुखसमुद्रावतीर्णो विपुलधारणीमुखसमुद्रसंभूतचेता बोधिसत्त्वमहाभिज्ञावभासप्रतिलब्धो महाप्रीतिसंवित्सागरावतीर्णो विपुलप्रीतिवेगसागरविवर्धितचेताः सर्वनगररक्षासंभवतेजःश्रियं रात्रिदेवतामाभिः सारूप्याभिर्गाथाभिरभ्यष्टावीत्—



प्रज्ञा हि ते विपुल धर्मसमुद्रचारी

चीर्णा च मे भवसमुद्र अनन्तमध्यान्।

दीर्घायु निर्ज्वर सुज्ञानशरीरगर्भे

त्वं देवि रोचसि इमां परिषामुपेत्य॥१२॥



बुध्यित्व धर्मप्रकृतिं गगनप्रकाशां

सर्वत्रियध्वनयमोतरसे असङ्गम्।

आरम्बणानि तुलयस्यपि चाविकल्पा

चित्तक्षणेन अपि तानि अचिन्तियानि॥१३॥



निःसत्त्वधर्मत निरीक्षसि ज्ञानचक्षुः

सत्त्वोदधीन् करुणयावतरस्यनन्तान्।

बुद्ध्या विमोक्ष सुगभीर विगाहमाना

सर्वान् विनेसि परिपाचयसेऽप्रमेयान्॥१४॥



त्वं धर्ममण्डलविचारनये विधिज्ञा

धर्मस्वभावप्रतिवेधनये विबुद्धा।

सर्वार्यमार्गममलं परिभावयन्ती

निर्यात्यसे जगदशेष विशोधयन्ती॥१५॥



त्वं सत्त्वसारथिवरानभिभूत देवि

सर्वज्ञज्ञानममलं प्रतिग्राहमाना।

त्वं धर्मधातुगत सर्वि स्फरित्व सत्त्वान्

धर्मं प्रकाश्य भय सर्वि शमेसि लोके॥१६॥



वैरोचनप्रणिधिमार्गनयेन देवि

यास्यस्यसङ्गविपुलामलबुद्धियुक्ता।

सर्वत्र जिनबलं प्रतिपद्यमाना

संपश्यसे जिनविकुर्वित सर्वक्षेत्रैः॥१७॥



चित्तं दुरासदु तवा गगनप्रकाशं

सर्वे किलेशमलि निर्मलमादिशुद्धम्।

यस्मिन् समोसरि त्रियध्वग सर्वक्षेत्रा

बुद्धाश्च सात्मजगणाः सह सर्वसत्त्वैः॥१८॥



रात्रिंदिवं क्षणलवानृतुपक्षमासान्

संवत्सरांश्च सविनाशवितर्ककल्पान्।

कल्पार्णवानपि सनामसमुद्रसंख्यान्

संज्ञोदधीन् जगतां विदर्शयसि क्षणेन॥१९॥



दिशतासु यावत तु सत्त्वच्युतोपपादा

ये रूपिणामपि च संज्ञि‍असंज्ञिनां च।

व्यवहारसत्यनय ओतरमाणा तेषां

मार्गं विदर्श्य वरबोधिपथे प्रणेसि॥२०॥



वैरोचनप्रणिधिजालकुलात् प्रसृता

प्रभूतसर्वसुगतैकसमुच्छ्रयाच्च।

त्वं धर्मकायपरिशुद्ध असङ्गचित्ता

रूपं विदर्शयमि लोकि यथाशयानाम्॥२१॥



अथ खलु सुधनः श्रेष्ठिदारकः सर्वनगररक्षासंभवतेजःश्रियं रात्रिदेवतामाभिः सारूप्याभिर्गाथाभिरभिष्टुत्य सर्वनगररक्षासंभवतेजःश्रियो रात्रिदेवतायाः पादौ शिरसाभिवन्द्य सर्वनगररक्षासंभवतेजःश्रियं रात्रिदेवतामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य सर्वनगररक्षासंभवतेजःश्रियो रात्रिदेवताया अन्तिकात्प्रक्रान्तः॥३७॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project