Digital Sanskrit Buddhist Canon

३४ वासन्ती

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

34 vāsantī

३४ वासन्ती।



अथ खलु सुधनः श्रेष्ठिदारको येन कपिलवस्तु महानगरं तेनोपसंक्रान्तः तां स्थावरायाः पृथिवीदेवताया अनुशासनीमनुस्मरन्, तं दुर्योधनगर्भं बोधिसत्त्वविमोक्षमनुस्मरन्, तां बोधिसत्त्वसमाधिभावनां विपुलीकुर्वन्, तं बोधिसत्त्वधर्मनयमनुविचिन्तयन्, तं बोधिसत्त्वविमोक्षविक्रीडितं विचारयन्, तां बोधिसत्त्वविमोक्षज्ञानसूक्ष्मादिं संव्यवलोकयन्, तं बोधिसत्त्वविमोक्षज्ञानसागरमवतरन्, तं बोधिसत्त्वविमोक्षज्ञानसंभेदमधिमुच्यमानः, तं बोधिसत्त्वविमोक्षानन्तज्ञानाभिसंस्कारमनुगच्छन्, तं बोधिसत्त्वविमोक्षज्ञानसमुद्रमवगाहमानः। स कपिलवस्तुमहानगरं प्रदक्षिणीकृत्य पूर्वेण नगरद्वारेण प्रविश्य मध्ये नगरशृङ्गाटकस्य अस्थात्। अचिरास्तमिते सूर्ये सर्वबोधिसत्त्वानुशासनीषु प्रदक्षिणग्राही वासन्त्या रात्रिदेवताया दर्शनपरितृषितः कल्याणमित्रेषु बुद्धज्ञानप्रतिलम्भनिश्चितबुद्धिः समन्तज्ञानचक्षुर्विषयशरीराधिष्ठानः सर्वदिगभिमुखेन कल्याणमित्रदर्शनचित्तेन उदाराधिमुक्तिज्ञानगर्भसंज्ञागतचेताः सर्वारम्बणप्रसृतज्ञानचक्षुः सर्वधर्मधातुनयज्ञानसागरप्रसरस्फरणानुगतेन समांधिचक्षुषा सर्वदिग्ज्ञेयसागरं व्यवलोकयन्, महाज्ञानचक्षुःप्रसृतावहिताशयोऽद्राक्षीद्वासन्तीं रात्रिदेवतां कपिलवस्तुनो महानगरस्योर्ध्वं गगनतले विचित्रानुपममणिकूटागारे सर्ववरगन्धपद्मगर्भमहारत्नसिंहासने निषण्णाम्, सुवर्णवर्णेन कायेनाभिनीलमृदुबहुकेशीमभिनीलनेत्रामभिरूपां प्रासादिकां दर्शनीयां सर्वाभरणालंकारविभूषितशरीरां रक्तवराम्बरनिवसनां चन्द्रमण्डलालंकृतब्रह्मजटामकुटधारिणीं सर्वताराग्रहनक्षत्रज्योतिर्गणप्रतिभाससंदर्शनशरीराम्। यावन्तश्च तया विपुले सत्त्वधातौ अक्षणापायदुर्गतिविनिपातेभ्यः सत्त्वाः परिमोचिताः, तानपि तस्या रोमविवरगतानद्राक्षीत्। यावन्तः स्वर्गलोके प्रतिष्ठापिताः, यावन्तः श्रावकप्रत्येकबोधौ सर्वज्ञतायां च परिपाचिताः, तानपि तस्याः सर्वरोमविवरगतानपश्यत्। यैर्नानोपायैः परिपाचिताः कायाभिनिर्हारै रूपाभिनिर्हारैर्वर्णाभिनिर्हारैः, तानपि तस्या रोमविवरगतानद्राक्षीत्। यैर्घोषाभिनिर्हारैः स्वराङ्गाभिनिर्हारैर्विविधमन्त्रधर्मनयसप्रयोगैः परिपाचिताः, तानपि तस्या रोममुखेभ्योऽनुरवमाणानश्रौषीत्। यैः कालाभिनिर्हारैः, यैर्यथाशयाधिमुक्तसत्त्वानुवर्तनैः, याभिर्बोधिसत्त्वचर्याभिर्बोधिसत्त्वविक्रमैर्बोधिसत्त्वसमाधिविकुर्वितमुखैर्बोधिसत्त्ववृषभिताभिर्बोधिसत्त्वविहारैर्बोधिसत्त्वावलोकितैर्बोधिसत्त्व-विलोकितैर्बोधिसत्त्वविकुर्वाभिर्बोधिसत्त्वमहापुरुषसिंहविजृम्भितैः, यैर्बोधिसत्त्वविमोक्षविक्रीडितैस्तया सत्त्वाः परिपाचिताः, तान्यपि तस्या रोमविवरगतानि प्रजानीते स्म॥



स तान् नानोपायसंप्रयुक्तान् धर्मनयसागरान् दृष्ट्वा श्रुत्वा च तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो वासन्त्या रात्रिदेवतायाः सर्वशरीरेण प्रणिपत्य उत्थाय वासन्तीं रात्रिदेवतामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य वासन्त्या रात्रिदेवतायाः पुरतः प्राञ्जलिः स्थित्वा एवमाह-मया खलु देवते अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्। सोऽहं कल्याणमित्राधिष्ठानान् सर्वबुद्धगुणान् संपश्यन् कल्याणमित्राश्रितमात्मानं करोमि। दर्शय मे देवते सर्वज्ञतामार्गं यत्र प्रतिष्ठितो बोधिसत्त्वो निर्याति दशबलभूमौ॥



