Digital Sanskrit Buddhist Canon

३८ प्रशान्तरुतसागरवती

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

38 praśāntarutasāgaravatī

३८ प्रशान्तरुतसागरवती।



अथ खलु सुधनः श्रेष्ठिदारकः समन्तसत्त्वत्राणोजःश्रियो रात्रिदेवतायास्तं सर्वलोकाभिमुखजगद्विनयनिदर्शनं बोधिसत्त्वविमोक्षं भावयन् अवतरन् अधिमुच्यमानोऽवगाहयमानो विपुलीकुर्वाणः स्फरन् प्रसरन् वशीकुर्वन् अवभासयमानः समवसरन् येन प्रशान्तरुतसागरवती रात्रिदेवता तेनोपसंक्रम्य प्रशान्तरुतसागरवत्या रात्रिदेवतायाः पादौ शिरसाभिवन्द्य प्रशान्तरुतसागरवतीं रात्रिदेवतामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य प्रशान्तरुतसागरवत्या रात्रिदेवतायाः पुरतः प्राञ्जलिः स्थित्वा एवमाह-अहमार्ये देवते अनुत्तरायां सम्यक्संबोधौ संप्रस्थितः। सोऽहं कल्याणमित्रसंनिश्रयेण बोधिसत्त्वचर्यायां शिक्षमाणो बोधिसत्त्वचर्यामवतरन् बोधिसत्त्वचर्यायां प्रतिपद्यमानो बोधिसत्त्वचर्यायां प्रतिष्ठितः सर्वज्ञतायां निर्यातुमिच्छामि। तद्वदस्व मे आर्ये देवते कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्॥



अथ खलु प्रशान्तरुतसागरवती रात्रिदेवता सुधनं श्रेष्ठिदारकमेतदवोचत्-साधु साधु कुलपुत्र, यस्त्वं कल्याणमित्रसंनिश्रयेण बोधिसत्त्वचर्यासागरं परिमार्गसि। अहं कुलपुत्र विपुलप्रीतिवेगसंभवचित्तक्षणव्यूहस्य बोधिसत्त्वविमोक्षस्य लाभिनी। सुधन आह-किंकर्मासि देवते, किंविषयासि, किंप्रयोगा किंव्यवचारा? क एतस्य विपुलप्रीतिवेगसंभवचित्तक्षणव्यूहस्य बोधिसत्त्वविमोक्षस्य विषयः? सा अवोचत्-अहं कुलपुत्र चित्ताशयसागरपरिशुद्धिसमताप्रतिपन्ना सर्वलोकरजोमलविमलाभेद्यव्यूहसंप्रतिपन्ना अवैवर्त्याप्रत्युदावर्त्यारम्भचित्ता रत्नपर्वतगुणालंकाराकम्प्यचित्ता अप्रतिष्ठितानालयचित्ता सर्वजगत्परित्राणाभिमुखचित्ता सर्वबुद्धसमुद्रदर्शनावितृप्तचित्ता सर्वबोधिसत्त्वबलाशयविशुद्धचित्ता महाज्ञानावभासव्यूहस्मृतिसागरसंवासचित्ता सर्वसत्त्वशोककान्तारसमतिक्रमणाय प्रतिपन्ना, सर्वसत्त्वदुःखदौर्मनस्यविनिवर्तनायाभियुक्ता, सर्वसत्त्वानां नामरूपशब्दगन्धरसस्पर्शसमुदाचारविनिवर्तनाय प्रतिपन्ना, सर्वसत्त्वानां प्रियाप्रियविप्रयोगसंप्रयोगदुःखव्युपशमाय प्रतिपन्ना, सर्वसत्त्वानां विषयप्रत्ययसंभवसंमोहदुःखविनिवर्तनप्रयुक्ता, विनिपतितसर्वसत्त्वप्रतिशरणभूता सर्वसत्त्वसंसारसंवासदुःखनिःसरणसंदर्शनाभियुक्ता, सर्वसत्त्वानां जातिजरामरणशोकपरिदेवदुःखदौर्मनस्योपायासविनिवर्तनाय प्रतिपन्ना, सर्वसत्त्वानामनुत्तरतथागतसुखपरिनिष्पत्तये प्रतिपन्ना, सर्वग्रामनगरनिगमजनपदराष्ट्रराजधानीगतानां सत्त्वानां सुखोपस्थानेन तुष्टिं विन्दामि, तेषां च धार्मिकीं रक्षावरणगुप्तिं संविदधामि। अनुपूर्वेण च तान् सर्वज्ञतायां परिपाचयामि। यदुत महाभवनविमानगतानां सत्त्वानामनभिरतिं संजनयामि। तानि तानि च दौर्मनस्यानि व्यपनयामि। सर्वाभिनिवेशव्यवच्छेदाय सर्वधर्मस्वभावपरिज्ञायै च धर्मं देशयामि। मातापितृभ्रातृभगिनीज्ञातिसालोहितसमवधानगतानां सत्त्वानां चिरकालसंजातस्नेहानां बुद्धबोधिसत्त्वसमवधानप्रतिलाभाय धर्मं देशयामि। भार्यापुत्रसमवधानगतानां सत्त्वानां सर्वसंसाररतितृष्णाप्रहाणाय सर्वसत्त्वसमचित्ततायै महाकरुणाप्रतिलाभाय धर्मं देशयामि। अन्तरापणमध्यगतानां सत्त्वानामार्यसंघतथागतदर्शनसमवधानसमवसरणतायै धर्मं देशयामि। भोगमदमत्तानां सत्त्वानां क्षान्तिपारमितापरिपूरणाय धर्मं देशयामि। नृत्तगीतवाद्याभिरतानां सत्त्वानां धर्मारामरत्यै धर्मं देशयामि। विषयरतिगृद्धानां सत्त्वानां तथागतविषयसमवसरणतायै धर्मं देशयामि। क्रोधाविष्टानां सत्त्वानां क्षान्तिपारमिताप्रतिष्ठापनतायै धर्मं देशयामि। कुसीदानां सत्त्वानां वीर्यपारमितापरिशुद्धये धर्मं देशयामि। विभ्रान्तचित्तानां सत्त्वानां तथागतध्यानपारमिताप्रतिलाभाय धर्मं देशयामि। दृष्टिकृतगहनप्रस्कन्नानां सत्त्वानामविद्यान्धकारपतितानां दृष्टिकृतगहनाविद्यान्धकारविनिवर्तनतायै धर्मं देशयामि। दुष्प्रज्ञानां सत्त्वानां प्रज्ञापारमिताप्रतिलाभाय धर्मं देशयामि। त्रैधातुकाभिनिविष्टानां सत्त्वानां संसारदुःखनिःसरणाय धर्मं देशयामि। हीनाधिमुक्तानां सत्त्वानां तथागतबोधिप्रणिधानपरिपूरये धर्मं देशयामि। आत्महितप्रयुक्तानां सत्त्वानां सर्वसत्त्वहितावहनप्रणिधानपरिपूरये धर्मं देशयामि। दुर्बलाध्याशयानां सत्त्वानां बोधिसत्त्वबलपारमिताविशुद्धये धर्मं देशयामि। अविद्यातमोन्धकारचेतसां सत्त्वानां बोधिसत्त्वज्ञानपारमिताविशुद्धये धर्मं देशयामि। विरूपकायानां सत्त्वानां तथागतरूपकायविशुद्धये धर्मं देशयामि। विसंस्थितशरीराणां सत्त्वानामनुत्तरधर्मकायविशुद्धये धर्मं देशयामि। दुर्वर्णानां सत्त्वानां सूक्ष्मतथागतसुवर्णवर्णच्छवितायै काचिलिन्दिकसुखसंस्पर्शशरीरताविशुद्धये धर्मं देशयामि। दुःखितानां सत्त्वानामत्यन्ततथागतसुखप्रतिलाभाय धर्मं देशयामि। सुखितानां सत्त्वानां सर्वज्ञतासुखप्रतिलाभाय धर्मं देशयामि। ग्लानानामातुराणां सत्त्वानां प्रतिभासोपमबोधिसत्त्वकायपरिनिष्पत्तये धर्मं देशयामि। विचित्ररतिप्रसक्तानां सत्त्वानां बोधिसत्त्वचर्यारतिप्रतिलाभाय धर्मं देशयामि। दरिद्राणां सत्त्वानां बोधिसत्त्वधर्मनिधानकोशप्रतिलाभाय धर्मं देशयामि। उद्यानगतानां सत्त्वानां बुद्धधर्मपर्येष्ट्यभियोगाहेतुतायै धर्मं देशयामि। मार्गगतानां सत्त्वानां सर्वज्ञतामार्गप्रतिपत्तये धर्मं देशयामि। ग्रामगतानां सत्त्वानां सर्वत्रैधातुकनिःसरणतायै धर्मं देशयामि। जनपदप्रदेशगतानां सत्त्वानां श्रावकप्रत्येकबोधिमार्गसमतिक्रमाय तथागतभूमिप्रतिष्ठापनतायै धर्मं देशयामि। नगरगतानां सत्त्वानां धर्मराजनगरावभासनतायै धर्मं देशयामि। विदिग्गतानां सत्त्वानां त्र्यध्वसमताज्ञानप्रतिलाभाय धर्मं देशयामि। दिग्गतानां सत्त्वानां सर्वधर्मज्ञानाभिज्ञतायै धर्मं देशयामि। एकान्तरागचरितानां सत्त्वानामशुभमुखेन सर्वसंसाररतितृष्णाविनिवर्तनतायै धर्मं देशयामि। दोषचरितानां सत्त्वानां महामैत्रीनयसागरावतरणतायै धर्मं देशयाति। मोहचरितानां सत्त्वानां सर्वधर्ममुखसमुद्रप्रविचयज्ञानाभिज्ञतायै धर्मं देशयामि। समभागचरितानां सत्त्वानां सर्वयानप्रणिधाननयसागरवैशेषिकतायै धर्मं देशयामि। संसारविषयरत्याशयानां सत्त्वानां संसारविषयरतिविनिवर्तनतायै धर्मं देशयामि। सर्वसंसारदुःखस्पृष्टानां सत्त्वानां सर्वसंसारदुःखानुपक्लिष्टतायै धर्मं देशयामि। तथागतवैनयिकानां सत्त्वानामनुत्पादपदसंप्रकाशनतायै धर्मं देशयामि। स्कन्धनिकेताशयानां सत्त्वानामनालयधर्मगोचरविहारतायै धर्मं देशयामि। संलीनाशयानां सत्त्वानां मार्गव्यूहविशेषसंप्रकाशनतायै धर्मं देशयामि। अधिमानप्राप्तानां सत्त्वानां सर्वधर्मसमताक्षान्तिं संप्रकाशयामि। मायाशाठ्यविषयाशयानां सत्त्वानां बोधिसत्त्वाशयपरिशुद्धिं संप्रकाशयामि॥



