Digital Sanskrit Buddhist Canon

२२ अचला

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

22 acalā

२२ अचला।



अथ खलु सुधनः श्रेष्ठिदारकः सुप्रभान्महानगरान्निष्क्रम्य मुहूर्तं मार्गमनुसृत्य महाप्रभस्य राज्ञोऽनुशासनीमनुविचिन्तयन्, तं महामैत्रीध्वजं बोधिसत्त्वचर्यानयमनुस्मरन्, तं लोकेन्द्रियावर्तमहासमाधिमुखालोकं परिभावयन्, तामचिन्त्यां बोधिसत्त्वकायविशुद्ध्यलंकारसिंहासनव्यूहविमात्रतामभिनिर्हरमाणः, तामचिन्त्यां बोधिसत्त्वप्रणिधिपुण्याधिपतेयबलतामनुबृंहयन्, तमचिन्त्यं बोधिसत्त्वानां सत्त्वपरिपाकज्ञाननयं दृढीकुर्वाणः, तामचिन्त्यामसाधारणां बोधिसत्त्वपरिभोगमाहात्म्यतामनुविचिन्तयन्, तामचिन्त्यां बोधिसत्त्वाधिमात्रतां निमित्तीकुर्वन्, तामचिन्त्यां बोधिसत्त्वानां सत्त्वपरिपाकविशुद्धिमनुस्मरन्, तामचिन्त्यां बोधिसत्त्वपरिवारसंपत्परिशुद्धिमवकल्पयन्, तमचिन्त्यं बोधिसत्त्वानां सत्त्वकार्यनिध्यानालोकनयमधिमुच्यमानः प्रतिलेभे चित्तप्रीतिप्रसादवेगं चित्तप्रहर्षं चित्तोत्प्लवं चित्तनन्दीं चित्तानाविलतां चित्तप्रभास्वरतां चित्तदृढतां चित्तविपुलतां चित्तापर्यादनताम्। स एवं कल्याणमित्रानुस्मृतिमनसिकारप्रयुक्तोऽश्रूणि प्रवर्तयन् अनुविचिन्तयामास-अहो बतेदं कल्याणमित्रदर्शनं सर्वगुणरत्नाकरभूतं सर्वबोधिसत्त्वचर्यापरिशोधनपरिपूरणं सर्वबोधिसत्त्वस्मृतिविशुद्धिकरं सर्वबोधिसत्त्वधारणीमण्डलपरिशोधनं सर्वबोधिसत्त्वसमाध्यालोकसंजननं सर्वबुद्धदर्शनप्रतिलाभसंभावनं सर्वबुद्धधर्ममेघसंप्रवर्षणं सर्वबोधिसत्त्वप्रणिधिनयसूचनमचिन्त्यप्रज्ञाज्ञानालोकसंजननं दृढबोधिसत्त्वेन्द्रियाङ्कुरविवर्धनम्। परित्रायका मम कल्याणमित्राः सर्वदुर्गतिप्रपातगतिभ्यः। प्रणेतारो मम कल्याणमित्रा धर्मसमतानयानुगमेन। दर्शयितारो मम कल्याणमित्रा मार्गसमविषतायाः। परिदीपकानि मम कल्याणमित्राणि महायानस्य। अववादकानि मम कल्याणमित्राणि समन्तभद्रबोधिसत्त्वचर्यायाम्। देशयितॄणि मम कल्याणमित्राणि सर्वज्ञतानगरमार्गस्य। प्रवेशयितॄणि मम कल्याणमित्राणि सर्वज्ञतापुरम्। अवतारकाणि मम कल्याणमित्राणि धर्मधातुनयसागरे। आलोककराणि मम कल्याणमित्राणि त्र्यध्वज्ञेयसागरनयस्य। दर्शयितॄणि मम कल्याणमित्राणि सर्वार्थमण्डलगणस्य। विवर्धयितारो मम कल्याणमित्राः सर्वशुक्लधर्माणाम्॥