एवमुक्ते वासन्ती रात्रिदेवता सुधनं श्रेष्ठिदारकमेवमाह-साधु साधु कुलपुत्र, यस्त्वमेवं कल्याणमित्रावेशाविष्टः कल्याणमित्रवचनानि शुश्रूषुः कल्याणमित्रानुशासन्यां प्रतिपद्यसे। नियमेन त्वं कल्याणमित्रानुशासनीं प्रतिपद्यमानः आसन्नीभविष्यस्यनुत्तरायां सम्यक्संबोधौ। अहं कुलपुत्र सर्वसत्त्वतमोविकिरणधर्मावभासजगद्विनयमुखस्य बोधिसत्त्वविमोक्षस्य लाभिनी। विषममतिषु सत्त्वेषु मैत्रचित्ता, अकुशलकर्मपथप्रतिपन्नेषु करुणचित्ता, कुशलकर्मपथप्रतिपन्नेषु मुदितचित्ता। समविषममतिषु सत्त्वेषूपेक्षाचित्ता, संक्लिष्टेषु विशोधनचित्ता, विषमगतेषु सम्यक्प्रतिपन्नचित्ता, हीनाधिमुक्तिकेषु उदाराधिमुक्तिसंजननचित्ता, हीनेन्द्रियेषु महावीर्यवेगविवर्धनचित्ता, संसाराभिरतेषु संसारगतिचक्रविनिवर्तनचित्ता, श्रावकप्रत्येकबुद्धयानाभिमुखेषु सत्त्वेषु सर्वज्ञतामार्गप्रतिष्ठापनचित्ता। एवं चित्तमनसिकारप्रयुक्ता खलु पुनरहं कुलपुत्र अनेन सर्वसत्त्वतमोविकिरणधर्मावभासजगद्विनयमुखेन बोधिसत्त्वविमोक्षेण समन्वागता॥



