Digital Sanskrit Buddhist Canon

३७ समन्तसत्त्वत्राणोजःश्रीः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 37 samantasattvatrāṇojaḥśrīḥ
३७ समन्तसत्त्वत्राणोजःश्रीः।



अथ खलु सुधनः श्रेष्ठिदारकोः तत् प्रमुदितनयनजगद्विरोचनाया रात्रिदेवतायाः समन्तभद्रप्रीतिविपुलविमलवेगध्वजं बोधिसत्त्वविमोक्षमधिमुच्यमानोऽवतरन्, अधिगच्छन् प्रविशन् प्रसरन् स्फरमाणोऽनुगच्छन् अनुसरन् प्रतिलभमानो भावयन् परिभावयन् कल्याणमित्रानुशासनीं प्रतिपद्यमानोऽववादानुशासनीनिर्देशानन्तर्यतायै प्रमुदितनयनजगद्विरोचनाया रात्रिदेवतायाः संप्रेषणानुशासनीमनुस्मरन्, कल्याणमित्रदर्शनानुगतेन सर्वेन्द्रियमण्डलेन समन्तदिगभिमुखेन कल्याणमित्रदर्शनप्रतिलाभसमुदाचारेण सर्वमानविगतेन कल्याणमित्रगवेषणमनसिकारेण महासंभारसंभवव्यवसितेन कल्याणमित्रारागणविक्रमेण कल्याणमित्रैकोतीभावगतैः सर्वकुशलमूलैः कल्याणमित्रसर्वोपायकौशल्यचरितेष्वभेद्याशयप्रतिपन्नः कल्याणमित्रसंनिश्रयसंवर्धनमहावीर्यवेगसागरसंजातः सर्वकल्पकल्याणमित्रसमतानुगतसंवासप्रणिधानः समन्तसत्त्वत्राणोजःश्रियो रात्रिदेवताया अन्तिकमुपसंक्रान्तः॥



तस्योपसंक्रामतः समन्तसत्त्वत्राणोजःश्री रात्रिदेवता सर्वलोकाभिमुखजगद्विनयनिदर्शनानन्तबोधिसत्त्वविमोक्षवृषभितासंदर्शनार्थं विचित्रलक्षणानुव्यञ्जनपरनिष्पन्नकायं संदर्श्य ऊर्णकोशात्समन्तज्ञानार्चिःप्रदीपविमलज्योतिध्वजं नाम रश्मिं प्रामुञ्चदनन्तमध्यरश्मिपरिवारम्। स सर्वलोकमवभास्य सुधनस्य श्रेष्ठिदारकस्य मूर्ध्नि निपत्य सर्वशरीरमनुस्फरति स्म। समनन्तरस्पृष्टश्च सुधनः श्रेष्ठिदारकस्तेन रश्मिना, अथ तावदेव अत्यन्तविरजोमण्डलं नाम समाधिं प्रत्यलभत, यस्य प्रतिलाभात्प्रमुदितनयनजगद्विरोचनाया रात्रिदेवतायाः समन्तसत्त्वत्राणोजःश्रियश्च रात्रिदेवताया मार्गान्तरे यत्पृथिवीमण्डलं तत्र यावन्ति तेजःपरमाणुरजांसि वा अप्सु परमाणुरजांसि वा पृथिवीपरमाणुरजांसि वा वज्रपरमाणुरजांसि वा विविधमहामणिरत्न‍रजःपरमाणुरजांसि वा पुष्पगन्धचूर्णपरमाणुरजांसि वा रत्नव्यूहपरमाणुरजांसि वा सर्वारम्बणपरमाणुरजांसि वा, तेषु सर्वेषु परमाणुरजःसु एकैकस्मिन् परमाणुरजसि बुद्धक्षेत्रपरमाणुरजःसमान् लोकधातून् संवर्तमानान् विवर्तमानांश्चापश्यत्। साप्स्कन्धान् सतेजःस्कन्धान् सवायुस्कन्धान् सपृथिवीस्कन्धान् समलोकधातुसत्त्वान् साधिष्ठानान् नानासंस्थानान् संप्रतिष्ठानान् नानापृथिवीतलव्यूहान् नानापर्वतपरिवारान् नानानदीतडागव्यूहान् नानासागरपरिसंस्थानान् नानादिव्यविभक्तिभवनव्यूहान् नानावृक्षसंस्थानान् नानागगनालंकारान्, सदेवनगरभवनालंकारान् सनागनगरभवनालंकारान् सयक्षनगरभवनालंकारान् सगन्धर्वनगरभवनालंकारान् सासुरनगरभवनालंकारान् सगरुडनगरभवनालंकारान्, सकिन्नरनगरभवनालंकारान्, समहोरगनगरभवनालंकारान्, समनुष्यनगरभवनालंकारान्, ससर्वदिग्विदिग्व्यवस्थानसर्वसत्त्वनगरभवनालंकारान्, सनरकलोकगतिविषयान्, सतिर्यग्योनिलोकविषयान्, सयमलोकविषयान्, समनुष्यगतिव्यवचारच्युत्युपपत्तिविषयान्, नानोपपत्त्यभिसंभिन्नान्, अनन्तगतिभेदसमवसरणान्। तेषु च लोकधातुषु विमात्रतामद्राक्षीत्। यदुत कांश्चिल्लोकधातून संक्लिष्टानपश्यत्। कांश्चित्परिशुद्धान्, कांश्चिदेकान्तसंक्लिष्टान्, कांश्चिद्गतिपरिशुद्धान्, कांश्चित्संक्लिष्टविशुद्धान्, कांश्चिद्विशुद्धसंक्लिष्टान्, कांश्चिदेकान्तपरिशुद्धान्, कांश्चित्समतलप्रवेशान्, कांश्चिदवमूर्धप्रतिष्ठानान्, कांश्चिद्व्यत्यस्तसंस्थानान्, तेषु लोकधातुषु सर्वसत्त्वगतिषु सर्वसत्त्वोपपत्तिषु समन्तसत्त्वत्राणोजःश्रियं रात्रिदेवतां प्रतिविनेयसत्त्वसर्वसत्त्वाभिमुखामपश्यत्। सर्वलोकासंभिन्नदर्शनतया यथायुःप्रमाणानां सत्त्वानां नानाधिमुक्तिगोचराणां यथात्मभावानां यथात्मवचनप्रज्ञप्तिनिरुक्तिसंस्कारव्यवहाराणां यथाप्रयोगानां यथाधिपतेयानां परिपाकविनयमुपादाय सर्वसत्त्वासंभिन्नसंमुखावस्थितामपश्यत्॥



यदुत नानानरकगतिपर्यापन्नानां सत्त्वानां विविधनरकदुःखभयविनिवर्तनतायै, नानातिर्यग्योन्युपपन्नानां सत्त्वानामन्योन्यसंभक्षणभयविनिवर्तनतायै, यमलोकगतिपर्यापन्नानां सत्त्वानां क्षुत्पिपासादिदुःखभयविनिवर्तनतायै, नागलोकगतिपर्यापन्नानां सत्त्वानां सर्वनागदुःखभयविनिवर्तनतायै, सर्वकामधातुपर्यापन्नानां सत्त्वानां सर्वकामधातुकदुःखभयविनिवर्तनतायै, मनुष्यलोकगतिपर्यापन्नानां सत्त्वानामन्धकारतमिस्रायां रात्रौ सर्वान्धकारभयविनिवर्तनतायै, अवर्णायशोकीर्तिशब्दश्लोकाभिनिविष्टानां सत्त्वानां सर्वायशोकीर्तिभयविनिवर्तनतायै, पर्षच्छारद्यभयनिविष्टानां सत्त्वानां पर्षच्छारद्यभयविनिवर्तनतायै, मरणभयभीतानां सत्त्वानां मरणभयविनिवर्तनतायै, दुर्गतिप्रपातभयभीतानां सत्त्वानां दुर्गतिप्रपातभयविनिवर्तनायै, आजीविकाभयभीतानां सत्त्वानामाजीविकाभयविनिवर्तनतायै, कुशलमूलविप्रणाशभयभीतानां सत्त्वानां कुशलमूलविप्रणाशभयविनिवर्तनतायै, बोधिचित्तसंमोषणभयभीतानां सत्त्वानां बोधिचित्तसंमोषणभयविनिवर्तनतायै, पापमित्रसमवधानभयभीतानां सत्त्वानां पापमित्रसमवधानभयविनिवर्तनतायै, कल्याणमित्रविप्रवासभयभीतानां कल्याणमित्रविप्रवासभयविनिवर्तनतायै, श्रावकप्रत्येकबुद्धभूमिप्रपातभयभीतानां सत्त्वानां श्रावकप्रत्येकबुद्धभूमिप्रपातभयविनिवर्तनतायै, विविधसंसारसंवासदुःखभयभीतानां विविधसंसारदुःखभयविनिवर्तनतायै, विसभागसर्वसमवधानभीतानां सत्त्वानां विसभागसर्वसमवधानभयविनिवर्तनतायै, विषमकालोपपत्तिभयभीतानां सत्त्वानां विषमकालोपपत्तिभयविनिवर्तनतायै, विषमकुलोपपत्तिभयभीतानां सत्त्वानां विषमकुलोपपत्तिभयविनिवर्तनतायै, पापकर्माध्यापत्तिभयभीतानां पापकर्माध्यापत्तिभयविनिवर्तनतायै, कर्मक्लेशावरणभयभीतानां कर्मक्लेशावरणभयविनिवर्तनतायै, विविधसंज्ञागतनिकेतबन्धनभयभीतानां सत्त्वानां विविधसंज्ञागतनिकेतभयविनिवर्तनतायै सर्वसत्त्वानामसंभिन्नसंमुखावस्थितामपश्यत्॥