एवमहं कुलपुत्र सर्वसत्त्वान् धर्मदानेन संगृह्य सर्वदुःखदुर्गतिपथेभ्यो विनिवर्तयमाना देवमनुष्यसंपत्तिसुखानि संदर्शयमाना त्रैधातुकादुच्चालयमाना सर्वज्ञतायां प्रतिष्ठापयमाना विविधैरुपायमुखैः परिपाचयमाना महाप्रीतिवेगसमुद्रावभासप्रतिलब्धा मोदामि, प्रमोदामि, आत्तमनस्का भवामि। अपि तु खलु पुनरहं कुलपुत्र सर्वदिग्विदिक्षु बोधिसत्त्वपर्षन्मण्डलसमुद्रानवलोकयमाना नानाप्रणिधानचरितानां बोधिसत्त्वानां नानाकायविशुद्धानां नानाप्रभामण्डलव्यूहानामनन्तवर्णरश्मिप्रभामण्डलं प्रमुञ्चमानानां नानासर्वज्ञतानयसागरप्रसृतज्ञानालोकानां नानासमाधिसमुद्रावतीर्णानां नानाविकुर्वितविषयाणां नानास्वराङ्गरुतसागरनिर्घोषाणां नानाभरणविभूषितशरीराणां नानातथागतनयावतीर्णानां नानाक्षेत्रसमुद्रप्रसरप्रसृतशरीराणां नानाबुद्धसागरावतीर्णानां नानाप्रतिसंविन्नयसागरावतीर्णानां नानातथागतविमोक्षज्ञानविषयावभासितानां नानाज्ञानसागरावभासप्रतिलब्धानां नानासमाधिसमुद्रनयविहारिणां नानाधर्मविमोक्षविनयविक्रीडितविषयाणां नानासर्वज्ञताद्वाराभिमुखानां नानाधर्मधातुगगनव्यूहानां नानाव्यूहमेघगगनस्फरणानां नानापर्षन्मण्डलसमुद्रव्यवलोकयितॄणां नानाप्रीतिवेगलोकधातुसंनिपतितानां नानाबुद्धक्षेत्रप्रसरानुसृतानां नानादिक्सागरसंनिपतितानां तथागतसंप्रेषितानां नानातथागतपादमूलोच्चलितानां नानाबोधिसत्त्वगणपरिवाराणां नानाव्यूहमेघप्रवर्षणानां नानातथागतनयावतीर्णानां नानातथागतधर्मसागरविचाराणां नानाज्ञानसमुद्रावतीर्णानां नानाव्यूहगर्भावभासननिषण्णानां नानाप्रीतिवेगसमुद्रान् संजनयामि। ते नानाप्रीतिवेगसमुद्रसंजातास्तथागतपर्षन्मण्डलसमुद्रानवतरन्ति पश्यन्ति विचारयन्ति। तेषां तथागतबलाप्रमाणतामनुविचिन्तयतां महाप्रीतिवेगसमुद्राः संभवन्ति॥