तस्यैवं रुदतः क्रन्दतः परिदेवमानस्य गगतलगता देवगणाः सदानुबद्धाश्च संचोदका बुद्धदूता बोधिसत्त्वदेवता एवमाहु-कल्याणमित्रानुशासनीप्रतिपन्नस्य कुलपुत्र बोधिसत्त्वस्य बुद्धा भगवन्तोऽभिराधितचित्ता भवन्ति। कल्याणमित्रवचनाविलोमस्थायिनो बोधिसत्त्वस्य सर्वज्ञता आसन्नीभवति। कल्याणमित्रवचनाविचिकित्सकस्य बोधिसत्त्वस्य आसन्नीभवन्ति कल्याणमित्राणि। कल्याणमित्रमनसिकाराविरहितस्य बोधिसत्त्वस्य सर्वार्था अभिमुखीभवन्ति। गच्छ कुलपुत्र, येन स्थिरायां राजधान्यामचलोपासिका। ततः श्रोष्यसि बोधिसत्त्वचर्याम्। अथ खलु सुधनः श्रेष्ठिदारकस्ततः समाधिज्ञानालोकाद् व्युत्थाय अनुपूर्वेण येन स्थिरा राजधानी तेनोपसंक्रम्य अचलामुपासिकां परिमार्गति परिगवेषते। तस्य महाजनकाय उपदर्शयति-एषा कुलपुत्र अचलोपासिका स्वनिवेशने मातापितृसभागिनी कुमारभूता स्वज्ञातिगणपरिवृता महतो जनकायस्य धर्मं देशयति॥



अथ खलु सुधनः श्रेष्ठिदारको महाप्रीतिप्रसादप्रामोद्यपरिस्फुटचेता येन अचलाया उपासिकाया निवेशनं तेनोपजगाम। उपेत्य अचलाया उपासिकाया निवेशनद्वारे स्थितोऽपश्यत् सर्वं तं निवेशनं सुवर्णवर्णया आभया स्फुटमवभासितं कायचित्तप्रह्लादिन्या। समनन्तरस्पृष्टस्य च सुधनस्य श्रेष्ठिदारकस्य तया प्रभया, सर्ववेदयितैश्वर्यध्वजसमाधिप्रमुखानि शान्तिप्रदेशसमाधिप्रमुखानि सर्वजगद्धितसमाधिप्रमुखानि समन्तचक्षुरुपेक्षावतीसमाधिप्रमुखानि तथागतकोशसमाधिप्रमुखानि पञ्चमात्राणि समाधिमुखशतान्यवक्रान्तानि संभूतानि सूक्ष्माणि मृदूनि। तद्यथापि नाम तद्दिवसार्धक्रान्तस्य गर्भस्य विज्ञानम्, एवं तानि समाधिमुखानि सूक्ष्माणि मृदून्याजातानि। तथारूपं च गन्धमजिघ्रत् यो न देवानां न देवकन्यानां न नागानां न नागकन्यानां न यक्षाणां न यक्षकन्यानां न गन्धर्वाणां न गन्धर्वकन्यानां नासुराणां नासुरकन्यानां न गरुडानां न गरूडकन्यानां न किन्नराणां न किन्नरकन्यानां न महोरगाणां न महोरगकन्यानां न मनुष्याणां न मनुष्यकन्यानाम्। न सा स्त्री दशदिशि लोके संविद्यते, या तस्या रूपेण समा, कुतः पुनरुत्तरि। न स वर्णावभासोऽस्ति दशदिशि लोके स्थापयित्वा तथागतवर्णावभासम्, अभिषेकप्राप्तबोधिसत्त्ववर्णावभासं च, यस्तस्या वर्णावभासेन समः, कुतः पुनरुत्तरि। नास्ति तदात्मभावारोहपरिणाहसंस्थानं दशदिशि लोके स्थापयित्वा तथागतात्मभावारोहपरिणाहसंस्थानम्, अभिषेकप्राप्तबोधिसत्त्वात्मभावारोहपरिणाहसंस्थानं च, यत्तस्या आत्मभावारोहपरिणाहसंस्थानेन समम्, कुतः पुनरुत्तरि। नास्ति स प्रभाव्यूहो दशदिशि लोके स्थापयित्वा तथागतप्रभाव्यूहम्, अभिषेकप्राप्तबोधिसत्त्वचर्याप्रभाव्यूहं च, यस्तस्याः प्रभाव्यूहेन समः, कुतः पुनरुत्तरि। नास्ति स गन्धो दशदिशि लोके देवभवनेषु वा नागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यभवनेषु वा यस्तस्या मुखकोशविसृतगन्धेन समः, कुतः पुनरुत्तरि। नास्ति स भवनव्यूहपरिभोगो दशदिशि लोके स्थापयित्वा तथागतपरिभोगम्, अभिषेकप्राप्तबोधिसत्त्वपरिभोगं च, यस्तस्या भवनव्यूहपरिभोगेन समः, कुतः पुनरुत्तरि। नास्ति सा परिवारसंपत् दशदिशि लोके स्थापयित्वा तथागतपरिवारसंपदम्, अभिषेकप्राप्तबोधिसत्त्वपरिवारसंपदं च, या तस्याः परिवारसंपदा समा, कुतः पुनरुत्तरि। न स सत्त्वः सत्त्वनिकाये संविद्यते दशदिशि लोके यः समर्थोऽचलामुपासिकां रागचित्तेन प्रेक्षितुम्। न स सत्त्वः सत्त्वनिकाये संविद्यते दशदिशि लोके यः अचलाया उपासिकायाः सहदर्शनेन क्लेशो न व्युपशमं गच्छेत्। तद्यथापि नाम दश शतसहस्रवशवर्तिनो महाब्रह्माणः कामावचराः क्लेशान्न समुदाचरन्ति, एवमेव सहदर्शनेन अचलाया उपासिकायाः सत्त्वानां क्लेशा न समुदाचरन्ति। न स सत्त्वः सत्त्वनिकाये संविद्यते दशदिशि लोके यो अचलाया उपासिकायाः सहदर्शनेन तृप्तिमापद्येत स्थापयित्वा प्रज्ञातृप्तान्॥