यदुत अण्डजानां सत्त्वानां जरायुजानां संस्वेदजानामुपपादुकानां रूपिणामरूपिणां संज्ञिनां नैवसंज्ञिनां नासंज्ञिनां सर्वसत्त्वपरित्राणप्रणिधानबलाभिनिर्हृतत्वात्, विपुलबोधिसत्त्वसमाधिवेगविक्रमबलेन बोधिसत्त्वमहाभिज्ञाबलपराक्रमेण समन्तभद्रबोधिसत्त्वचर्याप्रणिध्यभिनिर्हाबलेन महाकरुणानयसागरवेगसंजातत्वात्, सर्वजगदप्रणिहितमहामैत्रीस्फरणतायै सर्वसत्त्वसुखसमुदयप्रीतिवेगविवर्धनतायै सर्वसत्त्वसंग्रहज्ञानप्रयोगतायै विपुलबोधिसत्त्वविमोक्षविकुर्वितवृषभितासमन्वागतत्वात्, सर्वक्षेत्रपरिशोधनाभिमुखीमपश्यत्। सर्वधर्मज्ञानानुबोधाभिमुखीं सर्वबुद्धपूजोपस्थानाभिमुखीं सर्वतथागतशासनसंधारणाभिमुखीं सर्वकुशलोपचयाभिमुखीं सर्वबोधिसत्त्वचर्याविवर्धनाभिमुखीं सर्वसत्त्वचित्तानावरणाभिमुखस्थितां सर्वसत्त्वेन्द्रियपरिपाचनाभिमुखस्थितां सर्वसत्त्वाधिमुक्तिसमुद्रविशोधनाभिमुखीं सर्वसत्त्वावरणीयधर्मविनिवर्तनाभिमुखीं सर्वसत्त्वाज्ञानान्धकारविधमनाभिमुखीं सर्वकुशलापर्ययाभिमुखीमपश्यत् सर्वज्ञज्ञानालोकसंजननतायै॥



अथ खलु सुधनः श्रेष्ठिदारकः समन्तसत्त्वत्राणोजःश्रियो रात्रिदेवताया इदमचिन्त्यं सर्वलोकाभिमुखजगद्विनयनिदर्शनबोधिसत्त्वविमोक्षवृषभिताविकुर्वितं दृष्ट्वा प्रहर्षजातो महाप्रीतिवेगसागरप्रतिलब्धः समन्तसत्त्वत्राणोजःश्रियो रात्रिदेवतायाः सर्वशरीरेण प्रणिपत्य ऊर्ध्वं वदनमवलोकयामास। अथ खलु समन्तसत्त्वत्राणोजःश्री रात्रीदेवता तां बोधिसत्त्वरूपलक्षणविशुद्धिसंपदमन्तर्धाप्य रात्रिदेवतारूपेण सर्वविकुर्वितानि प्रवर्तयमाना अध्यतिष्ठत्। अथ खलु सुधनः श्रेष्ठिदारकः समन्तसत्त्वत्राणोजश्रियो रात्रिदेवतायाः पुरतः प्राञ्जलिः स्थित्वा तस्यां वेलायामिमा गाथा अभाषत—



दृष्टो मया विपुलकायु तवा वरलक्षणो रतन‍आभरण।

अनुव्यञ्जनैः चित्रविचित्रशुभैर्गगनं ज्योतिषगणेन यथा॥१॥



तवनन्तक्षेत्ररजधातुसमं प्रभमण्डलं प्रवरकायशुभम्।

नानाविधानुपमवर्णनिभा येन स्फरी दिशमनन्ततला॥२॥



बहु रश्मिजाल जगच्चित्तसमास्त्वं सर्वरोममुखतः सृजसे।

रश्मीमुखे रुचिरपद्मस्थिताः तव निर्मिता जगि समेति दुःखम्॥३॥



गन्धार्चिमेघपटलां सृजसे जगरूपसंस्थितसमन्तशुभाम्।

पुष्पा प्रवर्षन्त समन्तमुखं स्फरति धर्मधातुगत सर्वजिनान्॥४॥



रतनार्चिपर्वतमेरुनिभं तव आभकूटु विपुलं विमलम्।

येन प्रभासति समन्तजगे मोहान्धकार विनिवर्तयसे॥५॥



तव सूर्यमेघपटला विपुला सद निश्चरन्ति वदनाद्विमलाः।

वैरोचनस्य विषयं विपुलं तव सूर्यमण्डलप्रभोत्सृजति॥६॥



तव चन्द्रज्योतिषप्रभा विमला नयनेभि मेघ सद निश्चरिषु।

ते चो दशद्दिशि स्फरित्व जगं द्योतन्ति लोकि तिमिरोपहता॥७॥



तव लक्षणैर्जगशरीरसमा गच्छति निर्मितसमुद्र दिशः।

ते धर्मधातुविपुलस्फरणाः परिपाचयन्त्यमितसर्वगणान्॥८॥



तव कायु दृश्यति हि दिक्प्रसरैः सर्वजगाभिमुख प्रीतिकरः।

राजाग्निचोरजलजात्यमितं सर्वं भयं शमयसे विनयन्॥९॥



यद प्रेषितस्तव सकाशमहं समुपस्थितो गुण विचिन्तयता।

तद रश्मिमण्डल शुभा विमला भ्रुमुखान्तरातु तव निश्चरिषु॥१०॥



ओभासयन् दिश समुद्रशतानालोक लोकि विपुलां जनिय।

नानाविकुर्वित विदर्श्य बहूनस्तंगता मम शरीरि तदा॥११॥



यद रश्मिण्डल ममा निपती तद सौख्यमद्भुतमुदारमभूत्।

ओक्रान्त धारणि समाधिशता पश्यामि दिक्षु च जिनानमिता॥१२॥



क्रमविक्रमे यद धरा क्रमतः परमाणुसंख्यनयु ज्ञातु मया।

पश्यामि क्षेत्रपरमाणुसमा क्षेत्राणि एकपरमाणुरजे॥१३॥



रजसि स्थिता पृथगनेकविधा नेकान्तक्लिष्ट बहु क्षेत्रशता।

दुःखानि येष्वनुभवन्ति जनाः परिदेवरोदितनिनादरुतैः॥१४॥



संक्लिष्टशुद्ध पुन क्षेत्र बहून् अल्पं सुखं विपुल यत्र दुःख।

समुदेन्ति येषु जिन कारुणिक जिनश्रावका अपि प्रत्येकजिनाः॥१५॥



परिशुद्धक्लिष्ट पुन क्षेत्रनया बहुबोधिसत्त्वरचनाप्रचिताः।

नरनारिमण्डित सुदर्शनीयाः जिनवंशु यत्र स्थिहती रुचिरः॥१६॥



क्षेत्रसमुद्र विपुल विमला रजसि स्थिता समतलानुगता।

वैरोचने चरिता हि पुरा परिशोधिता विपुलकल्पशतैः॥१७॥



सर्वेषु क्षेत्रप्रसरेषु जिनाः संदृश्यिषु द्रुमवरेन्द्रगताः।

बोधि विबुद्ध्ययु विकुर्वयतो चक्रं प्रवर्त्यं विनयन्ति जगत्॥१८॥



पश्यामि त्वामनुगतामपि तां वैरोचनस्य विषये विपुले।

पूजा सहस्रनयुतैः अमितैः सर्वान् जिनान् समभिपूजयन्ती॥१९॥



अथ खलु सुधनः श्रेष्ठिदारकः इमा गाथा भाषित्वा समन्तसत्त्वत्राणोजःश्रियं रात्रिदेवतामेतदवोचत्-आश्चर्यं देवते, यावद्भम्भीरोऽयं बोधिसत्त्वविमोक्षः। किं नाम अयं विमोक्षः? कियच्चिरप्रतिलब्धश्चायं त्वया? कथं च प्रतिपद्यमानो बोधिसत्त्वः इमं बोधिसत्त्वविमोक्षं परिशोधयति

? आह-दुरभिसंभवं कुलपुत्र एतत्स्थानं सदेवकेन लोकेन सश्रावकप्रत्येकबुद्धेन। तत्कस्य हेतोः? समन्तभद्रबोधिसत्त्वचर्याप्रणिधानानुगतानां हि बोधिसत्त्वानामेष गोचरो महाकरुणागर्भाणां सर्वजगत्परित्राणप्रतिपन्नानां सर्वाक्षणापायदुर्गतिपथविशोधनप्रतिपन्नानां सर्वक्षेत्रानुत्तरबुद्धक्षेत्रपरिशुद्धिप्रतिपन्नानां सर्वबुद्धक्षेत्रतथागतवंशानुपच्छेदप्रतिपन्नानां सर्वबुद्धशासनसंधारणप्रतिपन्नानां सर्वकल्पबोधिसत्त्वचर्यासंवाससंवसनमहाप्रणिधानसागरावतीर्णानां सर्वधर्मसागरवितिमिरज्ञानालोकविशोधनप्रतिपन्नानामेकक्षणेन सर्वत्र्यध्वनयसागरज्ञानालोकविहारप्रतिलब्धानां बोधिसत्त्वानामेष विषयः। अथ च पुनस्तथागताधिष्ठानेन निर्देक्ष्यामि—



भूतपूर्वं कुलपुत्र अतीतेऽध्वनि बुद्धक्षेत्रपरमाणुरजःसमानां कल्पानां परेण वैरोचनतेजःश्रियां लोकधातौ विरजोमण्डलो नाम कल्पोऽभूत् सुमेरुपरमाणुरजःसमबुद्धोत्पादप्रभवः। सा खलु पुनर्वैरोचनतेजःश्रीलोकधातुः सर्वरत्नमेघव्यूहा वज्रमयविमानभवनप्रतिमण्डिताभूत्॥



अथ सा लोकधातुः सर्वविमलप्रभमणिराजसागरप्रतिष्ठिता सर्वगन्धराजमणिरत्नशरीरा समन्तपरिमण्डलविशुद्धसंक्लिष्टा सर्वाभरणमेघवितानसंछादिता सर्वव्यूहमणिचक्रवालसहस्रपरिक्षिप्ता चातुर्द्वीपिककोटिनियुतशतसहस्रसुरचितव्यूहा। काचित्तत्र चातुर्द्वीपिका संक्लिष्टासंक्लिष्टकर्मणां सत्त्वानामावासः, काचित्संक्लिष्टविशुद्धव्यामिश्रकर्मणां सत्त्वानामावासः, काचिद्विशुद्धसंक्लिष्टानां सत्त्वानामावासः उत्तप्तकुशलमूलानामल्पसावद्यानाम्, काचिदेकान्तपरिशुद्धानां बोधिसत्त्वानामावासः॥