अपि तु खलु पुनरहं कुलपुत्र भगवतो वैरोचनस्य लक्षणप्रतिमण्डितामचिन्त्यां रूपकायपरिशुद्धिमवतरमाणा लभामि उदारप्रीतिप्रसादप्रामोद्यम्। प्रतिचित्तक्षणमनन्तमध्यवर्णसमुद्रसंदर्शनधर्मधातुविपुलं प्रभासमण्डलमवलोकयमाना चित्तक्षणे चित्तक्षणे महाप्रीतिवेगसमुद्रान् प्रतिलभे॥



पुनरपरं कुलपुत्र भगवतो वैरोचनस्य कायादेकैकस्माद्रोमविवरादनन्तमध्यबुद्धक्षेत्रपरमाणुरजःसमान् महारश्मिसमुद्रान् निश्चरमाणान्, एकैकां च रश्मिमनन्तबुद्धक्षेत्रपरमाणुरजःसमरश्मिसमुद्रपरिवारां सर्वबुद्धधर्मधातुस्फरणां सर्वसत्त्वदुःखानि प्रशमयमानां दृष्ट्वा चित्तक्षणे चित्तक्षणे महाप्रीतिवेगसमुद्रान् प्रतिलभे॥



पुनरपरं कुलपुत्र भगवतो वैरोचनस्य उत्तमाङ्गादंसकूटाभ्यां च प्रतिचित्तक्षणं सर्वबुद्धक्षेत्रपरमाणुरजःसमान् सर्वरत्नार्चिःपर्वतमेघान् निश्चरमाणान् सर्वधर्मधातुस्फरणान् दृष्ट्वा उदारान् महाप्रीतिवेगसमुद्रान् प्रतिलभे॥



पुनरपरं कुलपुत्र भगवतो वैरोचनस्य कायादेकैकस्माद्रोमविवरात् प्रतिचित्तक्षणं सर्वबुद्धक्षेत्रपरमाणुरजःसमवर्णान् नानागन्धरश्मिमेघान्निश्चरमाणान् सर्वबुद्धक्षेत्रस्फरणान् दृष्ट्वा उदारान् प्रीतिवेगसमुद्रान् प्रतिलभे॥



पुनरपरं कुलपुत्र भगवतो वैरोचनस्य कायं व्यवलोकयामाना प्रतिचित्तक्षणमेकैकस्माल्लक्षणात्सर्वबुद्धक्षेत्रपरमाणुरजःसमान् लक्षणमण्डितांस्तथागतविग्रहमेघान् निश्चरमाणान् सर्वलोकधातुसमुद्रस्फरणान् दृष्ट्वा उदारान् महाप्रीतिवेगसमुद्रान् प्रतिलभे॥



पुनरपरं कुलपुत्र भगवतो वैरोचनस्य कायादेकैकस्मादनुव्यञ्जनात्प्रतिचित्तक्षणं सर्वबुद्धक्षेत्रपरमाणुरजःसमानशीत्यनुव्यञ्जनोज्ज्वलांस्तथागतनिर्मितकायमेघान् निश्चरमाणान् सर्वबुद्धक्षेत्रसमुद्रस्फरणान् सर्वतथागतधर्मचक्रनिर्घोषनिगर्जनान् दृष्ट्वा उदारान् महाप्रीतिवेगसमुद्रान् प्रतिलभे॥



पुनरपरं कुलपुत्र भगवतो वैरोचनस्य कायं व्यवलोकयमाना प्रतिचित्तक्षणमेकैकस्माद्रोमविवरादनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमान् बुद्धविकुर्वितमेघान् सप्रथमचित्तोत्पादान् सषट्पारमितामार्गविशुद्धिव्यूहान् सबोधिसत्त्वभूम्याक्रमणविकुर्वितान् दृष्ट्वा उदारान् महाप्रीतिवेगसमुद्रान् प्रतिलभे।



पुनरपरं कुलपुत्र भगवतो वैरोचनस्य कायात्प्रतिचित्तक्षणमेकैकस्माद्रोमविवरादनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमान् देवेन्द्रकायमेघान् निश्चरमाणान् सर्वलोकधातुस्फरणान् सदेवेन्द्रविकुर्वितान् देवेन्द्रकायसंदर्शनवैनयिकानां सत्त्वानामभिमुखं स्थित्वा धर्मं देशयमानान् दृष्ट्वा उदारान् महाप्रीतिवेगसमुद्रान् प्रतिलभे॥



पुनरपरं कुलपुत्र भगवतो वैरोचनस्य कायात् प्रतिचित्तक्षणमेकैकस्माद्रोमविवरादनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमान्नागेन्द्रकायमेघान् सनागेन्द्रविकुर्वितान् नागेन्द्रकायसंदर्शनवैनयिकानां सत्त्वानामभिमुखं स्थित्वा धर्मं देशयमानान् दृष्ट्वा उदारान् महाप्रीतिवेगसमुद्रान् प्रतिलभामि॥



पुनरपरं कुलपुत्र तस्य भगवतो वैरोचनस्य कायं व्यवलोकयमाना प्रतिचित्तक्षणमेकैकस्माद्रोमविवरादनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमान् यक्षेन्द्रकायमेघान् सयक्षेन्द्रविकुर्वितान् सर्वधर्मधातुस्फरणान् यक्षेन्द्रकायसंदर्शनवैनयिकानां सत्त्वानामभिमुखं स्थित्वा धर्मं देशयमानान् दृष्ट्वा उदारान् महाप्रीतिवेगसमुद्रान् प्रतिलभे॥



पुनरपरं कुलपुत्र भगवतो वैरोचनस्य कायं व्यवलोकयमाना प्रतिचित्तक्षणमेकैकस्माद्रोमविवरादनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमान् गन्धर्वेन्द्रकायमेघान् सगन्धर्वेन्द्रविकुर्वितान् सर्वधर्मधातुस्फरणान् गन्धर्वेन्द्रकायसंदर्शनवैनयिकानां सत्त्वानामभिमुखं स्थित्वा धर्मं देशयमानान् दृष्ट्वा उदारान् महाप्रीतिवेगसमुद्रान् प्रतिलभे॥



पुनरपरं कुलपुत्र भगवतो वैरोचनस्य कायं व्यवलोकयमाना प्रतिचित्तक्षणमेकैकस्माद्रोमविवरादनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमानसुरेन्द्रकायमेघान्निश्चरमाणान् सासुरेन्द्रविकुर्वितानसुरेन्द्रकायसंदर्शनवैनयिकानां सत्त्वानामभिमुखं स्थित्वा सर्वधर्मधातुगतानां सत्त्वानां धर्मं देशयमानान् दृष्ट्वा उदारान् महाप्रीतिवेगसमुद्रान् प्रतिलभे॥