अथ खलु सुधनः श्रेष्ठिदारकः कृताञ्जलिपुटोऽचलाया उपासिकाया अचिन्त्यां कायाधिपतेयताम्, अचिन्त्यं रूपवर्णसंस्थानारोहपरिणाहम्, अचिन्त्यं च सर्वक्षितितलनगरमहापर्वताप्रतिहतं रश्मिजालव्यूहं दृष्ट्वा अचिन्त्यं सत्त्वार्थकरणं च सर्वरोमकूपविसृतं गन्धमाघ्राय अपर्यन्तां च परिवारसंपदमवलोक्य असंहार्यं च भवनविमानव्यूहसंपदमुद्वीक्ष्य अपरिमाणांश्च गुणसमुद्रानवगाह्य अचलामुपासिकामनया गाथया अभ्यष्टौषीत्—



शीलं सदा यदमलं परिरक्षितं ते

क्षान्तिर्यतः सुविपुला परिभाविता च।

वीर्यं च वज्रमिव यद्दृढमास्थितं ते

तेनोद्गता जगति भास्यचलेन्द्रकल्पा॥१॥



अथ खलु सुधनः श्रेष्ठिदारकोऽचलामुपासिकामनया गाथया अभिष्टुत्य एवमाहमया आर्ये अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्। न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्। श्रुतं च मे आर्या बोधिसत्त्वानामववादानुशासनीं ददातीति। तद्वदतु मे आर्या-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्॥



अथ खल्वचलोपासिका स्निग्धया बोधिसत्त्ववाचा मनोज्ञया प्रेमणीयया सुधनं श्रेष्ठिदारकं प्रतिसंमोद्य एवमाह-साधु साधु कुलपुत्र, येन तेऽनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्। अहं कुलपुत्र दुर्योधनज्ञानगर्भस्य बोधिसत्त्वविमोक्षस्य लाभिनी, दृढसमादानबोधिसत्त्वचर्यामुखे च अनुशिक्षामि। सर्वधर्मसमताभूमिधारणीमुखस्य च लाभिनी, दृढसमादानबोधिसत्त्वचर्यामुखे च अनुशिक्षामि। सर्वधर्मसमताभूमिधारणीमुखस्य च लाभिनी, सर्वधर्मतत्त्वोद्योतनं च मे प्रतिभानज्ञानालोकमुखमवक्रान्तम्, धर्मपर्येष्टयपरिखेदव्यूहं च मे समाधिमुखं प्रतिलब्धम्। आह-क एतस्य आर्ये दुर्योधनज्ञानगर्भस्य बोधिसत्त्वविमोक्षमुखस्य विषयः, दृढसमादानबोधिसत्त्वचर्यामुखस्य च सर्वधर्मसमताभूमिधारणमुखस्य च सर्वधर्मतत्त्वोद्योतनप्रतिभानालोकमुखस्य च धर्मपर्येष्ट्यपरिखेदव्यूहसमाधिमुखस्य च विषयः? आह-दुरधिमोक्षं कुलपुत्र इदं स्थानम्। आह-वद आर्ये, बुद्धानुभावेन कल्याणमित्रपरिग्रहेण च अधिमोक्ष्ये अवतरिष्यामि विज्ञास्यामि विचारयिष्यामि अनुसरिष्यामि निध्यास्यामि उपनिध्यास्यामि प्रत्यवेक्षिष्ये विभावयिष्यामि, न विरोधयिष्यामि, न विकल्पयिष्यामि, न समारोपयिष्यामि, समीकरिष्यामि॥



