Digital Sanskrit Buddhist Canon

२६ जयोत्तमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 26 Jayottamaḥ
२६ जयोत्तमः।



अथ खलु सुधनः श्रेष्ठिदारको महामैत्र्यप्रमाणसत्त्वधातुस्फरणचित्तो महाकरुणास्नेहाभिष्यन्दितसंतानो विपुलपुण्यज्ञानसंभारव्यूहोपचितः सर्वक्लेशरजस्तमोमलपङ्कापगतो धर्मसमतानुगमो निम्नोन्नतसर्वज्ञतामार्गप्रसृतः अपरिमाणाकुशलधर्मावतारमुखोद्धृतः सर्वाकुशलाभेद्यदृढवीर्यबलपराक्रमः अचिन्त्यबोधिसत्त्वसमाधिविपुलप्रस्रब्धिमुखसमर्पितः प्रज्ञाभास्करतेजोवभासविधूतनिरवशेषाविद्यान्धकारः सुखशीतलोपायमारुतेरितज्ञानकुसुमावकीर्णो महाप्रणिधानसमुद्रनिर्याणज्ञाननयानुकूलः अप्रतिहतधर्मधातुस्फरणज्ञानः अक्षुण्णसर्वज्ञतापुरप्रवेशाभिमुखः बोधिसत्त्वमार्गमभिकाङ्क्षमाणो येन नन्दिहारं नगरं तेनोपसंक्रम्य जयोत्तमं श्रेष्ठिनं परिमार्गन् परिगवेषमाणोऽद्राक्षीत् पूर्वेण नदिहारस्य नगरस्य पर्यन्ते विचित्रध्वजायामशोकवनिकायामनेकगृहपतिसहस्रपरिवृतं विविधानि नगरकार्याणि परिनिष्ठापयन्तं तदागम्य च धार्मीं कथां कथयन्तम्, सर्वाहंकारसमुद्योताय, सर्वममकारोत्सर्गाय, सर्वपरिग्रहपरित्यागाय, सर्ववस्तुग्रहणप्रतिनिसर्गाय, सर्वाभिनिवेशनिर्दारणाय, सर्वतृष्णाबन्धनच्छेदनाय, सर्वदृष्टिगतकपाटनिर्भेदनाय, सर्वसंशयविमतिविचिकित्सातिमिरविधमनाय, मायाशाठ्यकालुष्यापनयनाय, ईर्ष्यामात्सर्यमलसंशोधनाय, चित्तसरःप्रसादनाय, अनाविलचित्ततायां सत्त्वप्रतिष्ठापनतायै, अनाविलश्रद्धाबलोत्पादनतया बुद्धदर्शनाभिरोचनतायै, बोधिसत्त्वबलोद्भावनतया बुद्धधर्मसंप्रतीच्छनतायै, बोधिसत्त्वचर्यासूचनतया बोधिसत्त्वसमाधिबलजननतायै, बोधिसत्त्वप्रज्ञाबलसंदर्शनतया बोधिसत्त्वस्मृतिबलविशुद्ध्युत्तारणतायै धर्मं देशयमानं यदुत बोधिचित्तोत्पादाभिरोचनाय॥



अथ खलु सुधनः श्रेष्ठिदारकस्तत्कथापर्यवसानमागमयित्वा जयोत्तमस्य श्रेष्ठिनः पादयोः प्रणिपत्य सुचिरमभिनाम्य धर्मगौरवप्रतिलब्धेनाशयेन एवं वाचमुदीरयामाससुधनोऽस्मि, सुधनोऽस्मि आर्य, बोधिसत्त्वचर्यां परिमार्गामि। तद्वदतु मे आर्यो यथाहं बोधिसत्त्वचर्यायां शिक्षेयम्। यथा शिक्षमाणः सर्वसत्त्वपरिपाकविनयकायेष्वभिमुखो भवेयम्। सर्वबुद्धदर्शनं न विजह्याम्। सर्वबुद्धधर्मं शृणुयाम्। सर्वबुद्धधर्ममेघान् संधारयेयम्। सर्वबुद्धधर्मनयेषु प्रतिपद्येयम्। सर्वलोकधातुषु बोधिसत्त्वचर्यायां चरेयम्। सर्वकल्पसंवासेषु बोधिसत्त्वचर्यया न परिखिद्येयम्। सर्वतथागतविकुर्वितान्याजानीयाम्। सर्वबुद्धाधिष्ठानानि संप्रतीच्छेयम्। सर्वतथागतबलेषु च अवभासं प्रतिलब्धो भवेयम्॥