पुनरपरं कुलपुत्र भगवतो वैरोचनस्य कायं व्यवलोकयमाना प्रतिचित्तक्षणमेकैकस्माद्रोमविवरादनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमान् गरुडेन्द्रकायमेघान्निश्चरमाणान् सगरुडेन्द्रविकुर्वितान् गरुडेन्द्रकायसंदर्शनवैनयिकानां सर्वधर्मधातुगतानां सत्त्वानामभिमुखं स्थित्वा धर्मं देशयमानान् दृष्ट्वा उदारान् महाप्रीतिवेगसमुद्रान् प्रतिलभे॥



पुनरपरं कुलपुत्र भगवतो वैरोचनस्य कायं व्यवलोकयमाना प्रतिचित्तक्षणमेकैकस्माद्रोमकूपादनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमान् किन्नरेन्द्रकायमेघान् निश्चरमाणान् सकिन्नरेन्द्रविकुर्वितान् किन्नरेन्द्रकायसंदर्शनविनयानां सत्त्वानां धर्मधातुगतानां सत्त्वानामभिमुखं स्थित्वा धर्मं देशयमानान् दृष्ट्वा उदारान् महाप्रीतिवेगसमुद्रान् प्रतिलभे॥



पुनरपरं कुलपुत्र भगवतो वैरोचनस्य कायं व्यवलोकयमाना प्रतिचित्तक्षणमेकैकस्माद्रोमविवरादनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमान् महोरगेन्द्रकायमेघान् निश्चरमाणान् समहोरगेन्द्रविकुर्वितान् महोरगेन्द्रकायसंदर्शनविनेयानां सर्वधर्मधातुगतानां सत्त्वानामभिमुखं स्थित्वा धर्मं देशयमानान् दृष्ट्वा उदारान् महाप्रीतिवेगसमुद्रान् प्रतिलभे॥



पुनरपरं कुलपुत्र भगवतो वैरोचनस्य कायं व्यवलोकयमाना प्रतिचित्तक्षणमेकैकस्माद्रोमविवरादनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमान् मनुष्येन्द्रकायमेघान्निश्चरतः समनुष्येन्द्रविकुर्वितान् मनुष्येन्द्रकायसंदर्शनविनेयानां सर्वधर्मधातुगतानां सत्त्वानामभिमुखं स्थित्वा धर्मां देशयमानान् दृष्ट्वा उदारान् महाप्रीतिवेगसमुद्रान् प्रतिलभे॥



पुनरपरं कुलपुत्र भगवतो वैरोचनस्य कायं व्यवलोकयमाना प्रतिचित्तक्षणमेकैकस्माद्रोमविवरादनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमान् ब्रह्मेन्द्रकायमेघान्निश्चरतः सब्रह्मेन्द्रविकुर्वितान् ब्रह्मेन्द्रकायसंदर्शनविनेयानां सर्वधर्मधातुगतानां सत्त्वानामभिमुखं स्थित्वा ब्रह्मस्वररुतनिर्घोषेण धर्मं देशयमानान् दृष्ट्वा उदारान् धर्मधातुविपुलांश्चित्तक्षणे चित्तक्षणे सर्वज्ञतासहगतान् महाप्रीतिवेगसमुद्रान् प्रतिलभे॥



न च प्रतिलब्धपूर्वान् प्रतिलभे। नाधिगतपूर्वानधिगच्छामि। नावतीर्णपूर्वानवतरामि। न स्फूटपूर्वान् स्फरामि। न दृष्टपूर्वान् पश्यामि। न च श्रुतपूर्वान् शृणोमि। तत्कस्य हेतोः? किंचापि धर्मस्वभावलक्षणपरिज्ञेयाः सर्वधर्माः, एकलक्षणास्त्रयध्वपथावताराः पुनरनन्तमध्यनिर्देशाः सर्वधर्माः॥



अयमस्य कुलपुत्र विपुलप्रीतिवेगसंभवचित्तक्षणव्यूहस्य बोधिसत्त्वविमोक्षनयसमुद्रस्यावभासः। अपि तु अनन्तमध्यः खल्वेष विमोक्षो धर्मधातुनयसमुद्रावतारणत्वात्। अक्षय एष विमोक्षः सर्वज्ञताचित्तोत्पादासंभिन्नत्वात्। अपर्यन्त एष विमोक्षो बोधिसत्त्वचक्षुर्विज्ञेयत्वात्। अतुल एष विमोक्षोऽसंभिन्नधर्मधातुनयतलस्फरणत्वात्। समन्तमुख एष विमोक्ष एकारम्बणसर्वविकुर्वितसमवसरणत्वात्। अमोघ एष विमोक्षः सर्वधर्मशरीराद्वयसमुदाचारत्वात्। अनुत्पन्न एष विमोक्षो मायोपमसमुदाचारत्वात्। प्रतिभासोपम एष विमोक्षो सर्वज्ञताप्रणिधानप्रतिभाससंभूतत्वात्। निर्मितोपम एष विमोक्षो बोधिसत्त्वचर्यासुनिर्मितत्वात्। महापृथिवीसदृश एष विमोक्षः सर्वजगत्प्रतिशरणत्वात्। अप्स्कन्धोपम एष विमोक्षः सर्वजगन्महाकरुणाभिष्यन्दनतया। तेजःस्कन्धोपम एष विमोक्षः सर्वसत्त्वतृष्णास्नेहपर्यादानतया। वायुस्कन्धोपम एष विमोक्षः सर्वसत्त्वसर्वज्ञताप्रतिष्ठापनतया। सागरोपम एष विमोक्षः सर्वजगद्गुणालंकारालयत्वात्। मेरुपर्वतराजोपम एष विमोक्षः सर्वधर्मज्ञानरत्नसमुद्राभ्युद्गतत्वात्। व्यूहनयवातमण्डलसदृश एष विमोक्षः सर्वधर्मविमोक्षविधिव्यूहनतया। गगनोपम एष विमोक्षस्त्रध्वप्राप्तसर्वतथागतविकुर्वितावकाशत्वात्। महामेघोपम एष विमोक्षः सर्वसत्त्वाभिमुखधर्ममेघाभिप्रवर्षणत्वात्। आदित्योपम एष विमोक्षः सर्वसत्त्वाज्ञानतमोन्धकारविधमनतया। चन्द्रोपम एष विमोक्षो महापुण्यज्ञानसमुद्रसुसमार्जितत्वात्। तथागतोपम एष विमोक्षः सर्वत्रानुगतत्वात्। स्वच्छायोपम एष विमोक्षः कर्मधर्मसुनिर्मितत्वात्। प्रतिश्रुत्कोपम एष विमोक्षो यथाधिमुक्तसर्वधर्मनिर्घोषनिगर्जनतया। प्रतिभासोपम एष विमोक्षो यथाशयसर्वसत्त्वविज्ञापनतया। द्रुमराजोपम एष विमोक्षः सर्वबुद्धविकुर्वितसंकुसुमितत्वात्। वज्रोपम एष विमोक्षोऽभेद्यधर्मत्वात्। चिन्ताराजमणिरत्नोपम एष विमोक्षोऽनन्तमध्यविकुर्वितसमुद्राभिनिर्हरणतया। विमलगर्भमणिराजोपम एष विमोक्षः सर्वत्र्यध्वतथागतविकुर्वितविज्ञप्त्यनावरणतया। नन्दिध्वजमणिरत्नोपम एष विमोक्षः सर्वबुद्धधर्मचक्रसमतानिर्घोषत्वात्। एवमपरिमाणोपमोपन्यासानुगमनिर्देशो बतायं कुलपुत्र विपुलप्रीतिवेगसंभवचित्तक्षणव्यूहो बोधिसत्त्वविमोक्षः॥