अथ खलु अचलोपासिका सुधनं श्रेष्ठिदारकमेवमाह-भूतपूर्वं कुलपुत्र, अतीतेऽध्वनि विमलप्रभे कल्पे प्रलम्बबाहुर्नाम तथागतो लोके उदपादि। अहं च राज्ञो विद्युद्दत्तस्यैका दुहिता अभूवम्। तया मे रात्र्यां प्रशान्तायां पिहितेषु राजपुरद्वारेषु, सुप्तयोर्मातापित्रोः, संप्रसुप्तेषु नरनारीगणेषु, व्युपशान्तेषु तूर्यतालावचरनिर्घोषेषु, शयितेषु सभागचरितेषु पञ्चसु कन्याशतेषु, शयनतलगतया गगनतलगतां ज्योतिर्गणवतीं रजनीं प्रेक्षन्त्या उपर्यन्तरिक्षे स भगवान् प्रलम्बबाहुस्तथागतोऽर्हन् सम्यक्संबुद्धः सुमेरुरिव अचलेन्द्रानेकदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगपरिवारोऽचिन्त्यासंख्येयबोधिसत्त्वगणपरिवृतः सर्वदिगप्रतिहतरश्मिजालस्फरणकायो दृष्टः। तस्य च तथागतस्य सर्वरोमविवरेभ्यस्तथारूपो गन्धः प्रवाति, येनास्मि प्रह्लादितकायचित्ता प्रहर्षितमानसा। शयनतलादुत्थाय दशनखकृतकरपुटाञ्जलिर्धरणितलप्रतिष्ठिता तं भगवन्तं प्रलम्बबाहुं तथागतमर्हन्तं सम्यक्संबुद्धं नमस्कृत्वा मूर्ध्ना नमस्य अवलोकयमाना पर्यन्तं नाधिगच्छामि। वामदक्षिणतः प्रमाणं नोपैमि। लक्षणानुव्यञ्जनसंपदमनुविचिन्तयमाना तृप्तिं नाप्नोमि। तस्या मम कुलपुत्र एतदभवत्-कीदृशं कर्म कृत्वा इयमीदृशी कायसंपत् प्रतिलभ्यते? लक्षणानुव्यञ्जनसंपदा जायते? प्रभाव्यूहसंपत्संभवति? परिवारसंपदभिनिर्वर्तते? मनोमयभवनपरिभोगसंपत्प्रादुर्भवति? पुण्यसंपदुत्पद्यते? ज्ञानसंपद्विशुद्ध्यते? अचिन्त्यसमाधिविकुर्वितसंपत्समुदागच्छति? धारणीसंपत्परिनिष्पद्यते? प्रतिभानसंपद्वशीभवति?



अथ खलु कुलपुत्र स भगवान् प्रलम्बबाहुस्तथागतो ममाध्यांशयं विदित्वा एवमाह-दुर्योधनचित्तं ते दारिके उत्पादयितव्यं सर्वक्लेशनिर्घाताय। अपराजितचित्तं सर्वाभिनिवेशनिर्वेदाय। असंकुचितचित्तं गम्भीरधर्मनयानुगमाय। अक्षोभ्यचित्तं विषयाशयसत्त्वसागरावर्तप्रपातेषु। असंमूढचित्तं सर्वभवगत्युपपत्त्यायतनेषु। अवितृप्तचित्तं सर्वबुद्धदर्शनाभिलाषाप्रतिप्रस्रब्धये। असंतुष्टिचित्तं सर्वतथागतधर्ममेघसंप्रत्येषणाय। निध्यप्तिचित्तं सर्वबुद्धधर्मनयालोकानुगमाय। संघारणाचित्तं सर्वतथागतधर्मचक्राणाम्। असंप्रमोहचित्तमन्तशः संकेतकृते, किमुत तथागतवदनविनिर्गतज्ञाने। विभाजनचित्तं च ते दारिके उत्पादयितव्यं यथाशयसर्वसत्त्वधर्मरत्नसंविभजनाय।



