Digital Sanskrit Buddhist Canon

२७ सिंहविजृम्भिता

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 27 siṁhavijṛmbhitā
२७ सिंहविजृम्भिता।



अथ खलु सुधनः श्रेष्ठिदारकोऽनुपूर्वेण येन श्रोणापरान्ते जनपदे कलिङ्गवनं नाम नगरम्, तेनोपजगाम। उपेत्य सिंहविजृम्भितां नाम भिक्षुणीं पर्येषमाणः प्रतिसत्त्वं परिपृच्छन् यतो यतः पर्यटति, तेन तेनैव अनेकानि कुमारशतानि अनेकानि कुमारिकाशतानि रथ्याचत्वरशृङ्गाटकेभ्यः संभूय अनुबध्नन्ति स्म। अनेकानि च पुरुषशतानि अनेकानि च स्त्रीशतान्यरोचयामासुः-एषा कुलपुत्र सिंहविजृम्भिता भिक्षुणी इहैव कलिङ्गवने नगरे जयप्रभानुप्रदत्ते सूर्यप्रभे महोद्याने प्रतिवसति अपरिमाणानां सत्त्वानामर्थाय धर्मं प्रकाशयमाना॥



अथ खलु सुधनः श्रेष्ठिदारको येन तत्सूर्यप्रभं महोद्यानं तेनोपसंक्रम्य समन्तादनुविचरन् अनुविलोकयन् अद्राक्षीत्तस्मिन् महोद्याने चन्द्रोद्गतान् नाम वृक्षान् कूटागारसंछन्नानर्चिर्वर्णार्चिर्निर्भासान् समन्ताद्योजनमाभया स्फरमाणान्, संप्रच्छदनामांश्च पत्रवृक्षान् छत्राकारान् संस्थानपर्णच्छदनान् नीलवैदूर्यवर्णपयोदावभासान्, कुसुमकोशनामांश्च पुष्पवृक्षान् हिमवत्पर्वतराजरमणीयविचित्रसंस्थानान् नानावर्णाक्षयकुसुमौघप्रवर्षणान् त्रिदशपुरोपशोभनपारिजातककोविदारसदृशान्, सदापक्वाननुपमस्वादुफलनिचितनामांश्च सुफलवृक्षान् सुवर्णमेरुशिखरसंस्थानान् सदाफलसंपन्नान्, वैरोचनकोशनाम्नश्च मणिराजवृक्षाननुपममणिरत्न‍राजसंस्थानान् दिव्यरत्नस्रग्मालाभरणचिन्ताराजमणिरत्नप्रमुक्तकोशसमृद्धिधरान् असंख्येयवर्णमणिरत्नाकारान्, प्रसादननामांश्च वस्त्रवृक्षान् नानावर्णदिव्यरत्नवस्त्रकोशप्रमुक्तप्रलम्बोपशोभितान्, प्रमोदननाम्नश्च वाद्यवृक्षान् दिव्यातिरेकतूर्यमनोज्ञमधुरनिर्घोषान्, समन्तशुभव्यूहनाम्नश्च गन्धवृक्षान् सर्वदिगप्रतिहतसर्वाकारमनोज्ञगन्धाभिप्रमोदनानद्राक्षीत्। उत्ससरस्तडागपुष्किरिणीश्च सप्तरत्नेष्टकानिचिताश्चतुर्दिक्षु विभक्तरत्नसोपानाः कालानुसारिचन्दनपरिदिग्धविविधरत्नवेदिकापरिवृताः, नीलवैदूर्यमणिराजकृततलसंस्थानाः, जाम्बूनदकनकवालिकास्तीर्णतलाः, मनोज्ञदिव्यगन्धाष्टाङ्गोपेतवारिपरिपूर्णाः, विचित्रवर्णदिव्यगन्धस्पर्शरत्नोत्पलपद्मकुमुदपुण्डरीकसंछादितसलिलाः, दिव्यातिरेकमनोज्ञरूपनानाशकुनिगणमधुरनिर्घोषनिकूजिताः, विविधदिव्यरत्नसुरुचिरद्रुमपङ्किपरिक्षेपोपशोभिताः। सर्वेषु च तेषु नानारत्नवृक्षमूलेषु विचित्रमनोज्ञरूपाणि रत्नसिंहासनानि प्रज्ञप्तानि अचिन्त्यानेकविविधरत्नव्यूहानि, नानादिव्यरत्नवस्त्रप्रज्ञप्तोपचाराणि, सर्वाकारदिव्यगन्धधूपनिर्धूपितानि, दिव्यातिक्रान्तरत्नपट्टाभिप्रलम्बितविचित्ररत्नवितानविततानि, नानारत्नविचित्रजाम्बूनदकनकजालसंछन्नानि, रत्नकिङ्किणीजालमनोज्ञमधुरनिर्घोषाणि, अनेकदिव्यरत्नासनशतसहस्रपरिवाराण्यपश्यत्। स