अथ खलु सुधनः श्रेष्ठिदारकः प्रशान्तरुतसागरवतीं रात्रिदेवतामेतदवोचत्-कथं प्रतिपद्यमानस्य देवते बोधिसत्त्वस्य अयमेवंरूपो विमोक्षः संपद्यते? आह-दशेमे कुलपुत्र बोधिसत्त्वानां महासंभारा महावितानधर्मा महाविस्फारा महाद्युतयो महावभासा महाप्रभावभासा महाभागा महाविभागा महासंभवा महाविभवाः, येषु प्रतिपद्यमानानां बोधिसत्त्वानामयमेवंरूपो विमोक्षः संपद्यते। कतमे दश? यदुत दानं बोधिसत्त्वस्य यथाशयसर्वसत्त्वसमुद्रसंतोषणप्रसृतं महावितानधर्मः। शीलं बोधिसत्त्वस्य सर्वतथागतगुणसमुद्रावतारप्रतिपत्तिप्रसृतं महावितानधर्मः। क्षान्तिर्बोधिसत्त्वस्य सर्वधर्मस्वभावनिध्यप्तिप्रसृतं महावितानधर्मः। वीर्यं बोधिसत्त्वस्य सर्वज्ञतासमारम्भाविवर्त्यप्रसृतं महावितानधर्मः। ध्यानं बोधिसत्त्वस्य सर्वसत्त्वक्लेशप्रतापप्रशमनप्रसृतं महावितानधर्मः। प्रज्ञा बोधिसत्त्वस्य सर्वधर्मसमुद्रप्रज्ञाप्रसृता महावितानधर्मः। उपायो बोधिसत्त्वस्य सर्वसत्त्वसमुद्रपरिपाकविनयप्रसृतो महावितानधर्मः। प्रणिधानं बोधिसत्त्वस्य सर्वक्षेत्रसमुद्रप्रसृतमपरान्तकोटीगतकल्पसर्वक्षेत्रबोधिसत्त्वचर्यावतरणतायै महावितानधर्मः। बलं बोधिसत्त्वस्य सर्वधर्मधातुनयसमुद्रप्रसृतं सर्वक्षेत्रेषु प्रतिक्षणमभिसंबोधिदर्शनाप्रतिप्रस्रब्धये महावितानधर्मः। ज्ञानं बोधिसत्त्वस्य तथागतबलप्रसृतं त्र्यध्वसर्वधर्मानावरणज्ञानविज्ञप्तये महावितानधर्मः। इमे कुलपुत्र दश बोधिसत्त्वानां महासंभारां महावितानधर्माः, येषु प्रतिष्ठितानां बोधिसत्त्वानामयमेवंरूपो विमोक्षः संपद्यते, विशुध्यति संभवति संवर्धते समुदेति प्रादुर्भवति संवर्तते सारीभवति विपुलीभवति परिनिष्पद्यते संतिष्ठते॥