तस्याः खलु पुनर्वैरोचनश्रियो लोकधातोः पूर्वेण चक्रवालानुसंधौ रत्नकुसुमप्रदीपध्वजा नाम चातुर्द्वीपिका भूमिशुद्धिसंक्लिष्टा अकृष्टोप्तशालिपरिभोगा पूर्वकर्मविपाकाभिनिर्वृत्तकूटागारभवनविमानपरिभोगा समन्तात् कल्पवृक्षसंछादिता नानागन्धवृक्षसदाप्रमुक्तकोशगन्धमेघा विविधमाल्यवृक्षसदाप्रवर्षितमाल्यमेघा विचित्रपुष्पवृक्षा अचिन्त्यवर्णगन्धपुष्पवर्षौघप्रमुक्ता नानावर्णचूर्णवृक्षसदाप्रमुक्तकोशसर्वगन्धरत्न‍राजचूर्णवर्षाभिप्रवृष्टा विविधरत्नवृक्षमहामणिरत्नकोशविसृतवर्णावभाषिता दिव्यवाद्यवृक्षसर्ववाद्यमेघवातसमीरितगगनतलप्रमुक्तमधुरनिर्घोषा चन्द्रसूर्यरात्रिंदिवासुखप्रभवा मणिरत्नसमन्तावभाससमभूमिभागा॥



तस्यां खलु चातुर्द्वीपिकायां दश राजधानीकोटीनियुतशतसहस्राण्यभूवन्। एकैका च राजधानी समन्तान्नदीसहस्रपरिक्षिप्ता। सर्वाश्च ता नद्यो विचित्रदिवापुष्पौघसंकरवाहिन्यो दिव्यतूर्यसंगीतिमनोज्ञमधुरनिर्घोषाः सर्वरत्नद्रुमतीरसुरुचिरव्यूहाः नानारत्नप्रतिमण्डिताः नौसंचारिण्यो यथेच्छाविविधसुखपरिभोग्याः। एकैकस्यां च नद्यन्तरिकायां दश नगरकोटीनियुतशतसहस्राणि संस्थितान्यभूवन्। एकैकं च नगरं दशग्रामकोटीनियुतशतसहस्रपरिवारम्। सर्वे ते ग्रामनगरनिगमा अनेकदिव्योद्यानभवनविमानकोटीनियुतशतसहस्रपरिवारा अभूवन्। तस्यां खलु पुनश्चातुर्द्वीपिकायां जम्बुद्वीपस्य मध्ये रत्नकुसुमप्रदीपा नाम मध्यमा राजधान्यभूत्, ऋद्धा च स्फीता च क्षेमा च सुभिक्षा च आकीर्णबहुजनदेवमनुष्या च दशकुशलकर्मपथसमात्तानां सत्त्वानामालयः। तस्यां खलु पुना रत्नकुसुमप्रदीपायां राजधान्यां वैरोचनरत्नपद्मगर्भश्रीचूडो नाम राज अभूत चक्रवर्ती चतुर्द्वीपेश्वरः औपपादुकः पद्मगर्भे द्वात्रिंशन्महापुरुषलक्षणसमलंकृतशरीरो धार्मिको धर्मराजः सप्तरत्नसमन्वागतः। पूर्णं चास्य सहस्रमभूत् पुत्राणां शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानां सर्वाकारसुपरिपूर्णवराङ्गानाम्। दश चास्य स्त्रीकोटीनियुतशतसहस्राण्यन्तःपुरमभूत् सर्वासां चक्रवर्तिसभागकुशलमूलसंभवानां सभागचरितानां सहरत्नकायालंकाराणां कल्याणचित्तानां देवकन्यानिर्विशेषसदृशरूपाणां जाम्बूनदसुवर्णवर्णकायानां नानादिव्यगन्धरोमकूपप्रमुक्तगात्राणां दिव्यगन्धविमलप्रभाप्रमुञ्चनशरीराणाम्। दश चास्य अमात्यकोट्योऽभूवन् परिणायकरत्नप्रमुखाः॥



तस्य खलु वैरोचनरत्नपद्मगर्भश्रीचूडस्य राज्ञश्चक्रवर्तिनः संपूर्णश्रीवक्रा नाम भार्या अभूत् स्त्रीरत्नम्, अभिरूपा प्रासादिका दर्शनीया परमशुभवर्णपुष्कलतया समन्वागता। अभिनीलकेशी अभिनीलनेत्रा सुवर्णवर्णच्छविर्ब्रह्मस्वरा सततप्रमुक्तप्रभाशरीरा समन्ताद्योजनसहस्रमनेकवर्णया दिव्यगन्धप्रभया स्फरति स्म। तस्याश्च संपूर्णश्रीवक्राया राजभार्यायापद्मभद्राभिरामनेत्रश्रीर्नाम चक्रवर्तिदुहिता अभूत्, सर्वाङ्गसंपूर्णा अभिरूपा प्रासादिका दर्शनीया सर्वलोकातृप्तदर्शना। तद्यथापि नाम कुलपुत्र राज्ञश्चक्रवर्तिनो दर्शनेन न कश्चित् तृप्यति, एवमेव तस्याः पद्मभद्राभिरामिनेत्रश्रियश्चक्रवर्तिदुहितुर्न कश्चिद्दर्शनेन तृप्तिमापद्यते स्थापयित्वा प्रज्ञातृप्तान्। तेन च कालेन तेन समयेन अमितायुषः सत्त्वा अभूवन् न नियतायुषः, नास्ति अन्तरेण कालक्रिया। तेन च कालेन सत्त्वानां संस्थाननानात्वमपि प्रज्ञायते स्म। वर्णनानात्वमपि स्वरनानात्वमपि नामधेयनानात्वमपि कुलनानात्वमपि आयुष्प्रमाणनानात्वमपि आरोहपरिणाहविमात्रतामपि उत्साहबलपराक्रमस्थामविमात्रतामपि मनापामनापकरणीयविमात्रतामपि उदारहीनाधिमुक्तिनानात्वमपि प्रज्ञायते स्म। तत्र ये सत्त्वाः सुवर्णा अभूवन्नुदाराधिमुक्तिकाः संपूर्णगात्रा अभिरूपा दर्शनीयाः, त एवं वाचमभाषन्त-अहं भोः पुरुष सुवर्णतरस्त्वत्सकाशादिति। एवं ये सत्त्वाः सुसंस्थितशरीरा अभूवन्, ते दुःसंस्थितशरीरान् सर्वानवमन्यन्ते स्म। ते तेन अन्योन्यावमाननासमुदितेन अकुशलमूलेन आयुःप्रमाणादपि परिहीयन्ते स्म, वर्णादपि बलादपि सौख्यादपि परिहीयन्ते स्म॥



तस्यां खलु रत्नकुसुमप्रदीपायां राजधान्यामुत्तरेण समन्तावभासनधर्ममेघनिर्घोषध्वजो नाम बोधिमण्डवृक्षोऽभूत् सर्वतथागतबोधिमण्डव्यूहप्रतिक्षणदर्शनः अभेद्यवज्रमणिराजसारमूलः सर्वमणिरत्ननिचितविपुलोद्विद्धस्कन्धः सर्वरत्नमयस्कन्धशाखापत्रपलाशपुष्पफलः संपन्नः समन्तसुविभक्तः समभागाभिप्रलम्बरचितशाखः समन्तस्फरणाक्षयताव्यूहो नानारत्नार्चिविद्युत्समन्तभद्रप्रमुक्तावभासः सर्वतथागतविषयविकुर्वितनिर्घोषानुरवितः॥



तस्य खलु बोधिमण्डस्य पुरतो रत्नकुसुमविद्युद्धर्मनिगर्जितमेघघोषं नाम गन्धोदकसरोऽभूद्दशरत्नद्रुमकोटीनियुतशतसहस्रपरिवारम्। सर्वे च ते रत्नवृक्षा बोधिवृक्षसंस्थाना अभूवन्। तस्य खलु पुना रत्नकुसुमविद्युद्धर्मनिगर्जितमेघघोषस्य महागन्धोदकसरसः सर्वमणिरत्नसुविभक्तनिचितानि कूलान्यभूवन्, सर्वरत्नहारप्रलम्बितानि विशुद्धरत्नमयसर्वभवनव्यूहोपशोभितानि विशुद्धसर्वाभरणव्यूहसमलंकृतानि। सर्वश्च बोधिमण्डोऽप्रमाणैः पद्मगर्भैरचिन्त्यव्यूहमहामणिरत्नकूटागारैः समन्तात्परिवृतोऽभूत्। तस्य खलु पुना रत्नकुसुमविद्युद्धर्मनिगर्जितमेघघोषस्य गन्धोदकसरसः मध्यात् सर्वत्र्यध्वतथागतविषयपत्रसंधिविद्योतितमेघव्यूहं नाम महारत्न‍राजपद्मं प्रादुरभूत्॥