साहं कुलपुत्र तस्य भगवतः प्रलम्बबाहोस्तथागस्यार्हतः सम्यक्संबुद्धस्यान्तिकादिमानि एवंरूपाणि धर्मनयानुशासनीमुखानि श्रुत्वा सर्वज्ञज्ञानमभिकाङ्क्षमाणा दशबलभावमभिप्रार्थयमाना बुद्धसरस्वतीमभिलषन्ती बुद्धप्रभाव्यूहं परिशोधयितुकामा बुद्धशरीरसंपदं परिनिष्पादयितुकामा बुद्धलक्षणानुव्यञ्जनविशुद्धिमभिकाङ्क्षमाणा बुद्धपर्षन्मण्डलसंपदमभिप्रार्थयमाना बुद्धक्षेत्रविशुद्धिमभिलषन्ती बुद्धेर्यापथसंपदमभिकाङ्क्षमाणा बुद्धायुःप्रमाणसंपदमभिनन्दन्ती सर्वक्लेशसर्वश्रावकप्रत्येकबुद्धाभेद्यचित्तमुत्पाददितवती दुर्योधनवज्रमिव सर्वपर्वतायुधबलैः। नाभिजानामि कुलपुत्र तत उपादाय एतेन चित्तोत्पादेन जम्बुद्वीपः परमाणुरजःसमैः कल्पैरपि कामान् परिभोक्तुम्, कः पुनर्वादो द्वयद्वयसमापत्त्या। नाभिजानामि कुलपुत्र तत उपादाय एकप्रतिघचित्तमुत्पादयितुं स्वबान्धवेषु, प्रागेवानपराधिषु तदन्येषु सत्त्वेषु। नाभिजानामि तत उपादाय एकचित्तोत्पादमध्यात्मदृष्टिसहगतमुत्पादयितुम्, प्रागेव तदन्येषूपकरणेषु ममकाराभिनिवेशम्। नाभिजानामि चित्तसंमोहं नान्यत्वसंज्ञामव्याकृतचित्ततां वा च्युत्युपपत्तिगर्भसंवासेष्वपि, प्रागेव समन्वाहरमाणा। नाभिजानामि तावद्भिः कल्पैरेकबुद्धदर्शनमपि विस्मर्तुम्। अन्तशः स्वप्नदर्शनविज्ञप्तिमपि, प्रागेव दशबोधिसत्त्वचक्षुःप्रतिभासप्राप्तेषु। नाभिजानामि तत उपादाय सर्वतथागतधर्ममेघान् संप्रतीच्छमाना एकधर्मपदव्यञ्जनमपि मनसा विस्मर्तुम्, अन्तशः संज्ञाकृतमपि, प्रागेव तथागतवदनकोशविनिःसृतम्। नाभिजानामि तत उपादाय तावतो धर्मसागरान् पिबन्ती एकपदमप्यनिध्यातमविलोकितम्, अन्तशो लौकिकेषु धर्मेषु। नाभिजानामि तत उपादाय तावतां धर्मनयसागराणामेकधर्मनयद्वारमपि यत्र मया न समाधिरभिनिर्हृतः, अन्तशो लौकिकशिल्पज्ञाननयेष्वपि। नाभिजानामि तत उपादाय तावतां तथागतानां धर्मचक्रं संधारयमाणा यथासंधारितादेकपदव्यञ्जनमप्यनुस्रष्टम्, अन्तशोऽन्वयज्ञानानुगमनेनापि अन्यत्र सत्त्वविनयवशात्। नाभिजानामि तत उपादाय तावतां बुद्धदर्शनसमुद्राणामेकप्रणिधानमपि यन्मया न सर्वसत्त्वसागरविशुद्धयेऽभिनिर्हृतम्, अन्तशो निर्माणबुद्धप्रणिधिविचारेष्वपि। नाभिजानामि तत उपादाय तावतां बुद्धसमुद्राणां पूर्वबोधिसत्त्वचर्यासमुद्रादेकबोधिसत्त्वचर्यामपि, या मया न स्वचर्यापरिशुद्ध्येऽभिनिर्हृता। नाभिजानामि तत उपादाय एकसत्त्वमपि चक्षुरवभासमागतं यो मयानुत्तरायां सम्यक्संबोधौ न समादापितः। नाभिजानामि तत उपादाय एकचित्तोत्पादमपि श्रावकप्रत्येकबुद्धमनसिकारप्रतिसंयुक्तमभिनिर्हर्तुम्। नाभिजानामि कुलपुत्र तत उपादाय जम्बुद्वीपपरमाणुरजःसमैः कल्पैरेकपदव्यञ्जनेऽपि संशयमुत्पादयितुं द्वयसंज्ञां वा विकल्पसंज्ञां वा नानात्वसंज्ञां वा अग्रहसंज्ञां वा हीनप्रणीतसंज्ञां वा अनुनयप्रतिघसंज्ञां वा उत्पादयितुम्॥