क्वचिद्रत्नवृक्षमूले रत्नपद्मगर्भसिंहासनं प्रज्ञप्तमपश्यत्। क्वचिद्गन्धराजमणिरत्नपद्मगर्भसिंहासनम्, क्वचिन्नागव्यूहमणिराजपद्मगर्भसिंहासनम्, क्वचिद्रत्नसिंहस्कन्धमणिराजपद्मगर्भसिंहासनम्, क्वचिद्वैरोचनमणिराजपद्मगर्भसिंहासनम्, क्वचिद्दिग्विरोचनमणिराजपद्मगर्भसिंहासनम्, क्वचिदिन्द्रवज्रमणिराजपद्मगर्भसिंहासनम्, क्वचिज्जगद्रोचनमणिराजपद्मगर्भसिंहासनम्, क्वचिद्रत्नवृक्षमूले सिताभमणिराजपद्मगर्भसिंहासनं प्रज्ञप्तमपश्यत्। सर्वावच्च तन्महोद्यानं नानारत्नाकीर्णतलं महासागरमिव रत्नद्वीपाकीर्णमपश्यत् नीलवैडूर्यराजखचितसर्वरत्नप्रत्यर्पितकाचिलिन्दिकसुखसंस्पर्शभूमिभागं चरणनिक्षेपोत्क्षेपोन्नामावनामविगतं वज्ररत्न‍राजमयसुखसंस्पर्शमनोज्ञगन्धनलिनसंस्तीर्णतलं हंसक्रौञ्चमयूरकुणालकलविङ्ककोकिलजीवंजीवकरुतनिर्नादमधुरनिर्घोषं दिव्यरत्नचन्दनद्रुमवनसुरचितप्रविष्टव्यूहोपशोभितं विचित्ररत्नपुष्पमेघरत्नकुसुमाक्षयधाराभिप्रवर्षितं मिश्रकावनप्रतिविशिष्टं सुरचितनानारत्नकूटागारातुलगन्धराजसततप्रधूपितोपचारं सुधर्मदेवसभाप्रतिविशिष्टव्यूहं उपरिष्टाद्दिव्यातिरेकविचित्ररत्नजालसंछन्नं मुक्तामणिपुष्पहारकलापप्रलम्बितोपशोभितदेशं समन्ताद्रत्नकिङ्किणीविचित्रविन्यासोज्ज्वलितसुवर्णजालपरिष्कृतं विविधवाद्यवृक्षरत्नतालकिङ्किणीजालमारुतसमीरितमधुरमनोज्ञशब्दनिर्घोषं वशवर्तिदेवराजप्रमुखाप्सरःसंगीतिरुतपरमरमणीयनिर्घोषं विचित्रवर्णदिव्यकल्पदूष्यमेघाभिप्रवर्षणविराजितं महासागरमिवानन्तवर्णावभासमसेचनकदर्शनमचिन्त्यासंख्येयरत्नव्यूहकूटागारशतसहस्रप्रतिमण्डितं त्रिदशेन्द्रपुरमिव सुदर्शनं सर्वाकारनानारत्नभक्तिप्रतिमण्डितं सुपरिणतच्छत्रविन्याससमन्तशुभदर्शनं महेन्द्रलोकमिव चित्रकूटोपशोभितं सदाप्रमुक्तमनोज्ञमहाप्रभावभासं जगद्रोचनमणिरत्न‍राजप्रभाज्वलितमिव महाब्रह्मविहारमसंख्येयलोकधात्वधिष्ठानाकाशकोशविपुलाप्रमाणावकाशं तत्सूर्यप्रभं महोद्यानमपश्यत् सिंहविजृम्भिताया भिक्षुण्या महता अचिन्त्यर्द्धिप्रभावबलाधानेन॥



अथ खलु सुधनः श्रेष्ठिदारकः इमानेवमप्रमाणाचिन्त्यगुणसमुदितान् महोद्यानव्यूहान् बोधिसत्त्वकर्मविपाकपरिनिष्पन्नान् लोकोत्तरविपुलकुशलमूलनिर्जातानचिन्त्यबुद्धपूजोपस्थाननिष्यन्दसंभवान् सर्वलोकगतानवशेषकुशलमूलासंहार्यान् मायागतधर्मस्वभावनिर्वृत्तान् विमलविपुलशुभपुण्यविपाकसंभूतान् सिंहविजृम्भिताया भिक्षुण्याः पूर्वसुकृतसुचरितनिष्यन्दबलाधानसंभूतानसाधारणान् सश्रावकप्रत्येकबुद्धैरसंहार्यान् सर्वतीर्थ्यपरप्रवादिभिरनवमर्द्यान् सर्वमारपथसमुदाचारैरनवलोक्यान् सर्वबालपृथग्जनैः