तत्र महापद्मे समन्तज्ञानार्चिश्रीगुणकेतुध्वजो नाम तथागतः प्रादुर्बभूव तेषां सुमेरुपरमाणुरजःसमानां तथागतानां प्रथमकल्पिकः, येन तस्मिन् कल्पे सर्वप्रथममनुत्तरा सम्यक्संबोधिरभिसंबुद्धा। सोऽनेकवर्षसहस्राणि धर्मश्रवणेन सत्त्वान् परिपाच्य दशवर्षसहस्रं रश्म्यवभासविकुर्वितेन परिपाचयामास तत्र दशभिर्वर्षसहस्रैः स तथागतः प्रादुर्भविष्यतीति। यत्ततः सर्वत्र्यध्वतथागतविषयपत्रसंधिविद्योतितरश्मिमेघव्यूहमहारत्न‍राजपद्मात् सर्वसत्त्वविरजःप्रदीपा नाम रश्मिर्निश्चचार, यया रश्म्या ते सत्त्वाः स्पृष्टाः संजानन्ति स्म-दशभिर्वर्षसहस्रैस्तथागत उत्पत्स्यत इति, नवभिर्वर्षसहस्रैः स तथागत उत्पत्स्यत इति। यत्ततो महाबोधिवृक्षाद्विरजोवतीश्रीगर्भा नाम रश्मिर्निश्चचार, यया रश्म्या ते सत्त्वाः स्पृष्टाः सर्वरूपाणि सूक्ष्माण्यपश्यन्-अष्टाभिर्वर्षसहस्रैः स तथागत उत्पत्स्यत इति। यत्तत एव महाबोधिवृक्षात् सर्वसत्त्वकर्मविपाकनिर्घोषा नाम रश्मिर्निश्चचार, यया रश्म्या ते सत्त्वाः स्पृष्टाः स्वकस्वकान् कर्मसमुद्रानवतरन्ति स्म, कर्मस्मृतिज्ञानं च प्रत्यलभन्त-सप्तभिर्वर्षसहस्रैः स तथागत उत्पत्स्यत इति। यत्तत एव महाबोधिवृक्षात् सर्वकुशलमूलसंभवनिर्घोषा नाम रश्मिर्निश्चचार, यया रश्म्या ते सत्त्वाः स्पृष्टाः परिपूर्णा अविकलसर्वेन्द्रियाः संतिष्ठन्ते स्म-षड्भिर्वर्षसहस्रैः स तथागत उत्पत्स्यत इति। यत्तत एव महाबोधिवृक्षादचिन्त्यबुद्धविषयनिदर्शननिर्घोषा नाम रश्मिर्निश्चचार, यया ते सत्त्वाः स्पृष्टाः उदारातिशयतया विकुर्वन्ति स्म-पञ्चभिर्वर्षसहस्रैः स तथागत उत्पत्स्यत इति। यत्तत एव महाबोधिवृक्षात् सर्वबुद्धक्षेत्रपरिशुद्धिनिगर्जितप्रतिभासविज्ञापना नाम रश्मिर्निश्चचार, यया ते सत्त्वाः स्पृष्टाः सर्वाकारां बुद्धक्षेत्रपरिशुद्धिमद्राक्षुः चतुर्भिर्वर्षसहस्रैः स तथागत उत्पत्स्यत इति। यत्तत एव महाबोधिवृक्षात् सर्वतथागतविषयासंभेदप्रदीपा नाम रश्मिर्निश्चचार, यया ते सत्त्वाः स्पृष्टाः तस्य तथागतस्य सर्वत्रानुगतविकुर्वितमवतरन्ति स्म-त्रिभिर्वर्षसहस्रैः स तथागत उत्पत्स्यत इति। यत्तत एव महाबोधिवृक्षात्सर्वजगदभिमुखप्रदीपा नाम रश्मिर्निश्चचार, यया ते सत्त्वाः स्पृष्टाः तथागतमभिमुखमधिमुच्यापश्यन्-द्वाभ्यां वर्षसहस्राभ्यां स तथागत उत्पस्यत इति। यत्तत एव महाबोधिवृक्षात् त्र्यध्वज्ञानविद्युत्प्रदीपा नाम रश्मिर्निश्चचार सतथागतपूर्वयोगनिर्घोषा नाम, यया ते सत्त्वाः स्पृष्टाः तस्य तथागतस्य पूर्वयोगसमुद्रानवकल्पयामासुरवतरन्ति स्म-वर्षसहस्रेण स तथागत उत्पत्स्यत इति। यत्ततो महाबोधिवृक्षाद्वितिमिरज्ञानतथागतप्रदीपा नाम रश्मिर्निश्चचार, यया ते सत्त्वाः स्पृष्टाः समन्तचक्षुष्कतां प्रत्यलभन्त सर्वतथागतविकुर्वितबुद्धक्षेत्रसर्वसत्त्वदर्शनतायै-वर्षशतेन स तथागत उत्पत्स्यत इति। यत्तत एव महाबोधिवृक्षात् सर्वजगद्बुद्धदर्शनविपाककुशलमूलसंभवा नाम रश्मिर्निश्चचार, यया ते सत्त्वाः स्पृष्टाः तथागतोत्पादसंज्ञां प्रत्यलभन्त-सप्ताहेन स तथागत उत्पत्स्यत इति। यत्तत एव महाबोधिवृक्षात् सर्वसत्त्वप्रहर्षप्रीतिप्रामोद्यसमुदयनिर्घोषा नाम रश्मिर्निश्चचार, यया ते सत्त्वाः स्पृष्टाः बुद्धदर्शनमहाप्रीतिवेगसंजाता अभूवन्। इति हि कुलपुत्र एभिरेवंरूपैरप्रमाणैः रश्मिपरिपाचननयैर्दशवर्षसहस्राणि सत्त्वान् परिपाच्य सप्तमे दिवसे पूर्णे सर्वं तं लोकधातुमप्रमाणैः संकम्पननयैः संकम्प्य एकान्तपरिशुद्धामध्यतिष्ठत् यावद्दशसु दिक्षु सर्वतथागतानां बुद्धक्षेत्रपरिशुद्धिः। तामपि सर्वां प्रतिचित्तक्षणं तत्र बुद्धक्षेत्रनानाविधाचिन्त्यव्यूहान् संदर्शयामास। अथ पश्चिमे सप्ताहे ये तत्र लोकधातौ सत्त्वा बुद्धदर्शनपरिपक्वाः, ते सर्वे बोधिमण्डाभिमुखाः स्थिता अभूवन्॥



अथ खलु तस्मिन् लोकधातौ सर्वचक्रवालेभ्य सर्वसुमेरुभ्यः सर्वपर्वतेभ्यः सर्वनदीभ्यः सर्वसागरेभ्यः सर्ववृक्षेभ्यः सर्वपृथिवीतलेभ्यः सर्वनगरेभ्यः सर्वप्राकारेभ्यः सर्वभवनेभ्यः सर्वविमानेभ्यः सर्ववस्त्राभरणपरिभोगेभ्यः सर्ववाद्यवृक्षेभ्यः सर्वतूर्यसंगीतिभ्यः सर्वनिर्माणव्यूहेभ्यः एकैकस्मादारम्बणात् सर्वतथागतविषयप्रभवं निगर्जमानाः सर्वगन्धधूपमेघान्निर्श्चार्य सर्वरत्नार्चिमेघान् सर्वगन्धधूपार्चिगर्भान् सर्वगन्धमणिविग्रहमेघान् सर्वमणिवस्त्ररत्नाभरणमेघान् सर्वरत्नपुष्पसुमेरुमेघान् सर्वचूर्णमेघान् सर्वतथागतरश्मिमेघान् विद्योतयमानाः सर्वतथागतप्रभामण्डलमेघान्निश्चारयमाणाः सर्ववाद्यतूर्यमेघान् संघट्टयमानाः सर्वतथागतप्रणिधाननिर्घोषमेघान् प्रमुञ्चयमानाः सर्वतथागतस्वराङ्गरुतसमुद्रमेघान् निगर्जयमानाः सर्वतथागतलक्षणानुव्यञ्जनविचित्रप्रतिभासमेघान् निदर्शयमानाः अचिन्त्यानि तथागतोत्पादपूर्वनिमित्तानि संदर्श्य तस्य सर्वत्र्यध्वतथागतविषयपत्रसंधिद्योतितरश्मिमेघव्यूहमहारत्न‍राजपद्मस्य बोधौ दशबुद्धक्षेत्रपरमाणुरजःसमा महारत्न‍राजपद्मपरिवाराः समवतिष्ठन्त। तेषां च महारत्न‍राजपद्मपरिवाराणां महारत्नपद्मानां केसरकर्णिकासु दशबुद्धक्षेत्रपरमाणुरजःसमानि महामणिरत्नगर्भाणि सिंहासनानि प्रादुरभूवन्। तेषु च मणिरत्नगर्भेष्वासनेषु दशबुद्धक्षेत्रशतसहस्रपरमाणुरजःसमा बोधिसत्त्वाः पर्यङ्कनिषण्णाः प्रादुर्बभूवुः॥



समनन्तराभिसंबुद्धस्य तस्य भगवतः समन्तज्ञानरत्नार्चिश्रीगुणकेतुराज्ञः तथागतस्य अनुत्तरां सम्यक्संबोधिम्, अथ तावदेव दशसु दिक्षु सर्वलोकधातुतथागता अनुत्तरां सम्यक्संबोधिमभिसंबुध्य यथाशयानां सत्त्वानामभिमुखं धर्मचक्रं प्रवर्तयामासुः। तेन ततो लोकधातोरप्रमेयाः सत्त्वाः सर्वदुर्गतिविनिपातेभ्यो विनिवर्तिताः। अप्रमेयाः सत्त्वाः स्वर्गोपपत्तिप्रतिष्ठापिताः। अप्रमेयाः सत्त्वाः श्रावकभूमौ प्रतिष्ठापिताः। अप्रमेयाः सत्त्वाः प्रत्येकबोधौ परिपाचिताः। अप्रमेयाः सत्त्वा वेगप्रभानिर्याणायां बोधौ परिपाचिताः। अप्रमेयाः सत्त्वा विमलपराक्रमध्वजायां बोधौ परिपाचिताः। अप्रमेयाः सत्त्वाः धर्मप्रभावनाभवननिर्याणायां बोधौ प्रतिष्ठापिताः। अप्रमेयाः सत्त्वा इन्द्रियपरिशुद्धिप्रभावनानिर्याणायां बोधौ परिपाचिताः। अप्रमेयाः सत्त्वाः बलसमतासमुदाचारानुगमनिर्याणायां बोधौ परिपाचिताः। अप्रमेयाः सत्त्वा धर्मनगराभिमुखविषययानसंभवनिर्याणायां बोधौ प्रतिष्ठापिताः। अप्रमेयाः सत्त्वाः सर्वत्रानुगतर्द्ध्यभिसंभिन्ननययानननिर्याणायां बोधौ प्रतिष्ठापिताः। अप्रमेयाः सत्त्वाः चर्याप्रयोगसमवसरणनयनिर्याणायां बोधौ प्रतिष्ठापिताः। अप्रमेयाः सत्त्वाः समाधिप्रस्थाननयनिर्याणायां बोधौ प्रतिष्ठापिताः। अप्रमेयाः सत्त्वाः सर्वारम्बणविषयपरिशुद्धिमण्डलनयनिर्याणायां बोधौ प्रतिष्ठापिताः। अप्रमेयाः सत्त्वा बोधिसत्त्वबोधौ चित्तमुत्पादिताः। अप्रमेयाः सत्त्वा बोधिसत्त्वमार्गे प्रतिष्ठापिताः। अप्रमेयाः सत्त्वाः पारमितामार्गविशुद्धौ प्रतिष्ठापिताः। अप्रमेयाः सत्त्वाः प्रथमायां बोधिसत्त्वभूमौ प्रतिष्ठापिताः। एवं तस्य तथागतस्य अचिन्त्येन बुद्धवृषभिताविकुर्वितेन धर्मचक्रं प्रवर्तयतः प्रतिचित्तक्षणमनन्ताप्रमेयाः सत्त्वा द्वितीयायां तृतीयायां चतुर्थ्यां पञ्चभ्यां षष्ठ्यां सप्तम्यामष्टभ्यां नवम्याम्, अप्रमेयाः सत्त्वा दशभ्यां भूमौ प्रतिष्ठापिताः। अप्रमेयाः सत्त्वाः प्रणिधानवैशेषिकायां बोधिसत्त्वचर्यायामवतारिताः। अप्रमेयाः सत्त्वाः समन्तभद्रबोधिसत्त्वचर्याप्रणिधानविशुद्धौ प्रतिष्ठापिताः। एवं तस्य तथागतस्य अचिन्त्येन बुद्धवृषभिताविकुर्वितेन धर्मचक्रं प्रवर्तयतः प्रतिचित्तक्षणमनन्तमध्यसत्त्वधातुर्विनयमगमत्। तस्मिंश्च लोकधातौ सर्वसत्त्वा यथाशयास्तस्य तथागतस्य नानात्मभावोपायकौशल्यप्रमुक्तां धर्मदेशनामाजानन्ति स्म॥