अथ खलु जयोत्तमः श्रेष्ठी सुधनं श्रेष्ठिदारकमेवमाह-साधु साधु कुलपुत्र, येन ते अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्। अहं कुलपुत्र सर्वगामिनीबोधिसत्त्वचर्यामुखं परिशोधयामि यदुत अभावप्रतिष्ठितानभिसंस्कारविप्रतिलाभबलेन। सोऽहमिह सर्वगामिनीबोधिसत्त्वचर्यापरिशुद्धिमुखे स्थित्वा सर्वत्रिसाहस्रमहासाहस्रे लोकधातौ सर्वत्रिदशदेवलोकेषु सर्वयामभवनेषु सर्वतुषितदेवलोकेषु सर्वनिर्माणरतिदेवलोकेषु सर्वपरनिर्मितवशवर्तिदेवलोकेषु सर्वमारभवनेषु सर्वकामाधातुषु देवनिकायान्तर्गतेषु सर्वदेवभवनेषु सर्वनागलोकेषु सर्वनागभवनेषु, सर्वयक्षलोकेषु सर्वयक्षभवनेषु, सर्वराक्षसलोकेषु सर्वराक्षसभवनेषु, सर्वकुम्भाण्डलोकेषु सर्वकुम्भाण्डभवनेषु, सर्वप्रेतलोकेषु सर्वप्रेतभवनेषु, सर्वगन्धर्वलोकेषु सर्वगन्धर्वभवनेषु, सर्वासुरलोकेषु सर्वासुरभवनेषु, सर्वगरुडलोकेषु सर्वगरुडभवनेषु, सर्वकिन्नरलोकेषु सर्वकिन्नरभवनेषु, सर्वमहोरगलोकेषु सर्वमहोरगभवनेषु, सर्वमनुष्यलोकेषु सर्वमनुष्यभवनेषु, सर्वग्रामनगरनिगमजनपदराष्ट्रराजधानीषु सर्वकामधात्वन्तर्गतासु सर्वसत्त्वगतिषु धर्मं देशयामि। अधर्मं प्रतिजहामि। विवादं प्रशमयामि। विग्रहं व्यावर्तयामि। कलहं व्युपशमयामि। युद्धं निवारयामि। रणमुपशमयामि। वैरमुपरमयामि। बन्धनानि च्छिनद्मि। चारकाणि भिनद्मि। भयानि विनिवर्तयामि। अकुशलकर्माभिसंस्कारान् समुच्छिनद्मि। प्राणिवधात् सत्त्वान् विनिवारयामि। अदत्तादानात् काममिथ्याचारात् मृषावादात् पैशुन्यात् पारूष्यात् संभिन्नप्रलापादभिध्याया व्यापादात् मिथ्यादृष्टेः सत्त्वान्निवारयामि। सर्वकार्येभ्यः सत्त्वान् विनिवारयामि। सर्वधर्मकुशलधर्मक्रियास्वनुवर्तयामि। सर्वसत्त्वान् सर्वशिल्पानि शिक्षयामि। लोकहितावहानि सर्वशास्त्राणि द्योतयामि, प्रकल्पयामि, प्रकाशयामि, प्रभावयामि लोकप्रहर्षणतायै। सत्त्वपरिपाकाय सर्वपाषण्डाननुवर्तयामि। उत्तरिज्ञानविशेषसूचनतायै सर्वदृष्टिगतविनिवर्तनतायै सर्वबुद्धधर्मारोचनतायै यावद्ब्रह्मलोकेऽपि सर्वरूपधातुकान् देवानभिभूय धर्मं देशयामि। यथा चेह त्रिसाहस्रमहासाहस्रे लोकधातौ, तथा दशसु दिक्षु दशानभिलाप्यबुद्धक्षेत्रकोटीनियुतशतसहस्रपरमाणुरजःसमेषु लोकधातुषु धर्मं देशयामि। बुद्धधर्मान् देशयामि। बोधिसत्त्वधर्मान् श्रावकधर्मान् प्रत्येकबुद्धधर्मान् देशयामि। नरकान् देशयामि। नरकगामिनीं