सुधन आह-कियच्चिरं संप्रस्थितासि देवते अनुत्तरायां सम्यक्संबोधौ? सा अवोचत्-अस्ति कुलपुत्र अस्य कुसुमतलगर्भव्यूहालंकारस्य लोकधातुसमुद्रस्य पूर्वेण दशलोकधातुसमुद्रसहस्राण्यतिक्रम्य परेण सर्वरत्नविमलप्रभाव्यूहो नाम लोकधातुसमुद्रः। तस्य मध्ये सर्वतथागतप्रभाप्रणिधिनिर्घोषो नाम लोकधातुवंशः। तस्य मध्ये कनकविमलप्रभाव्यूहो नाम लोकधातुः सर्वरत्नमेघविचित्र अधोलोकधातौ सर्वरत्नहारजालसागरप्रतिष्ठितः सर्वगन्धवज्रमणिराजव्यूहशरीरः कूटागारपरिणाहसंस्थानो विशुद्धोऽसंक्लिष्टः दिव्यविमानभवनमेघसंछादितः। तत्र समन्तावभासध्वजो नाम कल्पः। तस्मिन् लोकधातौ सर्वरत्नगर्भविचित्राभो नाम बोधिमण्डोऽभूत्। तत्र भगवानविवर्त्यधर्मधातुनिर्घोषो नाम तथागतोऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धः। अहं च तेन कालेन तेन समयेन तस्मिन् बोधिवृक्षे पुण्यप्रदीपसंपत्केतुप्रभा नाम बोधिमण्डदेवता अभूवम्। तया मे तस्य तथागतस्य अभिसंबोधिविकुर्वितं दृष्ट्वा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्। तस्य च मे तथागतस्य सहदर्शनेन तथागतगुणसमुद्रावभासो नाम समाधिः प्रतिलब्धः। तस्यानन्तरं तस्मिन्नेव लोकधातौ समन्तसंपूर्णश्रीगर्भायां राजधान्यां तत्रैव बोधिमण्डे धर्मद्रुमपर्वततेजो नाम तथागतोऽभिसंबुद्धः। अहं च ततश्च्युत्वा तत्रैव बोधिमण्डे ज्ञानश्रीपुण्यप्रभा नाम रात्रिदेवता अभूवम्। तया मे तस्य भगवतो धर्मद्रुमपर्वततेजस्तथागतस्य धर्मचक्रप्रवर्तनविकुर्वितं दृष्ट्वा सर्वजगत्संदर्शनसमतावभासविषयो नाम समाधिः प्रतिलब्धः। तस्यानन्तरं तत्रैव बोधिमण्डे सर्वधर्मसागरनिर्घोषराजो नाम तथागत आरागितः। तस्य मे सहदर्शनेन सर्वधर्मभूमिसंवर्धनस्थानो नाम समाधिः प्रतिलब्धः। तस्यानन्तरं तत्रैव बोधिमण्डे रत्न‍रश्मिप्रदीपध्वजराजो नाम तथागत आरागितः, तस्य मे सहदर्शनेन समन्तवृक्षप्रभमेघो नाम समाधिः प्रतिलब्धः। तस्यानन्तरं तत्रैव बोधिमण्डे गुणसुमेरुप्रभतेजो नाम तथागत आरागितः। तस्य मे सहदर्शनेन बुद्धसमुद्रावभासो नाम समाधिः प्रतिलब्धः। तस्यानन्तरं तत्रैव बोधिमण्डे धर्ममेघनिर्घोषराजो नाम तथागत आरागितः। तस्य मे सहदर्शनेन धर्मसागरप्रदीपो नाम समाधिः प्रतिलब्धः। तस्यानन्तरं तत्रैव बोधिमण्डे ज्ञानोल्कावभासराजो नाम तथागत आरागितो देवकन्याभूतया। तस्य मे सहदर्शनेन सर्वसत्त्वदुःखप्रशमनप्रतिभासप्रदीपो नाम समाधिः प्रतिलब्धः। तस्यानन्तरं तत्रैव बोधिमण्डे धर्मविकुर्वितवेगध्वजश्रीर्नाम तथागत आरागितः। तस्य मे सहदर्शनेन त्र्यध्वतथागतसंप्रस्थानावभासगर्भो नाम समाधिः प्रतिलब्धः। तस्यानन्तरं तत्रैव बोधिमण्डे धर्मप्रदीपविक्रमज्ञानसिंहो नाम तथागत आरागितः। तस्य मे सहदर्शनेन सर्वलोकाप्रतिहतज्ञानचक्रप्रभतेजो नाम समाधिः प्रतिलब्धः। तस्यानन्तरं तत्रैव बोधिमण्डे ज्ञानबलपर्वततेजो नाम तथागत आरागितः। तस्य मे सहदर्शनेन त्र्यध्वसर्वसत्त्वचर्येन्द्रियप्रभासो नाम समाधिः प्रतिलब्धः। इति हि कुलपुत्र तस्मिन् समये मया कनकविमलप्रभे लोकधातौ तस्मिन् समन्तावभासध्वजकल्पे दशबुद्धक्षेत्रपरमाणुरजःसमाः तथागता आरागिताः। केचिद्देवेन्द्रभूतया केचिन्नागेन्द्रभूतया केचिद्यक्षेन्द्रभूतया केचिद्गन्धर्वेन्द्रभूतया केचिदसुरेन्द्रभूतया केचिद्गरुडेन्द्रभूतया केचित्किन्नरेन्द्रभूतया केचिन्महोरगेन्द्रभूतया केचिन्मनुष्येन्द्रभूतया केचिद्ब्रह्मेन्द्रभूयता केचिद्देवभूतया केचिन्मनुष्यभूतया केचित्स्त्रीभूतया केचित्पुरुषभूतया केचिद्दारकभूतया केचिद्दारिकाभूतया आरागिताः। सर्वे च मे तथागताः पूजिता यथासंप्राप्तैः पूजापरिष्कारैः। सर्वे च ते तथागता उपस्थिताः। सर्वेषां च मे तेषां तथागतानां धर्मदेशना श्रुता॥