तस्यां खलु पुना रत्नकुसुमप्रदीपायां राजधान्यां रूपवर्णविषयपरिभोगमदमत्तानां सत्त्वानामन्योन्यमवमन्यमानानां विनयवशं समुपादाय समन्तभद्रो बोधिसत्त्व उदारवर्णरूपगतमभिनिर्माय तां राजधानीमनुप्राप्तः। तस्योदारया प्रभया सर्वा सा राजधान्यवभासिता। या च तस्या राजधान्याः प्रभा, या च राज्ञश्चक्रवर्तिनो वैरोचनरत्नपद्मगर्भश्रीचूडस्य स्वशरीरनिर्याता प्रभा, या च स्त्रीरत्नस्य प्रभा, या च रत्नवृक्षाणां प्रभा, या च महामणिरत्नस्य प्रभा, या च चन्द्रसूर्यग्रहनक्षत्रज्योतिषां प्रभा, या च सर्वजम्बुद्वीपे प्रभा, सा च सर्वा न प्रज्ञायते स्म। तद्यथापि नाम आदित्ये उदिते विगतेऽन्धकारे न चन्द्रग्रहनक्षत्रज्योतिषां नाग्नेर्न मणीनां प्रभा प्रज्ञायते स्म, एवमेव समन्तभद्रस्य बोधिसत्त्वस्य प्रभयाभिभूताः तत्र जम्बुद्वीपे सर्वप्रभा न प्रज्ञायते स्म। तद्यथापि नाम जाम्बूनदकनकबिम्बस्य पुरतो मषिविग्रहो न शोभते न भासते न तपति न विरोचते, एवमेव समन्तभद्रस्य बोधिसत्त्वस्य पुरतः तेषां सत्त्वानां रूपकाया न शोभन्ते, न भासन्ते, न तपन्ति, न विरोचन्ते॥



तेषामेतदभवत्-कोऽन्वयं भविष्यति देवो वा ब्रह्मा वा, यस्य पुरतो वयं न शोभामहे, न भासामहे, न तपामो न विरोचामहे कायेन वा प्रभया वा शुभया वा वर्णेन वा तेजसा वा? न चास्य शक्नुमो निमित्तमुद्ग्रहीतुम्॥



अथ खलु समन्तभद्रो बोधिसत्त्वः तस्या रत्नकुसुमप्रदीपाया राजधान्या मध्ये वैरोचनरत्नपद्मगर्भश्रीचूडस्य राज्ञश्चक्रवर्तिनो विमानस्योपर्यन्तरिक्षे स्थित्वा तं वैरोचनरत्नपद्मगर्भश्रीचूडं राजानं चक्रवर्तिनमेतदवोचत्-यत् खलु महाराज जानीयाः-तथागतोऽर्हन् सम्यक्संबुद्धो लोक उत्पन्नः। इहैव तव विजिते समन्तधर्मावभासधर्ममेघनिर्घोषध्वजबोधिमण्डे विहरति॥



अथ खलु समन्तज्ञानार्चिपद्मभद्राभिरामनेत्रश्रीचन्द्रा राजदुहिता समन्तभद्रस्य बोधिसत्त्वस्य रूपकायं दृष्ट्वा प्रभाविकुर्वितमाभरणनिर्घोषं च श्रुत्वा महाप्रीतिप्रामोद्यवेगजाता तस्यां वेलायामेवं चित्तमुत्पादयामास-यन्मे किंचिदुपचितकुशलमूलं तेनाहमीदृशं कायं प्रतिलभेयम्। ईदृशमलंकारम्, ईदृशानि लक्षणानि, ईदृशमीर्यापथम्, ईदृशीमृद्धिम्। यथा अनेनान्धकारायां रात्रौ सत्त्वानामवभासं संजनय्य बुद्धोत्पादः संप्रकाशितः, तथाहमपि सत्त्वानामज्ञानान्धकारं विधूय महाज्ञानालोकं कुर्याम्। यत्र यत्र चोत्पद्येयम्, सर्वत्राविरहिता स्यामनेन कल्याणमित्रेण॥



अथ खलु कुलपुत्र वैरोचनरत्नपद्मगर्भश्रीचूडश्चक्रवर्ती साध चतुरङ्गेन बलकायेन, सार्धं सप्तभी रत्नैः, सार्धं स्त्रीगणपरिवारेण, सार्धं पुत्रामात्यनैगमैर्जानपदैः, महत्या राजर्द्ध्या, महता राजानुभावेन तस्या रत्नकुसुमप्रदीपाया राजधान्या उच्चाल्य योजनमूर्ध्वं विहायस्यभ्युद्गम्य सर्वं जम्बुद्वीपं सर्वावतीं चातुर्द्वीपिकलोकधातुं महावभासेन स्फरित्वा सर्वसत्त्वानां बुद्धदर्शनसमादापनार्थं सर्वरत्नपर्वतेषु प्रतिभासं संदर्श्य सर्वचातुर्द्वीपिकलोकधातुपर्यापन्नानां सत्त्वानामभिमुखं स्थित्वा तद्बुद्धदर्शनं गाथाभिगीतेन संवर्णयामास—



बुद्ध लोके समुत्पन्नस्त्राता यः सर्वदेहिनाम्।

सर्वे व्रजन्त उत्थाय द्रष्टुं लोकविनायकम्॥२०॥



कदाचित्कल्पकोटीभिरुत्पद्यन्ते तथागताः।

प्रकाशयन्ति ते धर्मं हितार्थं सर्वदेहिनाम्॥२१॥



दृष्ट्वा लोकं विपर्यस्तमज्ञानतिमिरावृतम्।

संसारदुःखाभिहतं संजन्य महतीं कृपाम्॥२२॥



कल्पकोटीरसंख्येयाश्चरिता बोधिचारिका।

सत्त्वानां परिपाकार्थं सर्वदुःखोपशान्तये॥२३॥



पर्यत्यजन् हस्तपादा कर्णनासा शिरांसि च।

कल्पाननन्तपर्यन्ता बुद्धबोध्यमृताप्तये॥२४॥



दुर्लभाः कल्पकोटीभिर्लोके लोकविनायकाः।

अमोघं श्रवणं येषां दर्शनं पर्युपासनम्॥२५॥



बोध्यासननिषण्णोऽयं दृश्यते वदतां वरः।

मारं ससैन्यं निर्जित्य विबुद्धो बोधिमुत्तमाम्॥२६॥



बुद्धकायं च वीक्षध्वं अनन्तरश्मिमण्डलम्।

नानावर्णं विनिःसृत्य प्रह्लादयति यज्जगत्॥२७॥



रश्मिमेघानसंख्येयान् बुद्धरोमविनिःसृतान्।

विन्दन्ति प्रीतिमतुलां सत्त्वा यैरवभासिताः॥२८॥



स्वकस्वकेन चित्तेन पूजयध्वं विनायकम्।

जनयित्वा महर्द्वीर्यमेत यामस्तदन्तिकम्॥२९॥



अथ खलु राजा वैरोचनरत्नपद्मगर्भश्रीचूडश्चाभिर्गाथाभिः स्वविजितवासिनः सर्वान् सत्त्वान् संचोद्य दशभिर्विविधपूजामेघसहस्रैश्चक्रवर्तिकुशलमूलपरिनिष्पन्नैः समन्तावभासधर्ममेघनिर्घोषध्वजं बोधिमण्डं समन्तादभिप्रवर्षन् येन स भगवान् समन्तज्ञानरत्नार्चिश्रीगुणकेतुराजस्तथागतः तेनोपसंक्रान्तः सर्वरत्नच्छत्रमेघसंछादितमाकाशं कुर्वन्, सर्वपुष्पवितानमेघविततमाकाशं कुर्वन्, सर्ववस्त्रमेघसंछादितालंकारमाकाशं कुर्वन्, सर्वरत्नकिङ्किणीजालमेघैर्गगनमलंकुर्वन्, सर्वगन्धसागरनिर्धूपितगन्धार्चिमेघालंकारं गगनतलमधितिष्ठन्, सर्वरत्नासनमणिरत्नवस्त्रप्रज्ञप्तविरचनमेघालंकारं गगनतलमधितिष्ठन्, सर्वरत्नध्वजमेघोच्छ्रितालंकारं गगनतलमधितिष्ठान्, सर्वभवनविमानमेघसंछन्नालंकारं गगनतलमधितिष्ठन्, सर्वपुष्पमेघसंछन्नालंकारं गगनतलमधितिष्ठन्, सर्वपूजाव्यूहमेघाभिप्रवर्षणालंकारं गगनतलमधितिष्ठन्। उपसंक्रम्य भगवतः समन्तज्ञानरत्नर्चिश्रीगुणकेतुराजस्य तथागतस्य पादौ शिरसाभिवन्द्य तं भगवन्तमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य तस्य भगवतः पुरतः समन्तदिग्विद्योतितमहामणिरत्नपद्मगर्भासने न्यषीदत्॥