ये सत्त्वा अन्धकारतमिस्रायां रात्रौ परिक्रान्तेषु मनुष्येषु भूतसंघानुचरितायां तस्करगणसंकीर्णायां विषमचारित्रसत्त्वदिक्चरितायां कालाभ्रमेघजालसंछन्नायां धूमरजोमलसमाकुलायां विषमवातवृष्टिसंक्षोभितायां चन्द्रादित्यज्योतिर्गणरहितायां चक्षुष्कार्यापराक्रमायां रात्रौ सागरगता भवन्ति, स्थलगता वा पर्वतगता वा अटवीकान्तारगता वा वनान्तरगता वा देशान्तरगता वा ग्रामान्तरगता वा दिगन्तरगता वा विदिगन्तरगता वा मार्गान्तरगता वा महासागरगता वा विपन्नयानपात्रा भवन्ति, स्थलगता वा विहन्यन्ते, पर्वतगता वा महाप्रपातेषु प्रपतन्ति, महाटवीकान्तारगता वा अन्नपानविरहिता भवन्ति, वनगहनवेत्रजालैरवसक्ता वा अनयव्यसनमापद्यन्ते, देशान्तरगता वा तस्करैर्हन्यन्ते, ग्रामान्तरगता वा विषमचारित्रा विनश्यन्ति, दिगन्तरगता वा संमुह्यन्ति, विदिगन्तरगता वा विमुह्यन्ति, मार्गान्तरगता वा विलयमापद्यन्ते, तेषामहं कुलपुत्र सत्त्वानां नानोपायमुखैर्लयनभूता भवामि-यदुत सागरगतानां कालिकावातमेघविकिरणतायै कलुषोदकातिक्रमणतायै विषमवातमण्डलीविकिरणतायै महोर्मिवेगव्युपशमनतायै आवर्तभयविमोचनतायै दिगुद्योतनतायै सम्यगुदकपथप्रतिपादनतायै तीरदर्शनतायै। रत्नद्वीपोपनयनाय मार्गं संदर्शयामि संग्राहकरूपेण सार्थवाहकरूपेण। कस्यचिद्राजरूपेण जगराजरूपेण कूर्मराजरूपेण असुरराजरूपेण गरुडराजरूपेण किन्नरराजरूपेण महोरगरागराजरूपेण सागरदेवतारूपेण कैवर्तरूपेण प्रतिशरणभूता भवामि। तच्च कुशलमूलमेवं परिणामयामि-सर्वसत्त्वानां प्रतिशरणभूता भवेयं सर्वदुःखस्कन्धविनिवर्तनतायै। स्थलगतानां सत्त्वानां मोहान्धकारतमिस्रायां रात्रौ वेणुकण्टकशर्करकठल्लाकीर्णायां घोरविषोरगसंकीर्णायां निम्नोन्नतविषमप्रचारायां रजोरेणुसमुद्धतायां विषमवातवृष्टिसंक्षोभितायां शीतोष्णदुःखसंस्पर्शायां व्यालमृगेन्द्रसाभिशङ्कायां वधकतस्करगणानुविचरितायां धरण्यां दिक्संमूढानां सत्त्वानामादित्यरूपेण उद्गतचन्द्ररूपेण महोल्कापातरूपेण विद्युन्मालानिश्चारणरूपेण रत्नाभारूपेण ग्रहमण्डलरूपेण नक्षत्रज्योतिर्गणविमानप्रभारूपेण देवरूपेण बोधिसत्त्वरूपेण सत्त्वानां त्राणभूता भवामि। एवं च चित्तमुत्पादयामि-अनेन कुशलमूलेन सर्वसत्त्वानां त्राणं भवेयं सर्वक्लेशान्धकारविधमनतायै। पर्वतप्रपातगतानां सत्त्वानां मरणभयभीतानां जीवितप्रतिलम्भाय यशस्कामतावशगतानां कीर्तिशब्दध्वजकामानां भोगार्थिकानां लोभाविष्टानामुपकरणपर्येष्ट्यभियुक्तानां लोकसंपत्त्यभिलाषपरमाणां पुत्रभार्यास्नेहविनिबद्धानां दृष्टिगतगहनप्रनष्टानां विविधदुःखभयोपद्रुतानां नानोपायमुखैः शरणभूता भवामि-यदुत गिरिगुहासंस्थानाभिनिर्हारेण फलमूलभोजनाभिनिर्हारेण जलपथोदपानाभिनिर्हारेण शीतोष्णप्रतिपक्षाभिनिर्हारेण सम्यक्पथनिदर्शनेन कलविङ्करूतनिर्घोषेण मयूरराजनिकूजघोषेण औषधिज्वलनावभासरूपेण पर्वतदेवताप्रभारूपेण। गिरिगुहादरिविवरगतानां विविधदुःखोपद्रुतानां तिमिरान्धकारविनिवर्तनतायै समपृथिवीतलाभिनिर्हारेण शरणभूता भवामि। एवं च चित्तमुत्पादयामि-यथा अहमेषां पर्वतगतानां सत्त्वानामारक्षां करोमि, एवमहमेषां संसारपर्वतगिरिप्रपातपतितानां जरामरणग्रहाभिनिविष्टानां शरणभूता भवेयम्। वनगहनजालसंसक्तकानामप्यहं सत्त्वानां तमोन्धकारायां रात्रौ विपुलविषयवृक्षविविधोपस्थानां विविधतृणोदककण्टकद्रुमलतोपरुद्धमार्गाणां नानाद्रुमलतावनगहनप्राप्तानां शार्दूलनदितनिर्घोषसंत्रस्तहृदयानां कार्यापरिपूरिसमाकुलचित्तानां विविधभयोपद्रवोपसृष्टानां वनगहननिःसरणदिशमप्रजानतां सम्यग्गमनपथसंदर्शयित्री भवामि। एवं च चित्तमुत्पादयामि-अनेन कुशलमूलेन विविधदृष्टिगहनगतान् सत्त्वांस्तृष्णाजालसंसक्तान् विचित्रसंसारदुःखभयोपद्रुतान् सर्वदुःखेभ्यः परिमोचयेयम्। अटवीकान्तारगतानामप्यहं सत्त्वानामन्धकारप्राप्तानां नानोपायमुखैः सुखं संजनय्य मार्गं संदर्श्य एतानभयक्षेमे प्रतिष्ठाप्य एवं चित्तमुत्पादयामि-अनेन कुशलमूलेन संसारटवीकान्तारप्राप्तान् सत्त्वान् दुर्गतिपथप्रतिपन्नान् सर्वदुःखेभ्यः परिमोच्य अत्यन्तयोगक्षेमे सर्वज्ञतामार्गे प्रतिष्ठापयेयम्। देशजनपदाविष्टानप्यहं कुलपुत्र सत्त्वानभिनिवेशाधिकारिकं दुःखं प्रत्यनुभवमानान् विविधैरुद्बध्यमानोपायैस्ततो जनपदाभिनिवेशादुच्चाल्य एवं चित्तमुत्पादयामि-अनेन कुशलमूलेन सर्वसत्त्वान् स्कन्धालयाभिनिवेशादुच्चाल्य अनालयसर्वज्ञज्ञाने प्रतिष्ठापयेयम्। ग्रामगतानप्यहं कुलपुत्र सत्त्वान् गृहनिकेतबन्धनबद्धानन्धकारतमिस्रायां रात्रौ विविधगृहापद्दुःखितान् नानोद्वेगमुखैरुद्बध्य संजनितसंवेगचित्तान् धनदानेन संगृह्य सम्यक् प्रीणयित्वा अनिकेते धर्मे प्रतिष्ठाप्य एवं चित्तमुत्पादयामि-अनेन कुशलमूलेन सर्वसत्त्वान् स्वायतनग्रामसंनिश्रितान् संसारगतिविषयगोचरादुच्चाल्य सर्वज्ञतागोचरे प्रतिष्ठापयेयम्॥