समन्तादनुविलोकयन्नद्राक्षीत्। सर्वेषु च तेषु नानारत्नवृक्षमूलगतेषु महासिंहासनेषु सिंहविजृम्भितां भिक्षुणीं संनिषण्णां महापरिवारपरिवृतां प्रासादिकेनात्मभावेन प्रशान्तेर्यापथां शान्तेन्द्रियां शान्तमनसं सुगुप्तां जितेन्द्रियां नागमिव सुदान्तां ह्रदमिव अच्छानाविलविप्रसन्नचित्तां चिन्तामणिराजमिव सर्वकामप्रदां पद्ममिव वारिणानुपलिप्तां लोकधर्मैः, सिंह इव विगतभयरोमहर्षां वैशारद्यविशुद्ध्या, महाचलेन्द्रराजमिवाप्रकम्पां शीलविशुद्ध्या, मनोहरगन्धराजमिव जगच्चित्तप्रह्लादनकरीं हिमचन्दनमिव क्लेशपरिदाहप्रशमनकरीं सुदर्शनभैषज्यराजमिव सर्वजगद्दुःखव्युपशमनकरीं वरुणपाशमिवामोघदर्शनां तथागतप्रभामिव कायचित्तप्रस्रब्धिसुखसंजननीं महाब्रह्माणमिव विगतरागदोषमोहपर्युत्थानाम् उदकप्रसादकमणिरत्न‍राजमिव क्लेशाविलसत्त्वचित्तप्रह्लादनकरीं सुक्षेत्रमिव कुशलमूलविवर्धनीम्। तेषु चासनपरिवारेषु विचित्रां पर्षदं संनिषण्णामद्राक्षीत्॥



स क्वचिदासनपरिवारे महेश्वरदेवपुत्रप्रमुखानां शुद्धावासकायिकानां देवपुत्राणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीमक्षयविमोक्षसंभेदं नाम धर्ममुखं प्रकाशयमानामपश्यत्। क्वचिदासनपरिवारे रुचिरब्रह्मप्रमुखानां ब्रह्मकायिकानां देवपुत्राणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं समन्ततलभेदं नाम स्वरमण्डलविशुद्धिं संप्रकाशयमानामपश्यत्। क्वचिदासनपरिवारे वशवर्तिदेवराजप्रमुखानां परनिर्मितवशवर्तिदेवराजप्रमुखानां परनिर्मितवशवर्तिनां देवपुत्राणां सदेवकन्यापरिवाराणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं बोधिसत्त्वाशयविशुद्धिवशिताव्यूहं नाम धर्ममुखं संप्रकाशयमानामपश्यत्। क्वचिदासनपरिवारे सुनिर्मितदेवराजप्रमुखानां निर्माणरतीनां देवपुत्राणां सदेवकन्यापरिवाराणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं सर्वधर्मशुभव्यूहं नाम धर्ममुखं संप्रकाशयमानामपश्यत्। क्वचिदासनपरिवारे संतुषितदेवराजप्रमुखानां तुषितकायिकानां देवपुत्राणां सदेवकन्यापरिवाराणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं स्वचित्तकोशावर्तं नाम धर्ममुखं संप्रकाशयमानामपश्यत्। क्वचिदासनपरिवारे सुयामदेवराजप्रमुखानां देवपुत्राणां सदेवकन्यापरिवाराणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीमनन्तव्यूहं नाम धर्ममुखं संप्रकाशयमानामपश्यत्। क्वचिदासनपरिवारे शक्रदेवराजप्रमुखानां त्रायस्त्रिंशकायिकानां देवपुत्राणां सदेवकन्यापरिवाराणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीमुद्वेगमुखं नाम धर्ममुखं संप्रकाशयमानामपश्यत्। क्वचिदासनपरिवारे सागरनागराजप्रमुखानां शतरश्मिनन्दोपनन्दमनस्यैरावतानवतप्तप्रभृतीनां