अथ खलु समन्तज्ञानरत्नार्चिःपद्मभद्राभिरामनेत्रश्रीचन्द्रा चक्रवर्तिदुहिता स्वान्याभरणानि कायान्निर्मुच्य तैराभरणैस्तं भगवन्तं समन्तज्ञानरत्नार्चिश्रीगुणकेतुराजानं तथागतमभ्यवकिरत्। अथ तान्याभरणानि तस्य भगवतः उपरि मूर्धसंधौ महामणिरत्नाभरणच्छत्रं संस्थितमभूवन् विचित्रमणिरत्नजालपरिक्षिप्तं नागेन्द्रकायपरिगृहीतं सर्वाभरणशरीरसुसंस्थितपरिमण्डलं दशाभरणच्छत्रमण्डलपरिवारितमेकान्तपरिशुद्धं कूटागारसंस्थानविचित्रव्यूहं सर्वरत्नाभरणमेघसंछादितं सर्वमणिराजद्रुमव्यूहसंछन्नं सर्वगन्धसागरमणिराजसमलंकृतम्। तस्य मध्ये धर्मधातुप्रभवसर्वरत्नमणिशाखाप्रलम्बं नाम महाबोधिवृक्षमद्राक्षीत् अनन्तमध्यव्यूहनिर्देशं प्रदक्षिणनानाव्यूहसंदर्शनम्। तत्र वैरोचनं नाम तथागतमद्राक्षीत् अनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमैर्बोधिसत्त्वैः परिवृतं पुरस्कृतं सर्वैः समन्तभद्रबोधिसत्त्वचर्याप्रणिधाननिर्यातैः नानाबोधिसत्त्वैरचिन्त्यव्यूहासंभिन्नविहारिभिः, सर्वलोकेन्द्रांश्च तदभिमुखानद्राक्षीत्। तस्य भगवतो वैरोचनस्यानन्तमध्यं बुद्धविकुर्वितमद्राक्षीत्, पूर्वबोधिसत्त्वचर्याकल्पपरंपरां च अवतरति स्म। तस्याश्च लोकधातोः संवर्तविवर्तकल्पानवतरति स्म। तत्र लोकधातावतीतां बुद्धवंशपरंपरामवतरति स्म। तस्यां च लोकधातौ समन्तभद्रबोधिसत्त्वमद्राक्षीत्। सर्वतथागतपादमूलेषु बुद्धपूजाप्रयुक्तसर्वसत्त्वपरिपाकविनयाभिमुखं चाद्राक्षीत्। सर्वबोधिसत्त्वांश्च समन्तभद्रस्य बोधिसत्त्वस्य काये प्रतिभासप्राप्तान्, आत्मानं च तत्रैवानुगतमद्राक्षीत् सर्वतथागतपादमूलेषु। समन्तभद्रस्य बोधिसत्त्वस्य कायप्रतिभासप्राप्तसर्वबोधिसत्त्वपादमूलेषु सर्वसत्त्वभवनेषु, तासु च लोकधातुष्वेकैकस्मिन् लोकधातौ बुद्धक्षेत्रपरमाणुरजःसमान् लोकधातूनद्राक्षीत्। ससंधिव्यूहान्, सप्रतिष्ठानान्, ससंस्थानान्, सशरीरान्, सनानाव्यूहपरिशुद्धान्, नानाव्यूहमेघपरिसंछन्नान्, नानाकल्पनामसंख्येयान्, नानातथागतवंशनिर्देशान्, नानात्र्यध्वनयावतारान्, नानादिक्प्रसरप्रवेशान्, नानाधर्मधातुप्रसरपर्यापन्नान् नानाधर्मधातुतलप्रवेशान्, नानाकाशतलव्यवस्थानान्, नानाबोधिगण्डव्यूहान्, नानातथागतविकुर्वितप्रभान्, नानाबुद्धसिंहासनव्यूहान्, नानातथागतपर्षन्मण्डलसमुद्रान् नानातथागतपर्षन्मण्डलपरिवर्तान् नानातथागतोपायकौशल्यपरिदीपनान्, नानातथागतधर्मचक्रप्रवर्तननयान्, नानातथागतस्वराङ्गरुतनिर्घोषमुक्तान् नानामन्त्रनयसागरनिर्देशान् नानासूत्रान्तमेघानुरवमाणानद्राक्षीत्। दृष्ट्वा च भूयस्या मात्रया महाप्रीतिप्रसादवेगान् प्रत्यलभत॥
तस्या महाप्रीतिवेगसंजातायाः स भगवान् समन्तज्ञानरत्नार्चिःश्रीगुणकेतुराजस्तथागतः सर्वतथागतधर्मचक्रनिर्घोषं नाम सूत्रान्तं संप्रकाशयामास दशबुद्धक्षेत्रपरमाणुरजःसमसूत्रान्तपरिवारम्। तस्यास्तं सूत्रान्तं श्रुत्वा दश समाधिमुखशतसहस्राण्यवक्रान्तानि मृदूनि सुखसंस्पर्शनानि। तद्यथापि नाम तद्दिवसावक्रान्तस्य गर्भस्य मातुः कुक्षौ विज्ञानम्, तद्यथापि नाम सत्त्वानां कर्माभिनिर्हारम्, तद्यथापि नाम तद्दिवसावरुप्तस्य सालकल्याणवृक्षस्य बीजाङ्कुरहेतुः, एवमेव ते समाधयो मृदवः कमनीयाः। यदुत सर्वतथागताभिमुखविज्ञापनो नाम समाधिः। सर्वक्षेत्रप्रसरानुगतावभासो नाम समाधिः। सर्वत्र्यध्वनयावतारप्रवेशो नाम समाधिः। सर्वतथागतधर्मचक्रनिर्घोषो नाम समाधिः। सर्वबुद्धप्रणिधानसागरविज्ञापनो नाम समाधिः। सर्वसंसारदुःखप्रतिपीडितसर्वनिर्याणनिर्घोषविज्ञापनो नाम समाधिः। सर्वसत्त्वतमोन्धकारविधमनप्रणिधानव्यूहो नाम समाधिः। सर्वसत्त्वदुःखविप्रमोक्षप्रणिधिविलम्बो नाम समाधिः। सर्वसत्त्वसुखनिष्पत्तिसंभवो नाम समाधिः। सर्वसत्त्वपरिपाकविनयापरिखेदगर्भो नाम समाधिः। सर्वबोधिसत्त्वमार्गावतरणध्वजो नाम समाधिः। सर्वबोधिसत्त्वभूम्याक्रमणसंभवव्यूहो नाम समाधिः। एवंप्रमुखानि अस्या दश समाधिमुखशतसहस्राण्यवक्रान्तानि॥



सा सूक्ष्मसमाहितचित्ता अनिञ्जनचित्ता प्रहर्षितचित्ता समाश्वासितचित्ता अनाभासचित्ता कल्याणमित्रेष्वनुगतचित्ता गम्भीरसर्वज्ञतारम्बणचित्ता मैत्रानुगमनसागरप्रसृतचित्ता सर्वाभिनिवेशोच्चलितचित्ता सर्वलोकविषयासंवासचित्ता तथागतविषयावतरणचित्ता सर्वबुद्धरूपवर्णसागरावभासितचित्ता अक्षुभितचित्ता अनीरितचित्ता अप्रतिहतचित्ता अभिन्नचित्ता अनुन्नतचित्ता अनवनतचित्ता अखिन्नचित्ता अनिवर्त्यचित्ता असंसीदनचित्ता सर्वधर्मस्वभावनिध्यप्तिचित्ता सर्वधर्मस्वभावनयसागरानुगतचित्ता सर्वधर्मप्रविचयनयानुगतचित्ता सर्वसत्त्वसमुद्रावतरणचित्ता सर्वजगत्परित्राणचित्ता विपुलबुद्धसमुद्रावभाससंजातचित्ता, सर्वतथागतप्रणिधानसागरावतरणचित्ता सर्वावरणपर्वतविकिरणचित्ता विपुलपुण्यसंभारसमुदानयनचित्ता दशतथागतबलप्रतिलाभाभिमुखचित्ता सर्वबोधिसत्त्वविषयावभासप्रतिलब्धचित्ता सर्वबोधिसत्त्वसंभारसंवर्तनचित्ता सर्वदिक्समुद्रस्फरणचित्ता समन्तभद्रमहाप्रणिधानाध्यालम्बनतायै, दशबुद्धक्षेत्रपरमाणुरजःसमैः प्रणिधानसमुद्रैः सर्वतथागतानां पूर्वप्रणिधानं स्वबुद्धक्षेत्रपरिशुद्धयेऽभिनिर्हरति स्म, यदुत सर्वसत्त्वपरिपाकविनयाय धर्मधातुनयसमुद्रप्रसरपरिज्ञायै धर्मधातुनयसमुद्रावतरणतायै सर्वबुद्धक्षेत्रेष्वपरान्तकल्पबोधिसत्त्वचर्यावतरणतायै सर्वबोधिसत्त्वचर्यामण्डलापरान्तकल्पसंवासनतायै सर्वतथागतोपसंक्रमणतायै सर्वकल्याणमित्रारागणतायै सर्वतथागतपूजोपस्थानपरिपूरणतायै प्रतिचित्तक्षणं सर्वज्ञज्ञानविरोहणविबोधनबोधिसत्त्वचर्यानुपच्छेदनतायै। एवंप्रमुखैर्दशबुद्धक्षेत्रप्रमाणुरजःसमैः प्रणिधानाभिनिर्हारमुखसमुद्रैः समन्तभद्रायां बोधिसत्त्वचर्यायां प्रणिधिमभिनिर्हरति स्म तस्याः समन्तभद्रबोधिसत्त्वचर्याप्रणिध्यभिनिर्हाराय॥