सा अहं ततश्च्युत्वा तस्मिन्नेव लोकधातौ बुद्धक्षेत्रपरमाणुरजःसमान् कल्पान् बोधिसत्त्वचर्यां चरित्वा ततश्च्युत्वा इह कुसुमतलगर्भव्यूहालंकारे लोकधातुसमुद्रे अस्मिन् सहालोकधातावुपपन्ना। तया मे भगवान् क्रुकुच्छन्दस्तथागत आरागितः। तस्य च मे सहदर्शनेन सर्वान्धकारविरजप्रतिभासो नाम समाधिः प्रतिलब्धः। तस्यानन्तरं कनकमुनिस्तथागत आरागितः। तस्य च मे सहदर्शनेन सर्वक्षेत्रसागरावभासानुगतस्फरणो नाम समाधिः प्रतिलब्धः। तस्यानन्तरं काश्यपस्तथागतः आरागितः। तस्य च मे सहदर्शनेन सर्वसत्त्वमन्त्रसमुद्रनिगर्जनस्वरनिर्घोषो नाम समाधिः प्रतिलब्धः। तस्यानन्तरमयं भगवान् वैरोचनस्तथागत आरागितः। तद्बोधिमण्डे तथागताभिसंबोधिविकुर्वितमुखसमुद्रान् प्रतिचित्तक्षणे संदर्शयमानान् दृष्ट्वा मया एष विपुलप्रीतिवेगसंभवचित्तक्षणव्यूहो बोधिसत्त्वविमोक्षः प्रतिलब्धः, यस्य सहप्रतिलम्भाद्दशबुद्धक्षेत्रानभिलाप्यानभिलाप्यपरमाणुरजःसमान्। सर्वधर्मधातुनयसमुद्रानवतीर्णा। तेषु च सर्वधर्मधातुनयसमुद्रान्तर्गतेषु सर्वबुद्धक्षेत्रेषु यानि सर्वपरमाणुरजांसि, तेषु एकैकस्मिन् परमाणुरजसि दशानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमानि बुद्धक्षेत्राण्यवतीर्य पश्यामि। तेषु च सर्वक्षेत्रेष्वेकैकस्मिन् बुद्धक्षेत्रे भगवन्तं वैरोचनं बोधिमण्डवरगतं प्रतिचित्तक्षणमभिसंबोधिविकुर्वितं संदर्शयमानानेकैकेन च अभिसंबोधिविकुर्वितेन सर्वधर्मधातुनयसागरान् स्फरन्तं पश्यामि। तेषां च सर्वतथागतानामेकैकस्य च तथागतस्य पादमूलगतमात्मानं संजाने। ये च तेषु लोकधातुषु ते तथागता बोधिमण्डगता धर्मं देशयन्ति, तं सर्वं शृणोमि। ये च तेषां सर्वतथागतानां निर्माणसमुद्राः सर्वरोमविवरेभ्यो निश्चर्य धर्ममेघसमुद्रान् निगर्जमानान् नानाविकुर्वितानि संदर्शयमानान् सर्वधर्मधातुदिक्समुद्रान्तर्गतेषु क्षेत्रसमुद्रेषु सर्वलोकधातुवंशेषु सर्वलोकधातुप्रसरेषु सर्वसत्त्वप्रसरेषु नानागत्युपपन्नेषु सत्त्वाशयवशेन नानासंज्ञागतैर्धर्मचक्रं प्रवर्तयन्ति, तं सर्वं संधारयामि, प्रतिपद्ये, निध्यायामि। सर्वार्थपदव्यञ्जनोद्ग्रहवेगविक्रमया धारण्या उद्गृह्णामि सर्वधर्ममण्डलविशुद्धिगर्भानुगमया प्रज्ञया परिशोधयामि। सर्वधर्मसागरप्रविचयाभिज्ञया गत्यानुगच्छामि। त्र्यध्वविपुलया बुद्ध्या स्फरामि। तथागतसमतानुगामिन्या प्रज्ञया सामीकरोमि। सर्वधर्मनयानभिनिर्हरामि। सर्वधर्ममेघेषु सूत्रान्तमेघानभिनिर्हरामि। सर्वसूत्रान्तमेघेषु धर्मसमुद्रान् परिसंस्थापयामि। सर्वधर्मसमुद्रेषु धर्मपरिवर्तान् समवसरामि। सर्वधर्मपरिवर्तेषु धर्ममेघान् संजाने। सर्वधर्ममेघेषु धर्मोर्मीन् संजनयामि। सर्वधर्मोर्मिषु धर्मप्रीतिवेगसागरान् प्रतिलभे। सर्वधर्मप्रीतिवेगसागरेषु भूमिप्रतिलम्भवेगानभिनिर्हरामि। सर्वभूमिवेगेषु समाधिसमुद्रवेगानभिनिर्हरामि। सर्वसमाधिसमुद्रमेघेषु बुद्धदर्शनसमुद्रान् प्रतिलभे। सर्वबुद्धदर्शनसमुद्रेष्ववभाससमुद्रान् प्रतिलभे। सर्वावभाससमुद्रेषु त्र्यध्वज्ञानमण्डलभूमीः परिसंस्थापयामि अनन्तमध्यदिक्सागरस्फरणयोगेन, अप्रमेयतथागतपूर्वान्तचर्यासमुद्रावतरणयोगेन, अप्रमेयतथागतपूर्वयोगसमुद्रज्ञानावभासयोगेन, अप्रमेयतथागतज्ञानालोकप्रतिलम्भयोगेन, अप्रमेयतथागतशीलमण्डलपरिशुद्ध्यवभासयोगेन, अप्रमेयतथागतक्षान्तिभूमिपरिशोधनयोगेन, अप्रमेयतथागतमहावीर्यवेगविवर्धनविक्रमज्ञानावभासप्रतिलम्भयोगेन, अप्रमेयतथागतध्यानमण्डलध्यानागमसमुद्रपरिशुद्धिप्रयोगावभासप्रतिलम्भयोगेन, अप्रमेयतथागतप्रज्ञापारमितानयसागरपरिशुद्धिविज्ञप्त्यवभासयोगेन, अप्रमेयतथागतोपायकौशल्यपारमितानयसमुद्रावतरणयोगेन, अप्रमेयतथागतप्रणिधानपारमितानयसमुद्रावतरणयोगेन, अप्रमेयतथागतपुण्यज्ञानबलपारमितासंवर्धनसंवसनज्ञानप्रतिलम्भयोगेन, अप्रमेयतथागतज्ञानपारमितानयसागरविचारप्रलम्भयोगेन, अप्रमेयतथागतपूर्वबोधिसत्त्वभूम्याक्रमणज्ञानावभासप्रतिलम्भयोगेन, अप्रमेयतथागतभूम्याक्रमणसंधिविकुर्वितकल्पसागरसंवसनयोगेन, अप्रमेयतथागतपूर्वबोधिसत्त्वभूमिमण्डलाक्रमणयोगेन, अप्रमेयतथागतबोधिसत्त्वभूमिसंवसनयोगेन, अप्रमेयतथागतबोधिसत्त्वभूमिपरिशोधनयोगेन, अप्रमेयतथागतज्ञानसागरविचारणयोगेन, अप्रमेयतथागतज्ञानावभासप्रतिलाभयोगेन, अप्रमेयतथागतबोधिसत्त्वभूताशेषपूर्वबुद्धदर्शनानुबन्धविज्ञप्तियोगेन, अप्रमेयतथागतबोधिसत्त्वभूताशेषपूर्वबुद्धसमुद्रदर्शनकल्पसमुद्रसंवासयोगेन, अप्रमेयतथागतपूर्वबोधिसत्त्वभूताशेषक्षेत्रसमुद्रस्फरणकायाभिनिर्हारज्ञानावभासप्रतिलाभयोगेन, अप्रमेयतथागतविपुलपूर्वबोधिसत्त्वचर्यानवशेषधर्मधातुस्फरणयोगेन, अप्रमेयतथागतपूर्वबोधिसत्त्वचर्यानानोपायसुखसर्वसत्त्वपरिपाचनविनयसंदर्शनयोगेन, अप्रमेयतथागतसर्वदिक्समुद्रानवशेषप्रभाप्रसरस्फरणयोगेन, अप्रमेयतथागतसत्त्वाभिमुखविकुर्वितसंदर्शनयोगेन, अप्रमेयतथागतभूम्याक्रमणज्ञानावभासयोगेन, अप्रमेयतथागताभिसंबोधिविकुर्वणज्ञानावभासप्रतिलाभयोगेन, अप्रमेयतथागतधर्मचक्रप्रवर्तनसर्वधर्ममेघानवशेषसंप्रतीच्छनसंधारणयोगेन, अप्रमेयतथागतलक्षणसमुद्रविज्ञप्तिज्ञानावभासप्रतिलाभयोगेन, अप्रमेयतथागतकायसमुद्रसमुदाचारविज्ञप्त्यवभासप्रतिलाभयोगेन, अप्रमेयतथागतविपुलविषयज्ञानावभासप्रतिलाभयोगेन। तेषां च तथागतानां प्रतिचित्तक्षणं प्रथमचित्तोत्पादमादाय यावत्सद्धर्मान्तर्धानं सर्वमवतरामि॥



यत्पुनरेवं वदसि-कियच्चिरप्रतिलब्धस्त्वयायं विपुलप्रीतिवेगसंभवचित्तक्षणव्यूहो बोधिसत्त्वविमोक्ष इति। यन्मया विबुद्धक्षेत्रपरमाणुरजःसमानां बुद्धकल्पानां परेण कनकविमलप्रभायां लोकधातौ पुण्यप्रदीपसंपत्समन्तकेतुप्रभा बोधिवृक्षदेवता अभूत्, तया अवैवर्त्यधर्मधातुनिर्घोषस्य तथागतस्य धर्मदेशनां श्रुत्वा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य तान् विबुद्धक्षेत्रपरमाणुरजःसमान् कल्पान् बोधिसत्त्वचर्यां चरित्वा इह सहायां लोकधातावुपपद्य क्रकुच्छन्दप्रमुखाः शाक्यमुनिपर्यवसाना भद्रकल्पिकास्तथागता आरागिताः। अनागतांश्च सर्वानारागयिष्यामि। यथेह लोकधातौ, तथा सर्वलोकधातुष्वनागतान् बुद्धवंशानारागयिष्यामि, पूजयिष्यामि। अद्यापि हि कुलपुत्र सा कनकविमलप्रभा लोकधातुस्तिष्ठति अच्छिन्नबुद्धवंशः। तस्मात्तर्हि कुलपुत्र इह नये महता बोधिसत्त्वविक्रमेण प्रयोक्तव्यम्॥