ये च कुलपुत्र अन्धकारतमिस्रायां रात्रावेकैकशः पूर्वादिदिग्विदिक्षु सर्वदिक्संमूढा भवन्ति, समेषु पृथिवीप्रदेशेषु विषमप्रपातसंज्ञिनः, उन्नतेष्ववनतसंज्ञिनः, अवनतेषून्नतसंज्ञिनः, तेषामहं दिग्मार्गदेशसंमूढानां नानाविधैरुपायैरवभासं कृत्वा निष्क्रमितुकामानां द्वारं संदर्शयामि। गन्तुकामानां मार्गं संदर्शयामि। तरितुकामानां तीर्थं संदर्शयामि। प्रवेष्टुकामानां भवनं संदर्शयामि। विलोकयितुकामानां दिशः संदर्शयामि। निम्नोन्नते पृथिवीतलं संदर्शयामि। समविषमान् पृथिवीप्रदेशान् विविधानि च रूपगतानि संदर्शयामि। मार्गाक्रान्तानां ग्रामनगरनिगमराष्ट्रराजधानीं संदर्शयामि। घर्मतृषार्तानामुत्ससरोह्रदतडागपुष्करिणीनदीवनोद्यानारामरमणीयानि संदर्शयामि। प्रियविप्रयोगोत्कण्ठितानां मातापितृपुत्रदारमित्रामात्यज्ञातिसालोहितान् विविधानि च मनापानि रूपगतानि संदर्शयामि। एवं च चित्तमुत्पादयामि-यथाहमेषां सत्त्वानामन्धकारतमिस्रायां रात्रौ तिमिरोपहतनेत्राणां दिक्संमूढानामालोकं करोमि, अवभासं जनयामि विविधरूपगतविज्ञप्तये, एवमेवाहं दीर्घसंसाररात्रावुपपन्नानां सर्वदिक्संमूढानामविद्यान्धकारप्राप्तानामज्ञानपटलावनद्धज्ञानचक्षुषां संज्ञाचित्तदृष्टिविपर्यस्तानाम् अनित्ये नित्यसंज्ञिनां दुःखेदुःखसंज्ञिनां अनात्मनि आत्मसंज्ञिनाम् अशुभे शुभसंज्ञिनां दृढात्मसत्त्वजीवपोषपुद्गलग्रहसंनिश्रितानां स्कन्धधात्वायतनसंनिश्रितानां हेतुफलसंमूढानामकुशलकर्मपथदिक्प्रतिपन्नानां प्राणातिपातिनामदत्तादायिनां काममिथ्याचारिणां मृषावादिनां पैशुन्यानां पारुषिकाणामसंभिन्नप्रलापिनामभिध्यालूनां व्यापन्नचित्तानां मिथ्यादृष्टिगतानाममातृज्ञानामपितृज्ञानामश्रामण्यानामब्राह्मण्यानामनिन्द्यज्ञानामपुरुषज्ञानानामधर्मरागरक्तानां विषमलाभाभिभूतानां मिथ्यादृष्टिधर्मपरीतानां तथागतानभ्याख्यायिकानां धर्मचक्रान्तवादप्रतिपन्नानां मारध्वजधराणां बोधिसत्त्वघातिनां महायानविद्वेषिकाणां बोधिचित्तविच्छिन्दिकानां बोधिसत्त्वविवर्णकानां मातृघातद्रोहिणामनपकारवैरिणामार्यापवादकानामसत्पुरुषाधर्मसमाचारगोचराणां स्तौपिकसांघिकवस्तुद्रोहिणां मातापितृविप्रतिपन्नानामानन्तर्यकर्मकारिणां महाप्रपाताभिमुखानां सत्त्वानां महाप्रज्ञालोकेन अविद्यान्धकारं विधूय अनुत्तरायां सम्यक्संबोधौ समादाप्य समन्तभद्रेण महायानेन दशबलज्ञानभूमिमार्गं संदर्शयेयम्। तथागतभूमिमपि तथागतविषयमपि सर्वज्ञज्ञाननयसागरमपि बुद्धज्ञानगोचरमपि बुद्धविषयमपि दशबलपरिनिष्पत्तिमपि बुद्धधारणीबलमपि सर्वबुद्धैकशरीरतामपि संदर्शयेयम्। संदर्श्य चैनान् सर्वबुद्धसमताज्ञाने प्रतिष्ठापयेयम्॥



ग्लानानामप्यहं कुलपुत्र सत्त्वानां दीर्घव्याधिपरिखिन्नानां दुर्बलशरीराणां जीर्णानां वृद्धानां जराभिभूतानामनाथानां कृपणानां च दरिद्राणां विलयगतानां विदेशप्राप्तानां विदिक्प्रतिपन्नानां बन्धनगतानां कारणाप्राप्तानाम् अपराधिनां राजबन्धोत्सृष्टानां जीवितोपरोधभयपरित्राणाय अवतिष्ठामि। साहं कुलपुत्र ग्लानानां सत्त्वानां सर्वोपायैर्व्याध्यपनयनाय प्रतिपद्यामि। जीर्णानां जराभिभूतानामुपस्थानपरिचर्योपकरणाविघातैः संग्रहं करोमि। अनाथानां सत्त्वानां सानाथ्यं करोमि। कृपणदरिद्राणां धनकनकस्कन्धेन संग्रहं करोमि विनिपातगतानां समानार्थतया संग्रहं करोमि। विदेशप्राप्तानां स्वदेशमुपनयामि। विदिक्प्रतिपन्नानां सम्यग्दिशमुपनयामि। बन्धनगतान् बन्धनेभ्यो विप्रमोक्षयामि। कारणाप्राप्तानां कारणादुःखेभ्यो विप्रमोक्षयामि। अपराधिनो राजवध्योत्सृष्टान् जीविताश्वासप्राप्तान् करोमि। एवं च चित्तमुत्पादयामि-यथाहमेषां सत्त्वानां विविधभयोपद्रवपरित्राणे प्रतिशरणं भवामि, एवमहमेताननुत्तरेण धर्मसंग्रहेण संगृह्य सर्वक्लेशेभ्यः परिमोचयेयम्। जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः समतिक्रामयेयम्। सर्वदुर्गतिविनिपातभयेभ्यः परिमोचयेयम्। कल्याणमित्रपरिग्रहे प्रतिष्ठापयेयम्। धर्मरत्नदानसंग्रहेण संगृह्णीयाम्। अनवद्ये कर्मणि नियोजयेयम्। तथागतशरीरविशुद्धये समादापयेयम्। अत्यन्ताजरामरणधातुप्रतिवेधे प्रतिष्ठापयेयम्॥



