Digital Sanskrit Buddhist Canon

३२ महादेवः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 32 mahādevaḥ
३२ महादेवः।



अथ खलु सुधनः श्रेष्ठिदारको विपुलबोधिसत्त्वचर्यानुगतचित्तोऽनन्यगामिनो बोधिसत्त्वस्य ज्ञानगोचरं स्पृहयमाणरूपो महाभिज्ञाभिनिर्हारविषयगुणविशेषदर्शी दृढवीर्यसंनाहप्रहर्षप्राप्तोऽचिन्त्यविमोक्षविक्रीडितानुगताशयः बोधिसत्त्वगुणभूमौ प्रतिपद्यमानः समाधिभूमिं विचारयमाणो धारणीभूमौ प्रतिष्ठमानः प्रणिधानभूमिमवतरन् प्रतिसंविद्भूमावनुशिक्षमाणोबलभूमिं निष्पादयमानोऽनुपूर्वेण येन द्वारवती नगरी तेनोपसंक्रम्य महादेवं पर्यपृच्छत्। तस्य महाजनकाय आरोचयामास-एष कुलपुत्र महादेवो नगरशृङ्गाटके देवागारे औदारिकेणात्मभावेन सत्त्वानां धर्मं देशयति। अथ खलु सुधनः श्रेष्ठिदारको येन महादेवस्तेनोपसंक्रम्य महादेवस्य पादौ शिरसाभिवन्द्य पुरतः प्राञ्जलिः स्थित्वा एवमाह-मया आर्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्। न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्। श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददातीति। तद्वदतु मे आर्यः-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्॥



अथ खलु महादेवो देवश्चतुर्दिशं चतुरः पाणीन् प्रसार्य चतुर्भ्यो महासमुद्रेभ्यः परमशीघ्रजवेन वार्यानीय स्वमुखं प्रक्षाल्य सुधनं श्रेष्ठिदारकं सुवर्णपुष्पैरभ्यवकीर्य एवमाह-सुदुर्लभदर्शना हि कुलपुत्र बोधिसत्त्वाः, परमदुर्लभश्रवणा आश्चर्यप्रादुर्भावा लोकेऽग्रत्वात् परमपुरुषपुण्डरीका जगत्र्त्रातारः, प्रतिशरणभूता लोकस्य, प्रतिष्ठानभूता जगतः, महावभासकराः सत्त्वानाम्, क्षेमपथदर्शकाः संमूढमार्गाणाम्, नायकभूता धर्मनयावतरणतायै, परिणायकभूताः सर्वज्ञतापुरोपनयनतायै। तस्य मम कुलपुत्र एवं भवति-दुर्दृष्टिघातनं नामधेयं बोधिसत्त्वानां येन निर्मलचित्तानां स्वकायप्रतिभासं दर्शयति। विशुद्धकायकर्मणामभिमुखा भवन्ति। वचनदोषविवर्जितानां सरस्वत्यालोकमवक्रामयन्ति। विशुद्धाशयानां सर्वकालमभिमुखास्तिष्ठन्ति। अहं कुलपुत्र मेघजालस्य बोधिसत्त्वविमोक्षस्य लाभी। आह-क एतस्य आर्य मेघजालस्य बोधिसत्त्वविमोक्षस्य विषयः?



अथ खलु महादेवोः देवः सुधनस्य श्रेष्ठिदारकस्य पुरतो महापर्वतमात्रं सुवर्णराशिमुपदर्श्य रूप्यराशिं वैडूर्यराशिं स्फटिकराशिं मुसारगल्वराशिं अश्मगर्भराशिं ज्योतिरसमणिरत्न‍राशिं विमलगर्भमणिरत्न‍राशिं वैरोचनमणिरत्न‍राशिं समन्तदिगभिमुखमणिरत्न‍राशिं चूडामणिरत्नमकुटराशिं विचित्रमणिरत्न‍राशिं केयूरराशिं कुण्डलविभूषणराशिं वलयराशिं मेखलराशिं नूपूरराशिं विविधमणिरत्न‍राशिं सर्वाङ्गप्रत्यङ्गविभूषणराशिं चिन्ताराजमणिरत्न‍राशिं सर्वपुष्पाणि सर्वगन्धान् सर्वधूपान् सर्वमाल्यानि सर्वविलेपनानि सर्वचूर्णानि सर्ववस्त्राणि सर्वच्छत्राणि सर्वध्वजान् सर्वपताकाः सर्वतूर्याणि सर्वतालावचरान् सर्वकामविषयान्। असंख्येयानि च कन्याकोटीशतसहस्राण्युपदर्श्य सुधनं श्रेष्ठिदारकमेतदवोचत्-इतं कुलपुत्र गृहीत्वा दानानि देहि, पुण्यानि कुरु, तथागतान् पूजय, सत्त्वान् दानेन संग्रहवस्तुना संगृह्य त्यागपारमितायां नियोजय, दानेन लोकं शिक्षय। दुष्करपरित्यागतां प्रदर्शय। यथैवाहं कुलपुत्र तवोपकरणविधिमुपसंहरामि, एवमपरिमाणानां सत्त्वानां दानचेतनानिरुद्धानां त्यागवासितां संततिं करोमि। बुद्धधर्मसंघेषु बोधिसत्त्वकल्याणमित्रेषु च कुशलमूलान्यवरोपयित्वा अनुत्तरायां सम्यक्संबोधौ समादापयामि। अपि तु खलु पुनरहं कुलपुत्र कामरतिप्रमत्तानां सत्त्वानां विषयपरिभोगपरिगृद्धानां तान् विषयानशुभानधितिष्ठामि। क्रोधाविष्टानां मानमददर्पगर्वितानां विग्रहवैनयिकानां रौद्रराक्षसविकृतभयानन्तशरीरान् मांसरुधिरभक्षानात्मभावानुपदर्श्य तं सर्वं स्तम्भसंरम्भमुपदर्शयामि। कुसीदन्यस्तप्रयोगान् सत्त्वानग्न्युदकराजचौरोपसर्गभयसंदर्शनेनोद्वेज्य वीर्यारम्भे नियोजयामि। एवं तैस्तैरुपायैः सर्वाकुशलचर्याभ्यो विनिवर्त्य सर्वकुशलधर्मप्रतिपत्तौ संनियोजयामि। सर्वपारमिताविपक्षनिर्घाताय सर्वपारमितासंभारोपचयाय सर्वावरणपर्वतप्रपातपथसमतिक्रमणाय अनावरणधर्मावताराय च। एतमहं कुलपुत्र मेघजालं बोधिसत्त्वविमोक्षं प्रजानामि। किं मया शक्यमिन्द्रकल्पानां बोधिसत्त्वानां क्लेशासुरप्रमर्दकानां वारिकल्पानां सर्वजगद्दुःखाग्निस्कन्धनिर्वापयितॄणां तेजःस्कन्धकल्पानां सर्वजगत्तृष्णासलिलसंशोषणकराणां वायुकल्पानां सर्वग्राहाभिनिवेशपर्वतविकिरणानां वज्रकल्पानां दृढात्मसंज्ञाशैलनिर्दारणानां चर्यां ज्ञातुं गुणान् वा वक्तुम्॥



गच्छ कुलपुत्र, इयमिहैव जम्बुद्वीपे मगधविषये बोधिमण्डे स्थावरा नाम पृथ्वीदेवता प्रतिवसति। तामुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्॥



अथ खलु सुधनः श्रेष्ठिदारको महादेवस्य पादौ शिरसाभिवन्द्य महादेवं देवमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य महादेवस्य देवस्यान्तिकात्प्रक्रान्तः॥३०॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project