स भगवान् समन्तज्ञानरत्नार्चिश्रीगुणकेतुराजस्तथागतः पूर्वकुशलमूलानि संचोदयति उद्योतयति संदर्शयति विवृणोति विभजति संप्रकाशयति सारीकरोति अविप्रणाशतायै, विपुलीकरोति महास्फरणतायै, स्थापयति सर्वज्ञताप्रमाणीकरणतायै, यदुत प्रथमचित्तोत्पादमुपादाय तथागतपूर्वप्रणिधिसमुद्रासंख्येयप्रतिलाभाय॥



भूतपूर्वं कुलपुत्र अतीतेऽध्वनि ततः परेण दशमे कल्पे मणिसूर्यचन्द्रविद्योतितप्रभायां लोकधातौ चन्द्रध्वजश्रीकेतोः तथागतस्य प्रवचने समन्तज्ञानार्चिःपद्मभद्राभिरामनेत्रश्रीचन्द्रया दारिकया समन्तभद्रबोधिसत्त्वसमादापितया प्रलुग्नस्तथागतविग्रहः पद्मनिषण्णः प्रतिसंस्कारितः। प्रतिसंस्कार्य चित्रितः। चित्रयित्वा रत्नप्रतिमण्डितः कृतः। अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितं समन्तभद्रबोधिसत्त्वकल्याणमित्रमागम्य। सा तेन कुशलमूलेन अविनिपातधर्मिणी सदा देवेन्द्रकुलेषु मनुष्येन्द्रकुलेषु चोपपन्ना, सर्वत्र चाभिरूपाभूत् प्रासादिका दर्शनीया परमशुभवर्णपुष्कलतया समन्वागता। सदा च अविरहिताभूत्तथागतदर्शनेन समन्तभद्रबोधिसत्त्वेन। तेनैव च कल्याणमित्रेण तस्यां तस्यां जातौ परिपाचिता संचोदिता स्मारिता। एतर्हि च पुनस्तया समन्तभद्रो बोधिसत्त्व आरागितोऽत्यन्ताविरागणतया॥



तत्किं मन्यसे कुलपुत्र-अन्यः स तेन कालेन तेन समयेन वैरोचनरत्नपद्मगर्भश्रीप्रभाचूडो नाम राजचक्रवर्ती ? न खलु पुनस्ते कुलपुत्र एवं द्रष्टव्यम्। मैत्रेयः स बोधिसत्त्वः तेन कालेन तेन समयेन वैरोचनरत्नपद्मगर्भश्रीप्रभाचूडो नाम राजाभूच्चक्रवर्ती। स्यात्खलु पुनस्ते कुलपुत्र एवम्-अन्या सा तेन कालेन तेन समयेन संपूर्णश्रीवक्रा नाम राजभार्याभूत्? न खलु एवं द्रष्टव्यम्। इयं प्रशान्तरुतसागरवती नाम रात्रिदेवता, या ममानन्तरं संनिषण्णा। तत्किं मन्यसे कुलपुत्र-अन्या सा तेन कालेन तेन समयेन समन्तज्ञानार्चिःपद्मभद्राभिरामनेत्रश्रीचन्द्रा नाम राजदुहिता अभूत्? न खल्वेवं द्रष्टव्यम्। अहं सा तेन कालेन तेन समयेन समन्तज्ञानार्चिःपद्मभद्राभिरामनेत्रश्रीचन्द्रा नाम राजदुहिता अभूवम्। यन्मे दारिकाभूतया इन्द्रध्वजकेतोस्तथागतस्य प्रवचने प्रलुग्नस्तथागतविग्रहः पद्मोद्गतः प्रतिसंस्कारितः, स मे हेतुरभूत् यावदनुत्तरायाः सम्यक्संबोधेः। यदा चास्मि समन्तभद्रेण बोधिसत्त्वेन अनुत्तरायां सम्यक्संबोधौ समादापिता, स मे कुलपुत्र प्रथमचित्तोत्पादो बोधाय अभूत्। यदा च स मे भगवान् समन्तज्ञानार्चिःश्रीगुणकेतुराजः तथागत उपसंक्रम्य आभरणैरवकीर्णः, तथागतविकुर्वितप्रातिहार्यं च दृष्ट्वा धर्मश्च मे तस्य भगवतोऽन्तिकाच्छ्रुतः, तदा मयैष सर्वलोकाभिमुखजगद्विनयनिदर्शनो बोधिसत्त्वविमोक्षः प्रतिलब्धः। सर्वे च ते सुमेरुपरमाणुरजःसमास्तथागता आरागिता अभिराधिताः, सर्वोपकरणपूजासत्कारेण च सत्कृताः। यश्च तैस्तथागतैर्धर्मो भाषितः, स मे सर्वं श्रुतः। तेषां चास्मि तथागतानामववादानुशासनीषु प्रतिपन्ना। तेषु च मे तथागतेषु तीव्रं गौरवं प्रतिलब्धं यथारूपेण गौरवेण एकचित्तक्षणे तान् सर्वांस्तथागतांस्तानि बोधिसत्त्वपर्षन्मण्डलानि तानि च सर्वाणि बुद्धक्षेत्राणि पश्यामि॥



तस्यां च वैरोचनश्रियां लोकधातौ संवृत्तायां तत्र च विरजोमण्डले कल्पे निर्गतेऽनन्तरे मणिचक्रविचित्रप्रतिमण्डितव्यूहा नाम लोकधातुर्महाप्रभश्च नाम कल्पोऽभूत्। तत्र पञ्च बुद्धशतान्युत्पन्नानि। तानि मया सर्वाण्यारागितानि। तस्मिंश्च खलु महाप्रभे कल्पे महाकरुणमेघध्वजो नाम तथागतः प्राथमकल्पिकोऽभूत्। स मया रात्रिदेवताभूतया अभिनिष्क्रामन् पूजितः। तस्यानन्तरं वज्रनारायणकेतुर्नाम तथागत उत्पन्नः। स मया चक्रवर्तिभूतया पूजितः। तेन च मे सर्वबुद्धोत्पादसंभवो नाम सूत्रान्तः संप्रकाशितो दशबुद्धक्षेत्रपरमाणुरजःसमसूत्रान्तपरिवारः। स च मे श्रुतः उद्गृहीतः। तस्यानन्तरं ज्वलनार्चिःपर्वतश्रीव्यूहो नाम तथागत उत्पन्नः। स मे श्रेष्ठिदुहितृभूतया पूजितः। तेन च मे त्र्यध्वावभासगर्भो नाम सूत्रान्तः संप्रकाशितो जम्बुद्वीपपरमाणुरजःसमसूत्रान्तपरिवारः। स च मे श्रुतः उद्गृहीतः। तस्यानन्तरं सर्वधर्मसमुद्राभ्युद्गतवेगराजो नाम तथागतो लोक उदपादि। स मया असुरराजभूतया पूजितः। तेन च मे सर्वधर्मधातुतलज्ञानभेदो नाम सूत्रान्तः संप्रकाशितः पञ्चसूत्रान्तशतपरिवारः। स च मे श्रुतः उद्गृहीतः। तस्यानन्तरं गम्भीरधर्मश्रीसमुद्रप्रभो नाम तथागत उत्पन्नः। स मे नागेन्द्रकन्याभूतया पूजितश्चिन्ताराजमणिरत्नमेघवर्षमभिप्रवर्षन्त्या। तेन च मे प्रीतिसागरविवर्धनवेगो नाम सूत्रान्तः संप्रकाशितो दशसूत्रान्तकोटीशतसहस्रपरिवारः। स च मे श्रुत्वोद्गृहीतः। तस्यानन्तरं रत्नशिखरार्चिःपर्वतप्रदीपो नाम तथागतः उत्पन्नः। स च मे सागरदेवताभूतया रत्नपद्ममेघवर्षैरुपसंक्रम्य पूजितः। तेन च मे धर्मधातुसागरनयप्रभो नाम सूत्रान्तः संप्रकाशितो दशबुद्धक्षेत्रपरमाणुरजःसमसूत्रान्तपरिवारः। स च मे श्रुत्वोद्गृहीतः, स्मृत्या च संधारितः। तस्यानन्तरं गुणसमुद्रावभासमण्डलश्रीर्नाम तथागत उत्पन्नः। स मे पञ्चाभिज्ञऋषिभूतया महर्द्धिविकुर्वितेन षष्टिऋषिसहस्रपरिवृतया उपसंक्रमय गन्धपुष्पशिखरमेघानभिप्रवर्षन्त्या पूजितः। तेन च मे अनालयधर्मप्रदीपो नाम सूत्रान्तः संप्रकाशितः षष्टिसूत्रान्तसहस्रपरिवारः। स च मे श्रुत्वोद्गृहीतः, तस्यानन्तरं वैरोचनश्रीगर्भो नाम तथागत उत्पन्नः। अहं च समतार्थसंभवा नाम पृथिवीदेवता अभुवम्। सा अहमप्रमेयपृथिवीदेवतापरिवारा सर्वरत्नद्रुमकोशेभ्यो रत्नपुष्पमेघवर्षाण्युत्सृजमाना सर्वरत्नहारमेघान् प्रवर्षमाणा उपसंक्रान्ता तस्य तथागतस्य पूजाकर्मणे। तेन च मे सर्वतथागतसंभवज्ञानाकरगर्भो नाम सूत्रान्तः संप्रकाशितोऽप्रमेयसूत्रान्तपरिवारः। स च मे श्रुत्वा धारितो न विप्रणाशितः।



तेषां खलु कुलपुत्र पञ्चानां बुद्धशतानां सर्वपश्चिमो धर्मधातुगगनपूर्णरत्नशिखरश्रीप्रदीपो नाम तथागतो लोक उदपादि। अहं च तेन कालेन अभिरामश्रीवक्रा नाम नटदारिका अभूवम्। सा अहं तस्य तथागतस्य नगरप्रवेशसमये नाटके प्रवृत्ते बुद्धानुभावेन ऊर्ध्वं गगनतले स्थित्वा गाथासहस्रेण तं तथागतमभिष्टुवन्ती उपसंक्रान्ता। तेन च मे धर्मधातुविद्योतितव्यूहं नाम रश्मिमूर्णकोशादुत्सृज्य सर्वकायोऽवभासितः। तया च मे रश्म्या समनन्तरस्पृष्टया धर्मधातुनयावर्तगर्भो नाम विमोक्षः प्रतिलब्धः॥