साहं कुलपुत्र ततः पश्चादविरहिता अभूवं बुद्धोत्पादैः। अविरहिता बुद्धैर्भगवद्भिः। अविरहिता बोधिसत्त्वैः। अविरहिता भूतकल्याणमित्रैः। अविरहिता बुद्धप्रणिधानश्रवेण। अविरहिता बोधिसत्त्वचर्याश्रवेण। अविरहिता बोधिसत्त्वपारमितानयश्रवेण। अविरहिता बोधिसत्त्वभूमिज्ञानालोकनयश्रवेण। अविरहिता बोधिसत्त्वधारणीसमाध्यक्षयकोषनिधानश्रवणप्रतिलाभेन। अविरहिता अनन्तमध्यलोकधातुजालप्रवेशावतारनयश्रवेण। अविरहिता अनन्तमध्यसत्त्वधातुसंभवहेतुश्रवणप्रतिलाभेन। अविरहिता सर्वजगत्क्लेशजालमण्डलपर्यादानज्ञानालोकेन। अविरहिता सर्वसत्त्वकुशलमूलसंभवहेतुज्ञानप्रतिलाभेन। अविरहिता सर्वसत्त्वयथाशयकायसंदर्शनेन। अविरहिता सर्वसत्त्वाज्ञापनस्वरमण्डलविशुद्ध्या। एतं च मे कुलपुत्र दुर्योधनज्ञानगर्भं बोधिसत्त्वविमोक्षसुखम्, एतच्च सर्वधर्मपर्येष्ट्यपरिखेदव्यूहं समाधिमुखं समापन्नायाः, एतच्च दृढसमादानबोधिचर्यामुखं प्रविचिन्वन्त्याः। एतच्च सर्वधर्मसमताभूमिधारणीमुखम्। एतच्च सर्वधर्मतलोद्योतनप्रतिभावज्ञानालोकमुखं व्यवचारयन्त्या अचिन्त्यानि प्रातिहार्याणि भवन्ति। इच्छसि त्वं कुलपुत्र, प्रत्यक्षो भवितुम्? आह-इच्छाम्यार्ये॥



अथ खलु अचलोपासिका यथानिषण्णैव दुर्योधनज्ञानगर्भबोधिसत्त्वविमोक्षमुखपूर्वंगमानि सर्वधर्मपर्येष्ट्यपरिखेदव्यूहसमाधिमुखपूर्वंगमानि अमोघमण्डलव्यूहसमाधिमुखपूर्वंगमानि दशबलज्ञानमण्डलाभिमुखसमाधिमुखपूर्वंगमानि बुद्धवंशाक्षयकोशसमाधिविमोक्षमुखपूर्वंगमानि च दश समाधिमुखशतसहस्राणि व्यवलोकयति अनुविचारयति अनुसरति निध्यपयति। समनन्तरसमापन्नायां च अचलायामुपासिकायाम्, अपश्यत् सुधनः श्रेष्ठिदारको दशसु दिक्षु दशबुद्धक्षेत्रानभिलाप्यपरमाणुरजःसमान् लोकधातून् षड्विकारं प्रकम्पमानान्, परिशुद्धवैडूर्यमयान् संस्थितान्। एकैकस्मिंश्च लोकधातौ कोटीशते चातुर्महाद्वीपकानां लोकधातूनां कोटीशतं तथागतानामपश्यत्। कांश्चित्तुषितवरभवनगतान्, कांश्चिद् यावत्परिनिर्वायमाणानपश्यत् यदुत अनावरणत्वात्परिशुद्धवैडूर्यमयलोकधातूनाम्। एकैकं च तथागतं सर्वधर्मधातुस्फरणरश्मिजालप्रभामण्डलम्, एकैकं च तथागतं सुविभक्तपर्षन्मण्डलसमुद्रमपश्यत्। एकैस्य च तथागतस्य सर्वधर्मचक्रोद्योतनं सर्वसत्त्वश्रोत्रविज्ञपनं स्वरमण्डलमश्रौषीत्॥