प्रतिपदं देशयामि। नैरयिकसत्त्वकारणां देशयामि। तिर्यग्योनिं देशयामि। तिर्यग्योनिगतिसंभेदं तियग्योनिगतिगामिनीं प्रतिपदं तिर्यग्योन्युपपत्तिदुःखं देशयामि। यमलोकं देशयामि, यमलोकगामिनीं प्रतिपदं यमलोकदुःखं देशयामि। स्वर्गलोकं देशयामि, स्वर्गलोकगामिनीं प्रतिपदं स्वर्गलोकरत्युपचारपरिभोगं देशयामि। मनुष्यलोकं देशयामि, मनुष्यलोकगतिगामिनीं प्रतिपदं मनुष्यलोकसुखदुःखानुभववैचित्र्यं देशयामि। इति हि कुलपुत्र लोकधर्मं देशयामि। लोकसमुदयं लोकास्तंगमनं लोकादीनवं लोकनिःसरणमपि देशयामि, यदुत बोधिसत्त्वमार्गसंप्रकाशनतायै संसारदोषविनिवर्तनतायै सर्वज्ञतागुणसंदर्शनतायै भवगतिसंमोहदुःखसंप्रशमनतायै अनावरणधर्मतारोचनतायै लोकप्रवृत्तिक्रियापरिदीपनतायै सर्वलोकप्रवृत्तिसुखदुःखसूचनतायै सर्वजगत्प्रतिष्ठासंज्ञागतविभावनतायै अनालयतथागतधर्माभिद्योतनतायै सर्वकर्मक्लेशचक्रव्यावर्तनतायै तथागतधर्मचक्रप्रवर्तनसूचनतायै धर्मं देशयामि। एतमहं कुलपुत्र सर्वगामिनीबोधिसत्त्वचर्याविशुद्धिमुखमवभासप्रतिष्ठितानभिसंस्कारविमलव्यूहं प्रजानामि। किं मया शक्यं सर्वाभिज्ञानां बोधिसत्त्वानां सर्वक्षेत्रतलमायागतज्ञानशरीरस्फरणानां समन्तचक्षुर्ज्ञानभूमिप्रतिलब्धानां सर्ववाक्पथरुतविज्ञप्तिपरमश्रोत्राणां त्र्यध्वस्फरणधर्ममुखालोकवशिताप्राप्तानां सर्वधर्मसमवसरणज्ञानवशिताधिपतिवीरपुरुषाणामचिन्त्याप्रमाणयथाशयसत्त्वविज्ञपनासंभिन्नस्वरमण्डलप्रभूतरुचिरतनुजिह्वानां नानाभिप्रायसत्त्वसमुद्ररुचिरवर्णसंस्थानसर्वबोधिसत्त्वसममायोपमशरीराणां सर्वतथागताद्वयाकल्पाचिन्त्यशरीरपरमाणां सर्वत्र्यध्वानुसृतज्ञानकायानां गगनतलविपुलाप्रमाणगोचरविषयाणां चर्यां ज्ञातुं गुणान् वा वक्तुम्॥



गच्छ कुलपुत्र, इहैव दक्षिणापथे श्रोणापरान्तेषु जनपदेषु कलिङ्गवनं नाम नगरम्। तत्र सिंहविजृम्भिता नाम भिक्षुणी प्रतिवसति। तामुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्॥



अथ खलु सुधनः श्रेष्ठिदारको जयोत्तमस्य श्रेष्ठिनः पादौ शिरसाभिवन्द्य जयोत्तमं श्रेष्ठिनमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य जयोत्तमस्य श्रेष्ठिनोऽन्तिकात् प्रक्रान्तः॥२४॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project