नागराज्ञां सनागकन्यानां नागकुमारपरिवाराणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं बुद्धविषयप्रभाव्यूहं नाम धर्ममुखं संप्रकाशयमानामपश्यत्। क्वचिदासनपरिवारे वैश्रवणमहाराजप्रमुखानां यक्षेन्द्राणां सयक्षकन्यायक्षकुमारपरिवाराणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं जगत्परित्राणकोशं नाम धर्ममुखं संप्रकाशयमानामपश्यत्। क्वचिदासनपरिवारे धृतराष्ट्रगन्धर्वराजप्रमुखानां गन्धर्वाणां सगन्धर्वकन्यागन्धर्वकुमारपरिवाराणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीमक्षयप्रहर्षणं नाम धर्ममुखं संप्रकाशयमानामपश्यत्। क्वचिदासनपरिवारे राह्वसुरेन्द्रप्रमुखानामसुरेन्द्राणां सासुरकन्यासुरकुमारपरिवाराणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं धर्मधातुज्ञानयवेगव्यूहं नाम धर्ममुखं संप्रकाशयमानामपश्यत्। क्वचिदासनपरिवारे महावेगधारिगरुडेन्द्रप्रमुखानां गरुडेन्द्राणां सगरुडकन्यागरूडकुमारपरिवाराणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं भवसागरसंत्रासविषयं नाम धर्ममुखं संप्रकाशयमानामपश्यत्। क्वचिदासनपरिवारे द्रुमकिन्नरराजप्रमुखानां किन्नरेन्द्राणां सकिन्नरकन्याकिन्नरकुमारपरिवाराणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं बुद्धचर्यावभासं नाम धर्ममुखं संप्रकाशयमानामपश्यत्। क्वचिदासनपरिवारे भृकुटीमुखमहोरगेन्द्रप्रमुखानां महोरगेन्द्राणां समहोरगकन्यामहोरगकुमारपरिवाराणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं बुद्धप्रीतिसंभवं नाम धर्ममुखं संप्रकाशयमानामपश्यत्। क्वचिदासनपरिवारेऽनेकेषां स्त्रीपुरुषदारकदारिकाशतसहस्राणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं ज्ञानविशेषगमनं नाम धर्ममुखं संप्रकाशयमानामपश्यत्। क्वचिदासनपरिवारे नित्यौजोहरद्रुमराजराक्षसेन्द्रप्रमुखानां राक्षसेन्द्राणां सराक्षसकन्याराक्षसकुमारपरिवाराणां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं कृपासंभवं नाम धर्ममुखं संप्रकाशयमानामपश्यत्। क्वचिदासनपरिवारे श्रावकयानाधिमुक्तानां सत्त्वानां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं ज्ञानविशेषप्रभावं नाम धर्ममुखं संप्रकाशयमानापश्यत्। क्वचिदासनपरिवारे प्रत्येकबुद्धयानाधिमुक्तानां सत्त्वानां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीमुदारबुद्धगुणावभासं नाम धर्ममुखं संप्रकाशयमानामपश्यत्। क्वचिदासनपरिवारे महायानाधिमुक्तानां सत्त्वानां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं समन्तमुखं नाम समाधिज्ञानालोकमुखं संप्रकाशयमानामपश्यत्। क्वचिदासनपरिवारे प्रथमचित्तोत्पादिकानां