अथ खल्वचलोपासिका ततः समाधेर्व्युत्थाय सुधनं श्रेष्ठिदारकमेवमाह-दृष्टं ते कुलपुत्र, श्रुतं विज्ञातम्? आह-दृष्टमार्ये, श्रुतं विज्ञातम्। आह-एवमहं कुलपुत्र, दृढसमादानायां बोधिसत्त्वचर्यायामनुशिक्षमाणा सर्वधर्मपर्येष्ट्यपरिखेदव्यूहसमाधिसमापन्ना दुर्योधनज्ञानगर्भबोधिसत्त्वविमोक्षमुखप्रतिष्ठिता सर्वधर्मसमताभूमिधारण्यनुगमेन सर्वधर्मतलोद्योतनप्रतिभानज्ञानालोककौशल्येन सर्वसत्त्वान् सुभाषितेन संतोषयामि। किं मया शक्यमचिन्त्याप्रमेयगुणसमन्वागतानां बोधिसत्त्वानां चर्यां ज्ञातुं गुणान् वा वक्तुम्? ये ते द्विजर्षभा इव गगनतलेऽनिकेतचारिणः। ये ते महागरुडेन्द्रा इव सत्त्वसागरमवगाहन्ते परिपक्वबोधिसत्त्वोद्धरणतायै। ये ते वणिज इव सर्वज्ञतारत्नद्वीपेऽनुविचरन्ति दशबलज्ञानरत्नाभिकाङ्क्षिणः। ये ते बलवत्कैवर्ता इव संसारसागरेऽनुविचरन्ति रुचिरधर्मचक्रमण्डलजालहस्ताः तृष्णोद्भवसत्त्वपरिपाचनाभ्युद्धरणतायै। ये तेऽसुरेन्द्रा इव त्रिभुवनपुरं स्फरित्वा विचरन्ति क्लेशासुरसंक्षोभोद्वृत्तसंशमनतायै। ये ते दिनकरमण्डलमिव धर्मधातुगगनतले समुदागच्छन्ति सत्त्वतृष्णासलिलक्लेशपङ्कोच्छोषणतायै। ये ते पूर्णचन्द्रमण्डलमिव ज्ञाननभस्युदागच्छन्ति विनेयमनःकुमुदविबोधनतायै। ये ते धरणितलमिवानुनयप्रतिघोन्नामावनामविषमे समा लोके संतिष्ठन्ते सर्वजगत्कुशलेन्द्रियाङ्कुरप्ररोहणविवर्धनतायै। ये ते मारुत इवासङ्गसर्वदिग्विचारिणः सर्वसत्त्वक्लेशदृष्टिद्रुमलतावनारामोन्मूलनतायै। ये ते चक्रवर्तिन इव लोके विचरन्ति चतुःसंग्रहवस्तुपरिष्कारोपकरणसर्वजगत्संग्रहणतायै। गच्छ कुलपुत्र, इहैव दक्षिणापथेऽमिततोसले जनपदे तोसलं नाम नगरम्। तत्र सर्वगामी नाम परिव्राजकः प्रतिवसति। तमुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्॥



अथ खलु सुघनः श्रेष्ठिदारकोऽचलाया उपासिकायाः पादौ शिरसाभिवन्द्य अचलामुपासिकामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य अचलाया उपासिकाया अन्तिकात्प्रक्रान्तः॥ २०॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project