मिथ्यामागार्गतिपन्नानामप्यहं कुलपुत्र सत्त्वानां विविधदृष्टिगतगहनाभिनिविष्टानां मिथ्यासंकल्पगोचराणां विषमकायवाङ्भनस्कर्मसमुदाचारिणामसंवृतचारिणां नानाव्रततपः-संनिश्रितानामसम्यक्संबुद्धे सम्यक्संबुद्धसंज्ञिनां सम्यक्संबुद्धे च असम्यक्संबुद्धसंज्ञिनां शरीरातापनपरितापनप्रयुक्तानाम् उत्ससरोह्रदतडागनदीपर्वतप्रस्रवणदिग्विदिक्प्रणामपरायणानां पापमित्रवशगतानां नानोपायमुखैः प्रतिशरणभूता भवामि। तत एतान् पापकाद् दृष्टिगतात् सर्वदुर्गतिप्रपातपथाद्विनिवर्तयामि। लौकिकायां च सम्यग्दृष्टौ प्रतिष्ठाप्य दिव्यमानुषिकायां संपत्तौ संनियोजयामि। एवं च चित्तमुत्पादयामि-यथाहमेतान् सत्त्वानेवंरूपाद्विषमप्रतिपत्तिदुःखात्परिमोचयामि, एवमहं सर्वसत्त्वानार्ये लोकोत्तरे पारमितामार्गे प्रतिष्ठाप्य सर्वज्ञतायामवैवर्त्यान् कृत्वा समन्तभद्रेण महाप्रणिधानेन सर्वज्ञतायामुपनयेयम्। न च बोधिसत्त्वभूमेरुच्चलेयमविनिवर्त्य सर्वसत्त्वधातुम्॥



अथ खलु वासन्ती रात्रिदेवता तस्यां वेलायामेतमेव सर्वसत्त्वतमोविकिरणधर्मावभासजगद्विनयमुखं बोधिसत्त्वविमोक्षदिशं भूयस्या मात्रया संदर्शयमाना बुद्धाधिष्ठानेन दश दिशो व्यवलोक्य सुधनं श्रेष्ठिदारकं गाथाभिरध्यभाषत—