इति हि कुलपुत्र एतान् प्रमुखान् कृत्वा यानि तत्र मणिचक्रविचित्रप्रतिमण्डितव्यूहायां लोकधातौ महाप्रभे कल्पे पञ्च बुद्धशतान्युत्पन्नानि, तानि मया सर्वाण्यारागितानि, पूजा च मे तेषां तथागतानां कृता। यश्च मे तैस्तथागतैर्धर्मो देशितः, तं सर्वं स्मरामि। एकपदव्यञ्जनमपि मे ततो धर्मनयान्न विप्रमुषितम्। एकैकस्य च मे तथागतस्यान्तिकमुपसंक्रामन्त्या अपरिमाणानां सत्त्वानामर्थः कृतो बुद्धधर्मसंवर्णनतया। एकैकस्य च मे तथागतस्य अन्तिकात् त्र्यध्वज्ञानगर्भधर्मधातुविपुलो नाम धर्मधातुशरीरसागरः सर्वज्ञताविद्युदवभासः प्रतिलब्धः सर्वसमन्तभद्रचर्यासंवाससमवसरणः। एतर्ह्यपि मे कुलपुत्र प्रतिचित्तक्षणमनन्तमध्यास्तथागता आभासमागच्छन्ति। सर्वेषां च मे तेषां तथागतानां सहदर्शनात् सर्वज्ञताविद्युदवभासा आशयेऽवक्रान्ता अप्रतिलब्धपूर्वा अदृष्टपूर्वाः। न च समन्तभद्राया बोधिसत्त्वचर्याया उच्चलामि। तत्कस्य हेतोः? अनन्तमध्यनिर्देश एष सर्वज्ञताविद्युदवभासप्रतिलम्भः॥



अथ खलु समन्तसत्त्वत्राणोजःश्री रात्रिदेवता तस्यां वेलायां तमेव सर्वलोकाभिमुखजगद्विनयनिदर्शनं बोधिसत्त्वविमोक्षं भूयस्या मात्रया प्रदर्शयमाना बुद्धाधिष्ठानेन सुधनं श्रेष्ठिदारकं गाथाभिरध्यभाषत—



शृणु सूधना वचनमेतु ममा गम्भीर दुर्दृश दुरावगहम्।

सर्वत्रियध्वतलभेदनयं धर्माभमण्डलसमन्तप्रभम्॥३०॥



यथ संभुत प्रथम चित्तु ममा बोधाय बुद्धगुणप्रार्थनया।

यथ बोधिविमोक्षु अयु लब्धु मंया एतं शृणोहि प्रविभागनयम्॥३१॥



इतु बुद्धक्षेत्रपरमाणुरजःसमकल्पपूर्वतु परेण ततः।

वैरोचनध्वजप्रदीपशिरी अत्र लोकधातु विपुला विमला॥३२॥



कल्पो अभू विरजमण्डलु यो अच्छिन्नु यत्र जिनवंशु अभूत्।

तस्मिन् सुमेरुपरमाणुसमा उपपद्यिषू दशबला अनिघा॥३३॥



तस्मिन् समन्तरतनार्चिशिरी गुणकेतुराज प्रथमः सुगतः।

धर्मध्वजः शिरिसुमेरु जिनो गुणकेशरीश्वरु चतुर्थ जिनः॥३४॥



जिनु शान्तिराज समितायुरथो यशपर्वतो गुणसुमेरुशिरी।

जिनभास्करः शशिमुखो भगवानेते दश प्रथम अत्र नये॥३५॥



गगनालयो जिनु समतप्रभो दिशसंभवः स्मृतिसमुद्रमुखः।

अभ्युद्गता जिनु सुमेरुशिरी धर्मार्चिपर्वतशिरी सुगतः॥३६॥



पद्मोद्गतो नवमु कारुणिको जिनु धर्मधातुकुसुमो दशमः।

बुद्धोसमुद्र परिदीपयतो एषा दशा द्वितिय अत्र नये॥३७॥



प्रभकेतुराजमति ज्ञानमति चित्रार्थ इन्द्रशिरि देवमति।

जिनु वेगराजमति ज्ञानशिरी अवभासराज प्रभकेतुशिरी॥३८॥



विक्रान्तदेवगति नाम जिनो तथ धर्मधातुपदुमो दशमः।

एवं नयं विपुल दर्शयतो तृतिया दशा भवति अत्र नये॥३९॥



रत्नार्चिपर्वतशिरी भगवांस्तदनन्तरं गुणसमुद्रशिरी।

धर्मप्रभो पदुमगर्भशिरी गतिचन्द्रनेत्रनयनः सुगतः॥४०॥



गन्धप्रभो मणिसुमेरुशिरी गन्धर्वकायु प्रभराजः।

मणिगर्भराज शिरितेजवती दशमो जिनः प्रशमरूपगतिः॥४१॥



तदनन्तरं विपुलबुद्धि जिनो रतनप्रभो गगनमेघशिरी।

वरलक्षणः शिरि बभूव जिनो ब्रतमण्डलश्च स्वशरीरप्रभः॥४२॥



नारायणव्रत सुमेरुशिरी गुणचक्रवालशिरिराजु जिनः।

अपराजितव्रतध्वजो भगवान् द्रुमपर्वतो दशमु तेष जिनः॥४३॥



सालेन्द्रराजशिरिगर्भु जिनो लोकेन्द्रकायप्रतिभासप्रभः।

अभ्युद्गतप्रभशिरी भगवान् विरजप्रभो धरणितेजशिरी॥४४॥



गम्भीरधर्मगुणराजशिरी जिनु धर्मसागरनिर्घोषमतिः।

मेरुध्वजः शिरिप्रभासमतिर्दशमो जिनो रतनराजशिरिः॥४५॥



ब्रह्मप्रभो गगनघोष जिनस्तथ धर्मधातुप्रतिभासशिरिः।

आलोकमण्डलप्रभो भगवान् दशभेदज्ञानप्रभेकेतुमतिः॥४६॥



गगनप्रदीप अभिरामशिरी वैरोचनप्रभशिरी सुगतः।

पुण्यप्रभासशिरि शान्तशिरी दशमो महाकरुणमेघशिरी॥४७॥



तथताप्रभो बलप्रभासमतिः सर्वजगाभिमुखरूप जिनः।

अभ्युद्गताभु अभु तत्र जिनस्तदनन्तरं समशरीरु जिनः॥४८॥



धर्मोद्गतोऽथ स अभूत्सुगतस्तदनन्तरं अनिलवेगशिरी।

शूरध्वजो रतनगात्रशिरी दशमस्त्रियध्वप्रतिभासप्रभः॥४९॥



प्रणिधानसागरप्रभासशिरी वज्राशयो गिरिशिरी द्वितियः।

तृतीयो जिनो हरिसुमेरुशिरी स्मृतिकेतुराजशिरि धर्ममतिः॥५०॥



प्रज्ञाप्रदीप प्रभकेतुशिरी तदनन्तरं विपुलबुद्धि जिनः।

जिनु धर्मधातुनयज्ञानगतिधर्मः समुद्रमतिज्ञानशिरिः॥५१॥



धर्मधरो रतनदानशिरि गुणचक्रवालशिरि मेघु जिनः।

क्षान्तिप्रदीपशिरि तेजवतिवेगप्रभः शमथघोषु जिनः॥५२॥



शान्तिध्वजो जगप्रदीपशिरि बुद्धो महाप्रणिधिवेगशिरि।

अपराजितध्वजबलो भगवान् ज्ञानार्चिसागरशिरिश्च जिनः॥५३॥



धर्मेश्वरो जिन असङ्गमतिर्जगमन्त्रसागरनिर्घोषमतिः।

सर्वस्वराङ्गरुतघोषशिरी वशवर्तियज्ञयशयष्टिमतिः॥५४॥



दिशदेश‍आमुखजगो भगवान् सत्त्वाशयैः समशरीरिशिरिः।

बुद्धो परार्थसविहारशिरी प्रकृतीशरीरशिरि भद्रजिनः॥५५॥



एते जिना प्रमुख तत्र अभूदुपपद्यि ये जिन प्रदीपकराः।

कल्पैः सुमेरुपरमाणुसमैः ये पूजिता जिनसमुद्रनये॥५६॥



तैर्बुद्धक्षेत्रपरमाणुसमैः कल्पैरुपपद्यिषु ये केचि जिनाः।

ते सर्वि पूजित मया सुगता एतं विमोक्षनयमोतरिया॥५७॥



कल्पाननन्त अहु चीर्ण पुरा एतं विमोक्षनयु भावयती।

त्वमपि श्रुणित्व प्रतिपद्य लघु प्रतिलप्स्यसे नयमिमं नचिरात्॥५८॥



एतमहं कुलपुत्र सर्वलोकाभिमुखजगद्विनयनिदर्शनं बोधिसत्त्वविमोक्षं जानामि। किं मया शक्यमनन्तमध्यबोधिसत्त्वचर्यासागरनानाधिमुक्तिसंवासानां बोधिसत्त्वानां नानाशयशरीराणां विविधेन्द्रियसागरपरिनिष्पन्नानां विचित्रबोधिसत्त्वप्रणिधानसुप्रतिविद्धानां चर्यां ज्ञातुं गुणान् वा वक्तुम्॥



गच्छ कुलपुत्र, इयमिहैव बोधिमण्डे प्रशान्तरुतसागरवती नाम रात्रिदेवता, या ममानन्तरं ज्योतिर्ध्वजमणिराजप्रतिमण्डितगर्भे पद्मासने निषण्णा दशरात्रिदेवतासंख्येयशतसहस्रपरिवारा। तामुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्॥



अथ खलु सुधनः श्रेष्ठिदारकः समन्तसत्त्वत्राणोजःश्रियो रात्रिदेवतायाः पादौ शिरसाभिवन्द्य समन्तसत्त्वत्राणोजःश्रियं रात्रिदेवतामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्यं समन्तसत्त्वत्राणोजःश्रियो रात्रिदेवताया अन्तिकात् प्रक्रान्तः॥३५॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project