अथ खलु प्रशान्तरुतसागरवती रात्रिदेवता तस्यां वेलायामेतमेव विपुलप्रीतिवेगसंभवचित्तक्षणव्यूहं बोधिसत्त्वविमोक्षं भूयस्या मात्रया प्रदर्शयमाना सुधनं श्रेष्ठिदारकं गाथाभिरध्यभाषत—



शृणु सूधना वचनमेतु ममा

यथयं विमोक्ष प्रतिलब्धु शुभम्।

श्रुत्वा च प्रीतिबलु संजनिया

एतं विमोक्षनयमोतरहि॥१॥



बहु कल्पसागर पुरा चरिता

चित्ताशयं स्वकु विशोधयति।

अधिमुक्तिवेग विपुलां जनिया

सर्वज्ञज्ञाननगराभिमुखम्॥२॥



श्रुत्वा त्रियध्वपरमा सुगता-

नधिमुक्ति तेषु विपुलां जनिय।

सर्वैः सुखैः सपरिवार मया

ते उपस्थिताः सबहुकल्पशतान्॥३॥



दृष्ट्वा मया पुरिमकाः सुगताः

संपूजिता जनहिताय चरन्।

धर्मश्च मे निरुपमोऽयु श्रुतः

प्रीतिबलं विपुलं संजनिया॥४॥



माता पिता गुरुजनः सततं

मय सत्कृता हितसुखेन तदा।

उपस्थानु गौरवस्थिताय कृतं

एतं विमोक्षनयमोतरमाणा॥५॥



जीर्णातुरा धनविहीन नरा

विकलेन्द्रिया दुखि अनाथ बहू।

ते मे सुखे स्थपिय मैत्रमना

सुधना सनाथ कृत जातिशतान्॥६॥



राजाग्नितस्करजलप्रभवा

सिंहद्विपा हि परशत्रुभयात्।

विविधैर्भयैर्भवसमुद्रगता

मय त्रायिता विचरतीय पुरा॥७॥



क्लेशप्रतापित सदा त्रिभवे

कर्मैः प्रभावित तथा अशुभैः।

संसारपर्वतप्रपातगता

मय त्रायिता भवगतीषु प्रजा॥८॥



ये दुःखदुर्गतिप्रपातभयाः

तीव्रा निरन्तरखरा सुबहू।

जातीजरामरणरोगभया

लोके मया शमित ते निखिला॥९॥



संसारतीव्रदुखसंशमनं

सत्त्वान् सर्वसुखसंजननम्।

अत्यन्तबुद्धसुखसंजननं

अपरान्तकल्प प्रणिधानु मम॥१०॥



एतमहं कुलपुत्र विपुलप्रीतिवेगसंभवचित्तक्षणव्यूहं बोधिसत्त्वविमोक्षं जानामि। किं मया शक्यं सर्वधर्मधातुनयसागरावतीर्णानां बोधिसत्त्वानामाध्यात्मिकबाह्यनिरवशेषदुःखविप्रमुक्तानां सर्वकल्पसंज्ञागतज्ञानप्रतिलब्धानां सर्वलोकधातुसमुद्रसंभवविभवज्ञानवकुशलानां चर्यां ज्ञातुं गुणान् वा वक्तुम्॥



गच्छ कुलपुत्र, इयमिहैव बोधिमण्डे भगवतो वैरोचनस्य पर्षन्मण्डले सर्वनगररक्षासंभवतेजःश्रीर्नाम रात्रिदेवता। तामुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्॥



अथ खलु सुधनः श्रेष्ठिदारकः प्रशान्तरुतसागरवतीं रात्रिदेवतामाभिः सारूप्याभिर्गाथाभिरध्यभाषत—



कल्याणमित्रेण समानुशिष्टे

उपागतस्तुभ्य सकाशु देवि।

पश्यामि ते आसनु संनिषण्णा

अनन्तमध्येन समुच्छ्रयेण॥११॥



न वर्णसंस्थाननिमित्तगोचरै-

र्भवाश्रितैर्नापि च भावसंज्ञिभिः।

न हीनसत्त्वैर्विपरीतदर्शिभिः

शक्यस्तव ज्ञातुमयं हि गोचरः॥१२॥



ज्ञातुं न लोकेन सहदेवकेन

त्वद्वर्णरूपस्य निमित्त शक्यम्।

कल्पाननन्तान् समुदीक्षतापि

तथा हि ते रूपमनन्तदर्शनम्॥१३॥



स्कन्धालयादुच्चलितासि देवि

प्रतिष्ठिता नायतनेषु च त्वम्।

लोकव्यतीता च वितीर्णकाङ्क्षा

संदृश्यसे लोकि विकुर्वमाणा॥१४॥



अनिञ्जप्राप्तास्यनघा असङ्गा

विशोधितं ते वरज्ञानचक्षुः।

रजःपथे सर्वरजःप्रमाणान्

येनेक्षसे बुद्ध विकुर्वमाणान्॥१५॥



कायो हि ते धर्मशरीरगर्भः

चित्तं च ते ज्ञानमयं असङ्गम्।

समन्त‍ओभासप्रभासिता त्व-

मालोकु लोके जनयस्यनन्तम्॥१६॥



चित्तादनन्तं समुदेति कर्म

विचित्रितः कर्मण सर्वलोकः।

चित्तस्वभावं च जगद्विदित्वा

जगत्समान् दर्शयसि स्वकायान्॥१७॥



स्वप्नोपमं लोकमिमं विदित्वा

बुद्धांश्च सर्वान् प्रतिभासकल्पान्।

धर्मान् प्रतिश्रुत्कसमानशेषा-

नसज्जमाना जगति प्रवर्तसे॥१८॥



त्र्यध्वस्थितस्यापि जनस्य देवि

प्रतिक्षणं दर्शयसि स्वकायम्।

द्वयप्रवृत्तिर्न च तेऽस्ति चित्ते

धर्मं वदस्येव च सर्वदिक्षु॥१९॥



रजस्यनन्ता हि महासमुद्रा

तथामिताः सत्त्वमहासमुद्राः।

अनन्तमध्या सुगतार्णवाश्च

विमोक्षचर्यस्य हि गोचरस्ते॥२०॥



अथ खलु सुधनः श्रेष्ठिदारकः प्रशान्तरुतसागरवतीं रात्रिदेवतामाभिर्गाथाभिरभिष्टुत्य अनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य प्रशान्तरुतसागरवत्या रात्रिदेवताया अन्तिकात्प्रक्रान्तः॥३६॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project