मोह‍अविद्यतमोविगमार्थं

धर्मप्रभावितसंजनयाय।

कालमवेक्ष्य जगत्सुखनेता

एष विमोक्षनयो मम शान्तः॥१॥



मैत्रि ममा विपुला सुविशुद्धा

कल्प अनन्त सुभावित पूर्वे।

अपाय फरित्व प्रभासमि लोकं

एत नयोत्तर सुधन सुधीरा॥२॥



करुणसमुद्र ममामित लोके

संभवु यत्र त्रियध्वजिनानाम्।

येन जगस्य दुखं प्रशमेमी

एत नयोत्तर सुधन सुधीरा॥३॥



लोकसुखान्यभिनिर्हरमाणा

संस्कृत आर्य सुखानि च यानि।

प्रीति उदग्र प्रमोदमि तेन

ओतर एत नयं जिनपुत्र॥४॥



संस्कृतदोषपराङ्भुख नित्यं

श्रावकज्ञानविमुक्तिफले च।

बुद्धबलं परिशोधयमाना

ओतर एत नयं जिनपुत्र॥५॥



चक्षु ममा विपुलं परिशुद्धं

येन दशद्दिशि पश्यमि क्षेत्रा।

तेषु च क्षेत्रतलेषु स्वयंभून्

पश्यमि बोधिद्रुमेन्द्रनिषण्णान्॥६॥



लक्षणमण्डित बुद्धशरीरान्

नानविचित्रप्रभोत्सृजमानान्।

रश्मिसमुद्रप्रमुञ्चनरोमान्

पश्यमि बुद्धसहस्र पर्षाभिः॥७॥



तेषु च क्षेत्रपथेषु य सत्त्वाः

सर्वच्युती‍उपपत्तिमुखेषु।

पश्यमि ते गतिसागरि बालाः

संसरमाण स्वकर्मनुभोन्ति॥८॥



स्रोतसमुद्र ममातिविशुद्धो

यत्र समोसरि शब्द अशेषाः।

सर्वजगस्य य मन्त्रसमुद्रा

सर्व श्रुणित्व धरेमि स्मृतीये॥९॥



सर्वस्वराङ्गनिरुक्तिरुतेभि-

र्घोष अलंकृतु अप्रतिमानाम्।

यो हि प्रवर्तति चक्रु जिनानां

तं च श्रुणित्व धरेमि स्मृतीये॥१०॥



घ्राणबलं विपुलं सुविशुद्धं

धर्मसमुद्रनयेषु असङ्गम्।

सर्वविमोक्षविहारप्रवेशं

ओतर एत नयं जिनपुत्र॥११॥



जिह्व ममा विपुल सुप्रभूता

ताम्रतनू रतनाभ विशुद्धा।

याय ज्ञपेमि यथाशय सत्त्वान्

ओतर एत नयं जिनपुत्र॥१२॥



धर्मशरीरु ममातिविशुद्धं

सर्वत्रियध्वसमन्तस्थितानाम्।

रूपशरीरु यथाशय सत्त्वाः

पश्यिषु तेष्वधिमुक्तिबलेन॥१३॥



चित्तमसङ्गमनास्रव मह्यं

घोषरूतं यथ मेघनिनादः।

तत्र समोसरि सर्वनरेन्द्रान्

नो च विकल्पन विद्यति मह्यम्॥१४॥



क्षेत्रतलेषु अचिन्तिय सत्त्वाः

तेष प्रजानमि चित्तसमुद्रान्।

इन्द्रिय‍आशय जानमि तेषां

नो च विकल्पन विद्यति मह्यम्॥१५॥



ऋद्धि ममो विपुला सुसमाप्ता

कम्पयि क्षेत्र अचिन्तियाय।

कायप्रभाय प्रभावतु येनो

सर्व सुदुर्दम सत्त्व दमेमि॥१६॥



पुण्य ममो विपुलं परिशुद्धं

अक्षयकोष समन्तवियूहम्।

येन प्रवर्तयि पूज जिनानां

भोति च सर्वजगत्युपजीव्यम्॥१७॥



प्रज्ञ ममो विपुला सुविशुद्धा

याय प्रजानमि धर्मसमुद्रान्।

संशय छिन्दमि सर्वजनानां

ओतर एत नयं जिनपुत्र॥१८॥



बुद्धसमुद्र अहं अवतीर्णा

सर्वि त्रियध्वि नयोत्तरमाना।

तेषु च ओतरमी प्रणिधानं

एष नयो अतुलः सुसमाप्तः॥१९॥



सर्वरजे अहु क्षेत्रसमुद्रान्

पश्यमि चैव त्रियध्वप्रवेशान्।

तत्र च पश्यमि बुद्धसमुद्रा

तेष समन्ततलं नयभूमिम्॥२०॥



पश्य विरोचन बोधिविबुद्धं

सर्वदिशासु स्फरित्वन क्षेत्रा।

सर्वरजःपथि बोधिद्रुमेन्द्रे

सान्तिम धर्म निसर्जयमानम्॥२१॥



अथ खलु सुधनः श्रेष्ठिदारको वासन्तीं रात्रिदेवतामेतदवोचत्-कियच्चिरं संप्रस्थितासि देवते अनुत्तरायां सम्यक्संबोधौ? कियच्चिरं प्रतिलब्धश्च तेऽयं विमोक्षः, यस्य प्रतिलम्भात्त्वमेवंरूपया सत्त्वार्थक्रियया प्रत्युपस्थिता? एवमुक्ते वासन्ती रात्रिदेवता सुधनं श्रेष्ठिदारकमेवमाह-भूतपूर्वं जिनपुत्र अतीतेऽध्वनि सुमेरुपरमाणुरजःसमानां कल्पानां परेण प्रशान्तप्रभो नाम कल्पोऽभूत्पञ्चबुद्धकोटीशतप्रभवः। तत्र रत्नश्रीसंभवा नाम लोकधातुरभूत्। तस्यां खलु पुनर्लोकधातौ रत्नचन्द्रप्रदीपप्रभा नाम मध्यमा चातुर्द्वीपिका। तस्यां पद्मप्रभा नाम राजधानी। तत्र राजधान्यां सुधर्मतीर्थो नाम राजाभूत् धार्मिको धर्मराजा चक्रवर्ती चतुर्द्वीपेश्वरः सप्तरत्नसमन्वागतः। स तामकण्टकां महापृथिवीं ससागरगिरिपर्यन्तां धर्मेणाभिनिर्जित्य अध्यावसति स्म॥



तस्य सुधर्मतीर्थस्य राज्ञो धर्ममतिचन्द्रा नाम भार्याभूत्। सा रात्र्याः पूर्वे यामे मदनमत्ता रतिक्रीडापरिश्रान्ता मध्यमे यामेऽन्तःपुरमध्यगता प्रसुप्ता। अथ तस्याः पद्मप्रभाया राजधान्याः पूर्वेण शमथश्रीसंभवे महावनषण्डे सर्वधर्मनिगर्जितराजो नाम तथागतः सर्वव्यूहप्रभामणिराजशरीरे सर्वबुद्धविकुर्वितप्रभवे महाबोधिवृक्षेऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धः। तेनासौ सर्वो रत्नश्रीसंभवो लोकधातुरनेकवर्णया उदारया प्रभया स्फुटावभासितोऽभूत्। तस्यां च पद्मप्रभयां राजधान्यां सुविशुद्धचन्द्राभा नाम रात्रिदेवता अभूत्। सा तां धर्ममतिचन्द्रां राजभार्यामुपसंक्रम्य आभरणसंघट्टनशब्देन प्रबोध्य एवमाह-यत्खलु राजपत्नि जानीयाः-शमथश्रीसंभवे महावनषण्डे सर्वधर्मनिगर्जितराजो नाम तथागतोऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धः। सा तस्या राजभार्यायाः पुरतो विस्तरेण बुद्धगुणवर्णं बुद्धविकुर्वितं समन्तभद्रबोधिसत्त्वचर्याप्रणिधानं च संप्रकाशयामास। सा खलु पुनः कुलपुत्र राजभार्या तथागतप्रभावभासिताध्याशयेनानुत्तरां सम्यक्संबोधिमभिसंप्रस्थिता। तस्य तथागतस्य सबोधिसत्त्वश्रावकसंघस्य महान्तं पूजासत्कारमकार्षीत्। तत्किं मन्यसे कुलपुत्र अन्या सा तेन कालेन तेन समयेन धर्ममतिचन्द्रा नाम राजभार्या अभूत्? न खल्वेवं द्रष्टव्यम्। अहं सा तेन कालेन तेन समयेन धर्ममतिचन्द्रा नाम राजभार्या अभूवम्॥



