Digital Sanskrit Buddhist Canon

३१ अनन्यगामी

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 31 ananyagāmī
३१ अनन्यगामी।



अथ खलु सुधनः श्रेष्ठिदारकोऽवलोकितेश्वरस्य बोधिसत्त्वस्य ज्ञानगाथालब्धचित्तोऽवलोकितेश्वरस्य बोधिसत्त्वस्यावितृप्तो दर्शनेन वाणीमप्रतिवहन् येन अनन्यगामी बोधिसत्त्वस्तेनोपसंक्रम्य अनन्यगामिनो बोधिसत्त्वस्य पादौ शिरसाभिवन्द्य पुरतः प्राञ्जलिः स्थित्वा एवमाह-मया आर्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्। न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्। श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददातीति। तद्वदतु मे आर्यः-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्॥



सोऽवोचत्-अहं कुलपुत्र समन्तमुखनिर्जवनस्य बोधिसत्त्वविमोक्षस्य लाभी। आह-कतमस्य त्वया आर्य तथागतस्य पादमूलादेष समन्तमुखनिर्जवनो नाम बोधिसत्त्वविमोक्षः प्रतिलब्धः? कियद्दूरे वा स इतो लोकधातुः? कियच्चिरोच्चलितो वासि ततो लोकधातोः? आह-दुर्विज्ञेयमेतत्कुलपुत्र स्थानं सदेवमानुषासुरेण लोकेन सश्रमणब्राह्मणिकया प्रजया-यदुत बोधिसत्त्वपराक्रमी बोधिसत्त्ववीर्यानिवर्त्यता बोधिसत्त्ववीर्यसंहार्यता। नेदं कुलपुत्र शक्यं कल्याणमित्रापरिगृहीतैर्बुद्धासमन्वाहृतैरनुपचितकुशलमूलैरपरिशुद्धाशयैरप्रतिलब्धबोधिसत्त्वेन्द्रियैः प्रज्ञाचक्षुविरहितैः श्रोतुं वा संधारयितुं वा अधिमोक्तुं वा अवतरितुं वा। आह-वदतु मे आर्यः। अधिमोक्ष्यामि श्रद्धास्यामि बुद्धानुभावेन कल्याणमित्रपरिग्रहेण च। सोऽवोचत्-अहं कुलपुत्र पूर्वस्यां दिशि श्रीगर्भवत्या लोकधातोरागच्छामि समन्तश्रीसंभवस्य तथागतस्य बुद्धक्षेत्रात्। तस्य मे कुलपुत्र समन्तश्रीसंभवस्य तथागतस्य पादमूलादेष समन्तमुखनिर्जवनो नाम बोधिसत्त्वविमोक्षः प्रतिलब्धः। ततश्च मे कुलपुत्र श्रीगर्भवत्या लोकधातोरुच्चलितस्य अनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमाः कल्पाः क्षीणाः। एकैकेन च चित्तोत्पादेन अनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमान् पदव्यवहारान् व्यतिक्रमामि। एकैकेन च पदव्यवहारेण अनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमानि बुद्धक्षेत्राण्यतिक्रमामि। सर्वाणि च तानि बुद्धक्षेत्राणि अविरहितानि तथागतैः। अवतरामि सर्वांश्च तान् बुद्धान् भगवतः। अनुत्तरया मनोमय्या अनभिसंस्कारधर्मधातुमुद्रामुद्रितया तथागतानुज्ञातया सर्वबोधिसत्त्वप्रहर्षसंजनन्या तथागतं पूजयामि। यावतश्च तासु लोकधातुषु सत्त्वसमुद्रान् पश्यामि, सर्वेषां च तेषां चित्तसागरानवतरामि, सर्वेषां च तेषामिन्द्रियचक्रं परिज्ञाय यथाशयाधिमुक्तितो रूपकायं संदर्शयामि। धर्मघोषमुदीरयामि। प्रभामण्डलमुत्सृजामि। विविधोपकरणसंपदमुपसंहरामि। स्वकायं चैषामधितिष्ठामि, यदुत परिपाकविनयप्रयोगाप्रतिप्रस्रब्धये। यथा च पूर्वस्या दिशो निर्यामि, एवं दक्षिणायाः पश्चिमायाः उत्तराया उत्तरपूर्वायाः पूर्वदक्षिणाया दक्षिणपश्चिमायाः पश्चिमोत्तराया अध ऊर्ध्वाया दिशो निर्यामि। एतमहं कुलपुत्र समन्तमुखनिर्जवनं बोधिसत्त्वविमोक्षं जानामि। किं मया शक्यं सर्वत्रानुगतानां बोधिसत्त्वानां समतादिगभिमुखानामसंभिन्नज्ञानविषयाणां सर्वधर्मधातुसुविभक्तशरीराणां यथाशयाधिमुक्तसर्वसत्त्वानुविचारिणां सर्वक्षेत्रस्फरणकायानां सर्वधर्मयथानुगतानां त्र्यध्वपथसमतानुप्राप्तानां सर्वदिक्पथसमतानुसरणानां सर्वजगत्पथविरोचनानां तथागतपथाविकल्पानामसङ्गसर्वपथानुगतानामनालयपथप्रतिष्ठितानां चर्यां ज्ञातुं गुणान् वा वक्तुम्॥



गच्छ कुलपुत्र, इहैव दक्षिणापथे द्वारवती नाम नगरी। तत्र महादेवो देवः प्रतिवसति। तमुपसंक्रम्य परिपृच्छ कथं-बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्॥



अथ खलु सुधनः श्रेष्ठिदारकोऽनन्यगामिनो बोधिसत्त्वस्य पादौ शिरसाभिवन्द्य अनन्यगामिनं बोधिसत्त्वमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य अनन्यगामिनो बोधिसत्त्वस्यान्तिकात् प्रक्रान्तः॥२९॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project