बोधिसत्त्वानां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं सर्वबुद्धप्रणिधिकूटं नाम समाधिमुखं संप्रकाशयमानामपश्यत्। क्वचिदासनपरिवारे द्वितीयभूमिप्रतिष्ठितानां बोधिसत्त्वानां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं विरजोमण्डलं नाम समाधिमुखं संप्रकाशयमानामपश्यत्। क्वचिदासनपरिवारे तृतीयभूमिप्रतिष्ठितानां बोधिसत्त्वानां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं प्रशान्तव्यूहं नाम समाधिमुखं संप्रकाशयमानामपश्यत्। क्वचिदासनपरिवारे चतुर्थीभूमिप्रतिष्ठितानां बोधिसत्त्वानां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं सर्वज्ञतावेगविषयसंभवं नाम समाधिमुखं संप्रकाशयमानामपश्यत्। क्वचिदासनपरिवारे पञ्चमीभूमिप्रतिष्ठितानां बोधिसत्त्वानां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं चित्तलताकुसुमगर्भं नाम समाधिमुखं संप्रकाशयमानमपश्यत्। क्वचिदासनपरिवारे षष्ठीभूमिप्रतिष्ठितानां बोधिसत्त्वानां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं वैरोचनगर्भं नाम समाधिमुखं संप्रकाशयमानामपश्यत्। क्वचिदासनपरिवारे सप्तमीभूमिप्रतिष्ठितानां बोधिसत्त्वानां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं समन्तभूम्यलंकारं नाम समाधिमुखं संप्रकाशयमानामपश्यत्। क्वचिदासनपरिवारे अष्टमीभूमिप्रतिष्ठितानां बोधिसत्त्वानां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीं धर्मधातुपञ्जरसुविभक्तशरीरविषयं नाम समाधिमुखं संप्रकाशयमानामपश्यत्। क्वचिदासनपरिवारे नवमीभूमिप्रतिष्ठितानां बोधिसत्त्वानां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीमनिलम्भबलनिलयव्यूहं नाम धर्ममुखं संप्रकाशयमानामपश्यत्। क्वचिदासनपरिवारे दशमीभूमिप्रतिष्ठितानां बोधिसत्त्वानां संनिषण्णानां सिंहविजृम्भितां भिक्षुणीमनावरणमण्डलं नाम समाधिमुखं संप्रकाशयमानामपश्यत्। क्वचिदासनपरिवारे संनिषण्णस्य वज्रपाणिपर्षन्मण्डलस्य सिंहविजृम्भितां भिक्षुणीं ज्ञानवज्रनारायणव्यूहं नाम धर्ममुखं संप्रकाशयमानामपश्यत्। इति हि यावत्यः सर्वोपपत्त्यायतनसंभेदेषु सत्त्वप्रज्ञप्तयः सत्त्वगतयः, तासु ये सत्त्वाः परिपक्वा वैनयिका भाजनीभूताः, तेषां तस्मिन् महोद्याने समवसृत्य प्रत्येकमासनपरिवारसंनिषण्णानां नानाशयानां नानाधिमुक्तानां नियताशयानां घनरसश्रद्धानां सिंहविजृम्भितां भिक्षुणीं तथा तथा धर्मं देशयमानामपश्यत्, यत्सर्वे नियता भवन्त्यनुत्तरायां सम्यक्संबोधौ। तत्कस्य हेतोः? यथापि तत्सिंहविजृम्भिताया भिक्षुण्याः समन्तचक्षुरुपेक्षावतीप्रमुखानि सर्वबुद्धधर्मनिर्देशप्रमुखानि धर्मधातुतलप्रभेदप्रमुखानि सर्वावरणमण्डलविकिरणप्रमुखानि