सा अहं कुलपुत्र तेनाभिलाषिकेण चित्तोत्पादेन तेन च तथागतावरोपितेन कुशलमूलेन सुमेरुपरमाणुरजःसमैः कल्पैर्न जातु दुर्गतिषूपपन्ना। न नरके, न तिर्यग्योनौ प्रेतेषु वा, न जातु हीनकुलेषूपपन्ना। न जात्विन्द्रियविकलाभूवम्। न जातु दुःखिताभूवन्। सदा अहं देवेषु देवमाहात्म्यं प्रतिलभ्य मनुष्येषु च मनुष्यमाहात्म्यं न जातु कल्याणमित्रविरहिता अभूवं यदुत बुद्धबोधिसत्त्वैः। न जातु विषमेषु कालेषूपपन्ना। सा खल्वहं कुलपुत्र बुद्धानुबुद्धेषु कुशलमूलान्यवरोपयमाणा सुमेरुपरमाणुरजःसमान् कल्पान् सुखेन शमेन क्षेमेण मार्गेण आगता। न च तावन्मे बोधिसत्त्वेन्द्रियाणि परिनिष्पन्नानि॥



तेषां सुमेरुपरमाणुरजःसमानां कल्पानामतिक्रान्तानामितो भद्रकल्पात्पूर्वं दशानां कल्पसहस्राणां प्रथमस्तेन कालेन अशोकविरजो नाम कल्पोऽभूत् रजोविमलतेजःश्रीनाम्नि लोकधातौ। स खलु पुनः कुलपुत्र रजोविमलतेजःश्रीर्लोकधातुः क्लिष्टविशुद्धोऽभूत् पञ्चबुद्धोत्पादशतप्रभवः। तेषां खलु पुनः पञ्चानां बुद्धशतानां प्रथमः सुमेरुध्वजायतनशान्तनेत्रश्रीर्नाम तथागतो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां च बुद्धो भगवान्। अहं च प्रज्ञावभासश्रीर्नाम श्रेष्ठिदारिका अभूवं विघुष्टकीर्तेः श्रेष्ठिनो दुहिता अभिरूपा प्रासादिका दर्शनीया परमया शुभवर्णपुष्कलतया समन्वागता। सा च सुविशुद्धचन्द्राभा रात्रिदेवता प्रणिधानवशेन विरजोवत्यां चातुर्द्वीपिकायां लोकधातौ विचित्रध्वजायां राजधान्यां विशुद्धनेत्राभा नाम रात्रिदेवता अभूत्। तया मे रात्र्यां प्रशान्तायां शयितयोर्मातापित्रोस्तद्गृहं कम्पयित्वा उदारेणावभासेन स्वरूपं संदर्श्य बुद्धगुणवर्णं भाषित्वा स तथागतः प्रथमसप्ताहाभिसंबुद्धो बोधिमण्डनिषण्णः संदर्शितः। सा अहं सार्धं मातापितृभ्यां महता च ज्ञातिसंघेन तां सुविशुद्धचन्द्राभां रात्रिदेवतां पुरस्कृत्य तस्य तथागतस्यान्तिकमुपसंक्रान्ता। ततो मया तस्य तथागतस्य उदारां पूजां कृत्वा सहदर्शनेन जगद्विनयबुद्धदर्शनप्रभवो नाम समाधिः प्रतिलब्धः। त्र्यध्वतलज्ञानावभासमण्डलश्च नाम समाधिः प्रतिलब्धः, यस्य प्रतिलम्भान्मया ते सुमेरुपरमाणुरजःसमाः कल्पा अनुस्मृताः। तच्च मे बोधिचित्तमामुखीभूतम्। तया मे तस्य तथागतस्यान्तिकाद्धर्मदेशनां श्रुत्वा एष सर्वसत्त्वतमोविकिरणधर्मावभासजगद्विनयमुखो नाम बोधिसत्त्वविमोक्षः प्रतिलब्धः, यस्य प्रतिलम्भाद्दशबुद्धक्षेत्रपरमाणुरजःसमांल्लोकधातून् कायेन स्फरामि। ये च तेषु लोकधातुषु तथागताः, ते सर्वे मम चक्षुष आभासमागच्छन्ति। तेषां च पादमूलगतमात्मानं संजानामि। ये च तेषु लोकधातुषु सत्त्वा उपपन्नाः, तेऽपि सर्वे मम चक्षुष आभासमागच्छन्ति। तेषां च रुतविमात्रतासंकेतं प्रजानामि। चित्ताशयेन्द्रियाधिमुक्तीश्च प्रजानामि। पूर्वान्तकल्याणमित्रेषु च परिपाकं प्रजानामि। यथाशयसंतोषणं चैषां कायमादर्शयामि॥