सर्वजगत्कुशलचित्तसंभवप्रमुखानि विशेषवतिव्यूहप्रमुखानि असङ्गनयगर्भप्रमुखानि धर्मधातुमण्डलप्रमुखानि चित्तकोशप्रमुखानि समन्तरुचिताभिनिर्हारगर्भप्रमुखानि दशप्रज्ञापारमितामुखासंख्येयशतसहस्राण्यवक्रान्तानि। ये च तत्सूर्यप्रभं महोद्यानं बोधिसत्त्वास्तदन्ये वा सत्त्वाः प्रविशन्ति सिंहविजृम्भिताया भिक्षुण्या दर्शनाय धर्मश्रवणाय, सर्वे ते सिंहविजृम्भिताया भिक्षुण्याः प्रथमं कुशलमूलधर्मसमुदानेषु नियोजिता यावदनुत्तरायाः सम्यक्संबोधेरविवर्त्याः कृताः॥



अथ खलु सुधनः श्रेष्ठिदारकः सिंहविजृम्भिताया भिक्षुण्या इमामेवंरूपामुद्यानसंपदं विहारसंपदं चंक्रमसंपदं परिभोगसंपदं शय्यासनसंपदं पर्षन्मण्डलसंपदमाधिपतेयसंपदमृद्धिविकुर्वितसंपदं सरस्वतीव्यूहसंपदं दृष्ट्वा अचिन्त्यं च धर्मनयं श्रुत्वा विपुलधर्ममेघाभिष्यन्दितचित्तः सिंहविजृम्भिताया भिक्षुण्या अभिमुखमाशयविशुद्धिसंपदं संप्रणीतोऽनेकशतसहस्रकृत्वः प्रदक्षिणीकरिष्यामीति। अथ सिंहविजृम्भिताया भिक्षुण्याः सर्वं तन्महोद्यानं सपर्षन्मण्डलव्यूहमुदारेणावभासेन स्फुटमवभासितम्। अनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्वा एवं संजानाति-प्रदक्षिणीकुर्वंश्च समन्तादभिमुखं सिंहविजृम्भितां भिक्षुणीमद्राक्षीत्। स पुरतः प्राञ्जलिः स्थित्वा एवमाह-मया आर्ये, अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्। न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्। श्रुतं च मे आर्या बोधिसत्त्वानामववादानुशासनीं ददातीति। तद्वदतु मे आर्या-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्॥



सा अवोचत्-अहं कुलपुत्र सर्वमन्यनासमुद्धातितस्य बोधिसत्त्वविमोक्षस्य लाभिनी। आह-क एतस्य आर्ये सर्वमन्यनासमुद्धातितस्य बोधिसत्त्वविमोक्षस्य विषयः? आह-एष कुलपुत्र त्र्यध्वगतव्यूहैकचित्तक्षणकोटिविज्ञप्तिस्वभावो ज्ञानालोकः। आह-क एतस्य आर्ये ज्ञानालोकस्य विषयः? आह-एतन्मम कुलपुत्र ज्ञानालोकमुखमायूहत्या निर्यूहत्याः सर्वधर्मोपपन्नो नाम समाधिराजायते, यस्य समाधेः सहप्रतिलाभेन मनोमयैः कायैः सर्वासु दशसु दिक्षु सर्वलोकधातुष्वेकजातिप्रतिबद्धानां तुषितभवनगतानां सर्वबोधिसत्त्वानामेकैकस्य बोधिसत्त्वस्य अनभिलाप्यबुद्धक्षेत्रपरमाणुरजः समैरात्मभावैरनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमाभिः पूजाविमात्राभिः पूजाप्रयोगायोपसंक्रमामि, यदुत देवैन्द्रकायैर्नागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्येन्द्रकायैः पुष्पमेघपरिगृहीतैर्गन्धमेघपरिगृहीतैर्धूपमेघपरिगृहीतैर्माल्यमेघपरिगृहीतैर्विलेपनमेघपरिगृहीतैश्चूर्णमेघपरिगृहीतैर्वस्त्रमेघ-परिगृहीतैश्छत्रमेघपरिगृहीतैर्ध्वजमेघपरिगृहीतैः पताकामेघपरिगृहीतै रत्नाभरणमेघपरिगृहीतै रत्नजालव्यूहमेघपरिगृहीतै रत्नवितानव्यूहमेघपरिगृहीतै रत्नप्रदीपव्यूहमेघपरिगृहीतै रत्नासनव्यूहमेघपरिगृहीतैः पूजाप्रयोगाय उपसंक्रमामि। यथा तुषितभवनगतानामेकजातिप्रतिबद्धानां बोधिसत्त्वानां पूजाप्रयोगायोपसंक्रमामि, एवं कुक्षिगतानां जायमानानामन्तःपुरमध्यगतानामभिनिष्क्रमतां बोधिमण्डमुपसंक्रमतां बोधिमण्डवरगतानामनुत्तरां सम्यक्संबोधिमभिसंबुद्धानां सर्वतथागतानां सर्वधर्मचक्रंप्रवर्तयतामेवं देवभवनगतानां नागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यभवनगतानां यावत्सर्वजगच्चित्ताशयान् संतोषयित्वा परिनिर्वायमाणामेवंरूपैर्मनोमयैरात्मभावैरेवंरूपां पूजां कुर्वाणानां सर्वतथागतानामुपसंक्रमामि। ये च सत्त्वा ममेदं बुद्धपूजोपस्थानकर्म प्रजानन्ति, ते सर्वे नियता भवन्ति अनुत्तरायां सम्यक्संबोधौ। ये च सत्त्वा मामुपसंक्रामन्ति, तेषामहं सर्वेषामेतामेव प्रज्ञापारमिताववादानुशासनीं ददामि। अहं कुलपुत्र ज्ञानचक्षुषा सर्वसत्त्वान् पश्यामि। न च सत्त्वसंज्ञामुत्पादयामि, न मन्ये। सर्वजगन्मन्त्रसंज्ञामुद्रां शृणोमि, न च मन्ये सर्ववाक्पथानभिनिविष्टत्वात्। सर्वतथागतान् पश्यामि, न च मन्ये धर्मशरीरपरिज्ञानत्वात्। सर्वतथागतधर्मचक्राणि च संघारयामि, न च मन्ये धर्मस्वभावानुबुद्धत्वात्। प्रतिचित्तक्षणं सर्वधर्मधातुं स्फरामि, न च मन्ये मायागतधर्मतावबुद्धत्वात्। एतमहं कुलपुत्र सर्वमन्यनासमुद्धातितं बोधिसत्त्वविमोक्षं प्रजानामि। किं मया शक्यं बोधिसत्त्वानामनन्तमध्यधर्मधात्ववतीर्णानां चर्यां ज्ञातुं गुणान् वा वक्तुम्, ये ते सर्वधर्ममन्यनाविहारिणश्च एकपर्यङ्केन च सर्वधर्मधातुं स्फरन्ति। ये ते स्वकायान्तर्गतानि सर्वबुद्धक्षेत्राणि संदर्शयन्ति, एकक्षणेन च सर्वतथागतानुपसंक्रामन्ति। येषामात्मभावे सर्वबुद्धविकुर्वितानि प्रवर्तन्ते। ये एकरोम्ना बह्वनभिलाप्यानभिलाप्यानि बुद्धक्षेत्राण्यभूत्क्षिपन्ति। ये ते स्वरोमविवरेऽनभिलाप्यानभिलाप्यलोकधातुसंवर्तविवर्तकल्पानादर्शयन्ति। ये एकक्षणेनानभिलाप्यानभिलाप्यकल्पसंवाससमतां समवसरन्ति। ये एकक्षणेन अनभिलाप्यानभिलाप्यान् कल्पान् संसरन्ति।



गच्छ कुलपुत्र, इहैव दक्षिणापथे दुर्गे जनपदे रत्नव्यूहं नाम नगरम्। तत्र वसुमित्रा नाम भागवती प्रतिवसति। तामुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्॥



अथ खलु सुधनः श्रेष्ठिदारकः सिंहविजृम्भिताया भिक्षुण्याः पादौ शिरसाभिवन्द्य सिंहविजृम्भितां भिक्षुणीमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य सिंहविजृम्भिताया भिक्षुण्या अन्तिकात् प्रक्रान्तः॥२५॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project