स च मे विमोक्षः प्रतिचित्तक्षणं विवर्धते। तद्विमोक्षचित्तानन्तरेण चित्तेन लोकधातुशतपरमाणुरजःसमानि बुद्धक्षेत्राणि कायेन स्फरामि। तदनन्तरेण चित्तेन लोकधातुसहस्रपरमाणुरजःसमानि बुद्धक्षेत्राणि कायेन स्फरामि। तदनन्तरेण चित्तेन लोकधातुशतसहस्रपरमाणुरजःसमानि बुद्धक्षेत्राणि कायेन स्फरामि। एवं प्रतिचित्तक्षणं यावदनभिलाप्यानभिलाप्यलोकधातुपरमाणुरजःसमानि बुद्धक्षेत्राणि कायेन स्फरामि। ये च तेषु बुद्धक्षेत्रेषु तथागताः, सर्वे ते मम चक्षुष आभासमागच्छन्ति। तेषां च पादमूलगतमात्मानं संजानामि। या च तेषां बुद्धानां भगवतां धर्मदेशना, तां सर्वामुद्गृह्णामि, धारयामि संप्रधारयामि उपधारयामि। तेषां च तथागतानां पूर्वयोगसमुद्रान् प्रणिधानसमुद्रानवतरामि। या च तेषां तथागतानां बुद्धक्षेत्रपरिशुद्धिः, तामपि च सर्वां बुद्धक्षेत्रपरिशुद्धयेऽभिनिर्हारामि। ये च सत्त्वास्तेषु लोकधातुसमुद्रेषूपपन्नाः, तेऽपि सर्वे मम चक्षुष आभासमागच्छन्ति। यत्प्रमाणाश्च तेषां सत्त्वानामाशयेन्द्रियाधिमुक्तिभेदाः, तत्प्रमाणभेदं कायमधितिष्ठामि यदुत एषां परिपाकविनयमुपादाय। एवं प्रतिचित्तक्षणमेष विमोक्षो विवर्धते धर्मधातुप्रसरस्फरणविवर्धनयोगेन। एतमहं कुलपुत्र सर्वसत्त्वतमोविकिरणधर्मावभासजगद्विनयमुखं बोधिसत्त्वविमोक्षं जानामि। किं मया शक्यमनन्तमध्यसमन्तभद्रबोधिसत्त्वचर्याप्रणिधिनिर्यातानां बोधिसत्त्वानां धर्मधातुसागरनयप्रसरप्रवेशवशवर्तिनां सर्वबोधिसत्त्वसमुदागमज्ञानवज्रकेतुसमाधिविक्रीडितानां सर्वलोकधातुषु सर्वतथागतवंशसंधारणमहाप्रणिधाननिर्यातानां सर्वलोकधातुप्रसरचित्तक्षणपरिशोधनमहापुण्यसागरपरिनिष्पन्नानां प्रतिचित्तक्षणं सर्वधर्मधातुपरिपाकविनयज्ञानवशवर्तिनां सर्वलोकधातुषु सर्वसत्त्वसर्वावरणमहान्धकारविधमनज्ञानादित्यचक्षुषां सर्वसत्त्वधातुमहायानविज्ञपनविक्रमाणां सर्वजगत्काङ्क्षाविमतिविचिकित्सातिमिरविधमनमतिचन्द्राणां सर्वभवसमुद्राभिनिवेशोच्चलनविशुद्धघोषस्वरमण्डलानां सर्वधर्मधातुरजःपथि विकुर्वितसंदर्शनवशवर्तिनां त्र्यध्वतलज्ञानमण्डलासंभिन्नानां चर्यां ज्ञातुम्, गुणान् वा वक्तुम्, गोचरो वा अवतर्तुम्, विमोक्षविक्रीडितं वा संदर्शयितुम्॥



गच्छ कुलपुत्र, इयमिहैव मगधविषये बोधिमण्डे समन्तगम्भीरश्रीविमलप्रभा नाम रात्रिदेवता प्रतिवसति, यया अहमनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादिता, पुनः पुनश्च संचोदिता। तामुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्॥



अथ खलु सुधनः श्रेष्ठिदारको वासन्तीं रात्रिदेवतामाभिगार्थाभिरभ्यष्टौषीत्—



पश्यमि कायु तवाद्य विशुद्धं

लक्षणचित्रितु मेरु यथैव।

लोक‍अभ्युद्गत लोकविभासि

मञ्जुशिरी यथ रूपशिरीये॥२२॥



धर्मशरीरु तवातिविशुद्धं

सर्वत्रियध्वसमं अविकल्पम्।

यत्र समोसरि लोक अशेषः

संभवतेऽथ विभोति असङ्गम्॥२३॥



पश्यमि सर्वगतिप्रसरेषु

कायु तव प्रतिभासविभक्तम्।

रोममुखेषु च पश्यमि तुभ्यं

तारकसंघ सज्योतिषचन्द्रान्॥२४॥



चित्तु तवा विपुलं सुविशुद्धं

येन स्फुटं गगनं व दिशासु।

यत्र समोसरि सर्वनरेन्द्रा

ज्ञानमकल्पमलं वरु तुभ्यम्॥२५॥



क्षेत्ररजोपम मेघ विचित्रा

निश्चरिषू तव रोममुखेषु।

ते च फरन्ति दशद्दिशि बुद्धान्

सर्ववियूह प्रवर्षयमाणाः॥२६॥



सर्वजगोपम काय अनन्ता

निश्चरिषू तव रोममुखेषु।

ते च दशद्दिशि लोकु फरित्वा

नान‍उपाय विशोधयि सत्त्वान्॥२७॥



रोममुखेषु अचिन्तिय क्षेत्रा

पश्यमि नानवियूहविचित्रा।

ये त्वय शोधित सत्त्वगतीषु

तेष यथाशयसंभुत सर्वान्॥२८॥



लाभ सुलब्ध सुजीवितु तेषां

ये तव नाम शृणोन्ति उदग्राः।

येऽथ च दर्शनमेषि नराणां

बोधिपथाभिमुखाश्च भवन्ति॥२९॥



कल्प अचिन्तिय वासु अपाये

दर्शनहेतु तवोत्सहितव्यः।

यत्ति श्रवेण प्रहर्षितचित्ता

दर्शनमात्र शमेसि च क्लेशान्॥३०॥



क्षेत्रसहस्ररजोपम काया-

स्त्वादृश तान्तक कल्प भवेयुः।

वर्ण भणेत्तव रोममुखस्य

वर्णक्षयोऽस्य भवेन्न कदाचित्॥३१॥



अथ खलु सुधनः श्रेष्ठिदारको वासन्तीं रात्रिदेवतामाभिर्गाथाभिरभिष्टुत्य वासन्त्या रात्रिदेवतायाः पादौ शिरसाभिवन्द्य वासन्तीं रात्रिदेवतामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य अवितृप्त एव कल्याणमित्रपर्युपासनेन वासन्त्या रात्रिदेवताया अन्तिकात् प्रक्रान्तः॥३२॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project